ऋग्वेदः सूक्तं ८.७१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.७० ऋग्वेदः - मण्डल ८
सूक्तं ८.७१
सुदीति-पुरुमीळ्हावाङ्गिरसौ, तयोर्वान्यतरः।
सूक्तं ८.७२ →
दे. अग्निः । गायत्री, १०-१५ प्रगाथः ( )।


त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः ।
उत द्विषो मर्त्यस्य ॥१॥
नहि मन्युः पौरुषेय ईशे हि वः प्रियजात ।
त्वमिदसि क्षपावान् ॥२॥
स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे ।
रयिं देहि विश्ववारम् ॥३॥
न तमग्ने अरातयो मर्तं युवन्त रायः ।
यं त्रायसे दाश्वांसम् ॥४॥
यं त्वं विप्र मेधसातावग्ने हिनोषि धनाय ।
स तवोती गोषु गन्ता ॥५॥
त्वं रयिं पुरुवीरमग्ने दाशुषे मर्ताय ।
प्र णो नय वस्यो अच्छ ॥६॥
उरुष्या णो मा परा दा अघायते जातवेदः ।
दुराध्ये मर्ताय ॥७॥
अग्ने माकिष्टे देवस्य रातिमदेवो युयोत ।
त्वमीशिषे वसूनाम् ॥८॥
स नो वस्व उप मास्यूर्जो नपान्माहिनस्य ।
सखे वसो जरितृभ्यः ॥९॥
अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् ।
अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥१०॥
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् ।
द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥११॥
अग्निं वो देवयज्ययाग्निं प्रयत्यध्वरे ।
अग्निं धीषु प्रथममग्निमर्वत्यग्निं क्षैत्राय साधसे ॥१२॥
अग्निरिषां सख्ये ददातु न ईशे यो वार्याणाम् ।
अग्निं तोके तनये शश्वदीमहे वसुं सन्तं तनूपाम् ॥१३॥
अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम् ।
अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥१४॥
अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे ।
विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुरृषूणाम् ॥१५॥


सायणभाष्यम्

‘त्वं नो अग्ने ' इति पञ्चदशर्चं द्वितीयं सूक्तम् । सुदीतिपुरुमीळ्हावृषी तयोरन्यतरो वा । आदौ नव गायत्र्यो दशमीद्वादशीचतुर्दश्यो बृहत्य एकादशीत्रयोदशीपञ्चदश्यः सतोबृहत्यः । अग्निर्देवता । तथा चानुक्रान्तं - त्वं नः सुदीतिपुरुमीळ्हौ तयोर्वान्यतर आग्नेयं तु त्रिप्रगाथान्तम् ' इति । प्रातरनुवाक आग्नेये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चादितो नवर्चः। तथा च सूत्रितं -- त्वं नो अग्ने महोभिरिति नव ' (आश्व. श्रौ. ४. १३) इति ॥


त्वं नो॑ अग्ने॒ महो॑भिः पा॒हि विश्व॑स्या॒ अरा॑तेः ।

उ॒त द्वि॒षो मर्त्य॑स्य ॥१

त्वम् । नः॒ । अ॒ग्ने॒ । महः॑ऽभिः । पा॒हि । विश्व॑स्याः । अरा॑तेः ।

उ॒त । द्वि॒षः । मर्त्य॑स्य ॥१

त्वम् । नः । अग्ने । महःऽभिः । पाहि । विश्वस्याः । अरातेः ।

उत । द्विषः । मर्त्यस्य ॥१

हे “अग्ने “त्वं “नः अस्मान् “महोभिः पूजाभिर्महद्भिर्धनैर्वा “पाहि रक्ष। “विश्वस्याः बहुविधात् “अरातेः अदातुः सकाशात् अदानाद्वा पाहि। त्वमेव महद्धनं दत्त्वादातुरदानाद्वा सकाशाद्रक्षेत्यर्थः । यद्वा । महोभिर्युक्तस्त्वमिति योज्यम् । “उत अपि च “द्विषः द्वेष्टुः मर्त्यस्य मर्त्यात् सकाशात् पाहि । अस्मभ्यं बलं दत्त्वेति भावः । अथवा मर्त्यस्य द्विषो द्वेषाद्रक्षेति संबन्धः। अरातेरित्यस्यादानादिति पक्षे तत्रापि मर्त्यस्यादानादिति संबन्धनीयम् ॥


