ऋग्वेदः सूक्तं ८.२५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.२४ ऋग्वेदः - मण्डल ८
सूक्तं ८.२५
विश्वमना वैयश्वः।
सूक्तं ८.२६ →
दे. मित्रावरुणौ, १०-१२ विश्वे देवाः। उष्णिक्, २३ उष्णिग्गर्भा


ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया ।
ऋतावाना यजसे पूतदक्षसा ॥१॥
मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः ।
सनात्सुजाता तनया धृतव्रता ॥२॥
ता माता विश्ववेदसासुर्याय प्रमहसा ।
मही जजानादितिरृतावरी ॥३॥
महान्ता मित्रावरुणा सम्राजा देवावसुरा ।
ऋतावानावृतमा घोषतो बृहत् ॥४॥
नपाता शवसो महः सूनू दक्षस्य सुक्रतू ।
सृप्रदानू इषो वास्त्वधि क्षितः ॥५॥
सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः ।
नभस्वतीरा वां चरन्तु वृष्टयः ॥६॥
अधि या बृहतो दिवोऽभि यूथेव पश्यतः ।
ऋतावाना सम्राजा नमसे हिता ॥७॥
ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू ।
धृतव्रता क्षत्रिया क्षत्रमाशतुः ॥८॥
अक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षसा ।
नि चिन्मिषन्ता निचिरा नि चिक्यतुः ॥९॥
उत नो देव्यदितिरुरुष्यतां नासत्या ।
उरुष्यन्तु मरुतो वृद्धशवसः ॥१०॥
ते नो नावमुरुष्यत दिवा नक्तं सुदानवः ।
अरिष्यन्तो नि पायुभिः सचेमहि ॥११॥
अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे ।
श्रुधि स्वयावन्सिन्धो पूर्वचित्तये ॥१२॥
तद्वार्यं वृणीमहे वरिष्ठं गोपयत्यम् ।
मित्रो यत्पान्ति वरुणो यदर्यमा ॥१३॥
उत नः सिन्धुरपां तन्मरुतस्तदश्विना ।
इन्द्रो विष्णुर्मीढ्वांसः सजोषसः ॥१४॥
ते हि ष्मा वनुषो नरोऽभिमातिं कयस्य चित् ।
तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥१५॥
अयमेक इत्था पुरूरु चष्टे वि विश्पतिः ।
तस्य व्रतान्यनु वश्चरामसि ॥१६॥
अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम ।
मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ॥१७॥
परि यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः ।
उभे आ पप्रौ रोदसी महित्वा ॥१८॥
उदु ष्य शरणे दिवो ज्योतिरयंस्त सूर्यः ।
अग्निर्न शुक्रः समिधान आहुतः ॥१९॥
वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः ।
ईशे हि पित्वोऽविषस्य दावने ॥२०॥
तत्सूर्यं रोदसी उभे दोषा वस्तोरुप ब्रुवे ।
भोजेष्वस्माँ अभ्युच्चरा सदा ॥२१॥
ऋज्रमुक्षण्यायने रजतं हरयाणे ।
रथं युक्तमसनाम सुषामणि ॥२२॥
ता मे अश्व्यानां हरीणां नितोशना ।
उतो नु कृत्व्यानां नृवाहसा ॥२३॥
स्मदभीशू कशावन्ता विप्रा नविष्ठया मती ।
महो वाजिनावर्वन्ता सचासनम् ॥२४॥


सायणभाष्यम्

‘ ता वाम्' इति चतुर्विंशत्यृचं पञ्चमं सूक्तम् । अत्रेयमनुक्रमणिका-' ता वां चतुर्विंशतिर्मैत्रावरुणं दशम्याद्यास्तिस्रो वैश्वदेव्य उपान्त्योष्णिग्गर्भा ' इति । व्यश्वपुत्रो विश्वमना ऋषिः । उष्णिक् छन्दः । उपान्त्या उष्णिग्गर्भा ‘षट्सप्तैकादशा उष्णिग्गर्भा' (अनु. ४. ३ ) इति तल्लक्षणोपेतत्वात् । दशम्येकादशीद्वादश्यो वैश्वदेव्योऽवशिष्टानां मित्रावरुणौ देवता । सूक्तविनियोगो लैङ्गिकः ॥


ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑ ।

ऋ॒तावा॑ना यजसे पू॒तद॑क्षसा ॥१

ता । वा॒म् । विश्व॑स्य । गो॒पा । दे॒वा । दे॒वेषु॑ । य॒ज्ञिया॑ ।

ऋ॒तऽवा॑ना । य॒ज॒से॒ । पू॒तऽद॑क्षसा ॥१

ता । वाम् । विश्वस्य । गोपा । देवा । देवेषु । यज्ञिया ।

ऋतऽवाना । यजसे । पूतऽदक्षसा ॥१

हे मित्रावरुणौ “विश्वस्य सर्वस्य लोकस्य “गोपा गोपायितारौ "देवा देवौ द्योतनशीलौ “देवेषु मध्ये “यज्ञिया यज्ञार्हौ “ता तौ तादृशौ “वां युवां हविष्प्रदानार्थं यजमानं भजथः। अत एव हे विश्वमनः “ऋतावाना ऋतावानौ सत्यवन्तौ यज्ञवन्तौ वा पूतदक्षसौ शुद्धबलौ। आवां बलवन्ताविति वचनमात्रेण बलवन्तौ न भवतः किंतु यथार्थत्वेन सामर्थ्यवन्तौ । मित्रावरुणौ “यजसे हविर्भिः पूजयसि ॥


मि॒त्रा तना॒ न र॒थ्या॒३॒॑ वरु॑णो॒ यश्च॑ सु॒क्रतु॑ः ।

स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता ॥२

मि॒त्रा । तना॑ । न । र॒थ्या॑ । वरु॑णः । यः । च॒ । सु॒ऽक्रतुः॑ ।

स॒नात् । सु॒ऽजा॒ता । तन॑या । धृ॒तऽव्र॑ता ॥२

मित्रा । तना । न । रथ्या । वरुणः । यः । च । सुऽक्रतुः ।

सनात् । सुऽजाता । तनया । धृतऽव्रता ॥२

"सुक्रतुः शोभनकर्मा "यः “वरुणः सुकर्मा “मित्रा “च मित्रावरुणौ । कीदृशौ । “तना । तन्वन्ति मुकुटकटकादिनेति तनानि धनानि । नश्चार्थे । धनानि च “रथ्या रथ्यौ नेतारौ । यद्वा । धनानि कर्मणः कर्त्रपेक्षत्वात् प्रयच्छन्ताविति संबध्यते । तादृशौ रथ्यौ रथवन्तौ “सनात् चिरादेव "सुजाता सुजातौ शोभनजन्मानौ । तदेवाह । “तनया तनयौ अदितेः पुत्रौ “धृतव्रता धृतव्रतौ धृतकर्माणौ ता यजस इति पूर्वेण समन्वयः ॥


ता मा॒ता वि॒श्ववे॑दसासु॒र्या॑य॒ प्रम॑हसा ।

म॒ही ज॑जा॒नादि॑तिरृ॒ताव॑री ॥३

ता । मा॒ता । वि॒श्वऽवे॑दसा । अ॒सु॒र्या॑य । प्रऽम॑हसा ।

म॒ही । ज॒जा॒न॒ । अदि॑तिः । ऋ॒तऽव॑री ॥३

ता । माता । विश्वऽवेदसा । असुर्याय । प्रऽमहसा ।

मही । जजान । अदितिः । ऋतऽवरी ॥३

अदितेस्तनयत्वमेव स्फुटयति । “विश्ववेदसा विश्ववेदसौ सर्वधनौ । यद्वा । विश्वानि स्थावरजङ्गमात्मकानि सर्वाणि विदतुर्जानीत इति विश्ववेदसौ । “प्रमहसा प्रमहसौ प्रकृष्टतेजस्कौ “ता तौ तादृशौ मित्रावरुणौ “मही महती “ऋतावरी सत्यवती “माता देवमाता “अदितिः "जजान जनयामास । किमर्थम् । असुर्याय असुराणां हन्त्रे बलाय । असुरान् हन्तुमुत्पादितवतीत्यर्थः ॥


म॒हान्ता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा ।

ऋ॒तावा॑नावृ॒तमा घो॑षतो बृ॒हत् ॥४

म॒हान्ता॑ । मि॒त्रावरु॑णा । स॒म्ऽराजा॑ । दे॒वौ । असु॑रा ।

ऋ॒तऽवा॑नौ । ऋ॒तम् । आ । घो॒ष॒तः॒ । बृ॒हत् ॥४

महान्ता । मित्रावरुणा । सम्ऽराजा । देवौ । असुरा ।

ऋतऽवानौ । ऋतम् । आ । घोषतः । बृहत् ॥४

“महान्ता गुणाधिक्येन महान्तौ “सम्राजा सम्राजौ सम्यग्दीप्यमानौ “असुरा असुरौ बलवन्तौ । यद्वा । सर्वान्तर्यामितया प्रेरकौ । ऋतावाना सत्यवन्तौ मित्रावरुणौ “देवौ “बृहत् स्तोत्रऋचादिना महान्तम् "ऋतं यज्ञम् "आ “घोषतः स्वदीप्त्या प्रकाशयतः । घुषेर्लटि रूपम् ।


