ऋग्वेदः सूक्तं ८.१८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.१७ ऋग्वेदः - मण्डल ८
सूक्तं ८.१८
इरिम्बिठिः काण्वः
सूक्तं ८.१९ →
दे. आदित्याः, ४, ६, ७ अदितिः, ८ अश्विनौ, ९ अग्निसूर्यानिलाः। उष्णिक्


इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः ।
आदित्यानामपूर्व्यं सवीमनि ॥१॥
अनर्वाणो ह्येषां पन्था आदित्यानाम् ।
अदब्धाः सन्ति पायवः सुगेवृधः ॥२॥
तत्सु नः सविता भगो वरुणो मित्रो अर्यमा ।
शर्म यच्छन्तु सप्रथो यदीमहे ॥३॥
देवेभिर्देव्यदितेऽरिष्टभर्मन्ना गहि ।
स्मत्सूरिभिः पुरुप्रिये सुशर्मभिः ॥४॥
ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे ।
अंहोश्चिदुरुचक्रयोऽनेहसः ॥५॥
अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः ।
अदितिः पात्वंहसः सदावृधा ॥६॥
उत स्या नो दिवा मतिरदितिरूत्या गमत् ।
सा शंताति मयस्करदप स्रिधः ॥७॥
उत त्या दैव्या भिषजा शं नः करतो अश्विना ।
युयुयातामितो रपो अप स्रिधः ॥८॥
शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः ।
शं वातो वात्वरपा अप स्रिधः ॥९॥
अपामीवामप स्रिधमप सेधत दुर्मतिम् ।
आदित्यासो युयोतना नो अंहसः ॥१०॥
युयोता शरुमस्मदाँ आदित्यास उतामतिम् ।
ऋधग्द्वेषः कृणुत विश्ववेदसः ॥११॥
तत्सु नः शर्म यच्छतादित्या यन्मुमोचति ।
एनस्वन्तं चिदेनसः सुदानवः ॥१२॥
यो नः कश्चिद्रिरिक्षति रक्षस्त्वेन मर्त्यः ।
स्वैः ष एवै रिरिषीष्ट युर्जनः ॥१३॥
समित्तमघमश्नवद्दुःशंसं मर्त्यं रिपुम् ।
यो अस्मत्रा दुर्हणावाँ उप द्वयुः ॥१४॥
पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् ।
उप द्वयुं चाद्वयुं च वसवः ॥१५॥
आ शर्म पर्वतानामोतापां वृणीमहे ।
द्यावाक्षामारे अस्मद्रपस्कृतम् ॥१६॥
ते नो भद्रेण शर्मणा युष्माकं नावा वसवः ।
अति विश्वानि दुरिता पिपर्तन ॥१७॥
तुचे तनाय तत्सु नो द्राघीय आयुर्जीवसे ।
आदित्यासः सुमहसः कृणोतन ॥१८॥
यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत ।
युष्मे इद्वो अपि ष्मसि सजात्ये ॥१९॥
बृहद्वरूथं मरुतां देवं त्रातारमश्विना ।
मित्रमीमहे वरुणं स्वस्तये ॥२०॥
अनेहो मित्रार्यमन्नृवद्वरुण शंस्यम् ।
त्रिवरूथं मरुतो यन्त नश्छर्दिः ॥२१॥
ये चिद्धि मृत्युबन्धव आदित्या मनवः स्मसि ।
प्र सू न आयुर्जीवसे तिरेतन ॥२२॥


सायणभाष्यम्

‘इदं ह ' इति द्वाविंशत्यृचं षष्ठं सूक्तमिरिम्बिठेरार्षमुष्णिक्छन्दस्कम् । ‘उत त्या ' इत्येषा अश्विदेवताका । शमग्निः ' इत्येषा अग्निसूर्यवायुदेवताका । शिष्टा आदित्यदेवताकाः । तथा चानुक्रम्यते - इदं ह द्वयधिकादित्यमौष्णिहमष्टम्यश्विभ्यां पराग्निसूर्यानिलानाम् ' इति । गतो विनियोगः ।।


इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्य॑ः ।

आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥१

इ॒दम् । ह॒ । नू॒नम् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ ।

आ॒दि॒त्याना॑म् । अपू॑र्व्यम् । सवी॑मनि ॥१

इदम् । ह । नूनम् । एषाम् । सुम्नम् । भिक्षेत । मर्त्यः ।

आदित्यानाम् । अपूर्व्यम् । सवीमनि ॥१

“इदं "ह इदानीं खलु "नूनम् अवश्यम् "आदित्यानाम् अदितेः पुत्राणाम् "एषां देवानां मित्रादीनां "सवीमनि प्रसवे प्रेरणे सति “मर्त्यः मनुष्यः स्तोता “अपूर्व्यम् अभिनवं "सुम्नं सुखकरं धनं "भिक्षेत याचेत । न कालान्तरे ॥


अ॒न॒र्वाणो॒ ह्ये॑षां॒ पन्था॑ आदि॒त्याना॑म् ।

अद॑ब्धा॒ः सन्ति॑ पा॒यव॑ः सुगे॒वृध॑ः ॥२

अ॒न॒र्वाणः॑ । हि । ए॒षा॒म् । पन्थाः॑ । आ॒दि॒त्याना॑म् ।

अद॑ब्धाः । सन्ति॑ । पा॒यवः॑ । सु॒गे॒ऽवृधः॑ ॥२

अनर्वाणः । हि । एषाम् । पन्थाः । आदित्यानाम् ।

अदब्धाः । सन्ति । पायवः । सुगेऽवृधः ॥२

“एषाम् "आदित्यानां "पन्थाः पन्थानो मार्गाः। ‘सुपां सुलुक् ' इति जसः सुः । अनर्वाणः अप्रत्यृताः परैरप्रतिगताः अत एव "अदब्धाः अहिंसिताश्च "सन्ति भवन्ति । "हि यस्मादेवं तस्मात् “पायवः पालयितारस्ते मार्गाः "सुगेवृधः सुगमे सुखे विषये वर्धका भवन्तु ॥


तत्सु न॑ः सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

शर्म॑ यच्छन्तु स॒प्रथो॒ यदीम॑हे ॥३

तत् । सु । नः॒ । स॒वि॒ता । भगः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

शर्म॑ । य॒च्छ॒न्तु॒ । स॒ऽप्रथः॑ । यत् । ईम॑हे ॥३

तत् । सु । नः । सविता । भगः । वरुणः । मित्रः । अर्यमा ।

शर्म । यच्छन्तु । सऽप्रथः । यत् । ईमहे ॥३

सवित्रादयश्चत्वारो देवाः "सप्रथः सर्वतः पृथु विस्तीर्णं "तत् "शर्म सुखं गृहं वा "नः अस्मभ्यं "सु सुष्ठु "यच्छन्तु ददतु । "यत् शर्म "ईमहे वयं याचामहे ॥


दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि ।

स्मत्सू॒रिभि॑ः पुरुप्रिये सु॒शर्म॑भिः ॥४

दे॒वेभिः॑ । दे॒वि॒ । अ॒दि॒ते॒ । अरि॑ष्टऽभर्मन् । आ । ग॒हि॒ ।

स्मत् । सू॒रिऽभिः॑ । पु॒रु॒ऽप्रि॒ये॒ । सु॒शर्म॑ऽभिः ॥४

देवेभिः । देवि । अदिते । अरिष्टऽभर्मन् । आ । गहि ।

स्मत् । सूरिऽभिः । पुरुऽप्रिये । सुशर्मऽभिः ॥४

हे "देवि दानादिगुणयुक्ते हे "अरिष्टभर्मन् अहिंसितभरणे हे "पुरुप्रिये बहुभिः प्रीयमाणे हे एवंगुणविशिष्टे "अदिते "सूरिभिः प्राज्ञैः "सुशर्मभिः सुसुखैः "देवेभिः देवैरात्मीयैः पुत्रैः सार्धम् । स्मदिति निपातः शोभनार्थः । "स्मत् शोभनं यथा भवति तथा “आ “गहि आगच्छ ।


ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे ।

अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हस॑ः ॥५

ते । हि । पु॒त्रासः॑ । अदि॑तेः । वि॒दुः । द्वेषां॑सि । योत॑वे ।

अं॒होः । चि॒त् । उ॒रु॒ऽचक्र॑यः । अ॒ने॒हसः॑ ॥५

ते । हि । पुत्रासः । अदितेः । विदुः । द्वेषांसि । योतवे ।

अंहोः । चित् । उरुऽचक्रयः । अनेहसः ॥५

"अदितेः "पुत्रासः पुत्राः “ते "हि ते खलु मित्रादयो देवाः "द्वेषांसि द्वेष्टॄणि राक्षसादीनि “योतवे पृथक्कर्तुं “विदुः जानन्ति । 'विदो लटो वा' इति विद उत्तरस्य झेरुसादेशः । तथा “ उरुचक्रयः विस्तीर्णस्य कर्मणः कर्तारः "अनेहसः अनाहन्तारो रक्षकास्ते "अंहोश्चित् आहननशीलात् पापादपि योतवे पृथक्कर्तुमस्मान् जानन्ति ॥ ॥ २५ ॥


अदि॑तिर्नो॒ दिवा॑ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः ।

अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा ॥६

अदि॑तिः । नः॒ । दिवा॑ । प॒शुम् । अदि॑तिः । नक्त॑म् । अद्व॑याः ।

अदि॑तिः । पा॒तु॒ । अंह॑सः । स॒दाऽवृ॑धा ॥६

अदितिः । नः । दिवा । पशुम् । अदितिः । नक्तम् । अद्वयाः ।

अदितिः । पातु । अंहसः । सदाऽवृधा ॥६

"नः अस्माकं "पशुम् "अदितिः अदीना अखण्डनीया वा देवमाता "दिवा अहनि "पातु रक्षतु । तथा "अद्वयाः बाह्याभ्यन्तरभेदेन प्रकारद्वयरहिता सर्वदैकप्रकारा कपटरहिता सा “अदितिः “नक्तं रात्रौ चास्मदीयं गवादिपशुजातं रक्षतु । तथास्मानपि “अंहसः पापात् पातु रक्षतु । केन साधनेन । “सदावृधा सर्वदा वृद्धिमतात्मीयेन रक्षणेन ॥


उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् ।

सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिध॑ः ॥७

उ॒त । स्या । नः॒ । दिवा॑ । म॒तिः । अदि॑तिः । ऊ॒त्या । आ । ग॒म॒त् ।

सा । शम्ऽता॑ति । मयः॑ । क॒र॒त् । अप॑ । स्रिधः॑ ॥७

उत । स्या । नः । दिवा । मतिः । अदितिः । ऊत्या । आ । गमत् ।

सा । शम्ऽताति । मयः । करत् । अप । स्रिधः ॥७

“उत अपि च "स्या सा पूर्वोक्ता "मतिः मन्त्री मन्तव्या स्तोतव्या वा “अदितिः “ऊत्या रक्षया सार्धं "दिवा अहनि “नः अस्मान् “आ “गमत् आगच्छतु । आगत्य च “शंताति शान्तिकरं “मयः सुखं "सा अदितिः “करत् करोतु । "स्रिधः बाधकाञ्छत्रूंश्चापगमयतु । स्रिधिर्बाधनार्थः । ‘ शिवशमरिष्टस्य करे ' (पा. सू. ४. ४. १४३) इति शंशब्दात्करणेऽर्थे तातिल्प्रत्ययः ।।


उ॒त त्या दैव्या॑ भि॒षजा॒ शं न॑ः करतो अ॒श्विना॑ ।

यु॒यु॒याता॑मि॒तो रपो॒ अप॒ स्रिध॑ः ॥८

उ॒त । त्या । दैव्या॑ । भि॒षजा॑ । शम् । नः॒ । क॒र॒तः॒ । अ॒श्विना॑ ।

यु॒यु॒याता॑म् । इ॒तः । रपः॑ । अप॑ । स्रिधः॑ ॥८

उत । त्या । दैव्या । भिषजा । शम् । नः । करतः । अश्विना ।

युयुयाताम् । इतः । रपः । अप । स्रिधः ॥८

“उत अपि च “त्या तौ प्रसिद्धौ "दैव्या देवेषु भवौ “भिषजा चिकित्सकौ ईदृशौ "अश्विना अश्विनौ "नः अस्माकं “शं सुखं रोगाणां शमनं वा "करतः कुरुताम् । “इतः अस्मत्तः "रपः पापं “युयुयातां पृथक्कुर्याताम् । "स्त्रिधः शत्रूंश्चापगमयताम् ॥


