ऋग्वेदः सूक्तं ८.८३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.८२ ऋग्वेदः - मण्डल ८
सूक्तं ८.८३
कुसीदी काण्वः।
सूक्तं ८.८४ →
दे. विश्वे देवाः। गायत्री।


देवानामिदवो महत्तदा वृणीमहे वयम् ।
वृष्णामस्मभ्यमूतये ॥१॥
ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा ।
वृधासश्च प्रचेतसः ॥२॥
अति नो विष्पिता पुरु नौभिरपो न पर्षथ ।
यूयमृतस्य रथ्यः ॥३॥
वामं नो अस्त्वर्यमन्वामं वरुण शंस्यम् ।
वामं ह्यावृणीमहे ॥४॥
वामस्य हि प्रचेतस ईशानाशो रिशादसः ।
नेमादित्या अघस्य यत् ॥५॥
वयमिद्वः सुदानवः क्षियन्तो यान्तो अध्वन्ना ।
देवा वृधाय हूमहे ॥६॥
अधि न इन्द्रैषां विष्णो सजात्यानाम् ।
इता मरुतो अश्विना ॥७॥
प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या ।
मातुर्गर्भे भरामहे ॥८॥
यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
अधा चिद्व उत ब्रुवे ॥९॥


सायणभाष्यम्

‘देवानाम्' इति नवर्चं तृतीयं सूक्तं काण्वस्य कुसीदिन आर्षं गायत्रं वैश्वदेवम् । तथा चानुक्रम्यते - ' देवानां वैश्वदेवम् ' इति । दशरात्रेऽष्टमेऽहनि वैश्वदेवशस्त्र इदं सूक्तं वैश्वदेवनिविद्धानम् । सूत्रितं च -- देवानामिदव इति वैश्वदेवम् ' ( आश्व. श्रौ. ८. १०) इति ।


दे॒वाना॒मिदवो॑ म॒हत्तदा वृ॑णीमहे व॒यम् ।

वृष्णा॑म॒स्मभ्य॑मू॒तये॑ ॥१

दे॒वाना॑म् । इत् । अवः॑ । म॒हत् । तत् । आ । वृ॒णी॒म॒हे॒ । व॒यम् ।

वृष्णा॑म् । अ॒स्मभ्य॑म् । ऊ॒तये॑ ॥१

देवानाम् । इत् । अवः । महत् । तत् । आ । वृणीमहे । वयम् ।

वृष्णाम् । अस्मभ्यम् । ऊतये ॥१

हे देवाः "देवानां स्वतेजसा सर्वतो दीप्यमानानाम् । "इत् एवार्थे । युष्माकमेव "महत् व्याप्तं महनीयं वा “अवः पालनं यद्विद्यते तत् "वृष्णां कामानां वर्षितॄणां युष्माकं स्वभूतं "तत् रक्षणं यजमानाः "वयम् "आ "वृणीमहे समन्तात्संभजामहे । किमर्थम् । "अस्मभ्यमूतये । पूर्वमस्मभ्यमस्मदर्थमिति साधारण्येनोक्त्वा तद्विशिनष्टि ऊतय इति । अस्माकं पालनायेति ॥


ते न॑ः सन्तु॒ युज॒ः सदा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

वृ॒धास॑श्च॒ प्रचे॑तसः ॥२

ते । नः॒ । स॒न्तु॒ । युजः॑ । सदा॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

वृ॒धासः॑ । च॒ । प्रऽचे॑तसः ॥२

ते । नः । सन्तु । युजः । सदा । वरुणः । मित्रः । अर्यमा ।

वृधासः । च । प्रऽचेतसः ॥२

“ते देवाः "वरुणः शत्रूणां निवारकः "मित्रः सर्वेषां मित्रभूतः "अर्यमा सततं गच्छन् एतन्नामकास्ते त्रयो देवाः "सदा सर्वदा सर्वेषु कालेषु "नः अस्माकं "युजः सहायाः "सन्तु भवन्तु । अग्निहोत्रादिकर्मणि इन्द्रादिदेवाः सहागमनादियज्ञपरिसमापनान्तेषु साहाय्यं कुर्वन्त्वित्यर्थः । ततः “प्रचेतसः प्रकृष्टज्ञानाः । यद्वा । चेतः स्तोत्रम् । शोभनस्तुतयः। ते देवाः "वृधासः वर्धकाः “च अस्माकं धनादिदानेन वर्धयितारश्च सन्तु ॥