नपा॑ता॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतू॑ ।

सृ॒प्रदा॑नू इ॒षो वास्त्वधि॑ क्षितः ॥५

नपा॑ता । शव॑सः । म॒हः । सू॒नू इति॑ । दक्ष॑स्य । सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ ।

सृ॒प्रदा॑नू॒ इति॑ सृ॒प्रऽदा॑नू । इ॒षः । वास्तु॑ । अधि॑ । क्षि॒तः॒ ॥५

नपाता । शवसः । महः । सूनू इति । दक्षस्य । सुक्रतू इति सुऽक्रतू ।

सृप्रदानू इति सृप्रऽदानू । इषः । वास्तु । अधि । क्षितः ॥५

“महः महतः “शवसः बलस्य “नपाता नपातौ पौत्रौ । बलत उत्पादिताविति बलस्य पौत्रौ । तादृशौ "दक्षस्य । दक्ष बृद्धौ शीघ्रार्थे च' इति दक्षो वेगः । तस्य "सूनू पुत्रौ । बलाद्वेग इति तयोः पुत्रत्वम् । तौ “सुक्रतु शोभनकर्माणौ “सृप्रदानू प्रसृतधनादिदानौ मित्रावरुणौ “इषः अन्नस्य “वास्तु निवासस्थाने “अधि “क्षितः अधिवसतः । अधिशीङ् इति वास्तुनः कर्मसंज्ञा । क्षयतेः लटि छान्दसो विकरणस्य लुक्॥ ॥ २१ ॥


सं या दानू॑नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिष॑ः ।

नभ॑स्वती॒रा वां॑ चरन्तु वृ॒ष्टय॑ः ॥६

सम् । या । दानू॑नि । ये॒मथुः॑ । दि॒व्याः । पार्थि॑वीः । इषः॑ ।

नभ॑स्वतीः । आ । वा॒म् । च॒र॒न्तु॒ । वृ॒ष्टयः॑ ॥६

सम् । या । दानूनि । येमथुः । दिव्याः । पार्थिवीः । इषः ।

नभस्वतीः । आ । वाम् । चरन्तु । वृष्टयः ॥६

हे मित्रावरुणौ यौ युवां “दानूनि देयानि धनानि “सं "येमथुः अस्मासु संयच्छतं तथा “दिव्याः दिव्यानि दिवि भवानि “पार्थिवीः पृथिव्यामुत्पन्नानि “इषः अन्नानि संयच्छतम् । वृष्ट्यभावे कथमन्नं लभ्यत इति चेत् तदुच्यते । “नभस्वतीः उदकवत्यः “वृष्टयः तादृशौ “वां युवाम् “आ “चरन्तु उपतिष्ठन्तु । यदा वृष्ट्यवेला तदा वर्षतमित्यर्थः ॥


अधि॒ या बृ॑ह॒तो दि॒वो॒३॒॑ऽभि यू॒थेव॒ पश्य॑तः ।

ऋ॒तावा॑ना स॒म्राजा॒ नम॑से हि॒ता ॥७

अधि॑ । या । बृ॒ह॒तः । दि॒वः । अ॒भि । यू॒थाऽइ॑व । पश्य॑तः ।

ऋ॒तऽवा॑ना । स॒म्ऽराजा॑ । नम॑से । हि॒ता ॥७

अधि । या । बृहतः । दिवः । अभि । यूथाऽइव । पश्यतः ।

ऋतऽवाना । सम्ऽराजा । नमसे । हिता ॥७

“या यौ मित्रावरुणौ “बृहतो "दिवः द्योतमानान् देवान् “अधि “पश्यतः । तत्र दृष्टान्तः ।। “यूथेव। यथा वृषभो गोयूथानि रन्तुम् "अभि अभिमुखं पश्यति तद्वदेतौ स्ववीर्येणासुरान् हत्वा देवान् नोदयितुं पश्यत इत्यर्थः । कीदृशौ । “ऋतावाना सत्यवन्तौ “सम्राजा सम्राजौ सम्यग्दीप्यमानौ “नमसे हविषे “हिता हितौ प्रियौ पश्यत इति ॥


ऋ॒तावा॑ना॒ नि षे॑दतु॒ः साम्रा॑ज्याय सु॒क्रतू॑ ।

धृ॒तव्र॑ता क्ष॒त्रिया॑ क्ष॒त्रमा॑शतुः ॥८

ऋ॒तऽवा॑ना । नि । से॒द॒तुः॒ । साम्ऽरा॑ज्याय । सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ ।

