ऋग्वेदः सूक्तं ८.१७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.१६ ऋग्वेदः - मण्डल ८
सूक्तं ८.१७
इरिम्बिठिः काण्वः
सूक्तं ८.१८ →
दे. इन्द्रः, १४ वास्तोष्पतिर्वा । गायत्री, प्रगाथः (१४ बृहती, १५ सतोबृहती )


आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
एदं बर्हिः सदो मम ॥१॥
आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
उप ब्रह्माणि नः शृणु ॥२॥
ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
सुतावन्तो हवामहे ॥३॥
आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप ।
पिबा सु शिप्रिन्नन्धसः ॥४॥
आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु ।
गृभाय जिह्वया मधु ॥५॥
स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे तव ।
सोमः शमस्तु ते हृदे ॥६॥
अयमु त्वा विचर्षणे जनीरिवाभि संवृतः ।
प्र सोम इन्द्र सर्पतु ॥७॥
तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे ।
इन्द्रो वृत्राणि जिघ्नते ॥८॥
इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा ।
वृत्राणि वृत्रहञ्जहि ॥९॥
दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि ।
यजमानाय सुन्वते ॥१०॥
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
एहीमस्य द्रवा पिब ॥११॥
शाचिगो शाचिपूजनायं रणाय ते सुतः ।
आखण्डल प्र हूयसे ॥१२॥
यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः ।
न्यस्मिन्दध्र आ मनः ॥१३॥
वास्तोष्पते ध्रुवा स्थूणांसत्रं सोम्यानाम् ।
द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा ॥१४॥
पृदाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः ।
भूर्णिमश्वं नयत्तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥१५॥


सायणभाष्यम्

' आ याहि' इति पञ्चदशर्चं पञ्चमं सूक्तमिरिम्बिठेरार्षमैन्द्रम् । चतुर्दशी बृहती पञ्चदशी सतो बृहत्यादितस्त्रयोदश गायत्र्यः । अनुक्रम्यते हि--- ‘ आ याहि पञ्चोना प्रगाथान्तम्' इति । अन्त्यं प्रगाथं वर्जयित्वा शिष्टस्य महाव्रत उक्तो विनियोगः । ज्योतिष्टोमे प्रातःसवने ब्रह्मशस्त्र आद्याः षडृचः स्तोत्रियानुरूपार्थाः । तथानन्तराः सप्तर्चश्च शंसनीयाः । सूत्र्यते हि - ‘ आ याहि सुषुमा हि त इति षट् स्तोत्रियानुरूपावनन्तराः सप्त' (आश्व. श्रौ. ५. १० ) इति । चातुर्विंशिकेऽहनि प्रातःसवन आद्यस्तृचोऽस्मिन्नेव शस्त्रे षळहस्तोत्रियसंज्ञक आवापार्थः । सूत्रितं च - आ याहि सुषुमा हि त इन्द्रमिद्गाथिनो बृहत् ' (आश्व. श्रौ. ७. २ ) इति ॥


आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् ।

एदं ब॒र्हिः स॑दो॒ मम॑ ॥१

आ । या॒हि॒ । सु॒सु॒म । हि । ते॒ । इन्द्र॑ । सोम॑म् । पिब॑ । इ॒मम् ।

आ । इ॒दम् । ब॒र्हिः । स॒दः॒ । मम॑ ॥१

आ । याहि । सुसुम । हि । ते । इन्द्र । सोमम् । पिब । इमम् ।

आ । इदम् । बर्हिः । सदः । मम ॥१

हे “इन्द्र त्वम् "आ "याहि आगच्छ । "ते त्वदर्थं "सुषुम “हि अभिषुतवन्तः खलु सोमं वयम् । तम् "इमम् अभिषुतं "सोमं "पिब । तदर्थं "मम मदीयम् "इदं "बर्हिः वेद्यामास्तीर्णम् “आ “सदः आसीद अभिनिषीद ॥


आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना॑ ।

उप॒ ब्रह्मा॑णि नः शृणु ॥२

आ । त्वा॒ । ब्र॒ह्म॒ऽयुजा॑ । हरी॒ इति॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ।

उप॑ । ब्रह्मा॑णि । नः॒ । शृ॒णु॒ ॥२

आ । त्वा । ब्रह्मऽयुजा । हरी इति । वहताम् । इन्द्र । केशिना ।

उप । ब्रह्माणि । नः । शृणु ॥२

हे “इन्द्र “ब्रह्मयुजा ब्रह्मणा मन्त्रेण युज्यमानौ "केशिना केशिनौ केशवन्तौ "हरी हरणशीलावश्वौ “त्वा त्वाम् "आ “वहताम् अभिप्रापयताम् । त्वं चास्मद्यज्ञमुपेत्य "नः अस्माकं "ब्रह्माणि स्तोत्राणि “शृणु स्तोत्राणि गृहाण । सम्यक् चित्ते धारय । ।


ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिन॑ः ।

सु॒ताव॑न्तो हवामहे ॥३

ब्र॒ह्माणः॑ । त्वा॒ । व॒यम् । यु॒जा । सो॒म॒ऽपाम् । इ॒न्द्र॒ । सो॒मिनः॑ ।

सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥३

ब्रह्माणः । त्वा । वयम् । युजा । सोमऽपाम् । इन्द्र । सोमिनः ।

सुतऽवन्तः । हवामहे ॥३

हे “इन्द्र “ब्रह्माणः ब्राह्मणाः “वयं “त्वा त्वां "युजा योग्येन स्तोत्रेण "हवामहे आह्वयामहे । कथंभूतम् । "सोमपां सोमस्य पातारम् । कीदृशा वयम् । "सोमिनः सोमयुक्ताः "सुतवन्तः अभिषुतैश्च सोमैरुपेताः ॥


आ नो॑ याहि सु॒ताव॑तो॒ऽस्माकं॑ सुष्टु॒तीरुप॑ ।

पिबा॒ सु शि॑प्रि॒न्नन्ध॑सः ॥४

आ । नः॒ । या॒हि॒ । सु॒तऽव॑तः । अ॒स्माक॑म् । सु॒ऽस्तु॒तीः । उप॑ ।

पिब॑ । सु । शि॒प्रि॒न् । अन्ध॑सः ॥४

आ । नः । याहि । सुतऽवतः । अस्माकम् । सुऽस्तुतीः । उप ।

पिब । सु । शिप्रिन् । अन्धसः ॥४

हे इन्द्र "सुतवतः अभिषुतसोमयुक्तानस्मान् “आ “याहि अभिगच्छ। ततः "अस्माकं संबन्धीनि "सुष्टुतीः शोभनानि स्तोत्राण्युपगच्छ जानीहि । हे "सुशिप्रिन् शोभनशिरस्त्राण शोभनहनुक वेन्द्र “अन्धसः अन्नस्य सोमलक्षणस्य स्वांशलक्षणं भागं "पिब । यद्वा कर्मणि षष्ठी । अन्धोऽस्मदीयं सोमं पिब ।