न॒हि म॒न्युः पौरु॑षेय॒ ईशे॒ हि व॑ः प्रियजात ।

त्वमिद॑सि॒ क्षपा॑वान् ॥२

न॒हि । म॒न्युः । पौरु॑षेयः । ईशे॑ । हि । वः॒ । प्रि॒य॒ऽजा॒त॒ ।

त्वम् । इत् । अ॒सि॒ । क्षपा॑ऽवान् ॥२

नहि । मन्युः । पौरुषेयः । ईशे । हि । वः । प्रियऽजात ।

त्वम् । इत् । असि । क्षपाऽवान् ॥२

हे “प्रियजात अग्ने “वः तव “पौरुषेयः पुरुषसंवन्धी “मन्युः क्रोधः "न “ईशे नेष्टे बाधितुम् । अस्मदादिभी रक्षितत्वादिति भावः । दिवाचराः खलु पुरुषाः अतो दिवा तव हानिर्नास्तीति भावः । अथ रात्रिंचरा रक्षःप्रभृतयः । तेभ्योऽपि पीडा नास्तीत्युच्यते । “त्वमित् त्वमेव खलु “क्षपावान् रात्रिमान् “असि । रात्रौ ह्यग्निर्विशेषेण तेजस्वी भवति ॥


स नो॒ विश्वे॑भिर्दे॒वेभि॒रूर्जो॑ नपा॒द्भद्र॑शोचे ।

र॒यिं दे॑हि वि॒श्ववा॑रम् ॥३

सः । नः॒ । विश्वे॑भिः । दे॒वेभिः॑ । ऊर्जः॑ । न॒पा॒त् । भद्र॑ऽशोचे ।

र॒यिम् । दे॒हि॒ । वि॒श्वऽवा॑रम् ॥३

सः । नः । विश्वेभिः । देवेभिः । ऊर्जः । नपात् । भद्रऽशोचे ।

रयिम् । देहि । विश्वऽवारम् ॥३

हे अग्ने “सः स्तुत्यस्त्वं “नः अस्मभ्यं वस्वो वसु धनमुप मासि प्रयच्छसि । हे “ऊर्जो “नपात् बलस्य नप्तर्न पातयितर्वा हे “भद्रशोचे स्तुत्यप्रकाश । तदेवादरार्थं पुनराह। “रयिं धनं “विश्ववारं सर्वैर्वरणीयं धनं “देहि । अथवा यद्वसूप मासि अस्मभ्यं दातुं तद्धनं गृहादिलक्षणं तच्च रयिं दानार्हं गोहिरण्यादिकं च देहीत्यपुनरुक्तिः ॥ ।


न तम॑ग्ने॒ अरा॑तयो॒ मर्तं॑ युवन्त रा॒यः ।

यं त्राय॑से दा॒श्वांस॑म् ॥४

न । तम् । अ॒ग्ने॒ । अरा॑तयः । मर्त॑म् । यु॒व॒न्त॒ । रा॒यः ।

यम् । त्राय॑से । दा॒श्वांस॑म् ॥४

न । तम् । अग्ने । अरातयः । मर्तम् । युवन्त । रायः ।

यम् । त्रायसे । दाश्वांसम् ॥४

हे अग्ने “तं स्तोतारम् “अरातयः अदानशीला द्वेषिणः “रायः रयिमन्तः “न “युवन्त न पृथक्कुर्वन्ति । रायो धनाद्वा न युवन्त । “यं "दाश्वांसं हविर्दातारं “त्रायसे पालयसे ॥


