ऋग्वेदः सूक्तं ८.६०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.५९ ऋग्वेदः - मण्डल ८
सूक्तं ८.६०
भर्गः प्रगाथः।
सूक्तं ८.६१ →
दे. अग्निः । प्रगाथः ( )



अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥१॥
अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥२॥
अग्ने कविर्वेधा असि होता पावक यक्ष्यः ।
मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः ॥३॥
अद्रोघमा वहोशतो यविष्ठ्य देवाँ अजस्र वीतये ।
अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः ॥४॥
त्वमित्सप्रथा अस्यग्ने त्रातरृतस्कविः ।
त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥५॥
शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महाँ असि ।
देवानां शर्मन्मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥६॥
यथा चिद्वृद्धमतसमग्ने संजूर्वसि क्षमि ।
एवा दह मित्रमहो यो अस्मध्रुग्दुर्मन्मा कश्च वेनति ॥७॥
मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः ।
अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः ॥८॥
पाहि नो अग्न एकया पाह्युत द्वितीयया ।
पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥९॥
पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।
त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥१०॥
आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् ।
रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥११॥
येन वंसाम पृतनासु शर्धतस्तरन्तो अर्य आदिशः ।
स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥१२॥
शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् ।
तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥१३॥
नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद्वितिष्ठसे ।
स त्वं नो होतः सुहुतं हविष्कृधि वंस्वा नो वार्या पुरु ॥१४॥
शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते ।
अतन्द्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि ॥१५॥
सप्त होतारस्तमिदीळते त्वाग्ने सुत्यजमह्रयम् ।
भिनत्स्यद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनाँ अति ॥१६॥
अग्निमग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः ।
अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम् ॥१७॥
केतेन शर्मन्सचते सुषामण्यग्ने तुभ्यं चिकित्वना ।
इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥१८॥
अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः ।
अप्रोषिवान्गृहपतिर्महाँ असि दिवस्पायुर्दुरोणयुः ॥१९॥
मा नो रक्ष आ वेशीदाघृणीवसो मा यातुर्यातुमावताम् ।
परोगव्यूत्यनिरामप क्षुधमग्ने सेध रक्षस्विनः ॥२०॥


सायणभाष्यम्

सप्तमेऽनुवाके दश सूक्तानि । तत्र ‘अग्न आ याहि' इति विंशत्यृचं प्रथमं सूक्तं प्रगाथपुत्रस्य भर्गस्यार्षमाग्नेयम् । प्रथमातृतीयाद्ययुजो बृहत्यो द्वितीयाचतुर्थ्यादियुजः सतोबृहत्यः । तथा चानुक्रान्तम्- अग्न आ विंशतिर्भर्गः प्रागाथ आग्नेयं प्रागाथं तु ' इति । प्रातरनुवाक आग्नेये क्रतौ बार्हते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । तथा च सूत्रितम्-- अयमग्निरग्न आ याहि ' ( आश्व. श्रौ. ४. १३) इति । अग्न॒ आ या॑ह्य॒ग्निभि॒र्होता॑रं त्वा वृणीमहे ।


आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे॑ ॥१

अग्ने॑ । आ । या॒हि॒ । अ॒ग्निऽभिः॑ । होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ।

आ । त्वाम् । अ॒न॒क्तु॒ । प्रऽय॑ता । ह॒विष्म॑ती । यजि॑ष्ठम् । ब॒र्हिः । आ॒ऽसदे॑ ॥१

अग्ने । आ । याहि । अग्निऽभिः । होतारम् । त्वा । वृणीमहे ।

आ । त्वाम् । अनक्तु । प्रऽयता । हविष्मती । यजिष्ठम् । बर्हिः । आऽसदे ॥१

हे “अग्ने “अग्निभिः यष्टव्यैः सह “आ “याहि आगच्छ । तदर्थं “होतारं देवानामाह्वातारं “त्वा त्वां “वृणीमहे । त्वा त्वामागतं “प्रयता अध्वर्युहस्ताभ्यां नियता “हविष्मती घृतवती “यजिष्ठं “त्वां “बर्हिः बर्हिषि “आसदे आसाद्य “आ सर्वतः “अनक्तु ॥


अच्छा॒ हि त्वा॑ सहसः सूनो अंगिरः॒ स्रुच॒श्चरं॑त्यध्व॒रे ।

ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यं ॥२

अच्छ॑ । हि । त्वा॒ । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ङ्गि॒रः॒ । स्रुचः॑ । चर॑न्ति । अ॒ध्व॒रे ।

