सामग्री पर जाएँ

ऋग्वेदः सूक्तं ८.९०

विकिस्रोतः तः
← सूक्तं ८.८९ ऋग्वेदः - मण्डल ८
सूक्तं ८.९०
नृमेध-पुरुमेधावाङ्गिरसौ।
सूक्तं ८.९१ →
दे. इन्द्रः । प्रगाथः( )


आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु ।
उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥१॥
त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।
तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥२॥
ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता ।
इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि ॥३॥
त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृञ्जसे ।
स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वाञ्चं रयिमा कृधि ॥४॥
त्वमिन्द्र यशा अस्यृजीषी शवसस्पते ।
त्वं वृत्राणि हंस्यप्रतीन्येक इदनुत्ता चर्षणीधृता ॥५॥
तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे ।
महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥६॥

सायणभाष्यम्

‘आ नो विश्वासु' इति षड़ृचं दशमं सूक्तम् । नृमेधपुरुमेधावृषी । विषमसंख्याका बृहत्यः समसंख्याकाः सतोबृहत्यः । इन्द्रो देवता । तथा चानुक्रान्तम्-' आ नो विश्वासु षट्' इति । महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । सूत्र्यते हि पञ्चमारण्यके- ‘ आ नो विश्वासु हव्यो या इन्द्र भुज आभरः' (ऐ. आ. ५. २. ४) इति ॥


आ नो॒ विश्वा॑सु॒ हव्य॒ इन्द्र॑ः स॒मत्सु॑ भूषतु ।

उप॒ ब्रह्मा॑णि॒ सव॑नानि वृत्र॒हा प॑रम॒ज्या ऋची॑षमः ॥१

आ । नः॒ । विश्वा॑सु । हव्यः॑ । इन्द्रः॑ । स॒मत्ऽसु॑ । भू॒ष॒तु॒ ।

उप॑ । ब्रह्मा॑णि । सव॑नानि । वृ॒त्र॒ऽहा । प॒र॒म॒ऽज्याः । ऋची॑षमः ॥१

आ । नः । विश्वासु । हव्यः । इन्द्रः । समत्ऽसु । भूषतु ।

उप । ब्रह्माणि । सवनानि । वृत्रऽहा । परमऽज्याः । ऋचीषमः ॥१

ऋषिरनयेन्द्र एवं करोत्वित्याशास्ते । “विश्वासु सर्वासु “समत्सु असुरयुद्धेषु “हव्यः सर्वैदैवैरात्मरक्षणार्थमाह्वातव्य एतादृशः “इन्द्रः “नः अस्माकं “ब्रह्माणि स्तोत्राणि हवीरूपाण्यन्नानि वा “उप “आ “भूषतु अनुभवतु । सेवतामित्यर्थः । यद्वा । एतान्यलंकरोतु । तदागमनेन स्तोत्राणि हवींषि वालंकृतानि भवन्ति । तथा “सवनानि प्रातःसवनादीनि त्रीणि सवनानि च भूषतु । कीदृश इन्द्रः। “वृत्रहा वृत्रस्यासुरस्य पापस्य वा हन्ता “परमज्याः । युद्धेषु शत्रुहननार्थं परमाविनश्वरी ज्या मौर्वी यस्य स तथोक्तः । यद्वा । परमान् बलेन प्रकृष्टाञ्शत्रूञ्जिनाति हिनस्तीति परमज्याः । “ऋचीषमः स्तुत्या समः स्तुतिभिरभिमुखीकरणीयः । एतादृगिन्द्रः स्तोत्राणि भूषत्विति ॥


त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत् ।

तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥२

त्वम् । दा॒ता । प्र॒थ॒मः । राध॑साम् । अ॒सि॒ । असि॑ । स॒त्यः । ई॒शा॒न॒ऽकृत् ।

तु॒वि॒ऽद्यु॒म्नस्य॑ । युज्या॑ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रस्य॑ । शव॑सः । म॒हः ॥२

त्वम् । दाता । प्रथमः । राधसाम् । असि । असि । सत्यः । ईशानऽकृत् ।

तुविऽद्युम्नस्य । युज्या । आ । वृणीमहे । पुत्रस्य । शवसः । महः ॥२

हे इन्द्र “प्रथमः सर्वेषां मुख्यः “त्वं “राधसां धनानां “दाता “असि । यद्वा । धनदातॄणां मध्ये त्वं प्रथम आदिमो भवसि । तथा “ईशानकृत् तव स्तोतॄन् ईशानान् ऐश्वर्ययुक्तान् कुर्वंस्त्वं “सत्यः सत्यकर्मा “असि । यथार्थकर्मा भवसीत्यर्थः । यस्मादेवं तस्माद्वयं “तुविद्युम्नस्य बहुधनवतो बह्वन्नस्य वा “शवसः बलस्य “पुत्रस्य शत्रुवधार्थं बलकारणत्वेनोत्पन्नत्वात्तत्पुत्रस्य अत एव “महः महतस्तव "युज्या योग्यानि धनानि "आ "वृणीमहे संभजामहे ।।


