ऋग्वेदः सूक्तं ८.७७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.७६ ऋग्वेदः - मण्डल ८
सूक्तं ८.७७
कुरुसुतिः काण्वः
सूक्तं ८.७८ →
दे. इन्द्रः । गायत्री, १०-११ प्रगाथः ( बृहती, सतोबृहती )


जज्ञानो नु शतक्रतुर्वि पृच्छदिति मातरम् ।
क उग्राः के ह शृण्विरे ॥१॥
आदीं शवस्यब्रवीदौर्णवाभमहीशुवम् ।
ते पुत्र सन्तु निष्टुरः ॥२॥
समित्तान्वृत्रहाखिदत्खे अराँ इव खेदया ।
प्रवृद्धो दस्युहाभवत् ॥३॥
एकया प्रतिधापिबत्साकं सरांसि त्रिंशतम् ।
इन्द्रः सोमस्य काणुका ॥४॥
अभि गन्धर्वमतृणदबुध्नेषु रजस्स्वा ।
इन्द्रो ब्रह्मभ्य इद्वृधे ॥५॥
निराविध्यद्गिरिभ्य आ धारयत्पक्वमोदनम् ।
इन्द्रो बुन्दं स्वाततम् ॥६॥
शतब्रध्न इषुस्तव सहस्रपर्ण एक इत् ।
यमिन्द्र चकृषे युजम् ॥७॥
तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे ।
सद्यो जात ऋभुष्ठिर ॥८॥
एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा ।
हृदा वीड्वधारयः ॥९॥
विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः ।
शतं महिषान्क्षीरपाकमोदनं वराहमिन्द्र एमुषम् ॥१०॥
तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुन्दो हिरण्ययः ।
उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥११॥


सायणभाष्यम्

‘जज्ञानः' इत्येकादशर्चमष्टमं सूक्तं काण्वस्य कुरुसुतेरार्षम् । आद्या नव गायत्र्यो दशमी बृहत्येकादशी सतोबृहती । इन्द्रो देवता । तथा चानुक्रान्तं- जज्ञान एकादश प्रगाथान्तम्' इति । महाव्रते निष्केवल्ये 'जज्ञानो नु शतक्रतुः' इत्येषा । तथैव पञ्चमारण्यके सूत्रितं- जज्ञानो नु शतक्रतुरित्येका' (ऐ. आ. ५. २. ३) इति


ज॒ज्ञा॒नो नु श॒तक्र॑तु॒र्वि पृ॑च्छ॒दिति॑ मा॒तरं॑ ।

क उ॒ग्राः के ह॑ शृण्विरे ॥१

ज॒ज्ञा॒नः । नु । श॒तऽक्र॑तुः । वि । पृ॒च्छ॒त् । इति॑ । मा॒तर॑म् ।

के । उ॒ग्राः । के । ह॒ । शृ॒ण्वि॒रे॒ ॥१

जज्ञानः । नु । शतऽक्रतुः । वि । पृच्छत् । इति । मातरम् ।

के । उग्राः । के । ह । शृण्विरे ॥१

अयमिन्द्रः "जज्ञानो “नु जायमान एव “शतक्रतुः बहुकर्मा “इति इत्थं “मातरं स्वजननीं विपृच्छति । किमिति । "क "उग्राः उद्गूर्णबला लोके । “के “ह “श्रृण्विरे श्रूयन्ते गुणैः । के विश्रुता इत्यर्थः ॥


आदीं॑ शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुवं॑ ।

ते पु॑त्र संतु नि॒ष्टुरः॑ ॥२

आत् । ई॒म् । श॒व॒सी । अ॒ब्र॒वी॒त् । औ॒र्ण॒ऽवा॒भम् । अ॒ही॒शुव॑म् ।

ते । पु॒त्र॒ । स॒न्तु॒ । निः॒ऽतुरः॑ ॥२

आत् । ईम् । शवसी । अब्रवीत् । और्णऽवाभम् । अहीशुवम् ।

ते । पुत्र । सन्तु । निःऽतुरः ॥२

इन्द्रेण पृष्टा “शवसी माता अनन्तरमेव एनमिन्द्रम् "अब्रवीत् । किमिति उच्यते । “और्णवाभमहीशुवम् एतन्नामानावसुरौ तिष्ठतः । तावुक्तावन्ये च तादृशा हे “पुत्र तव “निष्टुरः निस्तारणीयाः “सन्तु इति ॥


समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या ।

प्रवृ॑द्धो दस्यु॒हाभ॑वत् ॥३

सम् । इत् । तान् । वृ॒त्र॒ऽहा । अ॒खि॒द॒त् । खे । अ॒रान्ऽइ॑व । खेद॑या ।

प्रऽवृ॑द्धः । द॒स्यु॒ऽहा । अ॒भ॒व॒त् ॥३

सम् । इत् । तान् । वृत्रऽहा । अखिदत् । खे । अरान्ऽइव । खेदया ।

प्रऽवृद्धः । दस्युऽहा । अभवत् ॥३

“तान् जनन्योक्तान् “वृत्रहा इन्द्रः “समित् सहैव "अखिदत्। खेदनं नाम आकर्षणम् । “खे रथचक्रस्य नाभौ "अरान् चक्राङ्गभूताञ्छङ्कून् “खेदया रज्ज्वा “इव । तया तान् यथा संखिदन्ति तद्वत् । तथा कृत्वा “दस्युहा शत्रुघातीन्द्रः “प्रवृद्धः अभवत् ॥


एक॑या प्रति॒धापि॑बत्सा॒कं सरां॑सि त्रिं॒शतं॑ ।

इंद्रः॒ सोम॑स्य काणु॒का ॥४

एक॑या । प्र॒ति॒ऽधा । अ॒पि॒ब॒त् । सा॒कम् । सरां॑सि । त्रिं॒शत॑म् ।

इन्द्रः॑ । सोम॑स्य । का॒णु॒का ॥४

एकया । प्रतिऽधा । अपिबत् । साकम् । सरांसि । त्रिंशतम् ।

इन्द्रः । सोमस्य । काणुका ॥४

अयम् “इन्द्रः “एकया एकेन “प्रतिधा प्रतिधानेन “साकम् एकधैव “त्रिंशतम् अपि । उक्थपात्राणीत्यर्थः । कीदृशानि । “सरांसि “सोमस्य पूर्णानि सोमरसेन पूर्णानि “काणुका कान्तानि क्रान्तानि वा सोमेन कृतानि वा सोमपूर्णानि "अपिबत् पीतवान् माध्यंदिनसवने । याज्ञिकप्रसिद्ध्यैवम् । नैरुक्तप्रसिद्ध्या तु कालाभिमानीन्द्रः । त्रिंशदपरपक्षस्याहोरात्रास्त्रिंशत् पूर्वपक्षस्य च सन्ति । तानेकरूपमनुभवतीति । एतत्सर्वम् ‘एकेन प्रतिधानेनापिबत्' (निरु. ५. ११) इत्यादिनिरुक्ते तद्व्याख्याने च स्पष्टमुक्तम् । तदत्र द्रष्टव्यम् ॥


अ॒भि गं॑ध॒र्वम॑तृणदबु॒ध्नेषु॒ रज॒स्स्वा ।

इंद्रो॑ ब्र॒ह्मभ्य॒ इद्वृ॒धे ॥५

अ॒भि । ग॒न्ध॒र्वम् । अ॒तृ॒ण॒त् । अ॒बु॒ध्नेषु॑ । रजः॑ऽसु । आ ।

इन्द्रः॑ । ब्र॒ह्मऽभ्यः॑ । इत् । वृ॒धे ॥५

अभि । गन्धर्वम् । अतृणत् । अबुध्नेषु । रजःऽसु । आ ।

इन्द्रः । ब्रह्मऽभ्यः । इत् । वृधे ॥५

अयम् “इन्द्रः “गन्धर्वम् । गामुदकं धारयतीति गन्धर्वो मेघः । तम् “अभि “आ “अतृणत् सर्वतो हिंसितवान् । कुत्र । “अबुध्नेषु पदनिधानयोग्यस्थानरहितेषु “रजःसु लोकेषु । अन्तरिक्षप्रदेशेष्वित्यर्थः । किमर्थम् । “ब्रह्मभ्य “इत् ब्राह्मणेभ्य एव “वृधे वर्धनाय ॥ ॥ २९ ॥