अति॑ नो विष्पि॒ता पु॒रु नौ॒भिर॒पो न प॑र्षथ ।

यू॒यमृ॒तस्य॑ रथ्यः ॥३

अति॑ । नः॒ । वि॒ष्पि॒ता । पु॒रु । नौ॒भिः । अ॒पः । न । प॒र्ष॒थ॒ ।

यू॒यम् । ऋ॒तस्य॑ । र॒थ्यः॒ ॥३

अति । नः । विष्पिता । पुरु । नौभिः । अपः । न । पर्षथ ।

यूयम् । ऋतस्य । रथ्यः ॥३

“ऋतस्य सत्यस्य यज्ञस्य वा हे "रथ्यः नेतारो देवाः। यद्वा । ऋतस्येति संबन्धि--- त्वात्कर्ताक्षिप्यते । यज्ञस्य साधका हे रथ्यो रथवन्तो देवाः “विष्पिता विष्पितानि विप्राप्तानि विततानि “पुरु । सुपो लुक् । पुरूणि बहूनि शत्रुबलानि कर्माणि वा “नः अस्मान् “अति “पर्षथ पारं समाप्तिं रक्षणैर्गमयत । तत्र दृष्टान्तः। "नौभिरपो “न । यथा नाविकोऽप उदकानि नौभिर्जनास्तीरं प्रति प्रापयति तद्वत् ॥


वा॒मं नो॑ अस्त्वर्यमन्वा॒मं व॑रुण॒ शंस्य॑म् ।

वा॒मं ह्या॑वृणी॒महे॑ ॥४

वा॒मम् । नः॒ । अ॒स्तु॒ । अ॒र्य॒म॒न् । वा॒मम् । व॒रु॒ण॒ । शंस्य॑म् ।

वा॒मम् । हि । आ॒ऽवृ॒णी॒महे॑ ॥४

वामम् । नः । अस्तु । अर्यमन् । वामम् । वरुण । शंस्यम् ।

वामम् । हि । आऽवृणीमहे ॥४

हे "अर्यमन् देव “वामं वननीयं संभजनीयं धनं "नः अस्माकम् "अस्तु भवतु । हे "वरुण “शंस्यं सर्वं शंसनीयं स्तुत्य “वामं धनमस्माकमस्तु । कुतः । हिशब्दो हेतौ । यस्मात्कारणाद्वयं “वामं धनं युष्मान् "आवृणीमहे याचामह इत्यर्थः ।


वा॒मस्य॒ हि प्र॑चेतस॒ ईशा॑नाशो रिशादसः ।

नेमा॑दित्या अ॒घस्य॒ यत् ॥५

वा॒मस्य॑ । हि । प्र॒ऽचे॒त॒सः॒ । ईशा॑नासः । रि॒शा॒द॒सः॒ ।

न । ई॒म् । आ॒दि॒त्याः॒ । अ॒घस्य॑ । यत् ॥५

वामस्य । हि । प्रऽचेतसः । ईशानासः । रिशादसः ।

न । ईम् । आदित्याः । अघस्य । यत् ॥५

हे "प्रचेतसः प्रकृष्टज्ञानाः शोभनस्तुतयो वा हे "रिशादसः रिशतां हिंसतां शत्रूणामसितारः क्षेप्तारो देवा यूयं “वामस्य वननीयस्य धनस्य “ईशानासः ईशानाः। हिरवधारणे । ईशाना एव स्वामिन एव भवथ । तस्माद्युष्मान् याचामह इत्यर्थः । ईशानाः । ईश ऐश्वर्यं । अनुदात्तेत् । ‘ तास्यनुदात्तेत् ' इति स्वरेणाद्युदात्तता भवति । न संबुद्धिः । ततो हे "आदित्याः अदितेः पुत्रा देवाः “ईम् एनं याचमानं मां तद्धनं "न प्राप्नोतु "यत् धनम् "अघस्य पापस्य संबन्धि विद्यते ॥ ॥३॥


