ऋग्वेदः सूक्तं ८.८०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.७९ ऋग्वेदः - मण्डल ८
सूक्तं ८.८०
एकद्यूर्नौधसः।
सूक्तं ८.८१ →
दे. इन्द्रः, १० देवाः । गायत्री, १० त्रिष्टुप्।


नह्यन्यं बळाकरं मर्डितारं शतक्रतो ।
त्वं न इन्द्र मृळय ॥१॥
यो नः शश्वत्पुराविथामृध्रो वाजसातये ।
स त्वं न इन्द्र मृळय ॥२॥
किमङ्ग रध्रचोदनः सुन्वानस्यावितेदसि ।
कुवित्स्विन्द्र णः शकः ॥३॥
इन्द्र प्र णो रथमव पश्चाच्चित्सन्तमद्रिवः ।
पुरस्तादेनं मे कृधि ॥४॥
हन्तो नु किमाससे प्रथमं नो रथं कृधि ।
उपमं वाजयु श्रवः ॥५॥
अवा नो वाजयुं रथं सुकरं ते किमित्परि ।
अस्मान्सु जिग्युषस्कृधि ॥६॥
इन्द्र दृह्यस्व पूरसि भद्रा त एति निष्कृतम् ।
इयं धीरृत्वियावती ॥७॥
मा सीमवद्य आ भागुर्वी काष्ठा हितं धनम् ।
अपावृक्ता अरत्नयः ॥८॥
तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि ।
आदित्पतिर्न ओहसे ॥९॥
अवीवृधद्वो अमृता अमन्दीदेकद्यूर्देवा उत याश्च देवीः ।
तस्मा उ राधः कृणुत प्रशस्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥१०॥

सायणभाष्यम्

‘नह्यन्यम्' इति दशर्चमेकादशं सूक्तम् । अत्रेयमनुक्रमणिका--' न ह्यन्यं दशैकद्यूर्नौधसो गायत्रेऽन्त्या दैवी त्रिष्टुप्' इति । एकद्यूर्नाम नोधसः पुत्र ऋषिः । अन्त्या त्रिष्टुप् । सा च देवदेवत्या शिष्टा गायत्र्य ऐन्द्र्यः । द्वितीये पर्याये मैत्रावरुणशस्त्र आदितोऽष्टर्चः । सूत्रितं च - ' नह्यन्यं बळाकरमित्यष्टौ ' (आश्व. श्रौ. ६. ४) इति । महाव्रते निष्केवल्ये गायत्रतृचाशीतावाद्या विनियुक्ता । तथा च पञ्चमारण्यके शौनकः -' नह्यन्यं बळाकरमित्येतां प्रत्यवदधाति' (ऐ. आ. ५, २. ३) इति ॥


न॒ह्य१॒॑न्यं ब॒ळाक॑रं मर्डि॒तारं॑ शतक्रतो ।

त्वं न॑ इन्द्र मृळय ॥१

न॒हि । अ॒न्यम् । ब॒ळा । अक॑रम् । म॒र्डि॒तार॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥१

नहि । अन्यम् । बळा । अकरम् । मर्डितारम् । शतक्रतो इति शतऽक्रतो ।

त्वम् । नः । इन्द्र । मृळय ॥१

हे शतक्रतो त्वत्तः "अन्यं “मर्ङितारं सुखयितारं "बळा बट् सत्यं “न “अकरं न करोमि । तस्माद्धे “इन्द्र “त्वं “नः अस्मान् “मृळय ॥


यो न॒ः शश्व॑त्पु॒रावि॒थामृ॑ध्रो॒ वाज॑सातये ।

स त्वं न॑ इन्द्र मृळय ॥२

यः । नः॒ । शश्व॑त् । पु॒रा । आवि॑थ । अमृ॑ध्रः । वाज॑ऽसातये ।

सः । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥२

यः । नः । शश्वत् । पुरा । आविथ । अमृध्रः । वाजऽसातये ।

सः । त्वम् । नः । इन्द्र । मृळय ॥२

"यः “अमृधः अहिंसकः “नः अस्मान् “वाजसातये अन्नलाभाय “पुरा पूर्वम् “आविथ रक्षितवान् । हे "इन्द्र “स “त्वं “नः अस्मान् “शश्वत् सदा "मृळय सुखय ॥


किम॒ङ्ग र॑ध्र॒चोद॑नः सुन्वा॒नस्या॑वि॒तेद॑सि ।

कु॒वित्स्वि॑न्द्र ण॒ः शक॑ः ॥३

किम् । अ॒ङ्ग । र॒ध्र॒ऽचोद॑नः । सु॒न्वा॒नस्य॑ । अ॒वि॒ता । इत् । अ॒सि॒ ।

कु॒वित् । सु । इ॒न्द्र॒ । नः॒ । शकः॑ ॥३

किम् । अङ्ग । रध्रऽचोदनः । सुन्वानस्य । अविता । इत् । असि ।

कुवित् । सु । इन्द्र । नः । शकः ॥३

हे “इन्द्र त्वं “रध्रचोदनः । रध्रं राधकं चोदयतीति रध्रचोदनः । तादृशस्त्वं “सुन्वानस्य “अवितेदसि रक्षक एव भवसि । अतः “नः अस्माकं “कुवित् बहु “सु सुष्ठु “शकः अशकः शक्तो भव। बहु धनं कुर्वित्वर्थः । अस्मान् वा बहु कुर्विति ।।