ऊ॒र्जः । नपा॑तम् । घृ॒तऽके॑शम् । ई॒म॒हे॒ । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥२

अच्छ । हि । त्वा । सहसः । सूनो इति । अङ्गिरः । स्रुचः । चरन्ति । अध्वरे ।

ऊर्जः । नपातम् । घृतऽकेशम् । ईमहे । अग्निम् । यज्ञेषु । पूर्व्यम् ॥२

हे “सहसः “सूनो बलस्य पुत्र । बलेन मथ्यमानत्वात् । हे “अङ्गिरः अङ्गिरसां मध्ये एक । अथवाङ्गतिर्गतिकर्मा । सर्वत्र संगत । “त्वा त्वाम् “अध्वरे यागे “अच्छ अभिप्राप्तुं “स्रुचः “चरन्ति गच्छन्ति । अतः “ऊर्जः अन्नस्य “नपातं न पातयितारं रक्षकं बलस्य नप्तारं वा “घृतकेशं प्रदीप्तकेशस्थानीयज्वालं "पूर्व्यं पुरातनं पूरकं वा “अग्निं “यज्ञेषु अस्मदीयेषु “ईमहे स्तौमि ।।


अग्ने॑ क॒विर्वे॒धा अ॑सि॒ होता॑ पावक॒ यक्ष्यः॑ ।

मं॒द्रो यजि॑ष्ठो अध्व॒रेष्वीड्यो॒ विप्रे॑भिः शुक्र॒ मन्म॑भिः ॥३

अग्ने॑ । क॒विः । वे॒धाः । अ॒सि॒ । होता॑ । पा॒व॒क॒ । यक्ष्यः॑ ।

म॒न्द्रः । यजि॑ष्ठः । अ॒ध्व॒रेषु॑ । ईड्यः॑ । विप्रे॑भिः । शु॒क्र॒ । मन्म॑ऽभिः ॥३

अग्ने । कविः । वेधाः । असि । होता । पावक । यक्ष्यः ।

मन्द्रः । यजिष्ठः । अध्वरेषु । ईड्यः । विप्रेभिः । शुक्र । मन्मऽभिः ॥३

हे “अग्ने “कविः मेधावी त्वं “वेधाः विधाता “असि फलानाम् । हे “पावक “होता देवानामाह्वाता होमनिष्पादको वा “यक्ष्यः यष्टव्योऽसि । हे “शुक्र दीप्त “मन्द्रः मोदनीयः “यजिष्ठः यष्टृतमस्त्वम् “अध्वरेषु यज्ञेषु “विप्रेभिः मेधाविभिर्ऋत्विग्भिः “मन्मभिः मननीयैः स्तोत्रैः “ईड्यः स्तुत्योऽसि ॥


अद्रो॑घ॒मा व॑होश॒तो य॑विष्ठ्य दे॒वाँ अ॑जस्र वी॒तये॑ ।

अ॒भि प्रयां॑सि॒ सुधि॒ता व॑सो गहि॒ मंद॑स्व धी॒तिभि॑र्हि॒तः ॥४

अद्रो॑घम् । आ । व॒ह॒ । उ॒श॒तः । य॒वि॒ष्ठ्य॒ । दे॒वान् । अ॒ज॒स्र॒ । वी॒तये॑ ।

अ॒भि । प्रयां॑सि । सुऽधि॑ता । आ । व॒सो॒ इति॑ । ग॒हि॒ । मन्द॑स्व । धी॒तिऽभिः॑ । हि॒तः ॥४

अद्रोघम् । आ । वह । उशतः । यविष्ठ्य । देवान् । अजस्र । वीतये ।

अभि । प्रयांसि । सुऽधिता । आ । वसो इति । गहि । मन्दस्व । धीतिऽभिः । हितः ॥४

“अद्रोघम् अद्रोग्धारं मां प्रति हे "यविष्ठ्य युवतम “अजस्र नित्य "आ वह आनय । कान् । “उशतः अस्मदर्थं कामयमानान् "देवान् । किमर्थम् । “वीतये हविर्भक्षणाय । हे "वसो वासकाग्ने “सुधिता सुनिहितानि “प्रयांसि अन्नानि “अभि “गहि अभिगच्छ । आगत्य च “धीतिभिः स्तुतिभिः “हितः निहितः सन् “मन्दस्व । यद्वा । धीतिभिर्मन्दस्वेति संबन्धः ।।


