ऋग्वेदः सूक्तं ८.२७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.२६ ऋग्वेदः - मण्डल ८
सूक्तं ८.२७
मनुर्वैवस्वतः
सूक्तं ८.२८ →
दे. विश्वे देवाः । प्रगाथः (विषमा बृहती, समा सतोबृहती )


अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे ।
ऋचा यामि मरुतो ब्रह्मणस्पतिं देवाँ अवो वरेण्यम् ॥१॥
आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः ।
विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितारः ॥२॥
प्र सू न एत्वध्वरोऽग्ना देवेषु पूर्व्यः ।
आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥३॥
विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः ।
अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नोऽवृकं छर्दिः ॥४॥
आ नो अद्य समनसो गन्ता विश्वे सजोषसः ।
ऋचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि ॥५॥
अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन ।
आ बर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासः सदन्तु नः ॥६॥
वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् ।
सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः ॥७॥
आ प्र यात मरुतो विष्णो अश्विना पूषन्माकीनया धिया ।
इन्द्र आ यातु प्रथमः सनिष्युभिर्वृषा यो वृत्रहा गृणे ॥८॥
वि नो देवासो अद्रुहोऽच्छिद्रं शर्म यच्छत ।
न यद्दूराद्वसवो नू चिदन्तितो वरूथमादधर्षति ॥९॥
अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम् ।
प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥१०॥
इदा हि व उपस्तुतिमिदा वामस्य भक्तये ।
उप वो विश्ववेदसो नमस्युराँ असृक्ष्यन्यामिव ॥११॥
उदु ष्य वः सविता सुप्रणीतयोऽस्थादूर्ध्वो वरेण्यः ।
नि द्विपादश्चतुष्पादो अर्थिनोऽविश्रन्पतयिष्णवः ॥१२॥
देवंदेवं वोऽवसे देवंदेवमभिष्टये ।
देवंदेवं हुवेम वाजसातये गृणन्तो देव्या धिया ॥१३॥
देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः ।
ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥१४॥
प्र वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम् ।
न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्योऽविधत् ॥१५॥
प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ।
प्र प्रजाभिर्जायते धर्मणस्पर्यरिष्टः सर्व एधते ॥१६॥
ऋते स विन्दते युधः सुगेभिर्यात्यध्वनः ।
अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥१७॥
अज्रे चिदस्मै कृणुथा न्यञ्चनं दुर्गे चिदा सुसरणम् ।
एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु ॥१८॥
यदद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध ।
यन्निम्रुचि प्रबुधि विश्ववेदसो यद्वा मध्यंदिने दिवः ॥१९॥
यद्वाभिपित्वे असुरा ऋतं यते छर्दिर्येम वि दाशुषे ।
वयं तद्वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥२०॥
यदद्य सूर उदिते यन्मध्यंदिन आतुचि ।
वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥२१॥
वयं तद्वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् ।
अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै ॥२२॥

सायणभाष्यम्

'अग्निरुक्थे ' इति द्वाविंशत्यृचं सप्तमं सूक्तम् । अत्रानुक्रमणिका– अग्निरुक्थे द्व्यधिका मनुर्वैवस्वतो वैश्वदेवं ह प्रागाथम्' इति । विवस्वतः पुत्रो मनुर्ऋषिः। प्रथमातृतीयाद्ययुजो बृहत्यो द्वितीयाचतुर्थादियुजः सतोबृहत्यः । इदमादीनां चतुर्णां सूक्तानां विश्वे देवा देवता । सूक्तविनियोगो लैङ्गिकः ॥


अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे ।

ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यम् ॥१

अ॒ग्निः । उ॒क्थे । पु॒रःऽहि॑तः । ग्रावा॑णः । ब॒र्हिः । अ॒ध्व॒रे ।

ऋ॒चा । या॒मि॒ । म॒रुतः॑ । ब्रह्म॑णः । पति॑म् । दे॒वान् । अवः॑ । वरे॑ण्यम् ॥१

अग्निः । उक्थे । पुरःऽहितः । ग्रावाणः । बर्हिः । अध्वरे ।

ऋचा। यामि । मरुतः । ब्रह्मणः । पतिम् । देवान् । अवः । वरेण्यम् ॥ १ ॥

मनुः प्रार्थयते । "उक्थे स्तोत्रशस्त्रात्मके "अध्वरे हिंसारहितेऽस्मिन् यज्ञे “अग्निः “पुरोहितः यज्ञार्थं पुरत उत्तरवेद्यामृत्विग्भिर्निहितोऽभूत् । तथा “ग्रावाणः च सोमाभिषवार्थं पुरतो निहिताः । “बर्हिः च पुरतो निहितमासादितम् । एवं सामग्र्यां सत्यां मरुतः एकोनपञ्चाशन्मरुद्गणान् "ब्रह्मणस्पतिं स्तोत्रस्य पालयितारमेतन्नामकं देवं "देवान् इन्द्रादींश्च एतान् सर्वान् देवान् "वरेण्यं वरणीयं भजनीयम् "अवः रक्षणम् "ऋचा सूक्तरूपया स्तुत्या "यामि मनुरहं याचामि। याचतेर्लटि रूपम् । वर्णलोपश्छान्दसः ॥


आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः ।

विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तारः॑ ॥२

आ । प॒शुम् । गा॒सि॒ । पृ॒थि॒वीम् । वन॒स्पती॑न् । उ॒षसा॑ । नक्त॑म् । ओष॑धीः ।

विश्वे॑ । च॒ । नः॒ । व॒स॒वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । धी॒नाम् । भू॒त॒ । प्र॒ऽअ॒वि॒तारः॑ ॥२