यं त्वं वि॑प्र मे॒धसा॑ता॒वग्ने॑ हि॒नोषि॒ धना॑य ।

स तवो॒ती गोषु॒ गन्ता॑ ॥५

यम् । त्वम् । वि॒प्र॒ । मे॒धऽसा॑तौ । अग्ने॑ । हि॒नोषि॑ । धना॑य ।

सः । तव॑ । ऊ॒ती । गोषु॑ । गन्ता॑ ॥५

यम् । त्वम् । विप्र । मेधऽसातौ । अग्ने । हिनोषि । धनाय ।

सः । तव । ऊती । गोषु । गन्ता ॥५

हे “अग्ने “विप्र “त्वं “यं मर्यंन "मेधसातौ यज्ञस्य संभजने “हिनोषि प्रेरयसि “धनाय गवादिधनलाभाय “सः यजमानः “तव “ऊती ऊत्या रक्षणेन “गोषु “गन्ता भवति । गोमान् भवतीत्यर्थः ॥ ॥ ११ ॥


त्वं र॒यिं पु॑रु॒वीर॒मग्ने॑ दा॒शुषे॒ मर्ता॑य ।

प्र णो॑ नय॒ वस्यो॒ अच्छ॑ ॥६

त्वम् । र॒यिम् । पु॒रु॒ऽवीर॑म् । अग्ने॑ । दा॒शुषे॑ । मर्ता॑य ।

प्र । नः॒ । न॒य॒ । वस्यः॑ । अच्छ॑ ॥६

त्वम् । रयिम् । पुरुऽवीरम् । अग्ने । दाशुषे । मर्ताय ।

प्र । नः । नय । वस्यः । अच्छ ॥६

हे “अग्ने “त्वं “दाशुषे हविर्दत्तवते मर्त्याय यजमानाय “रयिं धनं “पुरुवीरं बहुभिर्वीरैर्युक्तं प्रयच्छसि । अतः “नः अस्मानपि “वस्यः वसीयो धनम् "अच्छ अभिप्राप्तुं "प्र “णय प्रापय ।।


उ॒रु॒ष्या णो॒ मा परा॑ दा अघाय॒ते जा॑तवेदः ।

दु॒रा॒ध्ये॒३॒॑ मर्ता॑य ॥७

उ॒रु॒ष्य । नः॒ । मा । परा॑ । दाः॒ । अ॒घ॒ऽय॒ते । जा॒त॒ऽवे॒दः॒ ।

दुः॒ऽआ॒ध्ये॑ । मर्ता॑य ॥७

उरुष्य । नः । मा । परा । दाः । अघऽयते । जातऽवेदः ।

दुःऽआध्ये । मर्ताय ॥७

हे “जातवेदः जातविद्य जातधन वाग्ने “नः अस्मान् “उरुष्य रक्ष। 'उरुष्यती रक्षाकर्मा' (निरु. ५. २३) इति यास्कः । “मा “परा “दाः मा परादेह्यस्मान् । कस्मा इति स उच्यते । “अघायते अघं पापमिच्छते “दुराध्ये दुराध्यानाय दुर्विचिन्तकाय हिंसाबुद्धये “मर्ताय मनुष्याय ।।


अग्ने॒ माकि॑ष्टे दे॒वस्य॑ रा॒तिमदे॑वो युयोत ।

त्वमी॑शिषे॒ वसू॑नाम् ॥८

अग्ने॑ । माकिः॑ । ते॒ । दे॒वस्य॑ । रा॒तिम् । अदे॑वः । यु॒यो॒त॒ ।

त्वम् । ई॒शि॒षे॒ । वसू॑नाम् ॥८

अग्ने । माकिः । ते । देवस्य । रातिम् । अदेवः । युयोत ।

त्वम् । ईशिषे । वसूनाम् ॥८

हे “अग्ने “देवस्य द्योतमानस्य “ते तव “रातिं दानं दत्तं धनं वा कश्चित् “अदेवः मर्त्यादिः “माकिः "युयोत मैव पृथक्करोतु । “त्वम् एव “ईशिषे । कस्य । “वसूनां धनानामीश्वरो भवसि दातुम् । अनेनामिश्रणीयाया रातेः सद्भाव उक्तो भवति ।।