आ ते॑ सिञ्चामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा॑वतु ।

गृ॒भा॒य जि॒ह्वया॒ मधु॑ ॥५

आ । ते॒ । सि॒ञ्चा॒मि॒ । कु॒क्ष्योः । अनु॑ । गात्रा॑ । वि । धा॒व॒तु॒ ।

गृ॒भा॒य । जि॒ह्वया॑ । मधु॑ ॥५

आ । ते । सिञ्चामि । कुक्ष्योः । अनु । गात्रा । वि । धावतु ।

गृभाय । जिह्वया । मधु ॥५

हे इन्द्र "ते तव "कुक्ष्योः उदरयोः “आ “सिञ्चामि सोमानवनयामि । कुक्षी सोमेन पूरयामीत्यर्थः । इन्द्रस्य हि द्वे उदरे । तथा च श्रूयते ‘ ओभा कुक्षी पृणता वार्त्रघ्नं च माघोनं च ' इति । यद्वा । एकस्यैवोदरस्य सव्यदक्षिणभेदेनोर्ध्वाधोभागभेदेन वा द्वित्वम् । स चासिक्तः सोमो गात्राणि शरीरावयवानि हस्तपादादीनि सर्वाण्यनुक्रमेण “वि “धावतु व्याप्नोतु । त्वं च "मधु मधुरं मया सिच्यमानं सोमं "जिह्वया रसनेन्द्रियेण “गृभाय गृहाण । ‘ छन्दसि शायजपि ' इति ग्रहं उत्तरस्य श्नः शायजादेशः । 'हृग्रहोर्भः' इति भत्वम् ॥ ॥ २२ ॥


स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मान्त॒न्वे॒३॒॑ तव॑ ।

सोम॒ः शम॑स्तु ते हृ॒दे ॥६

स्वा॒दुः । ते॒ । अ॒स्तु॒ । स॒म्ऽसुदे॑ । मधु॑ऽमान् । त॒न्वे॑ । तव॑ ।

सोमः॑ । शम् । अ॒स्तु॒ । ते॒ । हृ॒दे ॥६

स्वादुः । ते । अस्तु । सम्ऽसुदे । मधुऽमान् । तन्वे । तव ।

सोमः । शम् । अस्तु । ते । हृदे ॥६

“संसुदे सम्यक् सुष्ठु दात्रे हे इन्द्र "ते तुभ्यं "मधुमान् माधुर्यवानयं सोमः "स्वादुः "अस्तु रुचिकरो भवतु । "तव "तन्वे शरीराय च स्वादुरस्तु । तव "हृदे हृदयाय च सः "सोमः "शमस्तु सुखजनकं भवतु ॥


अ॒यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवृ॑तः ।

प्र सोम॑ इन्द्र सर्पतु ॥७

अ॒यम् । ऊं॒ इति॑ । त्वा॒ । वि॒ऽच॒र्ष॒णे॒ । जनीः॑ऽइव । अ॒भि । सम्ऽवृ॑तः ।

प्र । सोमः॑ । इ॒न्द्र॒ । स॒र्प॒तु॒ ॥७

अयम् । ऊं इति । त्वा । विऽचर्षणे । जनीःऽइव । अभि । सम्ऽवृतः ।

प्र । सोमः । इन्द्र । सर्पतु ॥७

हे "विचर्षणे विद्रष्टः "इन्द्र “जनीरिव जनयो जाया इव ता यथा शुक्लैः वस्त्रैः संवृता भवन्ति एवं "संवृतः पयःप्रभृतिभिः श्रयणद्रव्यैरावृतः “अयं "सोमः "अभि “प्र “सर्पतु अभिगच्छतु । “उ इति पूरकः ॥


तु॒वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ मदे॑ ।

इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥८

तु॒वि॒ऽग्रीवः॑ । व॒पाऽउ॑दरः । सु॒ऽबा॒हुः । अन्ध॑सः । मदे॑ ।

इन्द्रः॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥८

तुविऽग्रीवः । वपाऽउदरः । सुऽबाहुः । अन्धसः । मदे ।

इन्द्रः । वृत्राणि । जिघ्नते ॥८

"तुविग्रीवः विस्तीर्णकन्धरः "वपोदरः पीवरोदरः यथा बहवः सोमाः पीता अन्तर्भवन्ति तथा विस्तृतजठर इत्यर्थः । "सुबाहुः शोभनबाहुरेवंगुणकः "इन्द्रः "अन्धसः अन्नस्य सोमात्मकस्य "मदे हर्षे सति "वृत्राणि शत्रुजातानि जिघ्नते हिनस्ति ।


इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा ।

वृ॒त्राणि॑ वृत्रहञ्जहि ॥९

इन्द्र॑ । प्र । इ॒हि॒ । पु॒रः । त्वम् । विश्व॑स्य । ईशा॑नः । ओज॑सा ।

वृ॒त्राणि॑ । वृ॒त्र॒ऽह॒न् । ज॒हि॒ ॥९

इन्द्र । प्र । इहि । पुरः । त्वम् । विश्वस्य । ईशानः । ओजसा ।

वृत्राणि । वृत्रऽहन् । जहि ॥९

हे "इन्द्र “ओजसा बलेन “विश्वस्य सर्वस्य जगतः "ईशानः स्वामी भवन् "त्वं "पुरः अस्माकं पुरस्तात् “प्रेहि प्रगच्छ प्राप्नुहि । हे "वृत्रहन् वृत्राणामावरकाणां शत्रूणां हन्तः “वृत्राणि अस्मदीयानि शत्रुजातानि "जहि विनाशय ॥


अभ्युदयेष्टाविन्द्रस्य प्रदातुः ‘दीर्घस्ते अस्त्वङ्कुशः' इत्यनुवाक्या। सूत्र्यते हि - दीर्घस्ते अस्त्वङ्कुशो भद्रा ते हस्ता सुकृतोत पाणी ' (आश्व. श्रौ. ३. १३) इति ॥

दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि ।

यज॑मानाय सुन्व॒ते ॥१०

दी॒र्घः । ते॒ । अ॒स्तु॒ । अ॒ङ्कु॒शः । येन॑ । वसु॑ । प्र॒ऽयच्छ॑सि ।

यज॑मानाय । सु॒न्व॒ते ॥१०

दीर्घः । ते । अस्तु । अङ्कुशः । येन । वसु । प्रऽयच्छसि ।

यजमानाय । सुन्वते ॥१०

हे इन्द्र "ते तव "अङ्कुशः सृणिराकर्षणसाधनमायुधं "दीर्घः "अस्तु आयतो भवतु । यथा दूरस्थमपि वस्तु व्याप्नोति तथायामवान् भवत्वित्यर्थः । "येन अङ्कुशेन "सुन्वते सोमाभिषवं कुर्वते “यजमानाय "वसु धनमाहृत्य "प्रयच्छसि ददासि ॥ ॥ २३ ॥


द्वितीये पर्याये होतुः शस्त्रे ‘अयं त इन्द्र' इति स्तोत्रियस्तृचः । सूत्रितं च – 'अयं त इन्द्र सोमोऽयं ते मानुषे जने ' (आश्व. श्रौ. ६. ४) इति ॥

अ॒यं त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑ ।

एही॑म॒स्य द्रवा॒ पिब॑ ॥११

अ॒यम् । ते॒ । इ॒न्द्र॒ । सोमः॑ । निऽपू॑तः । अधि॑ । ब॒र्हिषि॑ ।

आ । इ॒हि॒ । ई॒म् । अ॒स्य । द्रव॑ । पिब॑ ॥११

अयम् । ते । इन्द्र । सोमः । निऽपूतः । अधि । बर्हिषि ।

आ । इहि । ईम् । अस्य । द्रव । पिब ॥११

हे “इन्द्र "ते तुभ्यं त्वदर्थम् "अयं "सोमः “बर्हिषि "अधि वेद्यामास्तीर्णे दर्भे "निपूतः नितरां दशापवित्रेण शोधितः । अभिषवादिसंस्कारैः संस्कृत इत्यर्थः । “ईम् इदानीम् "अस्य इमं सोमं प्रति "एहि आगच्छ । आगत्य यत्र रसात्मकः सोमो हूयते' तं देशं प्रति “द्रव शीघ्रं गच्छ । तदनन्तरं तं सोमं "पिब ।


शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः ।

आख॑ण्डल॒ प्र हू॑यसे ॥१२

शाचि॑गो॒ इति॒ शाचि॑ऽगो । शाचि॑ऽपूजन । अ॒यम् । रणा॑य । ते॒ । सु॒तः ।

आख॑ण्डल । प्र । हू॒य॒से॒ ॥१२

शाचिगो इति शाचिऽगो । शाचिऽपूजन । अयम् । रणाय । ते । सुतः ।

आखण्डल । प्र । हूयसे ॥१२

हे "शाचिगो । शाचयः शक्ता गावो यस्यासौ शाचिगुः । यद्वा । ‘शच व्यक्तायां वाचि '। अस्मादौणादिक इङ्प्रत्ययः । शाचयो व्यक्ताः प्रख्याता गावो रश्मयो गाव एव वा यस्य तादृश । हे "शाचिपूजन। पूज्यतेऽनेनेति पूजनं स्तोत्रादि । प्रख्यातपूजन "ते तव "रणाय रमणाय सुखजननाय “अयं सोमः "सुतः अभिषुतः । यतः कारणात् हे "आखण्डल शत्रूणामाखण्डयितः “प्र "हूयसे प्रकृष्टाभिः स्तुतिभिराहूयसे । अत आगत्येमं सोमं पिबेति भावः ॥


यस्ते॑ शृङ्गवृषो नपा॒त्प्रण॑पात्कुण्ड॒पाय्य॑ः ।

न्य॑स्मिन्दध्र॒ आ मन॑ः ॥१३

यः । ते॒ । शृ॒ङ्ग॒ऽवृ॒षः॒ । न॒पा॒त् । प्रन॑पा॒दिति॒ प्रऽन॑पात् । कु॒ण्ड॒ऽपाय्यः॑ ।

नि । अ॒स्मि॒न् । द॒ध्रे॒ । आ । मनः॑ ॥१३

यः । ते । शृङ्गऽवृषः । नपात् । प्रनपादिति प्रऽनपात् । कुण्डऽपाय्यः ।

नि । अस्मिन् । दध्रे । आ । मनः ॥१३

हे शृङ्गवृषो "नपात्। शृङ्गवृषा नाम कश्चिदृषिः । तस्य चेन्द्रः स्वयमेव पुत्रतया जज्ञ इत्याख्यायिका। नपादित्यपत्यनाम । शृङ्गवृषः पुत्र । यद्वा । शृणन्ति हिंसन्तीति शृङ्गाणि रश्मयः । तैर्वर्षतीति शृङ्गवृडादित्यः । तस्य नपातयितः स्वकीये स्थानेऽवस्थापयितः । ‘ सुबामन्त्रिते° ' इति षष्ठ्यन्तस्य पराङ्गवद्भावेनामन्त्रितानुप्रवेशात् समुदायस्याष्टमिकं सर्वानुदात्तत्वम् । ईदृश हे इन्द्र "ते तव संबन्धी “प्रणपात् प्रकर्षेण न पातयिता रक्षिता “कुण्डपाय्यः । कुण्डैः पीयतेऽस्मिन् सोम इति कुण्डपाय्यः क्रतुविशेषः । ‘ क्रतौ कुण्डपाय्यसंचाय्यौ ' (पा. सू. ३. १. १३०) इति पिबतेरधिकरणे ण्यत्प्रत्ययो युगागमश्च निपात्यते । एतत्संज्ञो "यः क्रतुरस्ति "अस्मिन् कुण्डपाय्ये क्रतौ "मनः स्वान्तम् “आ “नि “दध्रे । अभितो वर्तमानाः कुण्डपायिनामान ऋषयः पुरा नि दधिरे । सम्यक् त्वद्देवत्यं क्रतुमनुष्ठितवन्त इत्यर्थः । दधातेर्लिटि ‘इरयो रे' इति रेभावः ॥


वास्तो॑ष्पते ध्रु॒वा स्थूणांस॑त्रं सो॒म्याना॑म् ।

द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिन्द्रो॒ मुनी॑नां॒ सखा॑ ॥१४