धृ॒तऽव्र॑ता । क्ष॒त्रिया॑ । क्ष॒त्रम् । आ॒श॒तुः॒ ॥८

ऋतऽवाना । नि । सेदतुः । साम्ऽराज्याय । सुक्रतू इति सुऽक्रतू ।

धृतऽव्रता । क्षत्रिया । क्षत्रम् । आशतुः ॥८

"ऋतावाना ऋतावानौ सत्यवन्तौ "सुक्रतू शोभनकर्माणौ सुप्रज्ञौ वा मित्रावरुणौ "साम्राज्याय साम्राज्यार्थं "नि “षेदतुः न्यसीदताम् । तथा मन्त्रः --- नि षसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुः' (ऋ. सं. १. २५. १०) इति । “धृतव्रता धृतव्रतौ धृतकर्माणौ "क्षत्रिया क्षत्रियौ बलवन्तौ "क्षत्रं बलम् "आशतुः आनशाते व्याप्नुत इत्यर्थः ।


अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒ चक्ष॑सा ।

नि चि॑न्मि॒षन्ता॑ निचि॒रा नि चि॑क्यतुः ॥९

अ॒क्ष्णः । चि॒त् । गा॒तु॒वित्ऽत॑रा । अ॒नु॒ल्ब॒णेन॑ । चक्ष॑सा ।

नि । चि॒त् । मि॒षन्ता॑ । नि॒ऽचि॒रा । नि । चि॒क्य॒तुः॒ ॥९

अक्ष्णः । चित् । गातुवित्ऽतरा । अनुल्बणेन । चक्षसा ।

नि । चित् । मिषन्ता । निऽचिरा । नि । चिक्यतुः ॥९

“अक्ष्णश्चित् चक्षुषोऽपि पूर्वं "गातुवित्तरा गातुवित्तरावतिशयेन मार्गवेत्तारौ । यद्वा । गातुवित्तरौ गातु गमनशीलं प्राणिजातं चक्षुषोऽपि पूर्वं वेत्तारौ मित्रावरुणौ । कीदृशौ। "नि "मिषन्ता निमिषन्तौ सर्वमुन्मेषयन्तौ स्वस्वकर्मणि "निचिरा नितरां चिरंतनौ तौ “अनुल्बणेन । उल्बणमिति दुःसहमग्नेस्तेजः । तद्वददुःसहेन "चक्षसा अहोरात्रयोर्व्याप्तेन तेजसैब "नि "चिक्यतुः पूजितौ बभूवतुः । "चित् अवधारणे ॥


उ॒त नो॑ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या ।

उ॒रु॒ष्यन्तु॑ म॒रुतो॑ वृ॒द्धश॑वसः ॥१०

उ॒त । नः॒ । दे॒वी । अदि॑तिः । उ॒रु॒ष्यता॑म् । नास॑त्या ।

उ॒रु॒ष्यन्तु॑ । म॒रुतः॑ । वृ॒द्धऽश॑वसः ॥१०

उत । नः । देवी । अदितिः । उरुष्यताम् । नासत्या ।

उरुष्यन्तु । मरुतः । वृद्धऽशवसः ॥१०

“उत अपि च "देवी द्योतनशीला "अदितिः मित्रावरुणयोर्माता “नः अस्मान् रक्षतु । “नासत्या नासत्यौ । असत्यमनयोर्नास्तीति नासत्यौ। अश्विनौ च “उरुष्यतां रक्षताम् । उरुष्यतिः कण्ड्वादिः । "वृद्धश्रवसः वृद्धवेगाः । अतिशयेन वेगवन्त इत्यर्थः । यद्वा वर्धनशीलहविर्लक्षणान्नोपेताः । “मरुतः “उरुष्यन्तु अस्मान् पालयन्तु ॥ ॥ २२ ॥


ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः ।

अरि॑ष्यन्तो॒ नि पा॒युभि॑ः सचेमहि ॥११

ते । नः॒ । ना॒वम् । उ॒रु॒ष्य॒त॒ । दिवा॑ । नक्त॑म् । सु॒ऽदा॒न॒वः॒ ।

अरि॑ष्यन्तः । नि । पा॒युऽभिः॑ । स॒चे॒म॒हि॒ ॥११

ते । नः । नावम् । उरुष्यत । दिवा । नक्तम् । सुऽदानवः ।

अरिष्यन्तः । नि । पायुऽभिः । सचेमहि ॥११

हे सुदानवः शोभनदाना मरुतः "अरिष्यन्तः केनाप्यहिंसिताः “ते तादृशा यूयं “नः अस्मदीयां "नावं यज्ञियां नावं "दिवा “नक्तं च “उरुष्यत पालयत । ततो वयं "पायुभिः युष्मदीयैः पालनैः "नि "सचेमहि नितरां समवेता भवेम ॥


अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यन्तः सु॒दान॑वे ।

श्रु॒धि स्व॑यावन्सिन्धो पू॒र्वचि॑त्तये ॥१२

अघ्न॑ते । विष्ण॑वे । व॒यम् । अरि॑ष्यन्तः । सु॒ऽदान॑वे ।

श्रु॒धि । स्व॒ऽया॒व॒न् । सि॒न्धो॒ इति॑ । पू॒र्वऽचि॑त्तये ॥१२

अघ्नते । विष्णवे । वयम् । अरिष्यन्तः । सुऽदानवे ।

श्रुधि । स्वऽयावन् । सिन्धो इति । पूर्वऽचित्तये ॥१२

पूर्वोऽर्धर्चः परोक्षकृतः । “अरिष्यन्तः पालनवत्त्वात् केनाप्यबाधिताः "वयम् "अघ्नते स्तोतॄणां यष्टॄणां चाहिंसकाय “सुदानवे शोभनदानाय "विष्णवे स्वमहत्त्वेन सर्वव्यापकायैतन्नामकाय देवाय स्तुतिं कुर्मः । अथ प्रत्यक्षः । हे "स्वयावन् । स्वयमेवासहायः सन् दिवि संग्रामे वा यातीति स्वयावान् । "सिन्धो स्तोतॄन् प्रति धनानां स्यन्दनशील विष्णो “पूर्वचित्तये । चित्तिः कर्म । मन्त्रान्तरेऽपि तथा श्रवणात् - ‘सा चित्तिभिर्नि हि चकार मर्त्यम् ' (ऋ. सं. १. १६४. २९) इति । पूर्वं प्रारब्धकर्मणे यजमानाय तदर्थं "श्रुधि अस्माभिः क्रियमाणां स्तुतिं त्वं शृणु ॥


तद्वार्यं॑ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्य॑म् ।

मि॒त्रो यत्पान्ति॒ वरु॑णो॒ यद॑र्य॒मा ॥१३

तत् । वार्य॑म् । वृ॒णी॒म॒हे॒ । वरि॑ष्ठम् । गो॒प॒यत्य॑म् ।

मि॒त्रः । यत् । पान्ति॑ । वरु॑णः । यत् । अ॒र्य॒मा ॥१३

तत् । वार्यम् । वृणीमहे । वरिष्ठम् । गोपयत्यम् ।

मित्रः । यत् । पान्ति । वरुणः । यत् । अर्यमा ॥१३

“वरिष्ठम् उरुतरं “गोपयत्यं सर्वेषां रक्षकं यतैः पालनीयं वा "वार्यं सर्वैर्वननीयं "तत् धनं “वृणीमहे वयं संभजामहे । “यत् धनं “मित्रः सर्वेषां मित्रभूतः "वरुणः शत्रूणां वारयिता “अर्यमा सर्वदा गच्छन् एतन्नामकास्त्रयो देवाः "पान्ति पालयन्ति । तद्धनं वृणीमहे । अस्मदीयस्य धनस्य रक्षका भवन्तीत्यर्थः ॥


उ॒त न॒ः सिन्धु॑र॒पां तन्म॒रुत॒स्तद॒श्विना॑ ।

इन्द्रो॒ विष्णु॑र्मी॒ढ्वांस॑ः स॒जोष॑सः ॥१४

उ॒त । नः॒ । सिन्धुः॑ । अ॒पाम् । तत् । म॒रुतः॑ । तत् । अ॒श्विना॑ ।

इन्द्रः॑ । विष्णुः॑ । मी॒ढ्वांसः॑ । स॒ऽजोष॑सः ॥१४

उत । नः । सिन्धुः । अपाम् । तत् । मरुतः । तत् । अश्विना ।

इन्द्रः । विष्णुः । मीढ्वांसः । सऽजोषसः ॥१४

पुनरपि धनरक्षणमेवाशास्ते। “उत अपि च “अपाम् उदकानां “सिन्धुः स्यन्दनाशीलः पर्जन्यः “नः अस्मदीयं "तत् धनं रक्षतु । "तत् एव “मरुतः च पालयन्तु । "अश्विना अश्विनौ देवौ तद्धनं पालयताम् । तथा “इन्द्रः "विष्णुः ॥ “मीढ्वांसः कामानां सेक्तार एते सर्वे देवाः "सजोषसः संगताः सन्तोऽस्मदीयं धनं रक्षन्तु । एते देवा अस्मभ्यं धनं दत्त्वा पालयन्त्वित्यर्थः ॥


