ऋग्वेदः सूक्तं ८.१०२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.१०१ ऋग्वेदः - मण्डल ८
सूक्तं ८.१०२
[[लेखकः :|]]
सूक्तं ८.१०३ →
ऋ. भार्गवः प्रयोगः, अग्निर्बार्हस्पत्यः, पावको वा, सहसः पुत्रौ गृहपति - यविष्ठौ तयोर्वान्यतरः।

दे. अग्निः । गायत्री।


त्वमग्ने बृहद्वयो दधासि देव दाशुषे ।
कविर्गृहपतिर्युवा ॥१॥
स न ईळानया सह देवाँ अग्ने दुवस्युवा ।
चिकिद्विभानवा वह ॥२॥
त्वया ह स्विद्युजा वयं चोदिष्ठेन यविष्ठ्य ।
अभि ष्मो वाजसातये ॥३॥
और्वभृगुवच्छुचिमप्नवानवदा हुवे ।
अग्निं समुद्रवाससम् ॥४॥
हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः ।
अग्निं समुद्रवाससम् ॥५॥
आ सवं सवितुर्यथा भगस्येव भुजिं हुवे ।
अग्निं समुद्रवाससम् ॥६॥
अग्निं वो वृधन्तमध्वराणां पुरूतमम् ।
अच्छा नप्त्रे सहस्वते ॥७॥
अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या ।
अस्य क्रत्वा यशस्वतः ॥८॥
अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते ।
आ वाजैरुप नो गमत् ॥९॥
विश्वेषामिह स्तुहि होतॄणां यशस्तमम् ।
अग्निं यज्ञेषु पूर्व्यम् ॥१०॥
शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा ।
दीदाय दीर्घश्रुत्तमः ॥११॥
तमर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् ।
मित्रं न यातयज्जनम् ॥१२॥
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
वायोरनीके अस्थिरन् ॥१३॥
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसंदिनम् ।
आपश्चिन्नि दधा पदम् ॥१४॥
पदं देवस्य मीळ्हुषोऽनाधृष्टाभिरूतिभिः ।
भद्रा सूर्य इवोपदृक् ॥१५॥
अग्ने घृतस्य धीतिभिस्तेपानो देव शोचिषा ।
आ देवान्वक्षि यक्षि च ॥१६॥
तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः ।
हव्यवाहममर्त्यम् ॥१७॥
प्रचेतसं त्वा कवेऽग्ने दूतं वरेण्यम् ।
हव्यवाहं नि षेदिरे ॥१८॥
नहि मे अस्त्यघ्न्या न स्वधितिर्वनन्वति ।
अथैतादृग्भरामि ते ॥१९॥
यदग्ने कानि कानि चिदा ते दारूणि दध्मसि ।
ता जुषस्व यविष्ठ्य ॥२०॥
यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति ।
सर्वं तदस्तु ते घृतम् ॥२१॥
अग्निमिन्धानो मनसा धियं सचेत मर्त्यः ।
अग्निमीधे विवस्वभिः ॥२२॥

सायणभाष्यम्

त्वमग्ने' इति द्वाविंशत्यृचं नवमं सूक्तं गायत्रमाग्नेयम् । भृगुगोत्रः प्रयोगो नामर्षिः । बार्हस्पत्यः पावकविशेषणविशिष्टोऽग्न्याख्यो वा । यद्वा । सहोनाम्नः पुत्रौ गृहपतियविष्ठसंज्ञकौ द्वावग्नी । तौ सहेदं सूक्तमपश्यताम् । तस्मादस्य तावृषी । अथवा तयोरन्यतरः । तथा चानुक्रान्तं-- ‘ त्वमग्ने द्व्यधिका भार्गवः प्रयोगो बार्हस्पत्यो वाग्निः पावकः सहसः सुतयोर्वाग्न्योर्गृहपतियविष्ठयोर्वान्यतर आग्नेयं तु' इति । प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दस्यादितोऽष्टादशर्चः । सूत्रितं च-’ त्वमग्ने बृहद्वय इत्यष्टादशार्चन्तस्त्वेति सूक्ते' (आश्व. श्रौ. ४. १३) इति । देवसुवां हविःष्वग्नेर्गृहपतेरनुवाक्या' ‘ त्वमग्ने बृहद्वयः' इत्येषा । सूत्रितं च-’ त्वमग्ने बृहद्वयो हव्यवाळग्निरजरः पिता नः' (आश्व. श्रौ. ४. ११) इति । अन्वारम्भणीयायामग्नेर्भगिनोऽनुवाक्या ‘आ सवं सवितुः' इत्येषा। सूत्रितं च-’ आ सवं सवितुर्यथा स नो राधांस्या भर' (आश्व. श्रौ. २.८) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवने मैत्रावरुणस्य ‘अग्निं वो वृधन्तम्' इति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं च -–'अग्निं वो वृधन्तमग्ने यं यज्ञमध्वरम्' ( आश्व. श्रौ. ७. ८) इति । दशमेऽहनि ‘इमं नो यज्ञम्' इति स्तोकसूक्तस्य द्वितीयस्य स्थाने 'अग्ने घृतस्य' इत्येषा । सूत्रितं च- स्तोकसूक्तस्य द्वितीयतृतीययोः स्थानेऽग्ने घृतस्य धीतिभिरुभे सुश्चन्द्र सर्पिष इत्येते' (आश्व. श्रौ. ८. १२) इति ॥