स नो॒ वस्व॒ उप॑ मा॒स्यूर्जो॑ नपा॒न्माहि॑नस्य ।

सखे॑ वसो जरि॒तृभ्य॑ः ॥९

सः । नः॒ । वस्वः॑ । उप॑ । मा॒सि॒ । ऊर्जः॑ । न॒पा॒त् । माहि॑नस्य ।

सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ ॥९

सः । नः । वस्वः । उप । मासि । ऊर्जः । नपात् । माहिनस्य ।

सखे । वसो इति । जरितृऽभ्यः ॥९

हे “ऊर्जो “नपात् बलस्यान्नस्य पुत्र । बलेन मध्यमानत्वादाज्यलक्षणेनान्नेन प्रवर्धनादूर्जोनपात्त्वम् । हे “सखे सखिवद्धितकारिन् “वसो वासकाग्ने “सः स्तुत्यत्वेनैव प्रसिद्धस्त्वं “जरितृभ्यः गरितृभ्यः स्तोतृभ्यः “नः अस्मभ्यं “माहिनस्य “वस्वः । माहिन इति महन्नाम । महद्धनम् “उप “मासि समीपे मासि निर्मासि । प्रयच्छसीत्यर्थः ॥


प्रातरनुवाके बार्हते छन्दसि ‘अच्छा नः' इत्याद्याः षडृचः । तथा च सूत्रितम् -- अच्छा नः शीरशोचिषमिति षट् ' ( आश्व. श्रौ. ४.१३) इति । दशमेऽहनि प्रातःसवने अच्छा वो अग्निम् ' इति तृचस्य स्थाने ' अच्छा नः' इति तृचोऽच्छावाकवादः । सूत्रितं च --- अच्छा नः शीरशोचिषं प्रति श्रुताय वो धृषदिति तृचौ ' (आश्व. श्रौ. ८.१२) इति ॥

अच्छा॑ नः शी॒रशो॑चिषं॒ गिरो॑ यन्तु दर्श॒तम् ।

अच्छा॑ य॒ज्ञासो॒ नम॑सा पुरू॒वसुं॑ पुरुप्रश॒स्तमू॒तये॑ ॥१०

अच्छ॑ । नः॒ । शी॒रऽशो॑चिषम् । गिरः॑ । य॒न्तु॒ । द॒र्श॒तम् ।

अच्छ॑ । य॒ज्ञासः॑ । नम॑सा । पु॒रु॒ऽवसु॑म् । पु॒रु॒ऽप्र॒श॒स्तम् । ऊ॒तये॑ ॥१०

अच्छ । नः । शीरऽशोचिषम् । गिरः । यन्तु । दर्शतम् ।

अच्छ । यज्ञासः । नमसा । पुरुऽवसुम् । पुरुऽप्रशस्तम् । ऊतये ॥१०

“अच्छ अभिमुखं “यन्तु गच्छन्तु “नः अस्माकं “गिरः स्तुतयः । कम् । “शीरशोचिषम् अशनशीलज्वालं “दर्शतं सर्वैर्दर्शनीयमग्निम् । तथा “यज्ञासः यज्ञाश्चास्मदीयाः “नमसा हविषाज्यादिलक्षणेन “अच्छ अभिमुखं यन्तु गच्छन्तु । कीदृशम् । “पुरुवसुं प्रभूतधनं “पुरुप्रशस्तं बहुस्तुतम् । किमर्थम् । “ऊतये अस्माकं रक्षणाय ॥ ॥ १२ ॥


अ॒ग्निं सू॒नुं सह॑सो जा॒तवे॑दसं दा॒नाय॒ वार्या॑णाम् ।

द्वि॒ता यो भूद॒मृतो॒ मर्त्ये॒ष्वा होता॑ म॒न्द्रत॑मो वि॒शि ॥११

अ॒ग्निम् । सू॒नुम् । सह॑सः । जा॒तऽवे॑दसम् । दा॒नाय॑ । वार्या॑णाम् ।

द्वि॒ता । यः । भूत् । अ॒मृतः॑ । मर्त्ये॑षु । आ । होता॑ । म॒न्द्रऽत॑मः । वि॒शि ॥११