त्वमित्स॒प्रथा॑ अ॒स्यग्ने॑ त्रातर्ऋ॒तस्क॒विः ।

त्वां विप्रा॑सः समिधान दीदिव॒ आ वि॑वासंति वे॒धसः॑ ॥५

त्वम् । इत् । स॒ऽप्रथाः॑ । अ॒सि॒ । अग्ने॑ । त्रा॒तः॒ । ऋ॒तः । क॒विः ।

त्वाम् । विप्रा॑सः । स॒म्ऽइ॒धा॒न॒ । दी॒दि॒ऽवः॒ । आ । वि॒वा॒स॒न्ति॒ । वे॒धसः॑ ॥५

त्वम् । इत् । सऽप्रथाः । असि । अग्ने । त्रातः । ऋतः । कविः ।

त्वाम् । विप्रासः । सम्ऽइधान । दीदिऽवः । आ । विवासन्ति । वेधसः ॥५

हे “अग्ने “त्रातः रक्षक “ऋतः सत्यभूतः “कविः क्रान्तप्रज्ञः “त्वमित् त्वमेव “सप्रथाः सर्वतः पृथुः “असि भवसि । हे “समिधान समिध्यमान है “दीदिवः दीप्त “त्वां “विप्रासः विप्रा मेधाविनः “वेधसः विधातारः स्तोतारः “विवासन्ति परिचरन्ति ॥ ॥


शोचा॑ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्व॑ स्तो॒त्रे म॒हाँ अ॑सि ।

दे॒वानां॒ शर्म॒न्मम॑ संतु सू॒रयः॑ शत्रू॒षाहः॑ स्व॒ग्नयः॑ ॥६

शोच॑ । शो॒चि॒ष्ठ॒ । दी॒दि॒हि । वि॒शे । मयः॑ । रास्व॑ । स्तो॒त्रे । म॒हान् । अ॒सि॒ ।

दे॒वाना॑म् । शर्म॑न् । मम॑ । स॒न्तु॒ । सू॒रयः॑ । श॒त्रु॒ऽसहः॑ । सु॒ऽअ॒ग्नयः॑ ॥६

शोच । शोचिष्ठ । दीदिहि । विशे । मयः । रास्व । स्तोत्रे । महान् । असि ।

देवानाम् । शर्मन् । मम । सन्तु । सूरयः । शत्रुऽसहः । सुऽअग्नयः ॥६

हे "शोचिष्ठ अतिशयेन शोचयितरने “शोच दीप्यस्व । “दीदिहि दीपयास्मान् । “विशे प्रजायै “स्तोत्रे "मयः सुखं “रास्व देहि । त्वं "महानसि । "देवानां संबन्धिनि "शर्मन् शर्मणि सुखे "मम "सूरयः स्तोतारो मेधाविनोऽस्माकं पुत्रादयो वा "सन्तु भवन्तु। “शत्रूषाहः “शत्रूणामभिभविता "स्वग्नयः शोभनाग्नयश्च सन्तु ॥


यथा॑ चिद्वृ॒द्धम॑त॒समग्ने॑ सं॒जूर्व॑सि॒ क्षमि॑ ।

ए॒वा द॑ह मित्रमहो॒ यो अ॑स्म॒ध्रुग्दु॒र्मन्मा॒ कश्च॒ वेन॑ति ॥७

यथा॑ । चि॒त् । वृ॒द्धम् । अ॒त॒सम् । अग्ने॑ । स॒म्ऽजूर्व॑सि । क्षमि॑ ।

ए॒व । द॒ह॒ । मि॒त्र॒ऽम॒हः॒ । यः । अ॒स्म॒ऽध्रुक् । दुः॒ऽमन्मा॑ । कः । च॒ । वेन॑ति ॥७

यथा । चित् । वृद्धम् । अतसम् । अग्ने । सम्ऽजूर्वसि । क्षमि ।

एव । दह । मित्रऽमहः । यः । अस्मऽध्रुक् । दुःऽमन्मा । कः । च । वेनति ॥७

हे "अग्ने “क्षमि क्षमायां वर्तमानं “वृद्धमतसं शुष्कं काष्ठं “यथा येन प्रकारेण “संजूर्वसि । जुर्वतिर्हिंसाकर्मा । सम्यग्दहसीत्यर्थः । “एव एवं “दह हे “मित्रमहः मित्राणामस्माकं पूजक तेजो वा । कम्। यः “अस्मध्रुक् अस्माकं द्रोग्धा “कश्च कश्चित् “दुर्मन्मा दुर्मतिः “वेनति कामयते अस्मान् द्रोग्धुं तं दहेति ॥