त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे॑ ।

क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥१

त्वम् । अ॒ग्ने॒ । बृ॒हत् । वयः॑ । दधा॑सि । दे॒व॒ । दा॒शुषे॑ ।

क॒विः । गृ॒हऽप॑तिः । युवा॑ ॥१

त्वम् । अग्ने । बृहत् । वयः । दधासि । देव । दाशुषे ।

कविः । गृहऽपतिः । युवा ॥१

हे "देव द्योतमान “अग्ने "कविः क्रान्तकर्मा “गृहपतिः गृहपालकः "युवा नित्यतरुणः “त्वं "दाशुषे हविषां प्रदात्रे यजमानाय “बृहद्वयः महदन्नं "दधासि प्रयच्छसीत्यर्थः ।।


स न॒ ईळा॑नया स॒ह दे॒वाँ अ॑ग्ने दुव॒स्युवा॑ ।

चि॒किद्वि॑भान॒वा व॑ह ॥२

सः । नः॒ । ईळा॑नया । स॒ह । दे॒वान् । अ॒ग्ने॒ । दु॒व॒स्युवा॑ ।

चि॒कित् । वि॒भा॒नो॒ इति॑ विऽभानो । आ । व॒ह॒ ॥२

सः । नः । ईळानया । सह । देवान् । अग्ने । दुवस्युवा ।

चिकित् । विभानो इति विऽभानो । आ । वह ॥२

हे "विभानो विशिष्टदीप्ते "अग्ने "सः त्वं "चिकित् ज्ञाता सन् "नः अस्माकं “दुवस्युवा परिचरणशीलया “ईळानया स्तुवत्या वाचा "सह "देवान् "आ वह ॥


त्वया॑ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य ।

अ॒भि ष्मो॒ वाज॑सातये ॥३

त्वया॑ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । चोदि॑ष्ठेन । य॒वि॒ष्ठ्य॒ ।

अ॒भि । स्मः॒ । वाज॑ऽसातये ॥३

त्वया । ह । स्वित् । युजा । वयम् । चोदिष्ठेन । यविष्ठ्य ।

अभि । स्मः । वाजऽसातये ॥३

हे "यविष्ठ्य युवतमाग्ने “चोदिष्ठेन अतिशयेन धनानां प्रेरयित्रा “त्वया "युजा “स्वित् "ह सहायेनैव “वयं भार्गवः प्रयोगो बार्हस्पत्याः पावका अग्नयो वा “वाजसातये अन्नलाभाय “अभि “ष्मः शत्रूनभिभवेम ॥


औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे ।

अ॒ग्निं स॑मु॒द्रवा॑ससं ॥४

औ॒र्व॒भृ॒गु॒ऽवत् । शुचि॑म् । अ॒प्न॒वा॒न॒ऽवत् । आ । हु॒वे॒ ।

अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥४

और्वभृगुऽवत् । शुचिम् । अप्नवानऽवत् । आ । हुवे ।

अग्निम् । समुद्रऽवाससम् ॥४

“समुद्रवाससं समुद्रमध्यवर्तिनं वाडवं "शुचिं शुद्धम् "अग्निम् “और्वभृगुवत् यथा और्वभृगुः “अप्नवानवत् यथाप्नवानः तथा “आ "हुवे आह्वयाम्यहम् ॥


हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रंद्यं॒ सहः॑ ।

अ॒ग्निं स॑मु॒द्रवा॑ससं ॥५

हु॒वे । वात॑ऽस्वनम् । क॒विम् । प॒र्जन्य॑ऽक्रन्द्यम् । सहः॑ ।

अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥५

हुवे । वातऽस्वनम् । कविम् । पर्जन्यऽक्रन्द्यम् । सहः ।

अग्निम् । समुद्रऽवाससम् ॥५

“वातस्वनं वातसदृशध्वनिं "कविं क्रान्तकर्माणं "पर्जन्यक्रन्द्यं पर्जन्यसदृशक्रन्दनं "सहः सहस्विनं वाडवम् "अग्निं "हुवे ह्वयामि । अन्यद्गतम् ॥ ॥ ९ ॥


आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे ।

अ॒ग्निं स॑मु॒द्रवा॑ससं ॥६

आ । स॒वम् । स॒वि॒तुः । य॒था॒ । भग॑स्यऽइव । भु॒जिम् । हु॒वे॒ ।

अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥६

आ । सवम् । सवितुः । यथा । भगस्यऽइव । भुजिम् । हुवे ।

अग्निम् । समुद्रऽवाससम् ॥६

“सवितुः प्रेरकस्य देवस्य “सवं यथा प्रसवमिव “भगस्येव “भुजिं भगाख्यस्य देवस्य भोगमिव च "समुद्रवाससम् "अग्निं "हुवे आह्वयामि ॥


अ॒ग्निं वो॑ वृ॒धंत॑मध्व॒राणां॑ पुरू॒तमं॑ ।

अच्छा॒ नप्त्रे॒ सह॑स्वते ॥७

अ॒ग्निम् । वः॒ । वृ॒धन्त॑म् । अ॒ध्व॒राणा॑म् । पु॒रु॒ऽतम॑म् ।

अच्छ॑ । नप्त्रे॑ । सह॑स्वते ॥७

अग्निम् । वः । वृधन्तम् । अध्वराणाम् । पुरुऽतमम् ।

अच्छ । नप्त्रे । सहस्वते ॥७

“अध्वराणाम् अहिंस्यानां बलिनां "नप्त्रे बन्धुं "सहस्वते बलवन्तम्। विभक्तिव्यत्ययः । "वृधन्तं ज्वालाभिर्वर्धमानं "पुरूतमम् अतिशयेन बहुम् "अग्निम् ऋत्विजः “वः यूयम् "अच्छ अभिगच्छत ॥


अ॒यं यथा॑ न आ॒भुव॒त्त्वष्टा॑ रू॒पेव॒ तक्ष्या॑ ।

अ॒स्य क्रत्वा॒ यश॑स्वतः ॥८

अ॒यम् । यथा॑ । नः॒ । आ॒ऽभुव॑त् । त्वष्टा॑ । रू॒पाऽइ॑व । तक्ष्या॑ ।

अ॒स्य । क्रत्वा॑ । यश॑स्वतः ॥८

अयम् । यथा । नः । आऽभुवत् । त्वष्टा । रूपाऽइव । तक्ष्या ।

अस्य । क्रत्वा । यशस्वतः ॥८

"अयम् अग्निः "नः अस्मान् “तक्ष्या विकर्तव्यानि "रूपेव “त्वष्टा रूपाणि वर्धकिरिव "यथा येन प्रकारेण "आभुवत् आभवति तथैनमग्निमभिगच्छतेत्यर्थः । किंच वयम् "अस्य अग्नेः "क्रत्वा प्रज्ञानेन युक्ताः "यशस्वतः यशस्वन्तो भवामेति शेषः ॥


अ॒यं विश्वा॑ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते ।

आ वाजै॒रुप॑ नो गमत् ॥९

अ॒यम् । विश्वाः॑ । अ॒भि । श्रियः॑ । अ॒ग्निः । दे॒वेषु॑ । प॒त्य॒ते॒ ।

आ । वाजैः॑ । उप॑ । नः॒ । ग॒म॒त् ॥९

अयम् । विश्वाः । अभि । श्रियः । अग्निः । देवेषु । पत्यते ।

आ । वाजैः । उप । नः । गमत् ॥९

मनुष्याणां "विश्वाः सर्वाः "श्रियः संपदः "देवेषु देवानां मध्ये यः "अयम् "अग्निः “अभि “पत्यते अभिगच्छति सोऽग्निः "नः अस्मानपि "वाजैः अन्नैः “उप “आ “गमत् उपागच्छतु ॥


