ऋग्वेदः सूक्तं ८.१५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.१४ ऋग्वेदः - मण्डल ८
सूक्तं ८.१५
गोषूक्त्यश्वसूक्तिनौ काण्वायनौ।
सूक्तं ८.१६ →
दे. इन्द्रः। उष्णिक्


तम्वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
इन्द्रं गीर्भिस्तविषमा विवासत ॥१॥
यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।
गिरीँरज्राँ अपः स्वर्वृषत्वना ॥२॥
स राजसि पुरुष्टुतँ एको वृत्राणि जिघ्नसे ।
इन्द्र जैत्रा श्रवस्या च यन्तवे ॥३॥
तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् ।
उ लोककृत्नुमद्रिवो हरिश्रियम् ॥४॥
येन ज्योतींष्यायवे मनवे च विवेदिथ ।
मन्दानो अस्य बर्हिषो वि राजसि ॥५॥
तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।
वृषपत्नीरपो जया दिवेदिवे ॥६॥
तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् ।
वज्रं शिशाति धिषणा वरेण्यम् ॥७॥
तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः ।
त्वामापः पर्वतासश्च हिन्विरे ॥८॥
त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः ।
त्वां शर्धो मदत्यनु मारुतम् ॥९॥
त्वं वृषा जनानां मंहिष्ठ इन्द्र जज्ञिषे ।
सत्रा विश्वा स्वपत्यानि दधिषे ॥१०॥
सत्रा त्वं पुरुष्टुतँ एको वृत्राणि तोशसे ।
नान्य इन्द्रात्करणं भूय इन्वति ॥११॥
यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये ।
अस्माकेभिर्नृभिरत्रा स्वर्जय ॥१२॥
अरं क्षयाय नो महे विश्वा रूपाण्याविशन् ।
इन्द्रं जैत्राय हर्षया शचीपतिम् ॥१३॥


सायणभाष्यम्

‘तम्वभि' इति त्रयोदशर्चं तृतीयं सूक्तमौष्णिहमैन्द्रम् । पूर्वोक्तावेवर्षी । तथा चानुक्रम्यते-- ‘ तम्वभि सप्तोनौष्णिहम्' इति । महाव्रते निष्केवल्य औष्णिहतृचाशीतावुत्तमावर्जमेतत्सूक्तम् । सूत्र्यते हि--' तम्वभि प्र गायतेत्युत्तमामुद्धरति' (ऐ. आ. ५. २. ५) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्रह्मशस्त्र आद्यस्तृचो वैकल्पिकोऽनुरूपः । सूत्रितं च- तम्वभि प्र गायत वयमु त्वामपूर्व्य ' (आश्व. श्रौ. ७.८) इति ॥


तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् ।

इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥१

तम् । ऊं॒ इति॑ । अ॒भि । प्र । गा॒य॒त॒ । पु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् ।

इन्द्र॑म् । गीः॒ऽभिः । त॒वि॒षम् । आ । वि॒वा॒स॒त॒ ॥१

तम् । ऊं इति । अभि । प्र । गायत । पुरुऽहूतम् । पुरुऽस्तुतम् ।

इन्द्रम् । गीःऽभिः । तविषम् । आ । विवासत ॥१

"पुरुहूतं बहुभिराहूतं "पुरुष्टुतं बहुभिः स्तुतं “तमु तमेवेन्द्रं हे स्तोतारः "अभि “प्र “गायत अभिमुखं प्रकर्षेण स्तुध्वम् । एतदेव स्पष्टयति । "तविषं महान्तम् "इन्द्रं "गीर्भिः वाग्भिः “आ “विवासत परिचरत ॥


यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी ।

गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना ॥२

यस्य॑ । द्वि॒ऽबर्ह॑सः । बृ॒हत् । सहः॑ । दा॒धार॑ । रोद॑सी॒ इति॑ ।

गि॒रीन् । अज्रा॑न् । अ॒पः । स्वः॑ । वृ॒ष॒ऽत्व॒ना ॥२

यस्य । द्विऽबर्हसः । बृहत् । सहः । दाधार । रोदसी इति ।

गिरीन् । अज्रान् । अपः । स्वः । वृषऽत्वना ॥२

"द्विबर्हसः द्वयोः स्थानयोः परिवृढस्य "यस्य इन्द्रस्य "बृहत् महत् "सहः बलं "रोदसी द्यावापृथिव्यौ "दाधार धारयति । छान्दसो लिट् । तुजादित्वाभ्यासदीर्घः । तथा “अज्रान् क्षिप्रगमनान् “गिरीन् पर्वतान् मेघान् वा "स्वः सरणशीलाः “अपः उदकानि च "वृषत्वना वृषत्वेन वीर्येण यस्येन्द्रस्य बलं धारयति तत्रावस्थापयति । तम्वभीति पूर्वया संबन्धः स त्वमित्युत्तरया वा ।