ते हि ष्मा॑ व॒नुषो॒ नरो॒ऽभिमा॑तिं॒ कय॑स्य चित् ।

ति॒ग्मं न क्षोद॑ः प्रति॒घ्नन्ति॒ भूर्ण॑यः ॥१५

ते । हि । स्म॒ । व॒नुषः॑ । नरः॑ । अ॒भिऽमा॑तिम् । कय॑स्य । चि॒त् ।

ति॒ग्मम् । न । क्षोदः॑ । प्र॒ति॒ऽघ्नन्ति॑ । भूर्ण॑यः ॥१५

ते । हि । स्म । वनुषः । नरः । अभिऽमातिम् । कयस्य । चित् ।

तिग्मम् । न । क्षोदः । प्रतिऽघ्नन्ति । भूर्णयः ॥१५

“वनुषः वननीयाः संभजनीयाः "नरः नेतारः “ते “हि “ष्मा ते खलु देवाः “भूर्णयः क्षिप्रगमनाः सन्तः "कयस्य “चित् कस्यचिच्छत्रोः "अभिमातिम् अभिमानं “प्रतिघ्नन्ति प्रतिकूलं यथा भवति तथा हिंसन्ति । तत्र दृष्टान्तः । "तिग्मं “न यथा तिग्मं तीक्ष्णं जवेन गच्छत् “क्षोदः उदकमग्रतः स्थितं वृक्षमुन्मूलयति तद्वत्तस्याभिमानं घ्नन्तीत्यर्थः ॥ ॥ २३ ॥


अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पति॑ः ।

तस्य॑ व्र॒तान्यनु॑ वश्चरामसि ॥१६

अ॒यम् । एकः॑ । इ॒त्था । पु॒रु । उ॒रु । च॒ष्टे॒ । वि । वि॒श्पतिः॑ ।

तस्य॑ । व्र॒तानि॑ । अनु॑ । वः॒ । च॒रा॒म॒सि॒ ॥१६

अयम् । एकः । इत्था । पुरु । उरु । चष्टे । वि । विश्पतिः ।

तस्य । व्रतानि । अनु । वः । चरामसि ॥१६

मित्रस्य कर्माण्याह । "विश्पतिः विशां पालयिता अनयोर्मित्रावरुणयोः "एकः "अयं मित्रः “पुरु पुरूणि बहूनि च “उरु उरूणि च द्रव्याणि “इत्था इत्थं “वि “चष्टे स्वतेजसा पश्यति । “तस्य मित्रस्य “व्रतानि कर्माणि "वः युष्मदर्थम् "अनु "चरामसि अनुचरामः । कुर्म इत्यर्थः ॥


अनु॒ पूर्वा॑ण्यो॒क्या॑ साम्रा॒ज्यस्य॑ सश्चिम ।

मि॒त्रस्य॑ व्र॒ता वरु॑णस्य दीर्घ॒श्रुत् ॥१७

अनु॑ । पूर्वा॑णि । ओ॒क्या॑ । सा॒म्ऽरा॒ज्यस्य॑ । स॒श्चि॒म॒ ।

मि॒त्रस्य॑ । व्र॒ता । वरु॑णस्य । दी॒र्घ॒ऽश्रुत् ॥१७

अनु । पूर्वाणि । ओक्या । साम्ऽराज्यस्य । सश्चिम ।

मित्रस्य । व्रता । वरुणस्य । दीर्घऽश्रुत् ॥१७

"साम्राज्यस्य । सम्राजो भावः साम्राज्यम्। साम्राज्यमस्यास्तीति साम्राज्यः। 'अर्शआदिभ्यः' इत्यच्प्रत्ययः । साम्राज्यवतो वरुणस्य "पूर्वाणि पुरातनानि “ओक्या । ओको गृहम् । तस्मै हितानि कर्माणि वयं "सश्चिम । सश्चतिर्गतिकर्मा । लिटि रूपम् । द्विर्वचनस्य छन्दसि विकल्पितत्वादत्र द्विर्वचनाभावः । तदेवाह । "मित्रस्य “व्रता व्रतानि कर्माणि च "दीर्घश्रुत् । ' सुपां सुलुक्' इति षष्ठ्या लुक् । दीर्घश्रुतोऽतिशयेन प्रसिद्धस्य "वरुणस्य व्रतानि च सश्चिमेति ॥


परि॒ यो र॒श्मिना॑ दि॒वोऽन्ता॑न्म॒मे पृ॑थि॒व्याः ।

उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ॥१८

परि॑ । यः । र॒श्मिना॑ । दि॒वः । अन्ता॑न् । म॒मे । पृ॒थि॒व्याः ।

उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ॥१८

परि । यः । रश्मिना । दिवः । अन्तान् । ममे । पृथिव्याः ।

उभे इति । आ । पप्रौ । रोदसी इति । महिऽत्वा ॥१८

"यः मित्रः “दिवः "पृथिव्याः द्यावापृथिव्योः "अन्तान् "रश्मिना स्वतेजसा "परि “ममे परिमिनोति । तयोः पर्यन्तान् स्वरश्मिना भासयतीत्यर्थः। स एव "उभे "रोदसी द्यावापृथिव्यौ “महित्वा स्वमहिम्ना "आ "पप्रौ आ समन्तात् पूरयति ॥