विश्वे॑षामि॒ह स्तु॑हि॒ होतॄ॑णां य॒शस्त॑मं ।

अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं ॥१०

विश्वे॑षाम् । इ॒ह । स्तु॒हि॒ । होतॄ॑णाम् । य॒शःऽत॑मम् ।

अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥१०

विश्वेषाम् । इह । स्तुहि । होतॄणाम् । यशःऽतमम् ।

अग्निम् । यज्ञेषु । पूर्व्यम् ॥१०

"विश्वेषां सर्वेषां होतॄणां मध्ये "यशस्तमं यशस्वितमं "यज्ञेषु पूर्व्यं मुख्यम् "अग्निम् "इह अस्मदीये यज्ञे हे स्तोतः "स्तुहि ॥ ॥ १० ॥


शी॒रं पा॑व॒कशो॑चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा ।

दी॒दाय॑ दीर्घ॒श्रुत्त॑मः ॥११

शी॒रम् । पा॒व॒कऽशो॑चिषम् । ज्येष्ठः॑ । यः । दमे॑षु । आ ।

दी॒दाय॑ । दी॒र्घ॒श्रुत्ऽत॑मः ॥११

शीरम् । पावकऽशोचिषम् । ज्येष्ठः । यः । दमेषु । आ ।

दीदाय । दीर्घश्रुत्ऽतमः ॥११

“ज्येष्ठः देवानां मुख्यः "दीर्घश्रुत्तमः अतिशयेन विद्वान् अग्निः "दमेषु यज्वनां गृहेषु “आ "दीदाय अदीप्यते । तं "शीरम् अनुशायिनम् । तथा च यास्कः-’ अनुशायिनमिति वाशिनमिति वा' (निरु. ४. १४ ) इति । "पावकशोचिषं पावकदीप्तिं स्तुहीत्यर्थः ॥


तमर्वं॑तं॒ न सा॑न॒सिं गृ॑णी॒हि वि॑प्र शु॒ष्मिणं॑ ।

मि॒त्रं न या॑त॒यज्ज॑नं ॥१२

तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । गृ॒णी॒हि । वि॒प्र॒ । शु॒ष्मिण॑म् ।

मि॒त्रम् । न । या॒त॒यत्ऽज॑नम् ॥१२

तम् । अर्वन्तम् । न । सानसिम् । गृणीहि । विप्र । शुष्मिणम् ।

मित्रम् । न । यातयत्ऽजनम् ॥१२

हे "विप्र मेधाविन् स्तोतः "अर्वन्तं "न अश्वमिव "सानसिं संभजनीयं "शुष्मिणं बलिनं “मित्रं "न सखायमिव "यातयज्जनं हतशत्रुजनं “तम् अग्निं "गृणीहि स्तुहि ॥


उप॑ त्वा जा॒मयो॒ गिरो॒ देदि॑शतीर्हवि॒ष्कृतः॑ ।

वा॒योरनी॑के अस्थिरन् ॥१३

उप॑ । त्वा॒ । जा॒मयः॑ । गिरः॑ । देदि॑शतीः । ह॒विः॒ऽकृतः॑ ।

वा॒योः । अनी॑के । अ॒स्थि॒र॒न् ॥१३

उप । त्वा । जामयः । गिरः । देदिशतीः । हविःऽकृतः ।

वायोः । अनीके । अस्थिरन् ॥१३

हे अग्ने "हविष्कृतः यजमानार्थं "गिरः स्तुतयः “जामयः स्वसार इव "देदिशतीः तव गुणान् दिशन्त्यः "त्वा त्वामुपतिष्ठन्ते । "वायोरनीके समीपे त्वां समेधयन्त्यः "अस्थिरन् अतिष्ठंश्च ॥


यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं॑दिनं ।

आप॑श्चि॒न्नि द॑धा प॒दं ॥१४

यस्य॑ । त्रि॒ऽधातु॑ । अवृ॑तम् । ब॒र्हिः । त॒स्थौ । अस॑म्ऽदिनम् ।

आपः॑ । चि॒त् । नि । द॒ध॒ । प॒दम् ॥१४

यस्य । त्रिऽधातु । अवृतम् । बर्हिः । तस्थौ । असम्ऽदिनम् ।

आपः । चित् । नि । दध । पदम् ॥१४

"यस्य अग्नेः "त्रिधातु त्रिः “अवृतम् अनावृतं च "असंदिनम् अबद्धं च । स्तरणकाले हि बर्हिरबद्धं भवति । बर्हिस्तस्थौ आसनार्थं तिष्ठति तस्मिन्नग्नौ “आपश्चित् आपोऽपि “पदं “नि “दध निदधति । अन्तरिक्ष्या माध्यमिके पदं निदधतीत्यर्थः ॥