शम॒ग्निर॒ग्निभि॑ः कर॒च्छं न॑स्तपतु॒ सूर्य॑ः ।

शं वातो॑ वात्वर॒पा अप॒ स्रिध॑ः ॥९

शम् । अ॒ग्निः । अ॒ग्निऽभिः॑ । क॒र॒त् । शम् । नः॒ । त॒प॒तु॒ । सूर्यः॑ ।

शम् । वातः॑ । वा॒तु॒ । अ॒र॒पाः । अप॑ । स्रिधः॑ ॥९

शम् । अग्निः । अग्निऽभिः । करत् । शम् । नः । तपतु । सूर्यः ।

शम् । वातः । वातु । अरपाः । अप । स्रिधः ॥९

“अग्निभिः स्वविभूत्या विभिन्नैर्गार्हपत्यादिभिः “अग्निः देवः "शं "करत् अस्माकं रोगशान्तिं सुखं वा करोतु । "सूर्यः सर्वस्य प्रेरक आदित्यश्च "नः अस्माकं "शं सुखं यथा भवति तथा “तपतु प्रदीप्यताम् । "वातः वायुश्च “अरपाः अपापः सन् "शं यथा भवति तथा च "वातु अनुवर्तताम् । “स्रिधः शत्रूंश्चैतेऽग्न्यादयोऽपगमयन्तु ।।


अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिम् ।

आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः ॥१०

अप॑ । अमी॑वाम् । अप॑ । स्रिध॑म् । अप॑ । से॒ध॒त॒ । दुः॒ऽम॒तिम् ।

आदि॑त्यासः । यु॒योत॑न । नः॒ । अंह॑सः ॥१०

अप । अमीवाम् । अप । स्रिधम् । अप । सेधत । दुःऽमतिम् ।

आदित्यासः । युयोतन । नः । अंहसः ॥१०

हे आदित्याः "अमीवां रोगम् "अप “सेधत अस्मत्तोऽपगमयत । "स्रिधं चापसेधकं शत्रुं च “अप सेधत । "दुर्मतिम् अस्माकं दुःखस्य मन्तारं च "अप सेधत । अपि च हे “आदित्यासः आदित्याः "नः अस्मान् "अंहसः पापात् "युयोतन पृथक्कुरुत । यौतेर्लोटि छान्दसः शपः श्लुः । ‘ तप्तनप्तनथनाश्च' इति तस्य तनबादेशः । पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । ‘ आमन्त्रितं पूर्वमविद्यमानवत् ' इति पूर्वस्यामन्त्रितस्याविद्यमानत्वेन पदादपरत्वान्निघातो न भवति ॥ ॥ २६ ॥


यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिम् ।

ऋध॒ग्द्वेष॑ः कृणुत विश्ववेदसः ॥११

यु॒योत॑ । शरु॑म् । अ॒स्मत् । आ । आदि॑त्यासः । उ॒त । अम॑तिम् ।

ऋध॑क् । द्वेषः॑ । कृ॒णु॒त॒ । वि॒श्व॒ऽवे॒द॒सः॒ ॥११

युयोत । शरुम् । अस्मत् । आ । आदित्यासः । उत । अमतिम् ।

ऋधक् । द्वेषः । कृणुत । विश्वऽवेदसः ॥११

हे आदित्याः "शरुं हिंसकम् "अस्मदा अस्मत्तश्च "युयोत पृथक्कुरुत । "उत अपि च “अमतिं दुर्बुद्धिं च पृथकुरुत । हे "विश्ववेदसः सर्वधनाः सर्वज्ञा वा "द्वेषः द्वेष्टॄञ्छत्रून् "ऋधक् पृथक् "कृणुत कुरुत । अस्मत्तो वियोजयत ।।