आ। पशुम् । गासि । पृथिवीम् । वनस्पतीन्। उषसा । नक्तम् । ओषधीः ।

विश्वे । च । नः । वसवः । विश्वऽवेदसः । धीनाम् । भूत। प्रऽअवितारः ॥ २ ॥

पूर्वार्धर्चेऽग्निः संबोध्यते पश्वादिशब्दसद्भावात् । हे अग्ने नोऽस्मदीये यज्ञे पशुम् अग्नीषोमीयं पशुं प्रति “आ “गासि आगच्छसि। गाङ् गतौ । व्यत्ययेन परस्मैपदम् । तथा “पृथिवीम् इदं देवसदनं प्रति किंच "वनस्पतीन् मथनसाधनानरणिरूपान् वनस्पतीन् प्रति तथा “उषासा होतव्यत्वेन उषःकालं तथा “नक्तं यष्टव्यतया रात्रिं च प्रति किंच "ओषधीः । ‘उष दाहे' अत्र मादनकर्मा । ओषन्ति माद्यन्त्यनेनेत्योषः सोमः । स धीयते निधीयते येष्वित्योषधयो ग्रावाणः । तान् प्रत्यागच्छसि । यद्वा । ओषध्यः फलपाकान्ता लताः । ताः प्रत्यायाहि। अथवा हे स्तोतः पश्वादीन् आ गासि समन्तात् स्तुहि । ‘कै गै शब्दे' इति धातुः । ततो हे "वसवः वासयितारः "विश्ववेदसः सर्वधनाः सर्वज्ञाना वा हे "विश्वे सर्वेऽपि देवाः “नः अस्मदीयानां कर्मणां “प्रावितारः “भूत । अनेनाग्निना सह यूयं प्रकर्षेण रक्षका भवत ॥


प्र सू न॑ एत्वध्व॒रो॒३॒॑ऽग्ना दे॒वेषु॑ पू॒र्व्यः ।

आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु ॥३

प्र । सु । नः॒ । ए॒तु॒ । अ॒ध्व॒रः । अ॒ग्ना । दे॒वेषु॑ । पू॒र्व्यः ।

आ॒दि॒त्येषु॑ । प्र । वरु॑णे । धृ॒तऽव्र॑ते । म॒रुत्ऽसु॑ । वि॒श्वऽभा॑नुषु ॥३

प्र। सु । नः । एतु । अध्वरः । अग्ना। देवेषु । पूर्व्यः ।

आदित्येषु । प्र । वरुणे । धृतऽव्रते। मरुत्ऽसु । विश्वऽभानुषु ।। ३ ।।

"पूर्व्यः पुरातनः । पूर्व्यान् पुरातनानिन्द्रादीन् देवान् प्रति क्रियमाणत्वात् यज्ञोऽपि पूर्व्यं इत्युच्यते । तादृशो मुख्यः "नः अस्मदीयः "अध्वरः यज्ञः "अग्ना। ‘सुपां सुलुक्' इति सप्तम्या डादेशः । अग्नौ । अग्निर्देवानां मुख्यत्वात् प्रथममभिहितः । तस्मिन्नग्नौ सर्वेष्वन्येषु "देवेषु च "सु सुष्ठु “प्र “एतु प्रकर्षेण गच्छतु । देवान् विशिनष्टि। "आदित्येषु अदितेः पुत्रेष्विन्द्रादिषु “धृतवते धृतकर्मणि "वरुणे च "विश्वभानुषु सर्वतो व्याप्ततेजस्केषु "मरुत्सु च “प्र एतु ॥


विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः ।

अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः ॥४

विश्वे॑ । हि । स्म॒ । मन॑वे । वि॒श्वऽवे॑दसः । भुव॑न् । वृ॒धे । रि॒शाद॑सः ।

अरि॑ष्टेभिः । पा॒युऽभिः॑ । वि॒श्व॒ऽवे॒द॒सः॒ । यन्त॑ । नः॒ । अ॒वृ॒कम् । छ॒र्दिः ॥४

विश्वे । हि। स्म । मनवे । विश्वऽवेदसः । भुवन् । वृधे। रिशादसः ।

अरिष्टेभिः । पायुऽभिः । विश्वऽवेदसः । यन्त । नः । अवृकम् । छर्दिः ॥ ४ ॥

“विश्ववेदसः सर्वतो व्याप्तधनाः । बहुधना इत्यर्थः। तादृशाः "रिशादसः रिशतां हिंसतां शत्रूणामसितार उपक्षपयितारो वा “विश्वे "हि “ष्म सर्वे खलु देवाः “मनवे । षष्ट्यर्थे चतुर्थी। मनोः "वृधे वर्धनाथ “भुवन् भवन्तु । स्तोत्रे मनुष्याय धनं दत्वा तं वर्धयन्तु इत्याशास्ते । ततो हे "विश्ववेदसः सर्वधनाः सर्वज्ञा वा देवाः "अरिष्टेभिः परैरहिंसितैः "पायुभिः पालनैः सह "अवृकम् । वृकः स्तेनः । तद्रहितम्। बाधारहितमित्यर्थः । तादृशं “छर्दिः गृहं "नः अस्मभ्यं "यन्त प्रयच्छत । शत्रून् हृत्वा गृहेष्वस्माभिः कर्माणि कारयतेत्यर्थः । यन्तेति यमेर्लोटि छान्दसो विकरणस्य लुक् । तस्य तबादेशः । तेनानुनासिकलोपाभावः ॥


