ऋग्वेदः सूक्तं ८.२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.१ ऋग्वेदः - मण्डल ८
सूक्तं ८.२
१-४० मेधातिथिः काण्वः, आङ्गिरसः प्रियमेधश्च, ४१-४२ मेधातिथिः काण्वः।
सूक्तं ८.३ →
दे. इन्द्रः, ४१-४२ विभिन्दुः। गायत्री, २८ अनुष्टुप्


इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् ।
अनाभयिन्ररिमा ते ॥१॥
नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः ।
अश्वो न निक्तो नदीषु ॥२॥
तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः ।
इन्द्र त्वास्मिन्सधमादे ॥३॥
इन्द्र इत्सोमपा एक इन्द्रः सुतपा विश्वायुः ।
अन्तर्देवान्मर्त्याँश्च ॥४॥
न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम् ।
अपस्पृण्वते सुहार्दम् ॥५॥
गोभिर्यदीमन्ये अस्मन्मृगं न व्रा मृगयन्ते ।
अभित्सरन्ति धेनुभिः ॥६॥
त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य ।
स्वे क्षये सुतपाव्नः ॥७॥
त्रयः कोशास श्चोतन्ति तिस्रश्चम्वः सुपूर्णाः ।
समाने अधि भार्मन् ॥८॥
शुचिरसि पुरुनिष्ठाः क्षीरैर्मध्यत आशीर्तः ।
दध्ना मन्दिष्ठः शूरस्य ॥९॥
इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः ।
शुक्रा आशिरं याचन्ते ॥१०॥
ताँ आशिरं पुरोळाशमिन्द्रेमं सोमं श्रीणीहि ।
रेवन्तं हि त्वा शृणोमि ॥११॥
हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् ।
ऊधर्न नग्ना जरन्ते ॥१२॥
रेवाँ इद्रेवत स्तोता स्यात्त्वावतो मघोनः ।
प्रेदु हरिवः श्रुतस्य ॥१३॥
उक्थं चन शस्यमानमगोररिरा चिकेत ।
न गायत्रं गीयमानम् ॥१४॥
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।
शिक्षा शचीवः शचीभिः ॥१५॥
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः ।
कण्वा उक्थेभिर्जरन्ते ॥१६॥
न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ ।
तवेदु स्तोमं चिकेत ॥१७॥
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
यन्ति प्रमादमतन्द्राः ॥१८॥
ओ षु प्र याहि वाजेभिर्मा हृणीथा अभ्यस्मान् ।
महाँ इव युवजानिः ॥१९॥
मो ष्वद्य दुर्हणावान्सायं करदारे अस्मत् ।
अश्रीर इव जामाता ॥२०॥
विद्मा ह्यस्य वीरस्य भूरिदावरीं सुमतिम् ।
त्रिषु जातस्य मनांसि ॥२१॥
आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् ।
यशस्तरं शतमूतेः ॥२२॥
ज्येष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय ।
भरा पिबन्नर्याय ॥२३॥
यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरितृभ्यः ।
वाजं स्तोतृभ्यो गोमन्तम् ॥२४॥
पन्यम्पन्यमित्सोतार आ धावत मद्याय ।
सोमं वीराय शूराय ॥२५॥
पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् ।
नि यमते शतमूतिः ॥२६॥
एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् ।
गीर्भिः श्रुतं गिर्वणसम् ॥२७॥
स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि ।
शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादम् ॥२८॥
स्तुतश्च यास्त्वा वर्धन्ति महे राधसे नृम्णाय ।
इन्द्र कारिणं वृधन्तः ॥२९॥
गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि ।
सत्रा दधिरे शवांसि ॥३०॥
एवेदेष तुविकूर्मिर्वाजाँ एको वज्रहस्तः ।
सनादमृक्तो दयते ॥३१॥
हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः ।
महान्महीभिः शचीभिः ॥३२॥
यस्मिन्विश्वाश्चर्षणय उत च्यौत्ना ज्रयांसि च ।
अनु घेन्मन्दी मघोनः ॥३३॥
एष एतानि चकारेन्द्रो विश्वा योऽति शृण्वे ।
वाजदावा मघोनाम् ॥३४॥
प्रभर्ता रथं गव्यन्तमपाकाच्चिद्यमवति ।
इनो वसु स हि वोळ्हा ॥३५॥
सनिता विप्रो अर्वद्भिर्हन्ता वृत्रं नृभिः शूरः ।
सत्योऽविता विधन्तम् ॥३६॥
यजध्वैनं प्रियमेधा इन्द्रं सत्राचा मनसा ।
यो भूत्सोमैः सत्यमद्वा ॥३७॥
गाथश्रवसं सत्पतिं श्रवस्कामं पुरुत्मानम् ।
कण्वासो गात वाजिनम् ॥३८॥
य ऋते चिद्गास्पदेभ्यो दात्सखा नृभ्यः शचीवान् ।
ये अस्मिन्काममश्रियन् ॥३९॥
इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम् ।
मेषो भूतोऽभि यन्नयः ॥४०॥
शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत् ।
अष्टा परः सहस्रा ॥४१॥
उत सु त्ये पयोवृधा माकी रणस्य नप्त्या ।
जनित्वनाय मामहे ॥४२॥