प॒दं दे॒वस्य॑ मी॒ळ्हुषोऽना॑धृष्टाभिरू॒तिभिः॑ ।

भ॒द्रा सूर्य॑ इवोप॒दृक् ॥१५

प॒दम् । दे॒वस्य॑ । मी॒ळ्हुषः॑ । अना॑धृष्टाभिः । ऊ॒तिऽभिः॑ ।

भ॒द्रा । सूर्यः॑ऽइव । उ॒प॒ऽदृक् ॥१५

पदम् । देवस्य । मीळ्हुषः । अनाधृष्टाभिः । ऊतिऽभिः ।

भद्रा । सूर्यःऽइव । उपऽदृक् ॥१५

“मीळ्हुषः कामानां सेक्तुः "देवस्य द्योतमानस्याग्नेः "पदं स्थानम् "अनाधृष्टाभिः शत्रुभिः अनाधृष्टाभिः “ऊतिभिः रक्षाभिर्भजनीयं भवतीत्यर्थः । तथैवास्य "उपदृक् उपद्दष्टिरपि "सूर्यइव यथा सूर्यस्तद्वत् 'भद्रा मनुष्यैर्भजनीया भवति ॥ ॥ ११ ॥


अग्ने॑ घृ॒तस्य॑ धी॒तिभि॑स्तेपा॒नो दे॑व शो॒चिषा॑ ।

आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥१६

अग्ने॑ । घृ॒तस्य॑ । धी॒तिऽभिः॑ । ते॒पा॒नः । दे॒व॒ । शो॒चिषा॑ ।

आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥१६

अग्ने । घृतस्य । धीतिऽभिः । तेपानः । देव । शोचिषा ।

आ । देवान् । वक्षि । यक्षि । च ॥१६

हे "देव द्योतमान "अग्ने “घृतस्य दीप्तिसाधनस्याज्यस्य “धीतिभिः निधानैः “तेपानः तपन् "शोचिषा ज्वालया "देवान् प्रति "आ “वक्षि आवह "यक्षि यज "च ॥


तं त्वा॑जनंत मा॒तरः॑ क॒विं दे॒वासो॑ अंगिरः ।

ह॒व्य॒वाह॒मम॑र्त्यं ॥१७

तम् । त्वा॒ । अ॒ज॒न॒न्त॒ । मा॒तरः॑ । क॒विम् । दे॒वासः॑ । अ॒ङ्गि॒रः॒ ।

ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् ॥१७

तम् । त्वा । अजनन्त । मातरः । कविम् । देवासः । अङ्गिरः ।

हव्यऽवाहम् । अमर्त्यम् ॥१७

हे "अङ्गिरः अग्ने "कविं क्रान्तकर्माणम् "अमर्त्यं मरणरहितं "हव्यवाहं हविषां वोढारं "तं प्रसिद्धं “त्वा त्वां "देवासः देवाः "मातरः इव "अजनन्त जनयन्ति ।


प्रचे॑तसं त्वा क॒वेऽग्ने॑ दू॒तं वरे॑ण्यं ।

ह॒व्य॒वाहं॒ नि षे॑दिरे ॥१८

प्रऽचे॑तसम् । त्वा॒ । क॒वे॒ । अग्ने॑ । दू॒तम् । वरे॑ण्यम् ।

ह॒व्य॒ऽवाह॑म् । नि । से॒दि॒रे॒ ॥१८

प्रऽचेतसम् । त्वा । कवे । अग्ने । दूतम् । वरेण्यम् ।

हव्यऽवाहम् । नि । सेदिरे ॥१८

हे "कवे क्रान्तकर्मन् "अग्ने "प्रचेतसं प्रकृष्टबुद्धिं "वरेण्यं वरणीयं "दूतं देवानां "हव्यवाहं हविषां वोढारं "त्वा त्वां "नि "षेदिरे देवा निषीदन्ति ।