ब्रह्मा॑ त इन्द्र गिर्वणः क्रि॒यन्ते॒ अन॑तिद्भुता ।

इ॒मा जु॑षस्व हर्यश्व॒ योज॒नेन्द्र॒ या ते॒ अम॑न्महि ॥३

ब्रह्म॑ । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । क्रि॒यन्ते॑ । अन॑तिद्भुता ।

इ॒मा । जु॒ष॒स्व॒ । ह॒रि॒ऽअ॒श्व॒ । योज॑ना । इन्द्र॑ । या । ते॒ । अम॑न्महि ॥३

ब्रह्म । ते । इन्द्र । गिर्वणः । क्रियन्ते । अनतिद्भुता ।

इमा । जुषस्व । हरिऽअश्व । योजना । इन्द्र । या । ते । अमन्महि ॥३

हे "गिर्वणः गीर्भिर्वननीय “इन्द्र “अनतिद्भुता त्वद्गुणान् सर्वानतिक्रम्य न भवन्ति । इन्द्रगुणव्यापकानि । यथार्थभूतानीत्यर्थः । तादृशानि यानि “ब्रह्म ब्रह्माणि स्तोत्राणि “ते त्वदर्थमस्माभिः “क्रियन्ते हे "हर्यश्व हरिताश्ववन् हे इन्द्र योजनानि तव सम्यग्योजनशीलानि तानि “इमा इमानि स्तोत्राणि “जुषस्व सेवस्व । किंच हे “इन्द्र “ते त्वदर्थं “या यानि स्तोत्राणि “अमन्महि वयमुच्चरामः तानि सर्वाणि सेवस्व ।।


त्वं हि स॒त्यो म॑घव॒न्नना॑नतो वृ॒त्रा भूरि॑ न्यृ॒ञ्जसे॑ ।

स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वाञ्चं॑ र॒यिमा कृ॑धि ॥४

त्वम् । हि । स॒त्यः । म॒घ॒ऽव॒न् । अना॑नतः । वृ॒त्रा । भूरि॑ । नि॒ऽऋ॒ञ्जसे॑ ।

सः । त्वम् । श॒वि॒ष्ठ॒ । व॒ज्र॒ऽह॒स्त॒ । दा॒शुषे॑ । अ॒र्वाञ्च॑म् । र॒यिम् । आ । कृ॒धि॒ ॥४

त्वम् । हि । सत्यः । मघऽवन् । अनानतः । वृत्रा । भूरि । निऽऋञ्जसे ।

सः । त्वम् । शविष्ठ । वज्रऽहस्त । दाशुषे । अर्वाञ्चम् । रयिम् । आ । कृधि ॥४

हे “मघवन् धनवन्निन्द्र “सत्यः सत्यकर्मा “त्वम् एव "अनानतः केषामप्यप्रह्वः सन् "भूरि भूरीणि वृत्राणि रक्षांसि “न्यृञ्जसे तानि प्रह्वीभावयसि । न्यक्करोषीत्यर्थः । हिरवधारणे । हे “शविष्ठ बलेन वृद्धतम हे “वज्रहस्त । वज्रो हस्ते यस्य स तथोक्तः । हे इन्द्र “सः तादृशः “त्वं “दाशुषे तुभ्यं हविर्दत्तवते यजमानाय “रयिं धनादिकम् “अर्वाञ्चम् अवाचीनमभिमुखं यथा गच्छति तथा तम् “आ "कृधि समन्तात्कुरु ॥


चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रे ‘त्वमिन्द्र यशा असि' इति प्रगाथो वैकल्पिकोऽनुरूपः । सूत्र्यते च- ‘ त्वमिन्द्र यशा असीन्द्र क्रतुं न आ भर' (आश्व. श्रौ. ७. ४) इति ॥

त्वमि॑न्द्र य॒शा अ॑स्यृजी॒षी श॑वसस्पते ।

त्वं वृ॒त्राणि॑ हंस्यप्र॒तीन्येक॒ इदनु॑त्ता चर्षणी॒धृता॑ ॥५

त्वम् । इ॒न्द्र॒ । य॒शाः । अ॒सि॒ । ऋ॒जी॒षी । श॒व॒सः॒ । प॒ते॒ ।

त्वम् । वृ॒त्राणि॑ । हं॒सि॒ । अ॒प्र॒तीनि॑ । एकः॑ । इत् । अनु॑त्ता । च॒र्ष॒णि॒ऽधृता॑ ॥५

त्वम् । इन्द्र । यशाः । असि । ऋजीषी । शवसः । पते ।

त्वम् । वृत्राणि । हंसि । अप्रतीनि । एकः । इत् । अनुत्ता । चर्षणिऽधृता ॥५

हे “शवसस्पते बलस्य पालयितर्हे “इन्द्र “ऋजीषी । ऋजीषोऽपार्जितोऽभिषुतः सोमः । तद्वान् “त्वं "यशाः यशस्वी “असिः । कथमस्य यशस्वित्वं तदाह । “अप्रतीनि बलिभिरप्यप्रतिगतानि अत एव अनुत्तानि अन्यैर्नोत्तुमशक्यानि “वृत्राणि रक्षांसि “त्वम् “एक “इत् असहाय एव “चर्षणीधृता असुरादिहननद्वारेण मनुष्याणां धारकेण वज्रेण “हंसि संप्रहरसि । अत एवास्य यशस्वित्वम् ॥