वास्तोः॑ । प॒ते॒ । ध्रु॒वा । स्थूणा॑ । अंस॑त्रम् । सो॒म्याना॑म् ।

द्र॒प्सः । भे॒त्ता । पु॒राम् । शश्व॑तीनाम् । इन्द्रः॑ । मुनी॑नाम् । सखा॑ ॥१४

वास्तोः । पते । ध्रुवा । स्थूणा । अंसत्रम् । सोम्यानाम् ।

द्रप्सः । भेत्ता । पुराम् । शश्वतीनाम् । इन्द्रः । मुनीनाम् । सखा ॥१४

हे "वास्तोष्पते गृहपते "स्थूणा गृहाधारभूतः स्तम्भः “ध्रुवा स्थिरा भवतु । "सोम्यानां सोमर्हाणां सोमसंपादिनां वास्माकं “अंसत्रम् अंसत्राणमंसोपलक्षितस्य कृत्स्नशरीरस्य त्रायकं रक्षकं बलं भवतु । अपि च “द्रप्सः द्रवणशीलः सोमः तद्वान् । अर्शआदित्वादच्प्रत्ययः । “शश्वतीनां बह्वीनां "पुराम् असुरपुरीणां “भेत्ता विदारयिता एवंभूतः "इन्द्रः "मुनीनाम् ऋषीणामस्माकं "सखा मित्रभूतो भवतु ॥


पृदा॑कुसानुर्यज॒तो ग॒वेष॑ण॒ एक॒ः सन्न॒भि भूय॑सः ।

भूर्णि॒मश्वं॑ नयत्तु॒जा पु॒रो गृ॒भेन्द्रं॒ सोम॑स्य पी॒तये॑ ॥१५

पृदा॑कुऽसानुः । य॒ज॒तः । गो॒ऽएष॑णः । एकः॑ । सन् । अ॒भि । भूय॑सः ।

भूर्णि॑म् । अश्व॑म् । न॒य॒त् । तु॒जा । पु॒रः । गृ॒भा । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥१५

पृदाकुऽसानुः । यजतः । गोऽएषणः । एकः । सन् । अभि । भूयसः ।

भूर्णिम् । अश्वम् । नयत् । तुजा । पुरः । गृभा । इन्द्रम् । सोमस्य । पीतये ॥१५

“पृदाकुसानुः । पृदाकुः सर्पः । स इव सानुः समुच्छ्रितः । तद्वदुन्नतशिरस्क इत्यर्थः । यद्वा । पृदाकुवत् सानुः संभजनीयः । स यथा बहुभिर्मणिमन्त्रौषधादिभिः संसेव्यो नाल्पैः एवमिन्द्रोऽपि बहुभिः स्तोत्रादिभिर्यत्नैः सेव्य इत्यर्थः । "यजतः यष्टव्यः गवेषणः गवामेषयिता प्रापयिता एवंगुणको य इन्द्रः "एकः "सन् असहायः केवल एव सन् "भूयसः बहुतराञ्छत्रूनभिभवति “भूर्णिं भरणशीलम् "अश्वं व्याप्नुवन्तं तम् "इन्द्रं "सोमस्य "पीतये पानार्थं "पुरः अस्माकं पुरस्तात् "नयत् नयति प्रापयति । सामर्थ्यात् स्तोतेति लभ्यते । केन साधनेन । "तुजा क्षिप्रगामिना "गृभा ग्रहणसाधनेन स्तोत्रेण । यद्वा । अश्वमिति लुप्तोपममेतत् । यथा वोढारमश्वं दुर्ग्रहं पाशेनानयन्ति एवमुक्तेन प्रकारेण महानुभावमिन्द्रं स्तुत्या स्तोतानयतीत्यर्थः ॥ ॥ २४ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१७&oldid=191087" इत्यस्माद् पुनः प्राप्तिः