उदु॒ ष्य श॑र॒णे दि॒वो ज्योति॑रयंस्त॒ सूर्य॑ः ।

अ॒ग्निर्न शु॒क्रः स॑मिधा॒न आहु॑तः ॥१९

उत् । ऊं॒ इति॑ । स्यः । श॒र॒णे । दि॒वः । ज्योतिः॑ । अ॒यं॒स्त॒ । सूर्यः॑ ।

अ॒ग्निः । न । शु॒क्रः । स॒म्ऽइ॒धा॒नः । आऽहु॑तः ॥१९

उत् । ऊं इति । स्यः । शरणे । दिवः । ज्योतिः । अयंस्त । सूर्यः ।

अग्निः । न । शुक्रः । सम्ऽइधानः । आऽहुतः ॥१९

"सूर्यः सुवीर्यः सुष्ठु सर्वस्य प्रेरकः "स्यः स मित्रो वरुणश्च "दिवः द्योतमानस्यादित्यस्य "शरणे स्थाने नभसि "ज्योतिः आत्मीयं तेजः "उत् "अयंस्त उद्यच्छति । ऊर्ध्वं गमयति । सर्वत्र विस्तारयतीत्यर्थः । यमेर्लुङि रूपम् । ततः सः “अग्निर्न “शुक्रः अग्निरिव दीप्यमानः "समिधानः हविर्भिः समिध्यमानः “आहुतः सर्वैराहूतस्तिष्ठति । ।


वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः ।

ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑ ॥२०

वचः॑ । दी॒र्घऽप्र॑सद्मनि । ईशे॑ । वाज॑स्य । गोऽम॑तः ।

ईशे॑ । हि । पि॒त्वः । अ॒वि॒षस्य॑ । दा॒वने॑ ॥२०

वचः । दीर्घऽप्रसद्मनि । ईशे । वाजस्य । गोऽमतः ।

ईशे । हि । पित्वः । अविषस्य । दावने ॥२०

हे स्तोतः "दीर्घप्रसद्मनि दीर्घं प्रततं विस्तृतं सद्म सदनं यस्मिन् यज्ञे "वचः मित्रं वरुणं च स्तुहि । वक्तेर्लेट्यडागमः । स वरुणः “गोमतः पशुमतः “वाजस्य अन्नस्य "ईशे ईष्टे स्वामी भवति । केवलं स्वामी न भवति किंतु "अविषस्य महतः प्रीतिकारिणः पित्वः अन्नस्य “दावने दानाय च "ईशे समर्थों भवति । ये स्तोत्रं कुर्वन्ति तेभ्योऽयं ददातीत्यर्थः ॥ ॥ २४ ॥


तत्सूर्यं॒ रोद॑सी उ॒भे दो॒षा वस्तो॒रुप॑ ब्रुवे ।

भो॒जेष्व॒स्माँ अ॒भ्युच्च॑रा॒ सदा॑ ॥२१

तत् । सूर्य॑म् । रोद॑सी॒ इति॑ । उ॒भे इति॑ । दो॒षा । वस्तोः॑ । उप॑ । ब्रु॒वे॒ ।

भो॒जेषु॑ । अ॒स्मान् । अ॒भि । उत् । च॒र॒ । सदा॑ ॥२१

तत् । सूर्यम् । रोदसी इति । उभे इति । दोषा । वस्तोः । उप । ब्रुवे ।

भोजेषु । अस्मान् । अभि । उत् । चर । सदा ॥२१

“सूर्यं सुवीर्यं "तत् वारुणं मैत्रं च तेजः "उभे "रोदसी उभे द्यावापृथिव्यौ च "दोषा । ‘सुपां सुलुक्' इति द्वितीयाया लुक् । 'कालाध्वनोः' इति द्वितीथा। रात्रौ "वस्तोः अहनि चाहम् "उप “ब्रुवे उपस्तौमि । त्वं स्तूयमानो वरुणः “भोजेषु दातृषु "अस्मान् सदा “अभ्युच्चर सर्वदाभिमुखं प्रेरय । दातृष्वेतेषां दानेष्वस्मान् पुरोभाविनः कुर्वित्यर्थः ।।


ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे ।

रथं॑ यु॒क्तम॑सनाम सु॒षाम॑णि ॥२२

ऋ॒ज्रम् । उ॒क्ष॒ण्याय॑ने । र॒ज॒तम् । हर॑याणे ।

रथ॑म् । यु॒क्तम् । अ॒स॒ना॒म॒ । सु॒ऽसाम॑नि ॥२२

ऋज्रम् । उक्षण्यायने । रजतम् । हरयाणे ।

रथम् । युक्तम् । असनाम । सुऽसामनि ॥२२

सुषाम्णः पुत्रो वरुर्नाम राजा । स यद्दानं प्रादात् विश्वमनसे तदसौ विश्वमना ऋषिरनया आचष्टे । "उक्षण्यायने । उक्षनामा कश्चिद्वरोः पूर्वजः। तस्य गोत्रापत्य उक्षण्शब्दाण्ण्यः । तदन्तात् फक्प्रत्ययः । एतौ छान्दसौ। वृद्धिभावोऽपि संज्ञापूर्वको विधिरनित्यः' इति न भवति । तस्य गोत्रापत्ये "हरयाणे शत्रुजीवितैश्वर्यादिहरणशीलयाने एतादृशे “सुषामणि । बहुवत्पितृशब्देन पुत्रोऽभिधीयते । सुषाम्णः पुत्रे वरौ राजनि ददति सति किमभूत्। “ऋज्रम् ऋजुगामिनं "रजतं रजतमयं रजतसदृशं वा "युक्तम् अश्वाभ्यां युक्तं “रथम् "असनाम् । एतेषां मित्रादीनां प्रसादात् वयं संभक्तवन्तो लब्धवन्तोऽभूम ॥


ता मे॒ अश्व्या॑नां॒ हरी॑णां नि॒तोश॑ना ।

उ॒तो नु कृत्व्या॑नां नृ॒वाह॑सा ॥२३

ता । मे॒ । अश्व्या॑नाम् । हरी॑णाम् । नि॒ऽतोश॑ना ।

उ॒तो इति॑ । नु । कृत्व्या॑नाम् । नृ॒ऽवाह॑सा ॥२३

ता । मे । अश्व्यानाम् । हरीणाम् । निऽतोशना ।

उतो इति । नु । कृत्व्यानाम् । नृऽवाहसा ॥२३

ऋषिः प्रतिगृहीतावश्वावाह। "हरीणां हरितवर्णानाम् "अश्व्यानाम् अश्वसंघानां मध्ये “नितोशना नितोशनौ । तोशतिर्हिंसाकम। शत्रूणामत्यन्तं बाधकृतौ "उतो अपि च "कृत्व्यानां युद्धकर्मणि कुशलानां च स्वकुशलमिति बाधकौ "नृवाहसा नृवाहसौ आयुधनेतॄणां मनुष्याणां वोढारौ "ता तावश्वौ "मे मह्यं "नु क्षिप्रं सौषाम्णेन वरुणा दत्तौ भवेताम् ।।


स्मद॑भीशू॒ कशा॑वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती ।

म॒हो वा॒जिना॒वर्व॑न्ता॒ सचा॑सनम् ॥२४

स्मद॑भीशू॒ इति॒ स्मत्ऽअ॑भीशू । कशा॑ऽवन्ता । विप्रा॑ । नवि॑ष्ठया । म॒ती ।

म॒हः । वा॒जिनौ॑ । अर्व॑न्ता । सचा॑ । अ॒स॒न॒म् ॥२४

स्मदभीशू इति स्मत्ऽअभीशू । कशाऽवन्ता । विप्रा । नविष्ठया । मती ।

महः । वाजिनौ । अर्वन्ता । सचा । असनम् ॥२४

ऋषिरिदानीं तावश्वावग्रहीषमित्याह। "स्मदभीशू। स्मत्सुमत् । उकारलोपश्छान्दसः । शोभनरज्जुयुक्तौ यद्वा शोभनशरीरकान्ती "कशावन्ता कशावन्तौ कशायुक्तौ "विप्रा विप्रौ मेधाविनामुचितौ । मेधावी स्तोता यथा स्तुत्यं देवं स्तुतिभिः प्रीणयति तद्वत् संतोषकौ । "महः महतः सौषाम्णस्य वरोः संवन्धिनौ "वाजिनौ शीघ्रगमनवन्तौ “अर्वन्ता अर्वन्तौ द्वावश्वौ “सचा सह युगपदेव "नविष्ठया नवतरया "मती मत्या स्तुत्या मित्रादीन् स्तुवन् “असनम् । विश्वमना अहं समभजम् । प्रत्यग्रहीषमित्यर्थः ॥ ॥ २५ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.२५&oldid=201711" इत्यस्माद् पुनः प्राप्तिः