मा नो॒ मर्ता॑य रि॒पवे॑ रक्ष॒स्विने॒ माघशं॑साय रीरधः ।

अस्रे॑धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभिः॑ पाहि पा॒युभिः॑ ॥८

मा । नः॒ । मर्ता॑य । रि॒पवे॑ । र॒क्ष॒स्विने॑ । मा । अ॒घऽशं॑साय । री॒र॒धः॒ ।

अस्रे॑धत्ऽभिः । त॒रणि॑ऽभिः । य॒वि॒ष्ठ्य॒ । शि॒वेभिः॑ । पा॒हि॒ । पा॒युऽभिः॑ ॥८

मा । नः । मर्ताय । रिपवे । रक्षस्विने । मा । अघऽशंसाय । रीरधः ।

अस्रेधत्ऽभिः । तरणिऽभिः । यविष्ठ्य । शिवेभिः । पाहि । पायुऽभिः ॥८

“नः अस्मान् “मर्ताय मरणधर्माय “रिपवे शत्रवे हिंसित्रे “रक्षस्विने बलवते “मा “रीरधः वशमानय । तथा “अघशंसाय पापशंसकाय “मा रीरधः । हे “यविष्ठ्य युवतम “अस्रेधद्भिः अहिंसकैः “तरणिभिः तारकैः “शिवेभिः सुखकरैः "पायुभिः पालनैः नोऽस्मान् “पाहि रक्ष ॥


पा॒हि नो॑ अग्न॒ एक॑या पा॒ह्यु१॒॑त द्वि॒तीय॑या ।

पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो ॥९

पा॒हि । नः॒ । अ॒ग्ने॒ । एक॑या । पा॒हि । उ॒त । द्वि॒तीय॑या ।

पा॒हि । गीः॒ऽभिः । ति॒सृऽभिः॑ । ऊ॒र्जा॒म् । प॒ते॒ । पा॒हि । च॒त॒सृऽभिः॑ । व॒सो॒ इति॑ ॥९

पाहि । नः । अग्ने । एकया । पाहि । उत । द्वितीयया ।

पाहि । गीःऽभिः । तिसृऽभिः । ऊर्जाम् । पते । पाहि । चतसृऽभिः । वसो इति ॥९

हे “अग्ने “नः अस्मान “एकया ऋचा गिरा “पाहि रक्ष । “उत अपि च “द्वितीयया ऋचा “पाहि पालय । “पाहि “तिसृभिः “गीर्भिः “ऊर्जाम् अन्नानां बलानां वा “पते स्वामिन् । तथा “पाहि “चतसृभिः गीर्भिर्हे “वसो वासकाग्ने ॥


पा॒हि विश्व॑स्माद्र॒क्षसो॒ अरा॑व्णः॒ प्र स्म॒ वाजे॑षु नोऽव ।

त्वामिद्धि नेदि॑ष्ठं दे॒वता॑तय आ॒पिं नक्षा॑महे वृ॒धे ॥१०

पा॒हि । विश्व॑स्मात् । र॒क्षसः॑ । अरा॑व्णः । प्र । स्म॒ । वाजे॑षु । नः॒ । अ॒व॒ ।

त्वाम् । इत् । हि । नेदि॑ष्ठम् । दे॒वऽता॑तये । आ॒पिम् । नक्षा॑महे । वृ॒धे ॥१०

पाहि । विश्वस्मात् । रक्षसः । अराव्णः । प्र । स्म । वाजेषु । नः । अव ।

त्वाम् । इत् । हि । नेदिष्ठम् । देवऽतातये । आपिम् । नक्षामहे । वृधे ॥१०

हे अग्ने “विश्वस्मात् सर्वस्मात् “रक्षसः “अराव्णः अदातुः सकाशात् “पाहि रक्षास्मान् । “वाजेषु संग्रामेषु “नः अस्मान् “प्र “अव प्रकर्षेण रक्ष। "स्म इति पूरणः । “हि यस्मात् "नेदिष्ठम् आसन्नम् “आपिं बन्धुभूतं “त्वामित् त्वमेव “देवतातये यज्ञाय यज्ञसिद्ध्यर्थं “वृधे वर्धनाय “नक्षामहे व्याप्नुमः । नक्षतिर्व्याप्तिकर्मा ॥ ॥ ३३ ।।।