सायणभाष्यम्

‘इदं वसो' इति द्विचत्वारिंशदृचं द्वितीयं सूक्तं काण्वस्य मेधातिथेराङ्गिरसस्य च प्रियमेधस्यार्षम् । शिक्षा विभिन्दो ' इत्यादिके द्वे मेधातिथेरेव । “स्वादवः सोमाः' इत्येषानुष्टुप् शिष्टा गायत्र्यः । इन्द्रो देवता । अन्त्ये द्वे ऋचौ विभिन्दोर्दानस्तुतित्वात्तद्देवताके । तथा चानुक्रान्तम् -- इदं वसो द्विचत्वारिंशन्मेधातिथिराङ्गिरसश्च प्रियमेधः स्वादवोऽनुष्टुबन्त्याभ्यां मेधातिथिर्विभिन्दोर्दानं तुष्टाव' इति । गतः सूक्तविनियोगः । ज्योतिष्टोमे मरुत्वतीय आद्यस्तृचोऽनुचरः। सूत्र्यते हि- इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ' (आश्व. श्रौ. ५. १४) इति । द्वितीये रात्रिपर्याये ब्रह्मशस्त्रेऽयमेव स्तोत्रियस्तृचः । सूत्रितं च- इदं वसो सुतमन्ध इन्द्रेहि मत्स्यन्धसः' (आश्व. श्रौ. ६. ४) इति । अयमेव चतुर्थेऽहन्यपि मरुत्वतीयस्यानुचरस्तृचः । सूत्रितं च -- तं त्वा यज्ञेभिरीमह इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ ' (आश्व. श्रौ. ७. ११) इति ॥


इ॒दं व॑सो सु॒तमन्ध॒ः पिबा॒ सुपू॑र्णमु॒दर॑म् ।

अना॑भयिन्ररि॒मा ते॑ ॥१

इ॒दम् । व॒सो॒ इति॑ । सु॒तम् । अन्धः॑ । पिब॑ । सुऽपू॑र्णम् । उ॒दर॑म् ।

अना॑भयिन् । र॒रि॒म । ते॒ ॥१

इदम् । वसो इति । सुतम् । अन्धः । पिब । सुऽपूर्णम् । उदरम् ।

अनाभयिन् । ररिम । ते ॥१

हे "वसो वासयितरिन्द्र “इदं पुरोवर्तमानं “सुतम् अभिषुतम् “अन्धः अन्नं सोमलक्षणं “पिब । यथा “उदरं त्वदीयं जठरं “सुपूर्णम् अतिशयेन संपूर्णं भवति तथेत्यर्थः । हे अनाभयिन् । आ समन्ताद्बिभेतीत्याभयी । बिभेतेरौणादिक इनिः । नाभय्यनाभयी । तादृश हे इन्द्र “ते तुभ्यं त्वदर्थं “ररिम उक्तलक्षणं सोमं दद्मः । ‘रा दाने' । छान्दसो लिट् ॥