तत्सु न॒ः शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो॑चति ।

एन॑स्वन्तं चि॒देन॑सः सुदानवः ॥१२

तत् । सु । नः॒ । शर्म॑ । य॒च्छ॒त॒ । आदि॑त्याः । यत् । मुमो॑चति ।

एन॑स्वन्तम् । चि॒त् । एन॑सः । सु॒ऽदा॒न॒वः॒ ॥१२

तत् । सु । नः । शर्म । यच्छत । आदित्याः । यत् । मुमोचति ।

एनस्वन्तम् । चित् । एनसः । सुऽदानवः ॥१२

हे "आदित्याः "तत् "शर्म सुखं "नः अस्मभ्यं “सु सुष्ठु "यच्छत दत्त । हे "सुदानवः शोभनदानाः युष्मदीयं "यत् शर्म “एनस्वन्तं "चित् पापिनमपि स्तोतारम् “एनसः पापात् "मुमोचति मोचयति तद्यच्छतेत्यन्वयः ॥


यो न॒ः कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्य॑ः ।

स्वैः ष एवै॑ रिरिषीष्ट॒ युर्जन॑ः ॥१३

यः । नः॒ । कः । चि॒त् । रिरि॑क्षति । र॒क्षः॒ऽत्वेन॑ । मर्त्यः॑ ।

स्वैः । सः । एवैः॑ । रि॒रि॒षी॒ष्ट॒ । युः । जनः॑ ॥१३

यः । नः । कः । चित् । रिरिक्षति । रक्षःऽत्वेन । मर्त्यः ।

स्वैः । सः । एवैः । रिरिषीष्ट । युः । जनः ॥१३

“यः "कश्चित् "मर्त्यः मनुष्यः "नः अस्मान् "रक्षस्त्वेन रक्षोभावेन पिशाचाद्यात्मना “रिरिक्षति जिहिंसिषति । ‘रिष हिंसायाम्' इति धातुः । "सः मनुष्यः "स्वैः “एवैः आत्मीयैरेव चेष्टितैः "रिरिषीष्ट हिंसितो भूयात् । सः "जनः "युः यातापगमनशीलश्च भवतु । यद्वा । स जनः स्वैरेव गमनैर्युर्दुःखं गच्छन् हिंसितो भवतु ।।


समित्तम॒घम॑श्नवद्दु॒ःशंसं॒ मर्त्यं॑ रि॒पुम् ।

यो अ॑स्म॒त्रा दु॒र्हणा॑वाँ॒ उप॑ द्व॒युः ॥१४

सम् । इत् । तम् । अ॒घम् । अ॒श्न॒व॒त् । दुः॒ऽशंस॑म् । मर्त्य॑म् । रि॒पुम् ।

यः । अ॒स्म॒ऽत्रा । दुः॒ऽहना॑वान् । उप॑ । द्व॒युः ॥१४

सम् । इत् । तम् । अघम् । अश्नवत् । दुःऽशंसम् । मर्त्यम् । रिपुम् ।

यः । अस्मऽत्रा । दुःऽहनावान् । उप । द्वयुः ॥१४

“दुःशंसं दुष्कीर्तिं "रिपुं शत्रुं "तं "मर्त्यम् "इत् मनुष्यमेव "अघं पापं "सम् "अश्नवत् सम्यग्व्याप्नोतु । "यः मर्त्यः "अस्मत्रा अस्मासु अस्मद्विषये "दुर्हणावान् दुष्टहननवान् उपजायते "द्वयुः द्वाभ्यां प्रकाराभ्यां युक्तश्च भवति । अयमर्थः । प्रत्यक्षकृतो हितं वदति परोक्षकृतस्त्वहितम् । तादृशः कपटो द्वयुरित्युच्यते । यश्चास्मद्विषये कपटो भवति तमपि पापं व्याप्नोत्विति ॥


पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा॑नीथ॒ मर्त्य॑म् ।

उप॑ द्व॒युं चाद्व॑युं च वसवः ॥१५

पा॒क॒ऽत्रा । स्थ॒न॒ । दे॒वाः॒ । हृ॒त्ऽसु । जा॒नी॒थ॒ । मर्त्य॑म् ।

उप॑ । द्व॒युम् । च॒ । अद्व॑युम् । च॒ । व॒स॒वः॒ ॥१५

पाकऽत्रा । स्थन । देवाः । हृत्ऽसु । जानीथ । मर्त्यम् ।

उप । द्वयुम् । च । अद्वयुम् । च । वसवः ॥१५

हे "देवाः दानादिगुणयुक्ता आदित्या यूयं "पाकत्रा पाकेषु विपक्वप्रज्ञेषु स्तोतृषु "स्थन भवथ । यद्वा । प्रथमार्थे त्राप्रत्ययः । पाकत्रा पाकाः परिपक्वज्ञाना भवथ । यत एवमतः कारणात् "हृत्सु आत्मीयेषु हृदयेषु "द्वयुं द्विप्रकारयुक्तं कपटिनं च "अद्वयुं "च तद्विलक्षणं कापट्यरहितं च "मर्त्यं मनुष्यमुपेत्य हे "वसवः वासकाः “जानीथ अवगच्छथ ॥ ॥ २७ ॥


आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे ।

द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतम् ॥१६

आ । शर्म॑ । पर्व॑तानाम् । आ । उ॒त । अ॒पाम् । वृ॒णी॒म॒हे॒ ।

द्यावा॑क्षामा । आ॒रे । अ॒स्मत् । रपः॑ । कृ॒त॒म् ॥१६

आ । शर्म । पर्वतानाम् । आ । उत । अपाम् । वृणीमहे ।

द्यावाक्षामा । आरे । अस्मत् । रपः । कृतम् ॥१६

"पर्वतानां मेघानां गिरीणां वा संबन्धि “शर्म सुखं वयम् "आ "वृणीमहे आभिमुख्येन संभजामहे । "उत अपि च “अपाम् उदकानां च । है “द्यावाक्षामा द्यावापृथिव्यौ “अस्मत् “आरे अस्मत्तो विप्रकृष्टे देशे "रपः पापं "कृतं कुरुतम् । अस्मत्तो वियोजयतमित्यर्थः ॥


ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ ना॒वा व॑सवः ।

अति॒ विश्वा॑नि दुरि॒ता पि॑पर्तन ॥१७

ते । नः॒ । भ॒द्रेण॑ । शर्म॑णा । यु॒ष्माक॑म् । ना॒वा । व॒स॒वः॒ ।

अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । पि॒प॒र्त॒न॒ ॥१७

ते । नः । भद्रेण । शर्मणा । युष्माकम् । नावा । वसवः ।

अति । विश्वानि । दुःऽइता । पिपर्तन ॥१७

हे ”वसवः वासयितारः आदित्याः “ते पूर्वोक्तगुणा यूयं "भद्रेण शोभनेन "शर्मणा सुखेन "युष्माकं “नावा "नः अस्मान् "विश्वानि सर्वाणि "दुरिता दुर्गमनानि "अति "पिपर्तन पिपृत अतिपारयत ।


तु॒चे तना॑य॒ तत्सु नो॒ द्राघी॑य॒ आयु॑र्जी॒वसे॑ ।

आदि॑त्यासः सुमहसः कृ॒णोत॑न ॥१८

तु॒चे । तना॑य । तत् । सु । नः॒ । द्राघी॑यः । आयुः॑ । जी॒वसे॑ ।

आदि॑त्यासः । सु॒ऽम॒ह॒सः॒ । कृ॒णोत॑न ॥१८

तुचे । तनाय । तत् । सु । नः । द्राघीयः । आयुः । जीवसे ।

आदित्यासः । सुऽमहसः । कृणोतन ॥१८

हे "आदित्यासः अदितेः पुत्राः "सुमहसः शोभनतेजस्काः "नः अस्माकं "तुचे पुत्राय “तनाय तत्तनयाय पौत्राय च "जीवसे जीवनाय "द्राघीयः दीर्घतमं "तत् प्रसिद्धम् "आयुः जीवितं "सु सुष्ठु “कृणोतन कुरुत ॥


