ऋग्वेदः सूक्तं ८.१००

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.९९ ऋग्वेदः - मण्डल ८
सूक्तं ८.१००
१-३, ६-१२ नेमो भार्गवः, ४-५ इन्द्रः।
सूक्तं ८.१०१ →
दे. इन्द्रः, ८ सुपर्णः, ९ वज्रो वा, १०-११ वाक् । त्रिष्टुप्, ६ जगती, ७-९ अनुष्टुप्


अयं त एमि तन्वा पुरस्ताद्विश्वे देवा अभि मा यन्ति पश्चात् ।
यदा मह्यं दीधरो भागमिन्द्रादिन्मया कृणवो वीर्याणि ॥१॥
दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः ।
असश्च त्वं दक्षिणतः सखा मेऽधा वृत्राणि जङ्घनाव भूरि ॥२॥
प्र सु स्तोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति ।
नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कमभि ष्टवाम ॥३॥
अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना ।
ऋतस्य मा प्रदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि ॥४॥
आ यन्मा वेना अरुहन्नृतस्यँ एकमासीनं हर्यतस्य पृष्ठे ।
मनश्चिन्मे हृद आ प्रत्यवोचदचिक्रदञ्छिशुमन्तः सखायः ॥५॥
विश्वेत्ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते ।
पारावतं यत्पुरुसम्भृतं वस्वपावृणोः शरभाय ऋषिबन्धवे ॥६॥
प्र नूनं धावता पृथङ्नेह यो वो अवावरीत् ।
नि षीं वृत्रस्य मर्मणि वज्रमिन्द्रो अपीपतत् ॥७॥
मनोजवा अयमान आयसीमतरत्पुरम् ।
दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥८॥
समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः ।
भरन्त्यस्मै संयतः पुरःप्रस्रवणा बलिम् ॥९॥
यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥१०॥
देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ॥११॥
सखे विष्णो वितरं वि क्रमस्व द्यौर्देहि लोकं वज्राय विष्कभे ।
हनाव वृत्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु प्रसवे विसृष्टाः ॥१२॥


सायणभाष्यम्

‘ अयं ते ' इति द्वादशर्चं सप्तमं सूक्तं भृगुगोत्रस्य नेमस्यार्षम् । 'अयमस्मि जरितः' इति द्वृचेनेन्द्रो नेमसमीपमेत्य स्वकीयं माहात्म्यमवोचत् अतस्तस्य द्वृचस्य स एवर्षिः यस्य वाक्यं स ऋषिः' (अनु. २. ४) इति न्यायात् । षष्ठी जगती । सप्तम्याद्यास्तिस्रोऽनुष्टुभः । शिष्टास्त्रिष्टुभः । इन्द्रो देवता। 'यद्वाग्वदन्ती, देवीं वाचम्' इत्येते वाग्देवत्ये शिष्टा ऐन्द्र्यः । तथा चानुकान्तम्-- अयं ते द्वादश नेमो भार्गवस्त्रैष्टुभं षष्ठी जगती परास्तिस्रोऽनुष्टुभोऽयमिति द्वृचेनेन्द्र आत्मानमस्तौदुपान्त्ये वाच्यौ ' इति । वाग्देवत्ये पशौ ‘यद्वाग्वदन्ती' इति वपाया अनुवाक्या । सूत्रितं च -- ‘ यद्वाग्वदन्त्यविचेतनानि पतङ्गो वाचं मनसा बिभर्ति ' ( आश्व. श्रौ. ३. ८) इति । पूर्वोक्त एव पशौ देवीं वाचम्' इति हविषो याज्या । सूत्रितं च -- देवीं वाचमजनयन्त देवा जनीयन्तो न्वग्रव इति तिस्रः' ( आश्व. श्रौ. ३. ८) इति । प्रयाणसमये वयसाममनोज्ञा वाचः श्रुत्वैतां जपेत् । सूत्रितं च -- कनिक्रदज्जनुषं प्रबुवाण इति सूक्ते जपेद्देवीं वाचमजनयन्त देवा इति च (आश्व. गृ. ३. १०. ९) इति ॥