इन्द्र॒ प्र णो॒ रथ॑मव प॒श्चाच्चि॒त्सन्त॑मद्रिवः ।

पु॒रस्ता॑देनं मे कृधि ॥४

इन्द्र॑ । प्र । नः॒ । रथ॑म् । अ॒व॒ । प॒श्चात् । चि॒त् । सन्त॑म् । अ॒द्रि॒ऽवः॒ ।

पु॒रस्ता॑त् । ए॒न॒म् । मे॒ । कृ॒धि॒ ॥४

इन्द्र । प्र । नः । रथम् । अव । पश्चात् । चित् । सन्तम् । अद्रिऽवः ।

पुरस्तात् । एनम् । मे । कृधि ॥४

हे “इन्द्र “नः “रथं “प्र “अव प्ररक्ष । कीदृशं रथम् । “पश्चाच्चित्सन्तम् । चिदप्यर्थे । अस्मत्समानरथानां पश्चाद्भूतमपि “एनं "मे रथं हे "अद्रिवः वज्रवन्निन्द्र “पुरस्तात् वर्तमानं “कृधि कुरु ॥


हन्तो॒ नु किमा॑ससे प्रथ॒मं नो॒ रथं॑ कृधि ।

उ॒प॒मं वा॑ज॒यु श्रव॑ः ॥५

हन्तो॒ इति॑ । नु । किम् । आ॒स॒से॒ । प्र॒थ॒मम् । नः॒ । रथ॑म् । कृ॒धि॒ ।

उ॒प॒ऽमम् । वा॒ज॒ऽयु । श्रवः॑ ॥५

हन्तो इति । नु । किम् । आससे । प्रथमम् । नः । रथम् । कृधि ।

उपऽमम् । वाजऽयु । श्रवः ॥५

हन्तेत्येतदादि मुख्यकृदामन्त्रितेन समानम् । “हन्त इन्द्र "नु इदानीं “किं त्वं तूष्णीम् “आससे । तत्र किं करोमीति चेदुच्यते । "नः “रथं "प्रथमं सर्वेषां मुख्यं “कृधि कुरु । “वाजयु अस्माकममिच्छत् “श्रवः अन्नं हविर्लक्षणम् “उपमम् । अन्तिकनामैतत् । तवान्तिकभूतं वर्तत इति शेषः । यस्मादेवं तस्माद्रथमस्मदीयं प्रथमं कृधीति ॥ ॥ ३५ ॥


अवा॑ नो वाज॒युं रथं॑ सु॒करं॑ ते॒ किमित्परि॑ ।

अ॒स्मान्सु जि॒ग्युष॑स्कृधि ॥६

अव॑ । नः॒ । वा॒ज॒ऽयुम् । रथ॑म् । सु॒ऽकर॑म् । ते॒ । किम् । इत् । परि॑ ।

अ॒स्मान् । सु । जि॒ग्युषः॑ । कृ॒धि॒ ॥६

अव । नः । वाजऽयुम् । रथम् । सुऽकरम् । ते । किम् । इत् । परि ।

अस्मान् । सु । जिग्युषः । कृधि ॥६

हे इन्द्र “नः “वाजयुम् अन्नेच्छुं “रथम् “अव रक्ष संग्रामे । “ते तव "किमित् किमपि सर्वकर्तव्यजातं "परि परितः “सुकरं सुखेन कर्तव्यम्। तव कर्तुमशक्यं न किंचिदस्ति । यस्मादेवं तस्मात् “सु "जिग्युषः सुष्ठु जेतॄन् कुरु संग्रामे ॥


इन्द्र॒ दृह्य॑स्व॒ पूर॑सि भ॒द्रा त॑ एति निष्कृ॒तम् ।

इ॒यं धीरृ॒त्विया॑वती ॥७

इन्द्र॑ । दृह्य॑स्व । पूः । अ॒सि॒ । भ॒द्रा । ते॒ । ए॒ति॒ । निः॒ऽकृ॒तम् ।

इ॒यम् । धीः । ऋ॒त्विय॑ऽवती ॥७

इन्द्र । दृह्यस्व । पूः । असि । भद्रा । ते । एति । निःऽकृतम् ।

इयम् । धीः । ऋत्वियऽवती ॥७

हे “इन्द्र त्वं “दृह्यस्व दृढो भव संग्रामे । त्वं “पूरसि पुरमसि । यथा पुरमविचलितं तद्वत्त्वमसि । अथवा। अस्मदीये यज्ञे दृढो भव । त्वं पुनरन्ययज्ञजिगमिषुर्मा भूः । त्वं पूः पूरकः कामानामसि । किमत्र विद्यत इति चेदुच्यते । “निष्कृतं निष्कर्तारं “ते त्वां “भद्रा कल्याणी “इयं “धीः स्तुतिः क्रिया वा “ऋत्वियावती । ऋतुशब्दः कालोपलक्षकः । स्वकालोपेता सती “एति गच्छति । यद्वा । ते निष्कृतं स्थानमेति ॥