निरा॑विध्यद्गि॒रिभ्य॒ आ धा॒रय॑त्प॒क्वमो॑द॒नं ।

इंद्रो॑ बुं॒दं स्वा॑ततं ॥६

निः । अ॒वि॒ध्य॒त् । गि॒रिऽभ्यः॑ । आ । धा॒रय॑त् । प॒क्वम् । ओ॒द॒नम् ।

इन्द्रः॑ । बु॒न्दम् । सुऽआ॑ततम् ॥६

निः । अविध्यत् । गिरिऽभ्यः । आ । धारयत् । पक्वम् । ओदनम् ।

इन्द्रः । बुन्दम् । सुऽआततम् ॥६

अयम् “इन्द्रः “गिरिभ्यः मेघेभ्यः सकाशादुदकं निर्गमयितुं “निराविध्यत् संप्राहरत् तानेव मेघान् । किं कुर्वन् । “पक्वं परिपक्वम् "ओदनं कुर्वन् मनुष्याणामर्थाय । केन साधनेनेति तदुच्यते । “बुन्दम् इषुं "स्वाततं सुष्ठु सर्वतो विस्तृतमादायेति शेषः ॥


श॒तब्र॑ध्न॒ इषु॒स्तव॑ स॒हस्र॑पर्ण॒ एक॒ इत् ।

यमिं॑द्र चकृ॒षे युजं॑ ॥७

श॒तऽब्र॑ध्नः । इषुः॑ । तव॑ । स॒हस्र॑ऽपर्णः । एकः॑ । इत् ।

यम् । इ॒न्द्र॒ । च॒कृ॒षे । युज॑म् ॥७

शतऽब्रध्नः । इषुः । तव । सहस्रऽपर्णः । एकः । इत् ।

यम् । इन्द्र । चकृषे । युजम् ॥७

हे "इन्द्र “तव “इषुः शतब्रध्नः शताग्रः “सहस्रपर्णः सहस्रसंख्याकैः पत्रैः संवृतः शीघ्रगमनाय । अपरिमितगमनो वा । स च “एक "इत् एक एव । “यं च इषुं “युजं सहायं “चकृषे करोषि युद्धाय ।


तेन॑ स्तो॒तृभ्य॒ आ भ॑र॒ नृभ्यो॒ नारि॑भ्यो॒ अत्त॑वे ।

स॒द्यो जा॒त ऋ॑भुष्ठिर ॥८

तेन॑ । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ । नृऽभ्यः॑ । नारि॑ऽभ्यः । अत्त॑वे ।

स॒द्यः । जा॒तः । ऋ॒भु॒ऽस्थि॒र॒ ॥८

तेन । स्तोतृऽभ्यः । आ । भर । नृऽभ्यः । नारिऽभ्यः । अत्तवे ।

सद्यः । जातः । ऋभुऽस्थिर ॥८

“तेन इषुणा “स्तोतृभ्यः अस्मभ्यं “नृभ्यः मनुष्येभ्यः । पुत्रेभ्य इत्यर्थः। तथा “नारिभ्यः स्त्रीभ्यश्च “अत्तवे अदनाय पर्याप्तं धनम् “आ “भर आहर। “सद्यः तदानीमेव “जातः अस्माभिर्दत्तेन सोमेन प्रवृद्धः सन् हे “ऋभुष्ठिर । उरुः प्रभूतः स्थिरश्च संग्रामे स तथोक्तः । हे तादृशेन्द्र त्वमा भरेति समन्वयः ॥


ए॒ता च्यौ॒त्नानि॑ ते कृ॒ता वर्षि॑ष्ठानि॒ परी॑णसा ।

हृ॒दा वी॒ड्व॑धारयः ॥९

ए॒ता । च्यौ॒त्नानि॑ । ते॒ । कृ॒ता । वर्षि॑ष्ठानि । परी॑णसा ।

हृ॒दा । वी॒ळु । अ॒धा॒र॒यः॒ ॥९

एता । च्यौत्नानि । ते । कृता । वर्षिष्ठानि । परीणसा ।

हृदा । वीळु । अधारयः ॥९

हे इन्द्र “ते त्वया “एता एतानि पुरतः सर्वैर्दृश्यमानानि “वर्षिष्ठानि अतिशयेन प्रवृद्धानि “परीणसा परितो नतानि अत एव “च्यौत्नानि इति भावः । भूमेः कीलवद्धारणाय "कृता कृतानि । पर्वतास्त्वया कृता इत्यर्थः । या यानि 'हृदा बुद्ध्या "वीळु स्थिराणि “अधारयः । बुद्ध्या कर्तव्यानीति यान्यधारयः तानीमानीति ॥