आ नो॑ अग्ने वयो॒वृधं॑ र॒यिं पा॑वक॒ शंस्यं॑ ।

रास्वा॑ च न उपमाते पुरु॒स्पृहं॒ सुनी॑ती॒ स्वय॑शस्तरं ॥११

आ । नः॒ । अ॒ग्ने॒ । व॒यः॒ऽवृध॑म् । र॒यिम् । पा॒व॒क॒ । शंस्य॑म् ।

रास्व॑ । च॒ । नः॒ । उ॒प॒ऽमा॒ते॒ । पु॒रु॒ऽस्पृह॑म् । सुऽनी॑ती । स्वय॑शःऽतरम् ॥११

आ । नः । अग्ने । वयःऽवृधम् । रयिम् । पावक । शंस्यम् ।

रास्व । च । नः । उपऽमाते । पुरुऽस्पृहम् । सुऽनीती । स्वयशःऽतरम् ॥११

हे “अग्ने “पावक शोधक “वयोवृधम् अन्नस्य वर्धकं “शंस्यं शंसनीयं “रयिं धनं “नः अस्मभ्यम् “आ हरेति शेषः । आहृत्य च हे "उपमाते । उपास्मत्समीपे माति नो धनमित्युपमातिः । हे तादृशाग्ने “नः अस्मभ्यं "सुनीती सुनीत्या शोभननयनेन “पुरुस्पृहं बहुभिः स्पृहणीयं “स्वयशस्तरम् अत्यन्तं स्वभूतकीर्ति धनं “रास्व “च देहि ॥


येन॒ वंसा॑म॒ पृत॑नासु॒ शर्ध॑त॒स्तरं॑तो अ॒र्य आ॒दिशः॑ ।

स त्वं नो॑ वर्ध॒ प्रय॑सा शचीवसो॒ जिन्वा॒ धियो॑ वसु॒विदः॑ ॥१२

येन॑ । वंसा॑म । पृत॑नासु । शर्ध॑तः । तर॑न्तः । अ॒र्यः । आ॒ऽदिशः॑ ।

सः । त्वम् । नः॒ । व॒र्ध॒ । प्रय॑सा । श॒ची॒व॒सो॒ इति॑ शचीऽवसो । जिन्व॑ । धियः॑ । व॒सु॒ऽविदः॑ ॥१२

येन । वंसाम । पृतनासु । शर्धतः । तरन्तः । अर्यः । आऽदिशः ।

सः । त्वम् । नः । वर्ध । प्रयसा । शचीवसो इति शचीऽवसो । जिन्व । धियः । वसुऽविदः ॥१२

"येन धनेन “पृतनासु संग्रामेषु “शर्धतः वेगं कुर्वतः “अर्यः अरीञ्छत्रून् “आदिशः आदेष्टॄञ्छस्त्रप्रक्षेप्तॄन् “तरन्तः “वंसाम हिंसाम तद्धनं देहि । हे “शचीवसो प्रज्ञया वासयितः कर्मधन वा “सः प्रसिद्धः “त्वं “नः अस्मान् “वर्ध वर्धय प्रीणय। “प्रयसा अन्नेन त्वं वा वर्ध। अस्मदीयेन प्रयसा हविषा “वसुविदः वसूनां लम्भकानि “धियः कर्माण्यस्मदीयानि "जिन्व प्रीणय ॥