य॒ज्ञो ही॒ळो वो॒ अन्त॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑ ।

यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑ ॥१९

य॒ज्ञः । ही॒ळः । वः॒ । अन्त॑रः । आदि॑त्याः । अस्ति॑ । मृ॒ळत॑ ।

यु॒ष्मे इति॑ । इत् । वः॒ । अपि॑ । स्म॒सि॒ । स॒ऽजा॒त्ये॑ ॥१९

यज्ञः । हीळः । वः । अन्तरः । आदित्याः । अस्ति । मृळत ।

युष्मे इति । इत् । वः । अपि । स्मसि । सऽजात्ये ॥१९

हे "आदित्याः "हीळः । हीडिर्गत्यर्थः । गन्तव्यः प्राप्तव्योऽस्माभिरनुष्ठितः "यज्ञः "वः युष्माकम् "अन्तरः "अस्ति अन्तिके वर्तमानो भवति । अतोऽस्मान् "मृळत सुखयत । "वः युष्माकं “सजात्ये सजातत्वे ज्ञातित्वे बान्धवे वर्तमाना वयं "युष्मे "इत् युष्मास्वेव “अपि "स्मसि सर्वदा भवामोऽपि । इदन्तो मसिः ॥


बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑ ।

मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑ ॥२०

बृ॒हत् । वरू॑थम् । म॒रुता॑म् । दे॒वम् । त्रा॒तार॑म् । अ॒श्विना॑ ।

मि॒त्रम् । ई॒म॒हे॒ । वरु॑णम् । स्व॒स्तये॑ ॥२०

बृहत् । वरूथम् । मरुताम् । देवम् । त्रातारम् । अश्विना ।

मित्रम् । ईमहे । वरुणम् । स्वस्तये ॥२०

“मरुतां देवानां स्वामिनां “त्रातारं पालयितारं “देवम् इन्द्रम् “अश्विना अश्विनौ च "मित्रं “वरुणं च "बृहत् प्रौढं “वरूथं शीतातपादिनिवारकं गृहं “स्वस्तये अविनाशाय "ईमहे याचामहे ॥


अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्य॑म् ।

त्रि॒वरू॑थं मरुतो यन्त नश्छ॒र्दिः ॥२१

अ॒ने॒हः । मि॒त्र॒ । अ॒र्य॒म॒न् । नृ॒ऽवत् । व॒रु॒ण॒ । शंस्य॑म् ।

त्रि॒ऽवरू॑थम् । म॒रु॒तः॒ । य॒न्त॒ । नः॒ । छ॒र्दिः ॥२१

अनेहः । मित्र । अर्यमन् । नृऽवत् । वरुण । शंस्यम् ।

त्रिऽवरूथम् । मरुतः । यन्त । नः । छर्दिः ॥२१

हे “मित्र हे “अर्यमन् हे “वरुण हे "मरुतः ते सर्वे यूयम् “अनेहः अहिंसितं “नृवत् नृभिः पुत्रादिभिरुपेतं "शंस्यं स्तुत्यं “त्रिवरूथं त्रयाणां शीतातपवर्षाणां निवारकं यद्वा त्रिभूमिकं “छर्दिः गृहं "नः अस्मभ्यं “यन्त यच्छत दत्तेत्यर्थः ।।


ये चि॒द्धि मृ॒त्युब॑न्धव॒ आदि॑त्या॒ मन॑व॒ः स्मसि॑ ।

प्र सू न॒ आयु॑र्जी॒वसे॑ तिरेतन ॥२२

ये । चि॒त् । हि । मृ॒त्युऽब॑न्धवः । आदि॑त्याः । मन॑वः । स्मसि॑ ।

प्र । सु । नः॒ । आयुः॑ । जी॒वसे॑ । ति॒रे॒त॒न॒ ॥२२

ये । चित् । हि । मृत्युऽबन्धवः । आदित्याः । मनवः । स्मसि ।

प्र । सु । नः । आयुः । जीवसे । तिरेतन ॥२२

हे "आदित्याः “ये “चित् ये च वयं “मनवः मनुष्याः “हि यस्मात् “मृत्युबन्धवः “स्मसि मृत्योर्यमस्य बन्धुभूताः प्रत्यासन्नमरणा भवामः अतो हेतोस्तेषां “नः अस्माकं “जीवसे जीवनाय चिरकालावस्थानाय "आयुः जीवितं “सु “प्र “तिरेतन शोभनं प्रवर्धयत ॥ ॥ २८ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१८&oldid=201590" इत्यस्माद् पुनः प्राप्तिः