नृभि॑र्धू॒तः सु॒तो अश्नै॒रव्यो॒ वारै॒ः परि॑पूतः ।

अश्वो॒ न नि॒क्तो न॒दीषु॑ ॥२

नृऽभिः॑ । धू॒तः । सु॒तः । अश्नैः॑ । अव्यः॑ । वारैः॑ । परि॑ऽपूतः ।

अश्वः॑ । न । नि॒क्तः । न॒दीषु॑ ॥२

नृऽभिः । धूतः । सुतः । अश्नैः । अव्यः । वारैः । परिऽपूतः ।

अश्वः । न । निक्तः । नदीषु ॥२

"नृभिः अध्वरस्य नेतृभिर्ऋत्विग्भिः “धूतः आधूतोऽदाभ्यग्रह आधवनेन संस्कृतः अश्नैः अश्मभिर्ग्रावभिः करणभूतैः “सुतः अध्वर्युभिरभिषुतः “अव्यः अवेर्मेषस्य “वारैः वालैः “परिपूतः । दशापवित्रस्य नाभिभूतया ऊर्णास्तुकया हि सोमः परिपूयते । तदुक्तं भगवता आपस्तम्बेन-- शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति तां शकटे दशापवित्रस्य नाभिं कुरुते शुक्लं वलक्ष्याः पवित्रममोतं भवति' इति । “नदीषु नदनास्वप्सु “अश्वो “न अश्व इव “निक्तः निर्णिक्तः शोधितः । यथाप्सु स्नातोऽश्वोऽपगतमलः सन् दीप्तो भवति एवं वसतीवर्याख्याभिरद्भिरभिषुतः सोमो दीप्तो भवतीत्यर्थः। ईदृशो यः सोमः ‘तं ते यवम्' इत्युत्तरया संबन्धः ॥


तं ते॒ यवं॒ यथा॒ गोभि॑ः स्वा॒दुम॑कर्म श्री॒णन्त॑ः ।

इन्द्र॑ त्वा॒स्मिन्स॑ध॒मादे॑ ॥३

तम् । ते॒ । यव॑म् । यथा॑ । गोभिः॑ । स्वा॒दुम् । अ॒क॒र्म॒ । श्री॒णन्तः॑ ।

इन्द्र॑ । त्वा॒ । अ॒स्मिन् । स॒ध॒ऽमादे॑ ॥३

तम् । ते । यवम् । यथा । गोभिः । स्वादुम् । अकर्म । श्रीणन्तः ।

इन्द्र । त्वा । अस्मिन् । सधऽमादे ॥३

“तं पूर्वोक्तगुणं सोमं हे इन्द्र “ते त्वदर्थं “यवं “यथा यवमयं सवनीयपुरोडाशमिव “गोभिः गवि भवैः क्षीरादिभिः श्रयणद्रव्यैः “श्रीणन्तः मिश्रीकुर्वन्तः “स्वादु रसत्वेन स्वादनीयम् “अकर्म अकार्ष्म । करोतेर्लुङि ‘मन्त्रे घस' इति च्लेर्लुक् । यस्मादेवं तस्मात् हे “इन्द्र “त्वा त्वां तादृशं सोमं पातुम् “अस्मिन् वर्तमाने “सधमादे सहमदने यज्ञे आह्वयामीति शेषः ॥


महाव्रते निष्केवल्ये गायत्रतृचाशीतौ ‘इन्द्र इत्सोमपाः' इत्येतदादिसूक्तशेषः शंसनीयः । अन्त्यास्तिस्रो वर्जयित्वा तत्रापि ' स्वादवः' इत्येतां परित्यज्य तत्र स्थाने 'न ह्यन्यं बळाकरम्' इत्येतामावपेत् । तथैव पञ्चमारण्यके सूत्रितम् - ' इन्द्र इत्सोमपा एक इत्येतत्प्रभृतीनां तिस्र उत्तमा उद्धरति । तासां स्वादवः सोमा आ याहीत्येतामुद्धृत्य न ह्यन्यं बळाकरमित्येतां प्रत्यवदधाति ' (ऐ. आ. ५. २. ३) इति । पञ्चमेऽहनि मरुत्वतीये ' इन्द्र इत् ' इत्यनुचरस्तृचः । सूत्र्यते हि -- ’ इन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ ' (आश्व. श्रौ. ७. १२) इति ॥