शिशा॑नो वृष॒भो य॑था॒ग्निः शृंगे॒ दवि॑ध्वत् ।

ति॒ग्मा अ॑स्य॒ हन॑वो॒ न प्र॑ति॒धृषे॑ सु॒जंभः॒ सह॑सो य॒हुः ॥१३

शिशा॑नः । वृ॒ष॒भः । य॒था॒ । अ॒ग्निः । शृङ्गे॒ इति॑ । दवि॑ध्वत् ।

ति॒ग्माः । अ॒स्य॒ । हन॑वः । न । प्र॒ति॒ऽधृषे॑ । सु॒ऽजम्भः॑ । सह॑सः । य॒हुः ॥१३

शिशानः । वृषभः । यथा । अग्निः । शृङ्गे इति । दविध्वत् ।

तिग्माः । अस्य । हनवः । न । प्रतिऽधृषे । सुऽजम्भः । सहसः । यहुः ॥१३

अयम् “अग्निः “शृङ्गे “शिशानः तीक्ष्णीकुर्वन् “वृषभो “यथा “दविध्वत् कम्पयति शिरः एवं शृङ्गस्थानीया ज्वालाः शिशानस्तीक्ष्णीकुर्वन् दविध्वत् कम्पयति शिरः । “अस्य अग्नेः "हनवो “न हनव इव हनुस्थानीया ज्वालाः “तिग्माः “न “प्रतिधृषे प्रतिधर्षितुमशक्याः । योऽग्निः “सुजम्भः सुदंष्ट्रः “सहसो "यहुः सहसः पुत्रः अस्य हनव इत्यर्थः ॥


न॒हि ते॑ अग्ने वृषभ प्रति॒धृषे॒ जंभा॑सो॒ यद्वि॒तिष्ठ॑से ।

स त्वं नो॑ होतः॒ सुहु॑तं ह॒विष्कृ॑धि॒ वंस्वा॑ नो॒ वार्या॑ पु॒रु ॥१४

न॒हि । ते॒ । अ॒ग्ने॒ । वृ॒ष॒भ॒ । प्र॒ति॒ऽधृषे॑ । जम्भा॑सः । यत् । वि॒ऽतिष्ठ॑से ।

सः । त्वम् । नः॒ । हो॒त॒रिति॑ । सुऽहु॑तम् । ह॒विः । कृ॒धि॒ । वंस्व॑ । नः॒ । वार्या॑ । पु॒रु ॥१४

नहि । ते । अग्ने । वृषभ । प्रतिऽधृषे । जम्भासः । यत् । विऽतिष्ठसे ।

सः । त्वम् । नः । होतरिति । सुऽहुतम् । हविः । कृधि । वंस्व । नः । वार्या । पुरु ॥१४

हे “वृषभ वर्षक “ते तव “जम्भासः जम्भा दन्तस्थानीय ज्वालाः “नहि “प्रतिधृषे प्रतिधर्षितुं न शक्याः। “यत् यस्मात् “वितिष्ठसे विविधं गच्छसि । प्रवर्धस इत्यर्थः । हे “होतः होमनिष्पादक “स “त्वं “हविः अस्मद्दत्तं "सुहुतं “कृधि कुरु। "नः अस्मभ्यं “वार्या वरणीयानि “पुरु बहूनि “वंस्व देहि ॥


शेषे॒ वने॑षु मा॒त्रोः सं त्वा॒ मर्ता॑स इंधते ।

अतं॑द्रो ह॒व्या व॑हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु॑ राजसि ॥१५

शेषे॑ । वने॑षु । मा॒त्रोः । सम् । त्वा॒ । मर्ता॑सः । इ॒न्ध॒ते॒ ।

अत॑न्द्रः । ह॒व्या । व॒ह॒सि॒ । ह॒विः॒ऽकृतः॑ । आत् । इत् । दे॒वेषु॑ । रा॒ज॒सि॒ ॥१५

शेषे । वनेषु । मात्रोः । सम् । त्वा । मर्तासः । इन्धते ।

अतन्द्रः । हव्या । वहसि । हविःऽकृतः । आत् । इत् । देवेषु । राजसि ॥१५

हे अग्ने “वनेषु वर्तमानयोः “मात्रोः अरण्योः “शेषे स्वपिषि वर्तसे। “त्वा त्वां तथाभूतं “मर्तासः मनुष्या अध्वर्य्वादयो मथनेनोत्पाद्य “सम् “इन्धते । पश्चात् प्रवृद्धस्त्वम् “अतन्द्रः अनलसः सन् "हविष्कृतः यजमानस्य “हव्या हवींषि “वहसि देवान् प्रति । “आदित् अनन्तरमेव “देवेषु मध्ये "राजसि दीप्यसे । ॥ ३४ ॥


स॒प्त होता॑र॒स्तमिदी॑ळते॒ त्वाग्ने॑ सु॒त्यज॒मह्र॑यं ।

भि॒नत्स्यद्रिं॒ तप॑सा॒ वि शो॒चिषा॒ प्राग्ने॑ तिष्ठ॒ जनाँ॒ अति॑ ॥१६

स॒प्त । होता॑रः । तम् । इत् । ई॒ळ॒ते॒ । त्वा॒ । अग्ने॑ । सु॒ऽत्यज॑म् । अह्र॑यम् ।