विश्वेत्ता विष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः ।

श॒तं म॑हि॒षान्क्षी॑रपा॒कमो॑द॒नं व॑रा॒हमिंद्र॑ एमु॒षं ॥१०

विश्वा॑ । इत् । ता । विष्णुः॑ । आ । अ॒भ॒र॒त् । उ॒रु॒ऽक्र॒मः । त्वाऽइ॑षितः ।

श॒तम् । म॒हि॒षान् । क्षी॒र॒ऽपा॒कम् । ओ॒द॒नम् । व॒रा॒हम् । इन्द्रः॑ । ए॒मु॒षम् ॥१०

विश्वा । इत् । ता । विष्णुः । आ । अभरत् । उरुऽक्रमः । त्वाऽइषितः ।

शतम् । महिषान् । क्षीरऽपाकम् । ओदनम् । वराहम् । इन्द्रः । एमुषम् ॥१०

अस्या ऋचो नैरुक्तैतिहासिकमतभेदेन द्विधा योजना । नैरुक्तपक्षे तावत् । हे इन्द्र “ता तानि यानि त्वया स्रष्टव्यान्युदकानि सन्ति तानि “विष्णुः व्यापनशील आदित्यः “आभरत् आभरति । लोकाय प्रयच्छतीत्यर्थः । कीदृशो विष्णुः । “उरुक्रमः बहुगतिः । किं स्वविरोधेन नेत्याह । “त्वेषितः त्वया प्रेरितः । न केवलमुदकान्येव अपि च “शतं “महिषान् शतसंख्याकान् पशून् । महिषशब्दो गवादेरप्युपलक्षकः । अथवा शतशब्दोऽपरिमितवचनो महिष इति महन्नाम । असंख्यातान् महतो यज्ञान् यजमानेभ्य आभरत् ददातीत्यर्थः । किंच “क्षीरपाकं क्षीरपक्वम् “ओदनं पायसम् । एतच्चरुपुरोडाशादेरुपलक्षकम् । तद्यजमानेभ्य आभरत् । अथवा सर्वार्थं वृष्टिप्रदानद्वारोदनं प्राहरत् । किंच “इन्द्रः “वराहं जलपूर्णं मेघं हन्तीति शेषः । कीदृशं तम् । “एमुषम् । आ इत्यस्य स्थाने छान्दस एकारः । आमुषमुदकस्य मोषकमित्यर्थः । निरुक्तपक्ष एवम् । ऐतिहासिकपक्षे चरकब्राह्मण इतिहास आम्नायते । विष्णुर्यज्ञः । स देवेभ्य आत्मानमन्तरधात् । तमन्यदेवता नाविदन्निन्द्रस्त्ववेत् । स इन्द्रमब्रवीत्को भवानिति । तमिन्द्रः प्रत्यब्रवीदहं दुर्गाणामसुराणां च हन्ता भवांस्तु क इति । सोऽब्रवीदहं दुर्गादाहर्ता त्वं तु यदि दुर्गाणामसुराणां हन्ता ततोऽयं वराहो वाममुष एकविंशत्याः पुरां पारेऽश्ममयीनां वसति तस्मिन्नसुराणां वसु वाममस्ति तमिमं जहीति । तस्येन्द्रस्ताः पुरो भित्त्वा हृदयमविध्यत्। अधि तत्र यदासीत्तद्विष्णुराहरदिति । सोऽयमितिहासः अस्येदु मातुः सवनेषु ( ऋ. सं. १. ६१. ७ ) ‘ विश्वेत्ता विष्णुः' इत्याभ्यां प्रतिपादितः । तयोर्मध्ये ‘अस्येदु मातुः' इत्यत्र विष्णुना हे इन्द्र त्वं दुर्गाणां हन्तेत्यात्मानं कथयसि तर्हि वाममुषं वराहमसुरं जहीत्युक्तार्थो ‘ विध्यद्वराहम्' इति पादेन प्रतिपादितः । इन्द्रेण च विष्णो त्वं दुर्गादाहर्तेति ब्रूषे मया पुराणि जितान्यसुरश्च घातितस्तस्य वामं वस्वानयेत्युक्तो विष्णुमूर्तिस्तस्य वराहासुरस्य धनं मुमोष । सोऽर्थः ‘मुषायद्विष्णुः पचतम्' इति पादेन सूचितः । स किं पुनर्मुषितवानिति तदत्रोच्यते ' विश्वेत्ता' इति । हे इन्द्र त्वेषितस्त्वया प्रेरितो विष्णुर्यज्ञरूपी त्वेषितस्त्वं दुर्गादाहर्ता किल तर्हि त्वं तस्य धनान्याहरेति त्वया प्रेरितः सन्नुरुक्रमो भूत्वा विश्वेत्ता यानि त्वयाहर्तव्यानीत्युक्तानि यानि च तत्र स्थितानि तानि सर्वाण्याभरत् आभरतु । कानि तानीति । शतं महिषानपरिमितान् प्रशस्तान् पदार्थान् तेषां वाहनरूपान् महिषान् वा क्षीरपाकमोदनं च पक्वमात्रमेवौदनं चाभरत् ।' विध्यद्वराहम्' इत्यत्रोक्तोऽर्थश्च चरमपादेनोच्यते । इन्द्रस्तु वराहं वराहारं स्वीकृतासुरसर्वस्वं वराहरूपिणं वैमुषमेमुषनामानमथवैमुषं धनानामामोषकं वराहमसुरं हृदयेऽविध्यदिति शेषः ॥


तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनुः॑ सा॒धुर्बुं॒दो हि॑र॒ण्ययः॑ ।

उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥११

तु॒वि॒ऽक्षम् । ते॒ । सुऽकृ॑तम् । सु॒ऽमय॑म् । धनुः॑ । सा॒धुः । बु॒न्दः । हि॒र॒ण्ययः॑ ।

उ॒भा । ते॒ । बा॒हू इति॑ । रण्या॑ । सुऽसं॑स्कृता । ऋ॒दु॒ऽपे । चि॒त् । ऋ॒दु॒ऽवृधा॑ ॥११

तुविऽक्षम् । ते । सुऽकृतम् । सुऽमयम् । धनुः । साधुः । बुन्दः । हिरण्ययः ।

उभा । ते । बाहू इति । रण्या । सुऽसंस्कृता । ऋदुऽपे । चित् । ऋदुऽवृधा ॥११

‘एषा निरुक्त एकमपि पदं (अ)विहाय यास्केन व्याख्याता । तदेव लिख्यते- तुविक्षं बहुविक्षेपं महाविक्षेपं वा ते सुकृतं सूमयं सुसुखं धनुः साधयिता ते बुन्दो हिरण्मयः । उभौ ते बाहू रण्यौ रमणीयौ सांग्राम्यौ वर्दूपे अर्दनपातिनौ गमनपातिनो मर्मण्यर्दनवेधिनौ गमनवेधिनौ वा ' (निरु. ६. ३३ ) इति ॥ ॥ ३० ॥


[सम्पाद्यताम्]

टिप्पणी

८.७७.१० -- वराहोपरि टिप्पणी

८.७७.१० एमुषम् --

श्रीवसिष्ठ उवाच । पूर्वमेव मया प्रोक्तं राम किं नावबुध्यसे । पूवापरविचारार्हा शेमुषी क्व गता तव ।। २ यदिदं हि शरीरादि जगत्स्थावरजङ्गमम् । आभासमात्रमेवेतदसत्स्वप्नमिवोत्थितम् - योगवासिष्ठः ४.४४.२ अत्र शेमुषी बुद्धिः श - अज्ञानस्य हारका बुद्धिरस्ति। एवमेव, पुराणेषु एं सरस्वतीबीजमस्ति। यः ज्ञानस्य हरणं करोति, तत् एमुषः अस्ति।

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.७७&oldid=209017" इत्यस्माद् पुनः प्राप्तिः