व॒यमिद्व॑ः सुदानवः क्षि॒यन्तो॒ यान्तो॒ अध्व॒न्ना ।

देवा॑ वृ॒धाय॑ हूमहे ॥६

व॒यम् । इत् । वः॒ । सु॒ऽदा॒न॒वः॒ । क्षि॒यन्तः॑ । यान्तः॑ । अध्व॑न् । आ ।

देवाः॑ । वृ॒धाय॑ । हू॒म॒हे॒ ॥६

वयम् । इत् । वः । सुऽदानवः । क्षियन्तः । यान्तः । अध्वन् । आ ।

देवाः । वृधाय । हूमहे ॥६

हे "सुदानवः शोभनदाना हे "देवाः "क्षियन्तः गृहेष्वग्निहोत्रार्थं निवसन्तः "अध्वन् । सुपो लुक्। अध्वनि समिदाहरणार्थं "यान्तः गच्छन्तोऽपि “वयं “वः "इत् युष्मानेव "वृधाय हविर्भिर्वर्धनाय "हूमहे आह्वयामः । यद्वा । वयं गृहेषु गृहान्निर्गमनकाले मार्गेषु च वृधायास्माकं धनादिभिर्वर्धनायाह्वयामः ।।


अधि॑ न इन्द्रैषां॒ विष्णो॑ सजा॒त्या॑नाम् ।

इ॒ता मरु॑तो॒ अश्वि॑ना ॥७

अधि॑ । नः॒ । इ॒न्द्र॒ । ए॒षा॒म् । विष्णो॒ इति॑ । स॒ऽजा॒त्या॑नाम् ।

इ॒त । मरु॑तः । अश्वि॑ना ॥७

अधि । नः । इन्द्र । एषाम् । विष्णो इति । सऽजात्यानाम् ।

इत । मरुतः । अश्विना ॥७

हे “इन्द्र "विष्णो "मरुतः हे "अश्विना अश्विनौ हे इन्द्रादयो देवाः "सजात्यानाम् । समानायां जातौ भवाः सजात्या भ्रातृमित्रादयः । तेषाम् "एषां मध्ये "नः अस्मान् "अधि “इत यूयं स्तुत्यतयाधिगच्छत ॥


प्र भ्रा॑तृ॒त्वं सु॑दान॒वोऽध॑ द्वि॒ता स॑मा॒न्या ।

मा॒तुर्गर्भे॑ भरामहे ॥८

प्र । भ्रा॒तृ॒ऽत्वम् । सु॒ऽदा॒न॒वः॒ । अध॑ । द्वि॒ता । स॒मा॒न्या ।

मा॒तुः । गर्भे॑ । भ॒रा॒म॒हे॒ ॥८

प्र । भ्रातृऽत्वम् । सुऽदानवः । अध । द्विता । समान्या ।

मातुः । गर्भे । भरामहे ॥८

हे "सुदानवः शोभनदाना आदित्याः “अध अथ अस्मत्प्रत्यागमनानन्तरं वयं "समान्या सामान्येन । सुपो ड्यादेशः । पूर्वं सर्वेषां देवानां सांहत्येन ततः "द्विता द्विधा द्विप्रकारेण च "मातुः अदितेः "गर्भे संजातं यद्युष्माकं “भ्रातृत्वं विद्यते तदिदानीं वयं “प्र “भरामहे । प्रभरणमुच्चारणं प्रकाशनं वा । उच्चारयामः प्रकाशयामो वा । सर्वेषां देवानां द्वंद्वशो जननं तैत्तिरीयके स्पष्टमभिहितम् -- ‘ अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत्' (तै. सं. ६. ५. ६) इत्युपक्रम्य ‘तस्यै पूषा चार्यमा चाजायेताम् ' इत्यादिना । ।


यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः ।

अधा॑ चिद्व उ॒त ब्रु॑वे ॥९

यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । इन्द्र॑ऽज्येष्ठाः । अ॒भिऽद्य॑वः ।

अध॑ । चि॒त् । वः॒ । उ॒त । ब्रु॒वे॒ ॥९

यूयम् । हि । स्थ । सुऽदानवः । इन्द्रऽज्येष्ठाः । अभिऽद्यवः ।

अध । चित् । वः । उत । ब्रुवे ॥९

पूर्वोऽर्धर्चः सिद्धः । हे "सुदानवः शोभनदाना देवाः “इन्द्रज्येष्ठाः । इन्द्रो ज्येष्ठो मुख्यो येषां ते तथोक्ताः । सर्वे देवा इन्द्रनेतृका इत्यर्थः । तादृशाः "अभिद्यवः अभिगतदीप्तयः “यूयं "हि "स्थ अस्मद्यज्ञे भवथ खलु । हि प्रसिद्धौ । "अध “चित् अथानन्तरमेव “वः युष्मान् अहं “ब्रुवे स्तौमि । “उत अपि च पुनःपुनः स्तौमीत्यर्थः ॥ ॥ ४ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.८३&oldid=202005" इत्यस्माद् पुनः प्राप्तिः