भि॒नत्सि । अद्रि॑म् । तप॑सा । वि । शो॒चिषा॑ । प्र । अ॒ग्ने॒ । ति॒ष्ठ॒ । जना॑न् । अति॑ ॥१६

सप्त । होतारः । तम् । इत् । ईळते । त्वा । अग्ने । सुऽत्यजम् । अह्रयम् ।

भिनत्सि । अद्रिम् । तपसा । वि । शोचिषा । प्र । अग्ने । तिष्ठ । जनान् । अति ॥१६

हे “अग्ने “तमित् तमेव “त्वा त्वां “सप्त “होतारः होत्रकाः “ईळते स्तुवन्ति । कीदृशं त्वाम् । “सुत्यजं सुत्यागम् । अभिमतप्रदमित्यर्थः । “अह्रयम् अक्षीणं प्रवृद्धम्। किंच “अद्रिं मेघं “तपसा तापकेन “शोचिषा तेजसा । तपसा शोचिषा चेति वा योज्यम् । “वि “भिनत्सि। हे “अग्ने “जनान् अस्मान् “अति अतीत्य “प्र “तिष्ठ प्रगच्छ हविरादाय देवान् प्रति । अथवास्मद्विरोधिजनानतिक्रम्य प्र तिष्ठ ॥


अ॒ग्निम॑ग्निं वो॒ अध्रि॑गुं हु॒वेम॑ वृ॒क्तब॑र्हिषः ।

अ॒ग्निं हि॒तप्र॑यसः शश्व॒तीष्वा होता॑रं चर्षणी॒नां ॥१७

अ॒ग्निम्ऽअ॑ग्निम् । वः॒ । अध्रि॑ऽगुम् । हु॒वेम॑ । वृ॒क्तऽब॑र्हिषः ।

अ॒ग्निम् । हि॒तऽप्र॑यसः । श॒श्व॒तीषु॑ । आ । होता॑रम् । च॒र्ष॒णी॒नाम् ॥१७

अग्निम्ऽअग्निम् । वः । अध्रिऽगुम् । हुवेम । वृक्तऽबर्हिषः ।

अग्निम् । हितऽप्रयसः । शश्वतीषु । आ । होतारम् । चर्षणीनाम् ॥१७

“अग्निमग्निम्। वीप्सादरार्था। अग्निमेव हे यजमानाः “वः युष्मदर्थं "हुवेम आह्वयाम । अथवा । हे देवाः वो युष्मदर्थमिति वा व्याख्येयम् । कीदृशा वयम्। “वृक्तबर्हिषः छिन्नदर्भाः । कीदृशमग्निम् । “अध्रिगुम् अधृतगमनं सर्वदा गृहे वर्तमानम् "अग्निम् । “हितप्रयसः निहितहविष्का वयम् “आ हुवेमेति शेषः। कीदृशमग्निम्। “शश्वतीषु बह्वीषु भूमिषु वर्तमानं “होतारं होमनिष्पादकम् । किमर्थम् । “चर्षणीनां मनुष्याणामर्थाय। अग्नौ तृप्ते सति वृष्टिलाभात् प्राण्युपकारसिद्धं प्राण्यर्थत्वम् । अथवा मनुष्याणां यजमानानां होतारं होमसाधकम् ॥