इन्द्र॒ इत्सो॑म॒पा एक॒ इन्द्र॑ः सुत॒पा वि॒श्वायु॑ः ।

अ॒न्तर्दे॒वान्मर्त्याँ॑श्च ॥४

इन्द्रः॑ । इत् । सो॒म॒ऽपाः । एकः॑ । इन्द्रः॑ । सु॒त॒ऽपाः । वि॒श्वऽआ॑युः ।

अ॒न्तः । दे॒वान् । मर्त्या॑न् । च॒ ॥४

इन्द्रः । इत् । सोमऽपाः । एकः । इन्द्रः । सुतऽपाः । विश्वऽआयुः ।

अन्तः । देवान् । मर्त्यान् । च ॥४

“इन्द्र “इत् इन्द्रः “एकः एव “देवान् “मर्त्यान् मनुष्यान् “च "अन्तः मध्ये देवेषु च मध्ये “सोमपाः कृत्स्नस्य सोमस्य पाता । नान्ये । ते ह्येकदेशभाजः । अत एव “सुतपाः सुतस्याभिषुतस्यास्मदीयस्य सोमस्य कार्त्स्येन पाता । “इन्द्रः एक एव “विश्वायुः । स चेन्द्रः सर्वान्नो भवति । धानाकरम्भादिहवींषि सवनेष्विन्द्रायैव हूयन्ते तदभिप्रायेणेदमुच्यते । अत एवंविध इन्द्रोऽस्मदीयं हविः स्वीकरोत्वित्यर्थः ॥


न यं शु॒क्रो न दुरा॑शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सम् ।

अ॒प॒स्पृ॒ण्व॒ते सु॒हार्द॑म् ॥५

न । यम् । शु॒क्रः । न । दुःऽआ॑शीः । न । तृ॒प्राः । उ॒रु॒ऽव्यच॑सम् ।

अ॒प॒ऽस्पृ॒ण्व॒ते । सु॒ऽहार्द॑म् ॥५

न । यम् । शुक्रः । न । दुःऽआशीः । न । तृप्राः । उरुऽव्यचसम् ।

अपऽस्पृण्वते । सुऽहार्दम् ॥५

“उरुव्यचसं विस्तीर्णव्यापनं सुहार्दं सुहृदयं “यम् इन्द्रं “शुक्रः रसाधिक्येन दीप्तः सोमः “न अपस्पृणुते।' स्पृ प्रीतिबलयोः'। अत्रोपसर्गवशात् प्रीत्यभावे वर्तते । नञा च प्रीत्यभावो निवार्यते । न प्रीणयतीति न अपि तु प्रीणयत्येव । तथा “दुराशीः दुःखेन निष्पाद्याशीराश्रयणद्रव्यं यस्य तार्तीयसवनिकस्य सोमस्य सोऽपि यमिन्द्रं “न अपस्पृणुते प्रीणयत्येव । “तृप्राः तर्पका अन्ये चरुपुरोडाशादयश्च यमिन्द्रं “न “अपस्पृण्वते न न प्रीणयन्ति अपि तु प्रीणयन्त्येव तमिन्द्रं स्तुम इति शेषः । यद्वा । अप इत्युपसर्गों धात्वर्थानुवादकः । यमिन्द्रं शुक्रादयो नापस्पृण्वते न प्रीणयन्ति । उरुव्यचसमिति हेतुगर्भविशेषणम् । यतोऽयमिन्द्र उरुव्यचा विस्तीर्णव्याप्तिकः अतः कारणादपर्याप्ताः सन्तः शुक्रादयः प्रीणयितुं न शक्नुवन्तीति भावः ॥ ॥ १७ ॥


गोभि॒र्यदी॑म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गय॑न्ते ।

अ॒भि॒त्सर॑न्ति धे॒नुभि॑ः ॥६

गोभिः॑ । यत् । ई॒म् । अ॒न्ये । अ॒स्मत् । मृ॒गम् । न । व्राः । मृ॒गय॑न्ते ।

अ॒भि॒ऽत्सर॑न्ति । धे॒नुऽभिः॑ ॥६

गोभिः । यत् । ईम् । अन्ये । अस्मत् । मृगम् । न । व्राः । मृगयन्ते ।

अभिऽत्सरन्ति । धेनुऽभिः ॥६

“यत् ये “अस्मत् अस्मत्तः “अन्ये ऋत्विग्यजमानाः "ईम् एनमिन्द्रं "गोभिः गवि भवैः क्षीरादिभिः संस्कृतैः सोमैः सहिताः सन्तः "मृगयन्ते अन्विष्यन्ते । तत्र दृष्टान्तः । “व्राः वरीतारो जालादिभिरुपायैर्निरुन्धाना व्याधाः “मृगं “न यथा मृगमन्विष्यन्ति तद्वदनाधिकारिण एव बलादिन्द्रस्यान्वेषणे वर्तन्त इत्यर्थः । ‘मृग अन्वेषणे ' इति धातुः । ये च जनाः “धेनुभिः । धेनुरिति वाङ्नाम । वाग्भिः स्तुतिभिश्च "अभित्सरन्ति अभिमुखं कुत्सितं गच्छन्ति । सम्यक् स्तोतुं न शक्नुवन्तीत्यर्थः । ‘ त्सर च्छद्मगती । तथाविधा जना इन्द्रं नोपलभन्त इत्यर्थः ॥