आ नो॑ अ॒द्य सम॑नसो॒ गन्ता॒ विश्वे॑ स॒जोष॑सः ।

ऋ॒चा गि॒रा मरु॑तो॒ देव्यदि॑ते॒ सद॑ने॒ पस्त्ये॑ महि ॥५

आ । नः॒ । अ॒द्य । सऽम॑नसः । गन्त॑ । विश्वे॑ । स॒ऽजोष॑सः ।

ऋ॒चा । गि॒रा । मरु॑तः । देवि॑ । अदि॑ते । सद॑ने । पस्त्ये॑ । म॒हि॒ ॥५

आ। नः । अद्य । सऽमनसः । गन्त । विश्वे । सऽजोषसः ।

ऋचा । गिरा। मरुतः । देवि । अदिते । सदने । पस्त्ये। महि ॥५॥

"समनसः सर्वेषु स्तोतृषु समानमनस्काः "विश्वे सर्वे देवा यूयं सजोषसः परस्परं संगताः सन्तः "गिरा। शुश्रूषुतया प्राप्तव्ययेत्यर्थः । तया “ऋचा सह "अद्य अस्मिन् यागदिने “नः यष्टॄन् अस्मान् “आ “गन्त आगच्छत । अनन्तरं हे “मरुतः "देवि द्योतमाने “महि महति देवानां मातृत्वान्महत्वयुक्ते हे "अदिते अदीने एतन्नामिके देवि "सदने स्थाने "पस्त्ये अम्मदीये गृहे स्तोतव्यतयोपविशत ॥ मरुत इत्यादेर्वाक्यभेदादनिघातः । उत्तरत्र पूर्वस्यामन्त्रितस्याविद्यमानवत्त्वेन वाक्यादित्वादनिघातः ॥ ॥ ३१ ॥


अ॒भि प्रि॒या म॑रुतो॒ या वो॒ अश्व्या॑ ह॒व्या मि॑त्र प्रया॒थन॑ ।

आ ब॒र्हिरिन्द्रो॒ वरु॑णस्तु॒रा नर॑ आदि॒त्यासः॑ सदन्तु नः ॥६

अ॒भि । प्रि॒या । म॒रु॒तः॒ । या । वः॒ । अश्व्या॑ । ह॒व्या । मि॒त्र॒ । प्र॒ऽया॒थन॑ ।

आ । ब॒र्हिः । इन्द्रः॑ । वरु॑णः । तु॒राः । नरः॑ । आ॒दि॒त्यासः॑ । स॒द॒न्तु॒ । नः॒ ॥६

अभि । प्रिया । मरुतः । या । वः । अश्व्या । हव्या । मित्र । प्रऽयाथन ।

आ। बर्हिः । इन्द्रः। वरुणः । तुराः । नरः । आदित्यासः । सदन्तु । नः ॥ ६॥

हे मरुतः "प्रिया प्रियाणि "या यानि “वः युष्माकम् "अश्व्या अश्व्यानि प्रियानश्वसंघान् “अभि "प्रयाथन अस्मद्यज्ञं प्रति प्रापयत । यूयमश्वैर्युक्ताः सन्त आगच्छतेत्यर्थः । अथ हे "मित्र। मित्रशब्देनान्ये वरुणादयोऽप्युच्यन्ते । हे मित्रादयो देवाः "हव्या हव्यानि हवनयोग्यानि हवींषि स्वीकर्तुमागच्छतेत्यर्थः। स्तूयमाना आगच्छत । प्रपूर्वाद्यातेर्लोटि तप्तनप्तनथनाश्च' इति थनादेशः । आगत्य च "इन्द्रो "वरुणः इन्द्रावरुणौ "तुराः संग्रामे शत्रुवधार्थं त्वरमाणाः "नरः नेतारः “आदित्यासः अदितेः पुत्रा मरुदादयो देवाश्च "नः अस्मदीये यज्ञे "बर्हिः बर्हिषि आसादिते "आ “सदन्तु आसीदन्तु प्रविशन्तु । सदेः सीदादेशाभावश्छन्दसः ।।


व॒यं वो॑ वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आनु॒षक् ।

सु॒तसो॑मासो वरुण हवामहे मनु॒ष्वदि॒द्धाग्न॑यः ॥७

व॒यम् । वः॒ । वृ॒क्तऽब॑र्हिषः । हि॒तऽप्र॑यसः । आ॒नु॒षक् ।

सु॒तऽसो॑मासः । व॒रु॒ण॒ । ह॒वा॒म॒हे॒ । म॒नु॒ष्वत् । इ॒द्धऽअ॑ग्नयः ॥७

वयम् । वः । वृक्तऽबर्हिषः । हितऽप्रयसः । आनुषक् ।

सुतऽसोमासः । वरुण। हवामहे । मनुष्वत् । इद्धऽअग्नयः ॥ ७ ॥

हे वरुण वरुणादयो हे देवाः “वृक्तबर्हिषः ऋत्विजः "वयम् "आनुषक् स्रुगादिष्वनुषक्तं यथा भवति तथा “हितप्रयसः । प्रीणातीति प्रयोऽन्नम् । तेषु निहितहविष्काः सन्तः "वः युष्मान् “हवामहे एतानि हवींष्यादातुमाह्वयामः । कीदृशाः । "सुतसोमासः अभिषुतसोमाः "इद्धाग्नयः आहुतिभिः समिद्धाग्नयो वयमाह्वयामः । तत्र दृष्टान्तः । "मनुष्वत् । मनुर्यथा यज्ञे युष्मानाजुहाव तद्वत् ॥