केते॑न॒ शर्म॑न्त्सचते सुषा॒मण्यग्ने॒ तुभ्यं॑ चिकि॒त्वना॑ ।

इ॒ष॒ण्यया॑ नः पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥१८

केते॑न । शर्म॑न् । स॒च॒ते॒ । सु॒ऽसा॒मनि॑ । अग्ने॑ । तुभ्य॑म् । चि॒कि॒त्वना॑ ।

इ॒ष॒ण्यया॑ । नः॒ । पु॒रु॒ऽरूप॑म् । आ । भ॒र॒ । वाज॑म् । नेदि॑ष्ठम् । ऊ॒तये॑ ॥१८

केतेन । शर्मन् । सचते । सुऽसामनि । अग्ने । तुभ्यम् । चिकित्वना ।

इषण्यया । नः । पुरुऽरूपम् । आ । भर । वाजम् । नेदिष्ठम् । ऊतये ॥१८

हे “अग्ने “तुभ्यं “चिकित्वना चिकितुषा जनेन होत्रादिना सह यजमानः “केतेन प्रज्ञापकेन स्तोत्रेण यजत इति शेषः । कुत्रेति तदुच्यते। “सुषामणि शोभनरथन्तरादिसामोपेते “शर्मन् शर्मणि सुखसाधने यज्ञे । अतो हे अग्ने “इषण्यया इच्छया स्वीयया “नः अस्मभ्यं “पुरुरूपं नानारूपं "नेदिष्ठम् अन्तिके सर्वदा वर्तमानं “वाजम् अन्नम् “ऊतये रक्षणाय “आ “भर आहर ॥


अग्ने॒ जरि॑तर्वि॒श्पति॑स्तेपा॒नो दे॑व र॒क्षसः॑ ।

अप्रो॑षिवान्गृ॒हप॑तिर्म॒हाँ अ॑सि दि॒वस्पा॒युर्दु॑रोण॒युः ॥१९

अग्ने॑ । जरि॑तः । वि॒श्पतिः॑ । ते॒पा॒नः । दे॒व॒ । र॒क्षसः॑ ।

अप्रो॑षिऽवान् । गृ॒हऽप॑तिः । म॒हान् । अ॒सि॒ । दि॒वः । पा॒युः । दु॒रो॒ण॒ऽयुः ॥१९

अग्ने । जरितः । विश्पतिः । तेपानः । देव । रक्षसः ।

अप्रोषिऽवान् । गृहऽपतिः । महान् । असि । दिवः । पायुः । दुरोणऽयुः ॥१९

हे “अग्ने “देव "जरितः स्तोतः । स्तुत्येत्यर्थः । “विश्पतिः प्रजानां पालकः “रक्षसः राक्षसानां “तेपानः संतापकोऽसि । “अप्रोषिवान् यजमानगृहमत्यजन् । तदेवाह । “गृहपतिः यजमानगृहस्य पालकश्च त्वं “महान् अतिशयेन पूज्यः “असि । “दिवः द्युलोकस्य “पायुः- पाता “दुरोणयुः यजमानगृहस्य मिश्रयिता । सर्वदा वर्तमान इत्यर्थः । तादृशस्त्वं महानसीत्यन्वयः ॥


मा नो॒ रक्ष॒ आ वे॑शीदाघृणीवसो॒ मा या॒तुर्या॑तु॒माव॑तां ।

प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒ क्षुध॒मग्ने॒ सेध॑ रक्ष॒स्विनः॑ ॥२०

मा । नः॒ । रक्षः॑ । आ । वे॒शी॒त् । आ॒घृ॒णि॒व॒सो॒ इत्या॑घृणिऽवसो । मा । या॒तुः । या॒तु॒ऽमाव॑ताम् ।

प॒रः॒ऽग॒व्यू॒ति । अनि॑राम् । अप॑ । क्षुध॑म् । अग्ने॑ । सेध॑ । र॒क्ष॒स्विनः॑ ॥२०

मा । नः । रक्षः । आ । वेशीत् । आघृणिवसो इत्याघृणिऽवसो । मा । यातुः । यातुऽमावताम् ।

परःऽगव्यूति । अनिराम् । अप । क्षुधम् । अग्ने । सेध । रक्षस्विनः ॥२०

हे “आघृणीवसो दीप्तधनाग्ने “नः अस्मान् “रक्षः राक्षसादिः । ‘ रक्षो रक्षितव्यमस्मात् ' (निरु. ४. १८) इति यास्कः । “मा “आ “वेशीत् सर्वतो न प्रविशतु । तथा “यातुमावताम् । यातुर्यातना पीडा । तद्वतां यातुधानानां “यातुः पीडा “मा वेशीत् । हे “अग्ने “अनिराम् । इरान्नम् । अन्नाभावं दारिद्र्यं “क्षुधं क्षपयितारं “रक्षस्विनः बलवन्ति रक्षांसि च “परोगव्यूति क्रोशद्वयाद्देशात् परस्तात् । एतदुपलक्षणम् । अत्यन्तं दूरदेशे “अप “सेध परिहर । अनिरा क्षुत् बाह्यानि रक्षांसि च न पीडयन्त्विति ॥ ॥ ३५ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.६०&oldid=209012" इत्यस्माद् पुनः प्राप्तिः