अ॒यं त॑ एमि त॒न्वा॑ पु॒रस्ता॒द्विश्वे॑ दे॒वा अ॒भि मा॑ यन्ति प॒श्चात् ।

य॒दा मह्यं॒ दीध॑रो भा॒गमि॒न्द्रादिन्मया॑ कृणवो वी॒र्या॑णि ॥१

अ॒यम् । ते॒ । ए॒मि॒ । त॒न्वा॑ । पु॒रस्ता॑त् । विश्वे॑ । दे॒वाः । अ॒भि । मा॒ । य॒न्ति॒ । प॒श्चात् ।

य॒दा । मह्य॑म् । दीध॑रः । भा॒गम् । इ॒न्द्र॒ । आत् । इत् । मया॑ । कृ॒ण॒वः॒ । वी॒र्या॑णि ॥१

अयम् । ते । एमि । तन्वा । पुरस्तात् । विश्वे । देवाः । अभि । मा । यन्ति । पश्चात् ।

यदा । मह्यम् । दीधरः । भागम् । इन्द्र । आत् । इत् । मया । कृणवः । वीर्याणि ॥१

हे “इन्द्र “ते तव “पुरस्तात् अग्रतः “तन्वा पुत्रेण सह "अयम् अहम् “एमि। शत्रूनभिभवितुं गच्छामि । तवाग्रतो गच्छन्तं मां “विश्वे “देवाः त्वया सह “पश्चात् “अभि “यन्ति अभिगच्छन्ति । “यदा त्वं “मह्यं भार्गवाय नेमाय “भागं शत्रुषु स्थितं भागं “दीधरः धारयसि “आदित् अनन्तरमेव “मया सह मच्छत्रूञ्जेतुं “वीर्याणि पौरुषाणि "कृणवः कुरु । यदि शत्रुषु स्थितं धनं मह्यं दित्ससि तर्हि शत्रुजयार्थं गच्छतः सपुत्रस्य मम साहाय्यं कुर्विति भावः ॥


दधा॑मि ते॒ मधु॑नो भ॒क्षमग्रे॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोम॑ः ।

अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ॥२

दधा॑मि । ते॒ । मधु॑नः । भ॒क्षम् । अग्रे॑ । हि॒तः । ते॒ । भा॒गः । सु॒तः । अ॒स्तु॒ । सोमः॑ ।

असः॑ । च॒ । त्वम् । द॒क्षि॒ण॒तः । सखा॑ । मे॒ । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ ॥२

दधामि । ते । मधुनः । भक्षम् । अग्रे । हितः । ते । भागः । सुतः । अस्तु । सोमः ।

असः । च । त्वम् । दक्षिणतः । सखा । मे । अध । वृत्राणि । जङ्घनाव । भूरि ॥२

हे इन्द्र “ते तुभ्यं “मधुनः मदकरस्य सोमस्य “भक्षमग्रे प्रथमं “दधामि धारयामि । “सुतः अभिषुतः “भागः भजनीयः “सोमः “ते तव हृदये “हितः निहितः “अस्तु भवतु । अपि च “त्वं “मे मम “दक्षिणतः दक्षिणपार्श्वे “सखा सन् "असः स्थितो भव। “अध अथ “भूरि बहूनि “वृत्राणि अस्मदीयाञ्छत्रून् “जङ्घनाव त्वमहं चोभौ आवां हन्वः ॥


प्र सु स्तोमं॑ भरत वाज॒यन्त॒ इन्द्रा॑य स॒त्यं यदि॑ स॒त्यमस्ति॑ ।

नेन्द्रो॑ अ॒स्तीति॒ नेम॑ उ त्व आह॒ क ईं॑ ददर्श॒ कम॒भि ष्ट॑वाम ॥३

प्र । सु । स्तोम॑म् । भ॒र॒त॒ । वा॒ज॒ऽयन्तः॑ । इन्द्रा॑य । स॒त्यम् । यदि॑ । स॒त्यम् । अस्ति॑ ।

न । इन्द्रः॑ । अ॒स्ति॒ । इति॑ । नेमः॑ । ऊं॒ इति॑ । त्वः॒ । आ॒ह॒ । कः । ई॒म् । द॒द॒र्श॒ । कम् । अ॒भि । स्त॒वा॒म॒ ॥३

प्र । सु । स्तोमम् । भरत । वाजऽयन्तः । इन्द्राय । सत्यम् । यदि । सत्यम् । अस्ति ।

न । इन्द्रः । अस्ति । इति । नेमः । ऊं इति । त्वः । आह । कः । ईम् । ददर्श । कम् । अभि । स्तवाम ॥३