आ प्र या॑त॒ मरु॑तो॒ विष्णो॒ अश्वि॑ना॒ पूष॒न्माकी॑नया धि॒या ।

इन्द्र॒ आ या॑तु प्रथ॒मः स॑नि॒ष्युभि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे ॥८

आ । प्र । या॒त॒ । मरु॑तः । विष्णो॒ इति॑ । अश्वि॑ना । पूष॑न् । माकी॑नया । धि॒या ।

इन्द्रः॑ । आ । या॒तु॒ । प्र॒थ॒मः । स॒नि॒ष्युऽभिः॑ । वृषा॑ । यः । वृ॒त्र॒ऽहा । गृ॒णे ॥८

आ। प्र । यात। मरुतः । विष्णो इति। अश्विना । पूषन् । माकीनया। धिया ।

इन्द्रः । आ । यातु। प्रथमः । सनिष्युऽभिः । वृषा । यः । वृत्रऽहा । गृणे ॥ ८ ॥

हे विश्वे देवाः “प्र “यात प्रकर्षेणास्मदीयकर्मण्यागच्छत । हे "मरुतः हे "विष्णो स्वबलेन सर्वतो व्याप्तैतन्नामक देव हे "अश्विना अश्विनौ "पूषन् । स्तोतॄन् धनादिना पोषयतीति पूषा । एतन्नामक देव मरुदादयो हे देवाः "माकीनया मामकीनया। अस्मच्छब्दात् ' युष्मदस्मदोः' (पा. सू. ४, ३,१) इति खञ् शैषिकः । एकवचने ' तवकममकौ ' इति ममकादेशः । वर्णलोपश्छन्दसः । मया क्रियमाणया “धिया स्तुत्या सहास्मद्यज्ञं प्रत्यागच्छत । मरुदादेरामन्त्रितस्य वाक्यभेदादनिघातः । किंच "प्रथमः देवानां मुख्यः सः "इन्द्रः च “आ "यातु । "वृषा कामाना सेक्ता "यः इन्द्रः "सनिष्युभिः । सनिः संभजनम् । तदात्मन इच्छद्भिः स्तोतृभिः "वृत्रहा अपामावरकस्य वृत्रासुरस्य हन्तेति "गृणे स्तूयते ।' गॄ शब्दे' इत्यस्य कर्मणि लिटि छान्दसो विकरणः ॥


वि नो॑ देवासो अद्रु॒होऽच्छि॑द्रं॒ शर्म॑ यच्छत ।

न यद्दू॒राद्व॑सवो॒ नू चि॒दन्ति॑तो॒ वरू॑थमाद॒धर्ष॑ति ॥९

वि । नः॒ । दे॒वा॒सः॒ । अ॒द्रु॒हः॒ । अच्छि॑द्रम् । शर्म॑ । य॒च्छ॒त॒ ।

न । यत् । दू॒रात् । व॒स॒वः॒ । नु । चि॒त् । अन्ति॑तः । वरू॑थम् । आ॒ऽद॒धर्ष॑ति ॥९

वि। नः । देवासः । अदुहः । अच्छिद्रम् । शर्म । यच्छत ।

न । यत् । दूरात् । वसवः । नु । चित् । अन्तितः । वरूथम् । आऽदधर्षति ॥ ९॥

हे अद्रुहः स्तोतॄणामद्रोग्धारः । यद्वा । द्रुहेरौणादिकः कर्मणि क्विप् । शत्रुभिरहिंस्याः । हे "देवासः मरुदादयो देवाः "अच्छिद्रं बाधकरहितं साधीयो वा "शर्म । शृणाति दुःखादिकमिति शर्म गृहम् । तत् "नः अस्मभ्यं "वि “यच्छत । हे "वसवः शत्रूणां वासयितारो मरुदादयः "दूरात् दूरदेशात् “अन्तितः अन्तिकदेशाद्वा कश्चिदागत्य "नू "चित् कदाचिदपि “वरूथं वरणीयं संभजनीयं "यत् गृहं "न “आदधर्षति आधर्षणं हिंसनं न करोति तद्गृहं प्रयच्छतेति समन्वयः। 'धृष प्रसहने' इत्यस्य विभाषितणिच्त्वात् यदा णिच् नास्ति तदा रूपम् ।।


अस्ति॒ हि वः॑ सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्य॑म् ।

प्र ण॒ः पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ॥१०

अस्ति॑ । हि । वः॒ । स॒ऽजा॒त्य॑म् । रि॒शा॒द॒सः॒ । देवा॑सः । अस्ति॑ । आप्य॑म् ।

प्र । नः॒ । पूर्व॑स्मै । सु॒वि॒ताय॑ । वो॒च॒त॒ । म॒क्षु । सु॒म्नाय॑ । नव्य॑से ॥१०

अस्ति । हि। वः । सुऽजात्यम् । रिशादसः । देवासः । अस्ति । अयम् ।आप्यम्।

प्र। नः । पूर्वस्मै । सुविताय । वोचत । मक्षु । सुम्नाय । नव्यसे ।। १० ॥

हे "रिशादसः रिशतां हिंसतामसितारः "देवासः देवा द्योतमाना मरुदादयः “वः युष्माकं “सजात्यम् "अस्ति परस्परं समानजातिभावोऽस्ति खलु । किंच “आप्यम् । आपिर्बन्धुः । तस्य भाव आप्यम् । स्तोतृषु स्तुत्यलक्षणेन संबन्धात् वैवस्वतेन मनुना मया स्तोत्रा सह युष्माकं बन्धुभावः "अस्ति खलु । ततः "पूर्वस्मै प्रथमभाविने "सुविताय । सुष्ठु ईयते सर्वैरागम्यत इति सुवितोऽभ्युदयः । तस्मै "नव्यसे नवीयसे नवतराय "सुम्नाय च उभयं "मक्षु शीघ्रं "नः अस्माकं “प्र “वोचत प्रकर्षेण ब्रूत । अभ्युदयधनानि प्रयच्छतेत्यर्थः ॥ ॥ ३२ ॥


इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये॑ ।

उप॑ वो विश्ववेदसो नम॒स्युराँ असृ॒क्ष्यन्या॑मिव ॥११

इ॒दा । हि । वः॒ । उप॑ऽस्तुतिम् । इ॒दा । वा॒मस्य॑ । भ॒क्तये॑ ।

उप॑ । वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । न॒म॒स्युः । आ । असृ॑क्षि । अन्या॑म्ऽइव ॥११

इदा । हि। वः । उपऽस्तुतिम् । इदा । वामस्य । भक्तये ।

उप । वः । विश्वऽवेदसः । नमस्युः । आ । असृक्षि । अन्याम्ऽइव ॥ ११ ॥

हे "विश्ववेदसः सर्वधना हे देवाः "नमस्युः अन्नमिच्छन् मनुरहं “वः युष्मद्विषयाम् "उपस्तुतिम् “अन्यामिव अदृष्टपूर्वामिव स्थिताम् । कैश्चिदप्यकृतामित्यर्थः । तादृशीमुपस्तुतिम् "इदा "हि । हिरवधारणे । इदानीमेव उप "आ असृक्षि उपासृजामि करोमीत्यर्थः । किमर्थम् । "वः युष्मत्संबन्धिनः "वामस्य वननीयस्य “इदा इदानीमेव "भक्तये संभजनाय । लाभायेत्यर्थः । असृक्षीति सृजेर्लुङि रूपम् । पादादित्वादनिघातः ॥


उदु॒ ष्य वः॑ सवि॒ता सु॑प्रणीत॒योऽस्था॑दू॒र्ध्वो वरे॑ण्यः ।

नि द्वि॒पाद॒श्चतु॑ष्पादो अ॒र्थिनोऽवि॑श्रन्पतयि॒ष्णवः॑ ॥१२

उत् । ऊं॒ इति॑ । स्यः । वः॒ । स॒वि॒ता । सु॒ऽप्र॒नी॒त॒यः॒ । अस्था॑त् । ऊ॒र्ध्वः । वरे॑ण्यः ।

नि । द्वि॒ऽपादः॑ । चतुः॑ऽपादः । अ॒र्थिनः॑ । अवि॑श्रन् । प॒त॒यि॒ष्णवः॑ ॥१२

उत् । ॐ इति । स्यः । वः । सविता । सुऽप्रनीतयः । अस्थात् । ऊर्ध्वः । वरेण्यः ।

नि । द्विऽपादः । चतु:ऽपादः । अर्थिनः । अविश्रन् । पतयिष्णवः ॥ १२ ॥

हे सुप्रणीतयः । शोभनप्रणीतिः स्तुतिः । शोभनप्रणयनाः शोभनस्तुतयो मरुतः "वः युष्माकं मध्ये “ऊर्ध्वः ऊर्ध्वं गन्ता "वरेण्यः सर्वैर्वरणीयः संभजनीयः सः "सविता सर्वस्य स्वकर्मणि प्रेरक एतन्नामकः स देवो यदा "उत् "अस्थात् स्वतेजसोद्गतोऽभूत् तदा "अर्थिनः "द्विपादः पादद्वययुक्ताः पुरुषाः "चतुष्पादः पादचतुष्टययुक्ता अश्वादयः "पतयिष्णवः पतनशीलाः पक्षिणश्च "नि "अविश्रन् स्वस्वकार्येषु निविशन्ते । सूर्य उदिते केचन पुरुषा अग्निहोत्रादिकं कुर्वन्ति केचन देवताविषयं स्तोत्रं कुर्वते । पश्वादयस्तृणादिभक्षणार्थं सर्वत्र संचरन्ति । न्यविश्रन् । निपूर्वाद्विशतेर्लङि व्यत्ययेन परस्मैपदम् । ‘बहुलं छन्दसि ' इति रुडागमः ॥ पञ्चमेऽहनि प्रउगशस्त्रे ‘देवदेवम्' इति वैश्वदेवस्तृचः । सूत्रितं च-- देवंदेवं बृहदु गायिषे वचः' (आश्व. श्रौ. ७. १२) इति ।।


दे॒वंदे॑वं॒ वोऽव॑से दे॒वंदे॑वम॒भिष्ट॑ये ।

दे॒वंदे॑वं हुवेम॒ वाज॑सातये गृ॒णन्तो॑ दे॒व्या धि॒या ॥१३

दे॒वम्ऽदे॑वम् । वः॒ । अव॑से । दे॒वम्ऽदे॑वम् । अ॒भिष्ट॑ये ।

दे॒वम्ऽदे॑वम् । हु॒वे॒म॒ । वाज॑ऽसातये । गृ॒णन्तः॑ । दे॒व्या । धि॒या ॥१३

देवम्ऽदेवम् । वः । अव॑से । देवम्ऽदेवम् । अभिष्टये ।।

देवम्ऽदेवम् । हुवेम । वाजऽसातये । गृणन्तः । देव्या । धिया ॥ १३ ॥

वयं "देव्या द्योतमानया "धिया स्तुत्या "गृणन्तः स्तुवन्तः सन्तः वः युष्माकं मध्ये "देवंदेवं दीप्यमानं देवम् "अवसे कर्मरक्षणाय आह्वयाम। अनुक्रमेणाह। "अभिष्टये अभिलषितप्राप्त्यर्थं च “देवदेवं वयमाह्वयाम । ततः “वाजसातये अन्नलाभाय "हुवेम ह्वयाम ॥


दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कं सरा॑तयः ।

ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विदः॑ ॥१४

दे॒वासः॑ । हि । स्म॒ । मन॑वे । सऽम॑न्यवः । विश्वे॑ । सा॒कम् । सऽरा॑तयः ।

ते । नः॒ । अ॒द्य । ते । अ॒प॒रम् । तु॒चे । तु । नः॒ । भव॑न्तु । व॒रि॒वः॒ऽविदः॑ ॥१४

देवासः । हि। स्म । मनवे । सऽमन्यवः । विश्वे । साकम् । सऽरातयः ।।

ते । नः। अद्य । ते । अपरम् । तुचे । तु । नः । भवन्तु । वरिवःऽविदः ॥ १४ ॥

“समन्यवः समानमनसः यद्वा संग्रामेषु शत्रुहननार्थं समानक्रोधयुक्ताः "विश्वे सर्व एव “देवासो “हि “ष्म मरुदादयो देवाः खलु "मनवे एतान्नामकाय ऋषये मह्यं "साकं सह युगपदेव “सरातयः धनादिदानेन सहिताः भवन्तु । पुनरपि प्रार्थ्यते । "ते देवाः नः अस्माकम् "अद्य अस्मिन् दिने "अपरं च किं बहुना सर्वेषु दिवसेषु धनदातारो भवन्तु। न केवलमस्माकमेव किंतु “तुचे । तुमि(तुगि)त्यपत्यनाम। तुजि पिजि हिंसादाननिकेतनेषु'। तोजयति हिनस्ति पितुर्दुःखादिकमिति तुक् पुत्रः । तस्मै "नः अस्माकं पुत्राय “वरिवोविदः वरणीयस्य धनस्य लम्भयितारः “भवन्तु ।।


प्र वः॑ शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनाम् ।

न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत् ॥१५

प्र । वः॒ । शं॒सा॒मि॒ । अ॒द्रु॒हः॒ । स॒म्ऽस्थे । उप॑ऽस्तुतीनाम् ।

न । तम् । धू॒र्तिः । व॒रु॒ण॒ । मि॒त्र॒ । मर्त्य॑म् । यः । वः॒ । धाम॑ऽभ्यः । अवि॑धत् ॥१५

प्र। वः । शंसामि । अद्रुहः । सम्ऽस्थे । उपऽस्तुतीनाम् ।।

न । तम् । धूर्तिः । वरुण । मित्र । मर्त्यम् । यः । वः । धामऽभ्यः । अविधत् ॥ १५ ॥

हे "अद्रुहः अद्रोग्धारोऽहिंस्या वा मरुदादयः "उपस्तुतीनाम् उपस्तोत्राणां "संस्थे तासां यज्ञे क्रियमाणत्वादस्मत्संस्थानभूतेऽस्मिन् यज्ञे "वः युष्मान् “प्र “शंसामि प्रकर्षेण स्तौमि। हे "वरुण “मित्र मित्रावरुणौ "तं "मर्त्यं मनुष्यं “धूर्तिः । धुर्वी हिंसार्थः। शत्रुभ्यो हिंसा तं "न बाधते "यः मनुष्यः "वः युष्माकं “धामभ्यः तेजोभ्यः । धीयतेऽस्मिन्निति धाम शरीरं वा । तेभ्यः "अविधत् ।। ‘विध विधाने'। हवींषि विदधाति प्रयच्छति । एतेन तेजसामपि हविर्भाक्त्वमस्तीति ज्ञायते ॥


प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ।

प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्पर्यरि॑ष्ट॒ः सर्व॑ एधते ॥१६

प्र । सः । क्षय॑म् । ति॒र॒ते॒ । वि । म॒हीः । इषः॑ । यः । वः॒ । वरा॑य । दाश॑ति ।

प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ । अरि॑ष्टः । सर्वः॑ । ए॒ध॒ते॒ ॥१६

प्र। सः । क्षयम् । तिरते। वि । महीः । इषः । यः । वः । वराय । दाशति ।

प्र । प्रऽजाभिः । जायते । धर्मणः । परि । अरिष्टः । सर्वः । एधते ॥ १६ ।।

हे मरुदादयः “सः मनुष्यः “क्षयम्। क्षियन्ति निवसन्त्यत्रेति क्षयो गृहम् । तत् स मनुष्यः “प्र “तिरते प्रकर्षेण वर्धयति । तिरतिर्वृद्धिकर्मा । स एव “महीः महान्ति "इषः अन्नानि च “वि वर्धयति “यः मनुष्यः “वराय वरणीयाय धनाय तदर्थं “वः युष्मभ्यं “दाशति हवींषि प्रयच्छति । धनादिभिर्वर्धयतीत्यन्वयः। किंच “धर्मेणः । ध्रियते ऋत्विग्भिरिति धर्म कर्म । युष्मद्विषयात् कर्मणः सकाशात् स मनुष्यः “प्रजाभिः पुत्रपौत्रादिभिः “परि परितः सर्वतः “प्र “जायते प्रकर्षेणाविर्भवति । ‘आत्मा वै पुत्रनामासि' (श. ब्रा. १४. ९. ४. २६) इति श्रुतेः। ततः “अरिष्टः अन्यैरहिंसितः “सर्वः युष्माकं हविष्प्रदानात् सकलो जनः “एधते धनादिभिर्वर्धते ॥ ॥ ३३ ॥