मा सी॑मव॒द्य आ भा॑गु॒र्वी काष्ठा॑ हि॒तं धन॑म् ।

अ॒पावृ॑क्ता अर॒त्नय॑ः ॥८

मा । सी॒म् । अ॒व॒द्ये । आ । भा॒क् । उ॒र्वी । काष्ठा॑ । हि॒तम् । धन॑म् ।

अ॒प॒ऽआवृ॑क्ताः । अ॒र॒त्नयः॑ ॥८

मा । सीम् । अवद्ये । आ । भाक् । उर्वी । काष्ठा । हितम् । धनम् ।

अपऽआवृक्ताः । अरत्नयः ॥८

“मा अस्मान् “सीं सर्वतः “अवद्यः निन्दा “आ "भाक् माभजतु । प्राप्नोतु न कुतश्चित् । पापरहितान् कुर्वित्यर्थः। किंच "उर्वी “काष्ठा बह्वन्तरालमाज्यन्तः । ‘आज्यन्तोऽपि काष्ठोच्यते क्रान्त्वा स्थिता भवति' (निरु. २. १५) इति यास्कः । तत्र “हितं निहितं शत्रुसंबन्धि “धनम् अस्माकं भवत्वित्यर्थः । “अरत्नयः अरममाणाः शत्रवः "अपावृक्ताः सन्त्विति शेषः ॥


तु॒रीयं॒ नाम॑ य॒ज्ञियं॑ य॒दा कर॒स्तदु॑श्मसि ।

आदित्पति॑र्न ओहसे ॥९

तु॒रीय॑म् । नाम॑ । य॒ज्ञिय॑म् । य॒दा । करः॑ । तत् । उ॒श्म॒सि॒ ।

आत् । इत् । पतिः॑ । नः॒ । ओ॒ह॒से॒ ॥९

तुरीयम् । नाम । यज्ञियम् । यदा । करः । तत् । उश्मसि ।

आत् । इत् । पतिः । नः । ओहसे ॥९

हे इन्द्र त्वं “यज्ञियं यज्ञसंबन्धि “तुरीयं चतुर्थं “नाम "यदा “करः करोषि “तदुश्मसि कामयामहे । “आदित् अनन्तरमेव नामकामानन्तरमेव “पतिः पालकस्त्वं “नः अस्मान् “ओहसे वहसि प्रापयसि । नक्षत्रनाम गुह्यं नाम प्रकाशं नामेति त्रीणि नामानि सोमयाजीति तुरीयं नाम तच्च यज्ञियम् ।।


अवी॑वृधद्वो अमृता॒ अम॑न्दीदेक॒द्यूर्दे॑वा उ॒त याश्च॑ देवीः ।

तस्मा॑ उ॒ राध॑ः कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥१०

अवी॑वृधत् । वः॒ । अ॒मृ॒ताः॒ । अम॑न्दीत् । ए॒क॒ऽद्यूः । दे॒वाः॒ । उ॒त । याः । च॒ । दे॒वीः॒ ।

तस्मै॑ । ऊं॒ इति॑ । राधः॑ । कृ॒णु॒त॒ । प्र॒ऽश॒स्तम् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥१०

अवीवृधत् । वः । अमृताः । अमन्दीत् । एकऽद्यूः । देवाः । उत । याः । च । देवीः ।

तस्मै । ऊं इति । राधः । कृणुत । प्रऽशस्तम् । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥१०

इयं वैश्वदेवी । हे “देवाः हे “अमृताः अमरणाः “वः युष्मानयम् “अवीवृधत् वर्धयति स्तुत्या “अमन्दीत् तर्पयति सोमेन “एकद्यूः ऋषिरहम् । “उत अपि च हे “देवीः देव्यो देवपत्न्यः “याश्च यूयं स्थ युष्मानप्यवीवृधदमन्दीच्च । “तस्मै “राधः धनं “प्रशस्तं प्रवृद्धं “कृणुत कुरुन । “उ इति पूरण एवकारार्थो वा । “प्रातः प्रातरेव “मक्षु क्षिप्रं “धियावसुः कर्मधन इन्द्रः “जगम्यात् आगच्छतु । इन्द्रस्य देवस्वामित्वादाधिक्यद्योतनाय पुनरभिधानम् ॥ ।। ३६ ।। ।। ८ ।।


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.८०&oldid=193136" इत्यस्माद् पुनः प्राप्तिः