हे जनाः “वाजयन्तः संग्राममिच्छन्तो यूयम् ।' पौंस्यै वाजे' इति संग्रामनामसु पाठात् । “इन्द्राय "सत्यं सत्यभूतं “स्तोमं “सु सुष्ठु “प्र “भरत । इन्द्रोऽस्तीत्येतत् "यदि “सत्यमस्ति भवति । इन्द्रास्तित्वे कः संदेहः । तत्राह। “नेम “उ भार्गवो नेम एव “इन्द्रः नाम “त्वः कश्चित् "न “अस्ति इति “आह । तत्र कारणं दर्शयति । “क “ईम् एनमिन्द्रं “ददर्श अद्राक्षीत्। न कोऽप्यपश्यत् । अतः “कं वयम् "अभि “ष्टवाम अभिष्टुमः । तस्मादिन्द्रो नाम कश्चिद्विद्यत इति वादमात्रं न तु तत्सत्यमित्यर्थः ॥


अ॒यम॑स्मि जरित॒ः पश्य॑ मे॒ह विश्वा॑ जा॒तान्य॒भ्य॑स्मि म॒ह्ना ।

ऋ॒तस्य॑ मा प्र॒दिशो॑ वर्धयन्त्यादर्दि॒रो भुव॑ना दर्दरीमि ॥४

अ॒यम् । अ॒स्मि॒ । ज॒रि॒त॒रिति॑ । पश्य॑ । मा॒ । इ॒ह । विश्वा॑ । जा॒तानि॑ । अ॒भि । अ॒स्मि॒ । म॒ह्ना ।

ऋ॒तस्य॑ । मा॒ । प्र॒ऽदिशः॑ । व॒र्ध॒य॒न्ति॒ । आ॒ऽद॒र्दि॒रः । भुव॑ना । द॒र्द॒री॒मि॒ ॥४

अयम् । अस्मि । जरितरिति । पश्य । मा । इह । विश्वा । जातानि । अभि । अस्मि । मह्ना ।

ऋतस्य । मा । प्रऽदिशः । वर्धयन्ति । आऽदर्दिरः । भुवना । दर्दरीमि ॥४

एवं नेमस्यर्षेर्वचनमाकर्ण्य इन्द्रस्तस्य समीपमाजगाम । आगत्य चात्मानमनेन द्वृचेन स्तौति । हे “जरितः स्तोतः "अयम् अहम् “अस्मि । “इह तव समीपे स्थितं “मा मां “पश्य । “विश्वा सर्वाणि "जातानि' भुवनानि “मह्ना महत्त्वेन “अभ्यस्मि अहमभिभवामि । किंच माम् “ऋतस्य सत्यस्य यज्ञस्य वा “प्रदिशः प्रदेष्टारो विद्वांसः स्तोत्रैः “वर्धयन्ति । अपि च "आदर्दिरः आदरणशीलोऽहं "भुवना भुवनानि शत्रुभूतानि "दर्दरीमि भृशं विदारयामि ॥


आ यन्मा॑ वे॒ना अरु॑हन्नृ॒तस्यँ॒ एक॒मासी॑नं हर्य॒तस्य॑ पृ॒ष्ठे ।

मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रद॒ञ्छिशु॑मन्त॒ः सखा॑यः ॥५

आ । यत् । मा॒ । वे॒नाः । अरु॑हन् । ऋ॒तस्य॑ । एक॑म् । आसी॑नम् । ह॒र्य॒तस्य॑ । पृ॒ष्ठे ।

मनः॑ । चि॒त् । मे॒ । हृ॒दे । आ । प्रति॑ । अ॒वो॒च॒त् । अचि॑क्रदन् । शिशु॑ऽमन्तः । सखा॑यः ॥५

आ । यत् । मा । वेनाः । अरुहन् । ऋतस्य । एकम् । आसीनम् । हर्यतस्य । पृष्ठे ।

मनः । चित् । मे । हृदे । आ । प्रति । अवोचत् । अचिक्रदन् । शिशुऽमन्तः । सखायः ॥५

“यत् यदा ये “ऋतस्य यज्ञस्य यज्ञम् । कर्मणि षष्ठी । “वेनाः कामयमानाः "हर्यतस्य कान्तस्यान्तरिक्षस्य “पृष्ठे “आसीनम् उपविष्टम् “एकं “मा माम् “आ “अरुहन् तदानीं तेषां भवतामारोहं “मनश्चित् मन एव "मे मम “हृदे हृदयाय “प्रत्यवोचत् अब्रवीत् । अज्ञासिषं च तदाह्वानं “शिशुमन्तः पुत्रयुक्ताः “सखायः प्रिया अमी “अचिकदन् मां क्रन्दन्तीति ॥


विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निन्द्र सुन्व॒ते ।

पारा॑वतं॒ यत्पु॑रुसम्भृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बन्धवे ॥६

विश्वा॑ । इत् । ता । ते॒ । सव॑नेषु । प्र॒ऽवाच्या॑ । या । च॒कर्थ॑ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । सु॒न्व॒ते ।

पारा॑वतम् । यत् । पु॒रु॒ऽस॒म्भृ॒तम् । वसु॑ । अ॒प॒ऽअवृ॑णोः । श॒र॒भाय॑ । ऋषि॑ऽबन्धवे ॥६

विश्वा । इत् । ता । ते । सवनेषु । प्रऽवाच्या । या । चकर्थ । मघऽवन् । इन्द्र । सुन्वते ।

पारावतम् । यत् । पुरुऽसम्भृतम् । वसु । अपऽअवृणोः । शरभाय । ऋषिऽबन्धवे ॥६

स्वसमीपमागतमिन्द्रं दृष्ट्वा संतुष्ट ऋषिरिन्द्रस्य विविधानि कर्माणि दानं च ' विश्वेत्ता ते इत्यनेन द्वृचेन स्तौति । हे “मघवन्निन्द्र त्वं “सवनेषु यज्ञेषु “सुन्वते सोमाभिषवं कुर्वते यजमानाय “या यानि कर्माणि “चकर्थ अकरोः “ते तव “ता तानि कर्माणि “प्रवाच्या प्रवक्तव्यानि “विश्वेत् अनन्तान्येव । किंच त्वं “पारावतं परावन्नामकस्य कस्यचिच्छत्रोः स्वभूतं “यत् धनमस्ति तत् “ऋषिबन्धवे' “शरभाय शरभनाम्न ऋषये “अपावृणोः अपवृतवानसि । “पुरुसंभृतं यथा बहुसंभृतं भवति ॥ ॥ ४ ॥


प्र नू॒नं धा॑वता॒ पृथ॒ङ्नेह यो वो॒ अवा॑वरीत् ।

नि षीं॑ वृ॒त्रस्य॒ मर्म॑णि॒ वज्र॒मिन्द्रो॑ अपीपतत् ॥७

प्र । नू॒नम् । धा॒व॒त॒ । पृथ॑क् । न । इ॒ह । यः । वः॒ । अवा॑वरीत् ।

नि । सी॒म् । वृ॒त्रस्य॑ । मर्म॑णि । वज्र॑म् । इन्द्रः॑ । अ॒पी॒प॒त॒त् ॥७

प्र । नूनम् । धावत । पृथक् । न । इह । यः । वः । अवावरीत् ।

नि । सीम् । वृत्रस्य । मर्मणि । वज्रम् । इन्द्रः । अपीपतत् ॥७

“यः शत्रुः "नूनम् इदानीं “प्र “धावत प्रधावति “पृथक् “इह पृथङ्न तिष्ठति च “वः युष्मान् “न अवीवरीतु न विवारयति च तस्य “वृत्रस्य शत्रोः “मर्मणि मर्मस्थाने “इन्द्रः “वज्रं कुलिशं “नि “अपीपतत् नितरामपातयत् ॥


मनो॑जवा॒ अय॑मान आय॒सीम॑तर॒त्पुर॑म् ।

दिवं॑ सुप॒र्णो ग॒त्वाय॒ सोमं॑ व॒ज्रिण॒ आभ॑रत् ॥८

मनः॑ऽजवाः । अय॑मानः । आ॒य॒सीम् । अ॒त॒र॒त् । पुर॑म् ।

दिव॑म् । सु॒ऽप॒र्णः । ग॒त्वाय॑ । सोम॑म् । व॒ज्रिणः॑ । आ । अ॒भ॒र॒त् ॥८

मनःऽजवाः । अयमानः । आयसीम् । अतरत् । पुरम् ।

दिवम् । सुऽपर्णः । गत्वाय । सोमम् । वज्रिणः । आ । अभरत् ॥८

“सुपर्णः गरुत्मान् “मनोजवाः मनोवेगः "अयमानः गच्छन् "आयसीं हिरण्मयीं “पुरं नगरीम् “अतरत् अतारीत्। ततः “दिवं स्वर्गं “गत्वाय गत्वा “वज्रिणे इन्द्राय “सोमम् “आभरत् आहरच्च ॥