ऋ॒ते स वि॑न्दते यु॒धः सु॒गेभि॑र्या॒त्यध्व॑नः ।

अ॒र्य॒मा मि॒त्रो वरु॑ण॒ः सरा॑तयो॒ यं त्राय॑न्ते स॒जोष॑सः ॥१७

ऋ॒ते । सः । वि॒न्द॒ते॒ । यु॒धः । सु॒ऽगेभिः॑ । या॒ति॒ । अध्व॑नः ।

अ॒र्य॒मा । मि॒त्रः । वरु॑णः । सऽरा॑तयः । यम् । त्राय॑न्ते । स॒ऽजोष॑सः ॥१७

ऋते । सः । विन्दते । युधः । सुऽगेभिः । याति । अध्वनः ।।

अर्यमा । मित्रः । वरुणः । सऽरातयः । यम् । त्रायन्ते । सऽजोषसः ॥ १७ ॥

“सः अर्यमादीनां हविर्दाता मनुष्यः "युधः । 'युध संप्रहारे । भावे क्विप् । युद्धात् “ऋते विनापि “विन्दते धनानि लभते । किंच “सुगेभिः शोभनगमनैः सुष्ठु गन्तृभिवाश्वैः सह “अध्वनः मार्गान् । गन्तव्यान् देशानित्यर्थः। तान् “याति गच्छति। "यं जनम् अर्यमा सततं गच्छन् “मित्रः स्तोतॄणां यष्टॄणां च धनप्रदानेन मित्रभूतः “वरुणः निवारयिता शत्रूणां यद्वा वरणीयः संभजनीय एतन्नामकाः “सरातयः समानदानास्त्रयो देवाः “सजोषसः परस्परं संगताः सन्तः यं हव्यप्रदातारं “त्रायन्ते स्वरक्षणैः पालयन्ति स धनादीनि विन्दतीत्यन्वयः ।।


अज्रे॑ चिदस्मै कृणुथा॒ न्यञ्च॑नं दु॒र्गे चि॒दा सु॑सर॒णम् ।

ए॒षा चि॑दस्माद॒शनिः॑ प॒रो नु सास्रे॑धन्ती॒ वि न॑श्यतु ॥१८

अज्रे॑ । चि॒त् । अ॒स्मै॒ । कृ॒णु॒थ॒ । नि॒ऽअञ्च॑नम् । दुः॒ऽगे । चि॒त् । आ । सु॒ऽस॒र॒णम् ।

ए॒षा । चि॒त् । अ॒स्मा॒त् । अ॒शनिः॑ । प॒रः । नु । सा । अस्रे॑धन्ती । वि । न॒श्य॒तु॒ ॥१८

अज्रे । चित् । अस्मै । कृणुथ । निऽअञ्चनम् । दुःऽगे। चित् । आ । सुऽसरणम् ।

एषा । चित् । अस्मात् । अशनिः । पुरः । नु । सा । अस्रेधन्ती । वि । नश्यतु ॥ १८ ।।

हे देवाः “अज्रे “चित् । ‘ज्रि अभिभवे'। परैरनभिभवनीयेऽपि परपुरे “न्यञ्चनं नितरां गमनम् “अस्मै मनवे कृणुथ यूयं कुरुत । यद्वा । अज्रे ऋजुगमने प्रस्थे गमनं कुस्त । तथा “दुर्गे “चित् अगन्तव्येऽपि स्थले “सुसरणम् । सृ गतौ' । शोभनगमनम् “आ समन्तात् कुरुत । एवं सति सा “एषा “अशनिः शत्रूणां तदेतदायुधम् “अस्मात् सर्वतो गन्तुर्मनोः “नु क्षिप्रं "परः परस्ताद्भवेत् । पश्चात् "सा अशनिः अस्रेधन्ती कांश्चिदप्यहिंसती “वि "नश्यतु विनष्टा भवेत् ।।


यद॒द्य सूर्य॑ उद्य॒ति प्रिय॑क्षत्रा ऋ॒तं द॒ध ।

यन्नि॒म्रुचि॑ प्र॒बुधि॑ विश्ववेदसो॒ यद्वा॑ म॒ध्यंदि॑ने दि॒वः ॥१९

यत् । अ॒द्य । सूर्यः॑ । उ॒त्ऽय॒ति । प्रिय॑ऽक्षत्राः । ऋ॒तम् । द॒ध ।

यत् । नि॒ऽम्रुचि॑ । प्र॒ऽबुधि॑ । वि॒श्व॒ऽवे॒द॒सः॒ । यत् । वा॒ । म॒ध्यन्दि॑ने । दि॒वः ॥१९

यत् । अद्य । सूर्ये । उत्ऽयति । प्रियेऽक्षत्राः । ऋतम् । दध । ।

यत् । निऽम्रुचि । प्रऽबुधि । विश्वऽवेदसः । यत् । वा । मध्यंदिने । दिवः ॥ १९ ॥

हे “प्रियक्षत्राः प्रीणयितृबला देवाः "सूर्ये सर्वस्य स्वस्वकर्मणि प्रेरके सवितरि “उद्यति उद्गच्छति सति “अद्य अस्मिन् दिने “यत् यदा “ऋतं कल्याणभूतं गृहं “दध धारयत । दधातेर्लिटि मध्यमबहुवचने रूपम्। “यत् यदा हे “विश्ववेदसः सर्वधना देवाः “निम्रुचि । म्रुचिर्गत्यर्थः । सूर्यस्य निम्रोचने नितरां गमने । सायमित्यर्थः । तस्मिन् धारयथ । यद्वा “प्रबुधि तस्य प्रबोधने प्रातःकाले। "यद्वा “दिवः सूर्यतेजसा दीप्यमानस्याह्नः “मध्यंदिने मध्ये धनं मनवे धत्तेत्युत्तरत्र संबन्धः ॥