स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे ।

इन्द्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यन्त॑वे ॥३

सः । रा॒ज॒सि॒ । पु॒रु॒ऽस्तु॒त॒ । एकः॑ । वृ॒त्राणि॑ । जि॒घ्न॒से॒ ।

इन्द्र॑ । जैत्रा॑ । श्र॒व॒स्या॑ । च॒ । यन्त॑वे ॥३

सः । राजसि । पुरुऽस्तुत । एकः । वृत्राणि । जिघ्नसे ।

इन्द्र । जैत्रा । श्रवस्या । च । यन्तवे ॥३

हे "पुरुष्टुत बहुभिः स्तुत “इन्द्र "सः पूर्वोक्तगुणस्त्वं "राजसि दीप्यसे ईशिषे वा । अपि च त्वम् "एकः सहायरहितः केवल एवं सन् "वृत्राणि आवरकाणि शत्रुजातानि “जिघ्नसे हतवानसि । किमर्थम् । जैत्राणि जेतव्यानि धनानि “श्रवस्या श्रवस्यानि श्रवणीयान्यन्नानि यद्वा श्रवणार्हाणि यशांसि “च "यन्तवे यन्तुं नियन्तुं स्वाधीनं कर्तुम् ॥


आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्रह्मशस्त्रे ‘तं ते मदम्' इति तृचो वैकल्पिकः स्तोत्रियः । सूत्र्यते हि - तं ते मदं गृणीमसि तम्वभि प्र गायत' (आश्व. श्रौ. ७.८) इति ।

तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम् ।

उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥४

तम् । ते॒ । मद॑म् । गृ॒णी॒म॒सि॒ । वृष॑णम् । पृ॒त्ऽसु । स॒स॒हिम् ।

ऊं॒ इति॑ । लो॒क॒ऽकृ॒त्नुम् । अ॒द्रि॒ऽवः॒ । ह॒रि॒ऽश्रिय॑म् ॥४

तम् । ते । मदम् । गृणीमसि । वृषणम् । पृत्ऽसु । ससहिम् ।

ऊं इति । लोकऽकृत्नुम् । अद्रिऽवः । हरिऽश्रियम् ॥४

हे "अद्रिवः वज्रवन्निन्द्र "ते त्वदीयं "तं "मदं सोमपानजनितं हर्षं "गृणीमसि गृणीमः प्रशंसामः । ‘गॄ शब्दे'। क्र्यादिः । ‘प्वादीनां ह्रस्वः'। 'इदन्तो मसि' इति मस इकारागमः । कीदृशम् । "वृषणं वर्षितारं कामानां "पृत्सु संग्रामेषु "सासहिं शत्रूणामभिभवितारं "लोककृत्नुं लोकस्य स्थानस्य कर्तारं "हरिश्रियं हरिभ्यामश्वाभ्यां श्रयणीयं सेव्यम् । उशब्दः समुच्चये पदपूरणे वा ॥


येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ ।

म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥५

येन॑ । ज्योतीं॑षि । आ॒यवे॑ । मन॑वे । च॒ । वि॒वेदि॑थ ।

म॒न्दा॒नः । अ॒स्य । ब॒र्हिषः॑ । वि । रा॒ज॒सि॒ ॥५

येन । ज्योतींषि । आयवे । मनवे । च । विवेदिथ ।

मन्दानः । अस्य । बर्हिषः । वि । राजसि ॥५

हे इन्द्र "येन आत्मीयेन मदेन "आयवे और्वशेयाय "मनवे विवस्वतः पुत्राय "च "ज्योतींषि सूर्यादीनि वृत्रादिभिरावृतानि तद्धरणेन "विवेदिथ अलम्भयः। प्रज्ञापितवान् प्रकाशितवानसीत्यर्थः । तेन मदेन “मन्दानः मोदमानस्त्वम् "अस्य “बर्हिषः वृद्धस्य यज्ञस्य “वि “राजसि विशेषेणेशिषे । यद्वा । अस्येति तृतीयार्थे षष्ठी । अनेन बर्हिषा वृद्धेन' हृष्यन् वि राजसि विशेषेण दीप्यसे ॥ ॥१७॥


तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ।

वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥६

तत् । अ॒द्य । चि॒त् । ते॒ । उ॒क्थिनः॑ । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ।