स॒मु॒द्रे अ॒न्तः श॑यत उ॒द्ना वज्रो॑ अ॒भीवृ॑तः ।

भर॑न्त्यस्मै सं॒यत॑ः पु॒रःप्र॑स्रवणा ब॒लिम् ॥९

स॒मु॒द्रे । अ॒न्तरिति॑ । श॒य॒ते॒ । उ॒द्ना । वज्रः॑ । अ॒भिऽवृ॑तः ।

भर॑न्ति । अ॒स्मै॒ । स॒म्ऽयतः॑ । पु॒रःऽप्र॑स्रवणाः । ब॒लिम् ॥९

समुद्रे । अन्तरिति । शयते । उद्ना । वज्रः । अभिऽवृतः ।

भरन्ति । अस्मै । सम्ऽयतः । पुरःऽप्रस्रवणाः । बलिम् ॥९

यः “वज्रः “समुद्रे “अन्तः समुद्रस्य मध्ये "शयते शेते यश्च “उद्ना उदकेन "अभिवृतः “अस्मै वज्राय “संयतः संग्रामस्य । ‘सग्मन् संयतः' इति संग्रामनामसु पाठात् । “पुरःप्रस्रवणाः पुरस्ताद्गच्छन्तः शत्रवः “बलिम् उपहारं “भरन्ति धारयन्ति । तस्य छेद्या भवन्तीत्यर्थः ॥


यद्वाग्वद॑न्त्यविचेत॒नानि॒ राष्ट्री॑ दे॒वानां॑ निष॒साद॑ म॒न्द्रा ।

चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयां॑सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ॥१०

यत् । वाक् । वद॑न्ती । अ॒वि॒ऽचे॒त॒नानि॑ । राष्ट्री॑ । दे॒वाना॑म् । नि॒ऽस॒साद॑ । म॒न्द्रा ।

चत॑स्रः । ऊर्ज॑म् । दु॒दु॒हे॒ । पयां॑सि । क्व॑ । स्वि॒त् । अ॒स्याः॒ । प॒र॒मम् । ज॒गा॒म॒ ॥१०

यत् । वाक् । वदन्ती । अविऽचेतनानि । राष्ट्री । देवानाम् । निऽससाद । मन्द्रा ।

चतस्रः । ऊर्जम् । दुदुहे । पयांसि । क्व । स्वित् । अस्याः । परमम् । जगाम ॥१०

“राष्ट्री राजनशीला “देवानां “मन्द्रा मादयित्री' वा “यत् यदा “वाक् “अविचेतनानि विज्ञानरहितानप्रज्ञातानर्थान् “वदन्ती प्रज्ञापयन्ती “निषसाद यज्ञे निषीदति तदा “चतस्रः दिशः प्रति “ऊर्जम् अन्नं “पयांसि तत्कारणभूतानि उदकानि “दुदुहे। “अस्याः माध्यमिकाया वाचः स्वभूतं यत् “परमं श्रेष्ठं तत् “क्व “जगाम क्व गच्छतीति न दृश्यत इत्यर्थः । तथा च यास्कः - ‘ यद्वाग्वदन्त्यविचेतनान्यविज्ञातानि राष्ट्री देवानां निषसाद मन्द्रा मदना चतस्रोऽनु दिश अर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगामेति यत्पृथिवीं गच्छतीति वा यदादित्यरश्मयो हरन्तीति वा ' (निरु. ११. २८) इति ॥


दे॒वीं वाच॑मजनयन्त दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति ।

सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥११

दे॒वीम् । वाच॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वाः । ताम् । वि॒श्वऽरू॑पाः । प॒शवः॑ । व॒द॒न्ति॒ ।

सा । नः॒ । म॒न्द्रा । इष॑म् । ऊर्ज॑म् । दुहा॑ना । धे॒नुः । वाक् । अ॒स्मान् । उप॑ । सुऽस्तु॑ता । आ । ए॒तु॒ ॥११