यद्वा॑भिपि॒त्वे अ॑सुरा ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे॑ ।

व॒यं तद्वो॑ वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ ॥२०

यत् । वा॒ । अ॒भि॒ऽपि॒त्वे । अ॒सु॒राः॒ । ऋ॒तम् । य॒ते । छ॒र्दिः । ये॒म । वि । दा॒शुषे॑ ।

व॒यम् । तत् । वः॒ । व॒स॒वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । उप॑ । स्थे॒या॒म॒ । मध्ये॑ । आ ॥२०

यत् । वा । अभिऽपित्वे । असुराः । ऋतम् । यते । छर्दिः । येम । वि। दाशुषे । वयम् । तत् । वः । वसवः । विश्वऽवेदसः । उप । स्थेयाम । मध्ये। आ ॥ २० ॥

हे "असुराः प्राज्ञाः संग्राम आयुधानां क्षेप्तारो वा देवाः “यद्वा "अभिपित्वे अस्मद्यज्ञं प्रति युष्माकमभिप्राप्तौ “ऋतं सत्यभूतं यज्ञं “यते । इणः शतरि रूपम् । गच्छते "दाशुषे हवींषि दत्तवते यजमानाय "छर्दिः । ‘छर्दिर्दीप्तिदेवनयोः'। दीप्यतेऽनेनेति छर्दिस्तेजः । यद्वा । छर्दन्ति दीव्यन्ते अत्रेति छर्दिर्गृहम् । तद्गृहं तेजो वा “वि "येम प्रयच्छथ। यद्येवं यूयं कुरुथ तर्हि “वयं हे "वसवः स्तोतॄणां धनादिभिराच्छादयितारः यद्वा शत्रूणां विवासयितारः “विश्ववेदसः सर्वधनाः सर्वज्ञाना वा हे देवाः “वः युष्मत्संबन्धि “तत् कल्याणं गृहम् । षष्ट्यर्थे द्वितीया । भवद्भिः प्रत्तस्य गृहस्य मध्ये “उप “स्थेयाम उपतिष्ठेम । युष्मान् हविर्भिः पूजयेम ॥ तिष्ठतेराशीर्लिङि लिङयाशिष्यङ्' इत्यङ्प्रत्ययः ॥


यद॒द्य सूर॒ उदि॑ते॒ यन्म॒ध्यंदि॑न आ॒तुचि॑ ।

वा॒मं ध॒त्थ मन॑वे विश्ववेदसो॒ जुह्वा॑नाय॒ प्रचे॑तसे ॥२१

यत् । अ॒द्य । सूरे॑ । उत्ऽइ॑ते । यत् । म॒ध्यन्दि॑ने । आ॒ऽतुचि॑ ।

वा॒मम् । ध॒त्थ । मन॑वे । वि॒श्व॒ऽवे॒द॒सः॒ । जुह्वा॑नाय । प्रऽचे॑तसे ॥२१

यत् । अद्य । सूरे । उत्ऽइते । यत् । मध्यंदिने । आऽतुचि ।

वामम् । धत्थ । मनवे । विश्वऽवेदसः । जुह्वानाय । प्रऽचेतसे ॥ २१ ॥

हे "विश्ववेदसः सर्वतो व्याप्तधना हे देवाः “यत् यदा “अद्य इदानीम् । यद्वा सूर्ये "उदिते सति । “यत् यदा “मध्यंदिने दिवसस्य मध्ये । यद्वा “आतुचि । आतुचिर्गमनार्थः । सूर्यस्य निम्रोचने । सायमित्यर्थः । “जुह्वानाय अग्नौ हवींषि जुह्वते अत एव “प्रचेतसे प्रकृष्टज्ञानाय “मनवे एतन्नामकायर्षये मह्यं “वामं वननीयं धनं “धत्थ दत्थ तद्वृणीमह इत्युत्तरत्र संबन्धः ॥


व॒यं तद्वः॑ सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्य॑म् ।

अ॒श्याम॒ तदा॑दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा॑महै ॥२२

व॒यम् । तत् । वः॒ । स॒म्ऽरा॒जः॒ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रः । न । ब॒हु॒ऽपाय्य॑म् ।

अ॒श्याम॑ । तत् । आ॒दि॒त्याः॒ । जुह्व॑तः । ह॒विः । येन॑ । वस्यः॑ । अ॒नशा॑महै ॥२२

वयम् । तत् । वः । सम्ऽराजः । आ । वृणीमहे । पुत्रः । न । बहुऽपाय्यम् ।

अश्याम । तत् । आदित्याः । जुह्वतः । हविः । येन । वस्यः । अनशामहै ॥२२॥

हे "सम्राजः सम्यग्दीप्यमाना देवाः “पुत्रो “न । एकवचनं छान्दसम् । युष्माकं पुत्रा इव स्थिताः पुत्रा यथा पितृभिः पोष्यास्तद्वद्युष्माभिः पोष्याः “वयम् । “बहुपाय्यं बहुभिर्भोज्य "वः युष्मत्संबन्धि “तत् धनम् “अश्याम प्राप्नुयाम । "येन धनेन “वस्यः वसीयोऽतिशयेन वसुमत्वम् “अनशामहै अश्नवामहै प्राप्नुमः ॥ अश्नोतेर्लोटि व्यत्ययेन श्नम्प्रत्ययः ॥ ॥ ३४ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.२७&oldid=208927" इत्यस्माद् पुनः प्राप्तिः