तमु॑ त्वा नू॒नम॑सुर॒ प्रचे॑तसं॒ राधो॑ भा॒गमि॑वेमहे ।

म॒हीव॒ कृत्ति॑ः शर॒णा त॑ इन्द्र॒ प्र ते॑ सु॒म्ना नो॑ अश्नवन् ॥६

तम् । ऊं॒ इति॑ । त्वा॒ । नू॒नम् । अ॒सु॒र॒ । प्रऽचे॑तसम् । राधः॑ । भा॒गम्ऽइ॑व । ई॒म॒हे॒ ।

म॒हीऽइ॑व । कृत्तिः॑ । श॒र॒णा । ते॒ । इ॒न्द्र॒ । प्र । ते॒ । सु॒म्ना । नः॒ । अ॒श्न॒व॒न् ॥६

तम् । ऊं इति । त्वा । नूनम् । असुर । प्रऽचेतसम् । राधः । भागम्ऽइव । ईमहे ।

महीऽइव । कृत्तिः । शरणा । ते । इन्द्र । प्र । ते । सुम्ना । नः । अश्नवन् ॥६

हे "असुर बलवन् प्राणवन् हे इन्द्र य उक्तगुणोऽस्ति “तं “प्रचेतसं प्रकृष्टज्ञानं “त्वा । "उ इत्यवधारणे । पितृवत्पोषकं त्वामेव “राधः धर्मादिसाधनं धनं “नूनम् इदानीम् “ईमहे वयं याचामहे । तत्र दृष्टान्तः । “भागमिव । यथा कश्चित्पितृभागभूतं धनं याचते तद्वदिन्द्रो यजमानेभ्यः स्तोतृभ्यश्च धनं प्रयच्छत्येव । तस्माद्भागभूतं धनं यष्टारो वयं याचामहे । हे “इन्द्र “महीव “कृत्तिः । कृत्तिर्यशो वान्नं वा । ‘कृती छेदने । करणे क्तिन् । कृन्तत्यनेनेति । ईदृशी कृत्तिरिव “ते तव “शरणा शरणं गृहमन्तरिक्षे द्युलोके महद्वर्तते । अत्र यास्कः---‘कृत्तिः कृन्ततेर्यशो वान्नं वा महीव कृत्तिः शरणा त इन्द्र सुमहत्त इन्द्र शरणमन्तरिक्षे कृत्तिरिव' (निरु. ५, २२ ) इति । किंच “ते तव स्वभूतानि “सुम्ना सुम्नानि पुत्रादिविषयसुखानि च “नः अस्मान् “प्र “अश्नवन् । प्रकर्षेणाश्नुवतां व्याप्नुवन्तु । अश्नोतेर्लेट्यडागमः ॥ ॥ १३ ॥


टिप्पणी

श्यैतम्

शाक्राणि वा

गोसवविवधवैश्य-स्तोमेष्विन्द्रं वो विश्वतस्पर्या णो विश्वासु हव्य इति - वैश्रौसू. ३९.१०

दशरात्रे पञ्चममहः --आ नो विश्वासु हव्यो इति प्रउगतृचानि - शांश्रौसू. १०.६.६

महाव्रतप्रकरणम् - अथ प्रत्यक्षबृहतीः शंसति ......आ नो विश्वासु हव्य इति त्रयः - शांश्रौसू. १८.१०.९

'ऐन्द्र्यां बृहत्यां गायति' (का० १९ । ५। २)। अध्वर्युप्रेषितो ब्रह्मा इन्द्रदेवतायां बृहत्यां साम गायति । इन्द्रदेवत्या बृहती नृमेधपुरुषमेधदृष्टा - शु.य. २०.३० महीधरभाष्यम्

८.९०.५ त्वमिन्द्र यशा असि इति

इन्द्रस्य यशः

अभीवर्तः

AV.20.104.3; 

SV.1.269; 2.842; 

AA.5.2.4.2; 
अथ स्तोत्रियविकाराः ॥..गोसवविवधवैश्यस्तोमेषु  Vait.39.10; 

आ मन्द्रैरिन्द्र हरिभिरा नो विश्वासु हव्यं प्र सेनानीरिति वर्ग्गाः पवित्रन्त इति द्वे एषा स्कन्दस्य सँहितैतां प्रयुञ्जन् स्कन्दं प्रीणाति ॥२०॥Svidh. 1.4.19; 

2.6.10; 

अक्षतानां द्वौ राशी कुर्याद्भावाभावयोरा नो विश्वासु हव्यमित्येतेन व्युष्टायाꣳ रात्रावेतेनैवाभिगीय प्रोक्ष्य ब्रूयादालभस्वेति भावमालभमाने सिद्ध्यति ॥९॥ सामविधानब्रा 3.4.9.



मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.९०&oldid=402665" इत्यस्माद् प्रतिप्राप्तम्