अग्निम् । सूनुम् । सहसः । जातऽवेदसम् । दानाय । वार्याणाम् ।

द्विता । यः । भूत् । अमृतः । मर्त्येषु । आ । होता । मन्द्रऽतमः । विशि ॥११

“अग्निं “सहसः “सूनुं बलस्य पुत्रं “जातवेदसं जातधनं “वार्याणां वरणीयानां गवादिधनानां “दानाय गिरः अच्छ यन्त्वित्यनुवर्तते । “यः अग्निः “अमृतः अमरणधर्मा देवेषु भवति सः “मर्त्येष्वा । आकारश्चार्थे । मनुष्येषु चाभूत् अभवदित्येवं “द्विता द्वैधं भवति । देवेष्वमृतत्वमस्य प्रसिद्धं मनुष्येषु कीदृशोऽभूदिति उच्यते । “विशि विक्षु यजमानरूपासु प्रजासु “होता होमनिष्पादकः “मन्द्रतमः मादयितृतमश्च भवति । अच्छ यन्विति समन्वयः । अथवा योऽमृतो द्विता द्वित्वं द्वैधं द्विप्रकारोऽभूत् । कथम् । मर्त्येषु सामान्येन दाहपाकादिसाधनोऽभवदित्येतत् प्रसिद्धं विशि यजमानरूपायां तु होता मन्द्रतमः अभवदित्येवं द्वित्वम् ।


अ॒ग्निं वो॑ देवय॒ज्यया॒ग्निं प्र॑य॒त्य॑ध्व॒रे ।

अ॒ग्निं धी॒षु प्र॑थ॒मम॒ग्निमर्व॑त्य॒ग्निं क्षैत्रा॑य॒ साध॑से ॥१२

अ॒ग्निम् । वः॒ । दे॒व॒ऽय॒ज्यया॑ । अ॒ग्निम् । प्र॒ऽय॒ति । अ॒ध्व॒रे ।

अ॒ग्निम् । धी॒षु । प्र॒थ॒मम् । अ॒ग्निम् । अर्व॑ति । अ॒ग्निम् । क्षैत्रा॑य । साध॑से ॥१२

अग्निम् । वः । देवऽयज्यया । अग्निम् । प्रऽयति । अध्वरे ।

अग्निम् । धीषु । प्रथमम् । अग्निम् । अर्वति । अग्निम् । क्षैत्राय । साधसे ॥१२

हे यजमानाः युष्माकं “देवयज्यया देवयागेन निमित्तेन देवयागार्थम् “अग्निं स्तौमीति शेषः । तथा “अग्निम् “अध्वरे यागे “प्रयति प्रकर्षेण गच्छति प्रवृत्ते सति स्तौमि “प्रथमम् इतरदेवेभ्यः । तथा “अग्निम् “अर्वति आगते भ्रातृव्ये स्तौमि यज्ञविघ्नपरिहारार्थम् । तथा “क्षैत्राय क्षेत्राय क्षेत्रसंबन्धिने “साधसे साधनाय क्षेत्रलाभाय स्तौमि । यज्ञान्ते क्षेत्रलाभरूपाय फलाय च स्तौमि । एवमादौ मध्येऽन्ते च सर्वदा स्तौमीत्यर्थः ॥


अ॒ग्निरि॒षां स॒ख्ये द॑दातु न॒ ईशे॒ यो वार्या॑णाम् ।

अ॒ग्निं तो॒के तन॑ये॒ शश्व॑दीमहे॒ वसुं॒ सन्तं॑ तनू॒पाम् ॥१३

अ॒ग्निः । इ॒षाम् । स॒ख्ये । द॒दा॒तु॒ । नः॒ । ईशे॑ । यः । वार्या॑णाम् ।

अ॒ग्निम् । तो॒के । तन॑ये । शश्व॑त् । ई॒म॒हे॒ । वसु॑म् । सन्त॑म् । त॒नू॒ऽपाम् ॥१३

अग्निः । इषाम् । सख्ये । ददातु । नः । ईशे । यः । वार्याणाम् ।

अग्निम् । तोके । तनये । शश्वत् । ईमहे । वसुम् । सन्तम् । तनूऽपाम् ॥१३

“अग्निः देवः “सख्ये समानख्यानाय “नः मह्यम् । सख्युः कर्म सख्यम् । तस्मिन् वा । नोऽस्मभ्यम् “इषाम् इषोऽन्नानि “ददातु । "यः अग्निः “वार्याणां धनानाम् “ईशे ईष्टे स ददात्विति । तमेव “अग्निं "तोके पुत्रार्थं “तनये तत्पुत्रार्थं च “शश्वत् बहु धनमन्नं वा “ईमहे याचामहे । वार्याणामीश इत्युक्तत्वादेवं लभ्यते । कीदृशमग्निम् । “वसुं वासकं “सन्तं सर्वदा वर्तमानं “तनूपाम् अङ्गानां पालयितारम् ॥