न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन॑न्वति ।

अथै॑ता॒दृग्भ॑रामि ते ॥१९

न॒हि । मे॒ । अस्ति॑ । अघ्न्या॑ । न । स्वऽधि॑तिः । वन॑न्ऽवति ।

अथ॑ । ए॒ता॒दृक् । भ॒रा॒मि॒ । ते॒ ॥१९

नहि । मे । अस्ति । अघ्न्या । न । स्वऽधितिः । वनन्ऽवति ।

अथ । एतादृक् । भरामि । ते ॥१९

हे अग्ने "मे मम भार्गवस्य प्रयोगस्यर्षेः “अघ्न्या गौः । ‘अघ्न्या उस्रा' इति गोनामसु पाठात् । "नहि "अस्ति न विद्यते यस्याः पयसा आज्येन च त्वां यजेय। किंच "स्वधितिः नहि “वनन्वति काष्ठानि हन्ति यैः काष्ठैस्त्वां समिन्धीय' । "अथैतादृक् अग्निहोत्रार्थं पयसो दोग्ध्रीं गाम् इन्धनसाधनानि काष्ठानि चैतत्सर्वं "ते तुभ्यमहं "भरामि ॥


यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ ।

ता जु॑षस्व यविष्ठ्य ॥२०

यत् । अ॒ग्ने॒ । कानि॑ । कानि॑ । चि॒त् । आ । ते॒ । दारू॑णि । द॒ध्मसि॑ ।

ता । जु॒ष॒स्व॒ । य॒वि॒ष्ठ्य॒ ॥२०

यत् । अग्ने । कानि । कानि । चित् । आ । ते । दारूणि । दध्मसि ।

ता । जुषस्व । यविष्ठ्य ॥२०

पूर्वस्यामृच्युक्तस्यैवार्थस्य विवरणमत्र । हे “यविष्ठ्य युवतम "अग्ने तुभ्यं "यत् यदा "कानि “कानि “चित यानि कान्यपि "दारूणि काष्ठानि “आ “दध्मसि आधारयामि तदा “ता तानि अपरशुवृक्णान्यपि "जुषस्व सेवस्व । तथा च यजुर्ब्राह्मणं- न ह स्म वै पुराग्निरपरशुवृक्णं दहति तदस्मै प्रयोग एवर्षिरस्वदयद्यदग्ने यानि कानि चेति समिधमा दधात्यपरशुवृक्णमेवास्मै स्वदयति सर्वमस्मै स्वदते' (तै. सं. ५. १. १०. १) इति ॥


यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति ।

सर्वं॒ तद॑स्तु ते घृ॒तं ॥२१

यत् । अत्ति॑ । उ॒प॒ऽजिह्वि॑का । यत् । व॒म्रः । अ॒ति॒ऽसर्प॑ति ।

सर्व॑म् । तत् । अ॒स्तु॒ । ते॒ । घृ॒तम् ॥२१

यत् । अत्ति । उपऽजिह्विका । यत् । वम्रः । अतिऽसर्पति ।

सर्वम् । तत् । अस्तु । ते । घृतम् ॥२१

हे अग्ने “यत् काष्ठादिकम् "उपजिह्विका । उपजिघ्रतीत्युपजिह्विका’ । "अत्ति भक्षयति । यत् च काष्ठादिकं “वम्रः । वमत्युदकमिति वम्रः । उपजिह्विकावम्रशब्दौ यद्यपि पर्यायौ तथापि पृथगुपादानात् वम्रशब्दस्तद्विशेषे पर्यवस्यति । सोऽपि “अतिसर्पति अतिगच्छति । "तत् सर्वं "ते तव “घृतं घृतसदृशम् "अस्तु । यथा घृतं तव प्रियकरं भवति तथा प्रियकरं भवत्वित्यर्थः ॥


अ॒ग्निमिंधा॑नो॒ मन॑सा॒ धियं॑ सचेत॒ मर्त्यः॑ ।

अ॒ग्निमी॑धे वि॒वस्व॑भिः ॥२२

अ॒ग्निम् । इन्धा॑नः । मन॑सा । धिय॑म् । स॒चे॒त॒ । मर्त्यः॑ ।

अ॒ग्निम् । ई॒धे॒ । वि॒वस्व॑ऽभिः ॥२२

अग्निम् । इन्धानः । मनसा । धियम् । सचेत । मर्त्यः ।

अग्निम् । ईधे । विवस्वऽभिः ॥२२

“मर्त्यः मनुष्यः "अग्निमिन्धानः काष्ठैः प्रज्वलयन् "मनसा एव श्रद्दधानः "धियं कर्म "सचेत काले भजेत । "विवस्वभिः ऋत्विग्भिश्च “अग्निम् एव “ईधे प्रज्वलयति ॥ ॥ १२ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१०२&oldid=209068" इत्यस्माद् पुनः प्राप्तिः