वृष॑ऽपत्नीः । अ॒पः । ज॒य॒ । दि॒वेऽदि॑वे ॥६

तत् । अद्य । चित् । ते । उक्थिनः । अनु । स्तुवन्ति । पूर्वऽथा ।

वृषऽपत्नीः । अपः । जय । दिवेऽदिवे ॥६

हे इन्द्र “ते त्वदीयं “तत् प्रसिद्धं बलम् "अद्य “चित् अद्यापि “पूर्वथा पूर्वस्मिन्काल इव “उक्थिनः शस्त्रिणः स्तोतारः "अनु “ष्टुवन्ति क्रमेण प्रशंसन्ति । स त्वं "वृषपत्नीः वृषा वर्षिता पर्जन्यः पतिर्यासां तादृशीः “अपः “दिवेदिवे प्रतिदिवसं "जय स्वायत्तं कुरु ॥


तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म् ।

वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम् ॥७

तव॑ । त्यत् । इ॒न्द्रि॒यम् । बृ॒हत् । तव॑ । शुष्म॑म् । उ॒त । क्रतु॑म् ।

वज्र॑म् । शि॒शा॒ति॒ । धि॒षणा॑ । वरे॑ण्यम् ॥७

तव । त्यत् । इन्द्रियम् । बृहत् । तव । शुष्मम् । उत । क्रतुम् ।

वज्रम् । शिशाति । धिषणा । वरेण्यम् ॥७

हे इन्द्र “त्यत् तत् प्रसिद्धम् "इन्द्रियम् इन्द्रस्य लिङ्गं "बृहत् प्रभूतं वीर्यं “धिषणा स्तुतिः “शिशाति निःश्यति तीक्ष्णीकरोति । तथा “तव त्वदीयं “शुष्मं शोषकं बलम् “उत अपि च “क्रतुं प्रज्ञानं बलं कर्म वा "वरेण्यं वरणीयं "वज्रम् आयुधं च स्तुतिस्तीक्ष्णीकरोति ॥


तव॒ द्यौरि॑न्द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रव॑ः ।

त्वामाप॒ः पर्व॑तासश्च हिन्विरे ॥८

तव॑ । द्यौः । इ॒न्द्र॒ । पौंस्य॑म् । पृ॒थि॒वी । व॒र्ध॒ति॒ । श्रवः॑ ।

त्वाम् । आपः॑ । पर्व॑तासः । च॒ । हि॒न्वि॒रे॒ ॥८

तव । द्यौः । इन्द्र । पौंस्यम् । पृथिवी । वर्धति । श्रवः ।

त्वाम् । आपः । पर्वतासः । च । हिन्विरे ॥८

हे “इन्द्र "तव त्वदीयं "पौंस्यं बलं “द्यौः "वर्धति वर्धयति । त्वदीयं “श्रवः यशः "पृथिवी वर्धयति । वृधेर्ण्यन्ताल्लटि शपि छन्दस्युभयथा' इत्यार्धधातुकत्वात् “ णेरनिटि' इति णिलोपः । तं “त्वाम् "आपः उदकानि अन्तरिक्षाणि "पर्वतासः पर्वताः पर्ववन्तो मेघाः “च गिरयश्च वा “हिन्विरे प्रीणयन्ति स्वामित्वेन प्राप्नुवन्ति वा ।।


त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः ।

त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तम् ॥९

त्वाम् । विष्णुः॑ । बृ॒हन् । क्षयः॑ । मि॒त्रः । गृ॒णा॒ति॒ । वरु॑णः ।

त्वाम् । शर्धः॑ । म॒द॒ति॒ । अनु॑ । मारु॑तम् ॥९

त्वाम् । विष्णुः । बृहन् । क्षयः । मित्रः । गृणाति । वरुणः ।

त्वाम् । शर्धः । मदति । अनु । मारुतम् ॥९

हे इन्द्र “बृहन् महान् "क्षयः निवासहेतुः “विष्णुः “मित्रः “वरुणः च “त्वां “गृणाति स्तौति । तथा “मारुतं मरुत्संबन्धि “शर्धः बलं "त्वाम् "अनु "मदति तव मदमनुलक्ष्य पश्चान्माद्यति । त्वामनुमादयति वा ॥


त्वं वृषा॒ जना॑नां॒ मंहि॑ष्ठ इन्द्र जज्ञिषे ।

स॒त्रा विश्वा॑ स्वप॒त्यानि॑ दधिषे ॥१०

त्वम् । वृषा॑ । जना॑नाम् । मंहि॑ष्ठः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ ।