देवीम् । वाचम् । अजनयन्त । देवाः । ताम् । विश्वऽरूपाः । पशवः । वदन्ति ।

सा । नः । मन्द्रा । इषम् । ऊर्जम् । दुहाना । धेनुः । वाक् । अस्मान् । उप । सुऽस्तुता । आ । एतु ॥११

एषा माध्यमिका वाक् सर्वप्राण्यन्तर्गता धर्माभिवादिनी भवतीति विभूतिमुपदर्शयति । यां “देवीं द्योतमानां माध्यमिकां “वाचं “देवाः माध्यमिकाः “अजनयन्त जनयन्ति “तां वाचं “विश्वरूपाः सर्वरूपा व्यक्तवाचोऽव्यक्तवाचश्च “पशवो “वदन्ति । तत्पूर्वकत्वाद्वाक्प्रवृत्तेः । “सा “वाक् देवी “मन्द्रा मदना स्तुत्या हर्षयित्री वा वृष्टिप्रदानेनास्मभ्यम् “इषम् अन्नम् “ऊर्जं पयोघृतादिरूपं रसं च “दुहाना क्षरन्ती “धेनुः धेनुभूता “सुष्टुता अस्माभिः स्तुता “अस्मान् नेमान् “उप “ऐतु उपगच्छतु । वर्षणायोद्युक्तेत्यर्थः । तथा च यास्कः- ‘ देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति व्यक्तवाचश्चाव्यक्तवाचश्च सा नो मदनान्नं च रसं च दुहाना धेनुर्वागस्मानुपैतु सुष्टुता' (निरु. ११. २९) इति ॥


सखे॑ विष्णो वित॒रं वि क्र॑मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा॑य वि॒ष्कभे॑ ।

हना॑व वृ॒त्रं रि॒णचा॑व॒ सिन्धू॒निन्द्र॑स्य यन्तु प्रस॒वे विसृ॑ष्टाः ॥१२

सखे॑ । वि॒ष्णो॒ इति॑ । वि॒ऽत॒रम् । वि । क्र॒म॒स्व॒ । द्यौः । दे॒हि । लो॒कम् । वज्रा॑य । वि॒ऽस्कभे॑ ।

हना॑व । वृ॒त्रम् । रि॒णचा॑व । सिन्धू॑न् । इन्द्र॑स्य । य॒न्तु॒ । प्र॒ऽस॒वे । विऽसृ॑ष्टाः ॥१२

सखे । विष्णो इति । विऽतरम् । वि । क्रमस्व । द्यौः । देहि । लोकम् । वज्राय । विऽस्कभे ।

हनाव । वृत्रम् । रिणचाव । सिन्धून् । इन्द्रस्य । यन्तु । प्रऽसवे । विऽसृष्टाः ॥१२

हे सखे “विष्णो त्वं “वितरम् अत्यन्तं “वि “क्रमस्व विक्रमं कुरु । हे “द्यौः त्वं "वज्राय वज्रस्य “विष्कभे विष्कम्भनाय “लोकम् अवकाशं “देहि प्रयच्छ । हे विष्णो त्वं चाहं चोभौ आवां “वृत्रम् असुरं “हनाव हन्वः । “सिन्धून् वृत्रावष्टब्धा नदीश्च “रिणचाव नयावः । तेऽमी “विसृष्टाः सिन्धवः “इन्द्रस्य “प्रसवे "यन्तु प्रेरणे गच्छन्तु । तमिममर्थं संगृह्य श्लोकैः शौनको दर्शयति-- ‘ त्रीँल्लोकानभिवृत्यैतान् वृत्रस्तस्थौ स्वया त्विषा ॥ तं नाशकद्धन्तुमिन्द्रो' विष्णुमभ्येत्य सोऽब्रवीत् । वृत्रं हनिष्ये तिष्ठस्व विक्रम्याद्य ममान्तिके ॥ उद्यतस्य तु वज्रस्य द्यौर्ददातु ममान्तरम् । तथेति विष्णुस्तच्चक्रे द्यौश्चास्य विवरं ददौ ॥ तदेतदखिलं प्रोक्तं सखे विष्णो इति त्वृचा' (बृहद्दे. ६. १२१-१२४ ) इति ॥ ॥ ५ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१००&oldid=193994" इत्यस्माद् पुनः प्राप्तिः