अ॒ग्निमी॑ळि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषम् ।

अ॒ग्निं रा॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥१४

अ॒ग्निम् । ई॒ळि॒ष्व॒ । अव॑से । गाथा॑भिः । शी॒रऽशो॑चिषम् ।

अ॒ग्निम् । रा॒ये । पु॒रु॒ऽमी॒ळ्ह॒ । श्रु॒तम् । नरः॑ । अ॒ग्निम् । सु॒ऽदी॒तये॑ । छ॒र्दिः ॥१४

अग्निम् । ईळिष्व । अवसे । गाथाभिः । शीरऽशोचिषम् ।

अग्निम् । राये । पुरुऽमीळ्ह । श्रुतम् । नरः । अग्निम् । सुऽदीतये । छर्दिः ॥१४

हे “पुरुमीळ्ह त्वम् “अग्निम् “अवसे आवयो रक्षणाय “ईळिष्व स्तुहि "गाथाभिः । गाथेति वाङ्नाम । मन्त्ररूपाभिर्वाग्भिः । कीदृशम् । “शीरशोचिषं शयनस्वभावरोचिष्कम् । तथा “राये धनाय ईळिष्व । “श्रुतम् एनं “नरः अन्येऽपि यजमानाः स्तुवन्ति स्वार्थम् । तस्मात् “सुदीतये मह्यम् “अग्निं “छर्दिः गृहं याचस्वेत्येवं सुदीतिः पुरुमीळ्हं ब्रूते ।।


अ॒ग्निं द्वेषो॒ योत॒वै नो॑ गृणीमस्य॒ग्निं शं योश्च॒ दात॑वे ।

विश्वा॑सु वि॒क्ष्व॑वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु॑रृषू॒णाम् ॥१५

अ॒ग्निम् । द्वेषः॑ । योत॒वै । नः॒ । गृ॒णी॒म॒सि॒ । अ॒ग्निम् । शम् । योः । च॒ । दात॑वे ।

विश्वा॑सु । वि॒क्षु । अ॒वि॒ताऽइ॑व । हव्यः॑ । भुव॑त् । वस्तुः॑ । ऋ॒षू॒णाम् ॥१५

अग्निम् । द्वेषः । योतवै । नः । गृणीमसि । अग्निम् । शम् । योः । च । दातवे ।

विश्वासु । विक्षु । अविताऽइव । हव्यः । भुवत् । वस्तुः । ऋषूणाम् ॥१५

“अग्निं “नः अस्माकं “द्वेषः द्वेष्टॄन् “योतवै पृथक्कर्तुं “गृणीमसि गृणीमः स्तुमः । तथा “अग्निं “शं सुखं "योश्च भयानाममिश्रणं च “दातवे दातुम् । अथवा शं सुखस्य योर्मिश्रणाय च गृणीमसि । अस्मिन् पक्षे द्वेषो योतवा इत्यनेन सह समुच्चयार्थश्चशब्दः । सोऽग्निः “विश्वासु सर्वासु “विक्षु प्रजासु “अवितेव रक्षिता राजेव “ऋषूणाम् ऋषीणामस्माकं “वस्तुः वासको देवः "हव्यो “भुवत् भवतु । अथवा सर्वासु विक्षु यजमानरूपासु प्रजासु मध्य ऋषूणामृषीणां सूक्तद्रष्टॄणामस्माकमेव हव्यो भवतु वस्तुः सर्वस्य वासको देवः ॥ ॥ १३ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.७१&oldid=201930" इत्यस्माद् पुनः प्राप्तिः