स॒त्रा । विश्वा॑ । सु॒ऽअ॒प॒त्यानि॑ । द॒धि॒षे॒ ॥१०

त्वम् । वृषा । जनानाम् । मंहिष्ठः । इन्द्र । जज्ञिषे ।

सत्रा । विश्वा । सुऽअपत्यानि । दधिषे ॥१०

हे “इन्द्र “वृषा वर्षिता “त्वं "जनानां देवजनानां मध्ये "मंहिष्ठः दातृतमः "जज्ञिरे प्रादुर्भवसि । अत एव "विश्वा सर्वाणि "स्वपत्यानि शोभनैः पुत्रादिभिः सहितानि “सत्रा सह "दधिषे दातुं धारयसि । ददासि वा ॥ ॥ १८ ॥


स॒त्रा त्वं पु॑रुष्टुतँ॒ एको॑ वृ॒त्राणि॑ तोशसे ।

नान्य इन्द्रा॒त्कर॑णं॒ भूय॑ इन्वति ॥११

स॒त्रा । त्वम् । पु॒रु॒ऽस्तु॒त॒ । एकः॑ । वृ॒त्राणि॑ । तो॒श॒से॒ ।

न । अ॒न्यः । इन्द्रा॑त् । कर॑णम् । भूयः॑ । इ॒न्व॒ति॒ ॥११

सत्रा । त्वम् । पुरुऽस्तुत । एकः । वृत्राणि । तोशसे ।

न । अन्यः । इन्द्रात् । करणम् । भूयः । इन्वति ॥११

हे “पुरुष्टुत बहुभिः स्तुतेन्द्र “त्वम् "एकः असहाय एव सन् "सत्रा । महन्नामैतत् । महान्ति “वृत्राणि शत्रुजातानि । यद्वा । सत्रेति सहार्थे । सहैव युगपदेवैकयत्नेनैव “तोशसे हिनस्सि । तोशतिर्वधकर्मा । अकर्तुं शक्तानीति भावः । अपि चास्मात् "इन्द्रात् "अन्यः कश्चित् "भूयः बहुतरं "करणं कर्म वृत्रवधादिकं "न "इन्वति न प्राप्नोति । इन्द्र एवं कर्तुं शक्नोतीति भावः ॥


यदि॑न्द्र मन्म॒शस्त्वा॒ नाना॒ हव॑न्त ऊ॒तये॑ ।

अ॒स्माके॑भि॒र्नृभि॒रत्रा॒ स्व॑र्जय ॥१२

यत् । इ॒न्द्र॒ । म॒न्म॒ऽशः । त्वा॒ । नाना॑ । हव॑न्ते । ऊ॒तये॑ ।

अ॒स्माके॑भिः । नृऽभिः॑ । अत्र॑ । स्वः॑ । ज॒य॒ ॥१२

यत् । इन्द्र । मन्मऽशः । त्वा । नाना । हवन्ते । ऊतये ।

अस्माकेभिः । नृऽभिः । अत्र । स्वः । जय ॥१२

हे “इन्द्र "यत् यस्मिन् संग्रामे त्वां "मन्मशः मन्मना स्तोत्रेण "नाना बहुप्रकारं "हवन्ते आह्वयन्ति । किमर्थम् । “ऊतये रक्षायै । "अत्र अस्मिन् संग्रामे “अस्माकेभिः अस्माकैरस्मदीयैरेव "नृभिः नेतृभिः स्तोतृभिराहूतः सन् "स्वः शत्रुबलं “जय अभिभव ॥


अरं॒ क्षया॑य नो म॒हे विश्वा॑ रू॒पाण्या॑वि॒शन् ।

इन्द्रं॒ जैत्रा॑य हर्षया॒ शची॒पति॑म् ॥१३

अर॑म् । क्षया॑य । नः॒ । म॒हे । विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् ।

इन्द्र॑म् । जैत्रा॑य । ह॒र्ष॒य॒ । शची॒३॒॑ऽपति॑म् ॥१३

अरम् । क्षयाय । नः । महे । विश्वा । रूपाणि । आऽविशन् ।

इन्द्रम् । जैत्राय । हर्षय । शचीऽपतिम् ॥१३

हे स्तोतः "महे महते "नः अस्माकं “क्षयाय । गृहनामैतत् । गृहाय । तादर्थ्ये चतुर्थी । गृहार्थम् “अरम् अलं पर्याप्तं "विश्वा विश्वानि व्याप्तानि “रूपाणि इन्द्रगतानि गुणजातानि “आविशन् स्तुत्या व्याप्नुवन् "शचीपतिम् । शचीति कर्मनाम । कर्मणां पालकम् । यद्वा । शच्या इन्द्राण्या भर्तारम् । तमेव “इन्द्रं "जैत्राय जेतव्यधनार्थं “हर्षय तोषय । स्तुत्या परिचरणेन वेति शेषः ॥ ॥ १९ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१५&oldid=191083" इत्यस्माद् पुनः प्राप्तिः