दशरात्रे तृतीयेऽहनि मरुत्वतीयस्य त्रय इन्द्रस्य' इति तृचोऽनुचरः । सूत्र्यते हि -- तं तमिद्राधसे महे त्रय इन्द्रस्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ' (आश्व. श्रौ. ७. १०) इति ॥

त्रय॒ इन्द्र॑स्य॒ सोमा॑ः सु॒तास॑ः सन्तु दे॒वस्य॑ ।

स्वे क्षये॑ सुत॒पाव्न॑ः ॥७

त्रयः॑ । इन्द्र॑स्य । सोमाः॑ । सु॒तासः॑ । स॒न्तु॒ । दे॒वस्य॑ ।

स्वे । क्षये॑ । सु॒त॒ऽपाव्नः॑ ॥७

त्रयः । इन्द्रस्य । सोमाः । सुतासः । सन्तु । देवस्य ।

स्वे । क्षये । सुतऽपाव्नः ॥७

“देवस्य दानादिगुणयुक्तस्य “इन्द्रस्य पानार्थं “त्रयः सवनत्रयरूपेण त्रिधा वर्तमानाः “स्वे “क्षये स्वकीये यज्ञगृहे “सुतासः अभिषुताः “सन्तु भवन्तु । “सुतपाव्नः । हेतुगर्भविशेषणमेतत् । यस्मादयमिन्द्रोऽभिषुतस्यैव सोमस्य पाता तस्मादभिषुताः सन्त्वित्यर्थः ॥ ।


त्रय॒ः कोशा॑सः श्चोतन्ति ति॒स्रश्च॒म्व१॒॑ः सुपू॑र्णाः ।

स॒मा॒ने अधि॒ भार्म॑न् ॥८

त्रयः॑ । कोशा॑सः । श्चो॒त॒न्ति॒ । ति॒स्रः । च॒म्वः॑ । सुऽपू॑र्णाः ।

स॒मा॒ने । अधि॑ । भार्म॑न् ॥८

त्रयः । कोशासः । श्चोतन्ति । तिस्रः । चम्वः । सुऽपूर्णाः ।

समाने । अधि । भार्मन् ॥८

“त्रयः त्रिसंख्याकाः “कोशासः कोशाः सोमस्याश्रयभूता द्रोणकलशपूतभृदाधवनीयाख्याः “श्चोतन्ति क्षरन्ति । इन्द्रार्थं सोमं स्रावयन्ति । “तिस्रः त्रिविधाः सवनत्रये वर्तमानाः “चम्वः चमसाश्च “सुपूर्णाः इन्द्रयागाय सोमैः सुपूरिता आसन् । एतत्सर्वं कुत्रेति चेदुच्यते । “समाने एकस्मिन्नेव “भार्मन् भर्मणि भरे ऋत्विग्भिर्भ्रियमाणे यज्ञे । “अधि सप्तम्यर्थानुवादी ॥


शुचि॑रसि पुरुनि॒ःष्ठाः क्षी॒रैर्म॑ध्य॒त आशी॑र्तः ।

द॒ध्ना मन्दि॑ष्ठ॒ः शूर॑स्य ॥९

शुचिः॑ । अ॒सि॒ । पु॒रु॒निः॒ऽस्थाः । क्षी॒रैः । म॒ध्य॒तः । आऽशी॑र्तः ।

द॒ध्ना । मन्दि॑ष्ठः । शूर॑स्य ॥९

शुचिः । असि । पुरुनिःऽस्थाः । क्षीरैः । मध्यतः । आऽशीर्तः ।

दध्ना । मन्दिष्ठः । शूरस्य ॥९

हे सोम त्वं “शुचिरसि । दशापवित्रेण शोधितो भवसि । स त्वं “पुरुनिष्ठाः पुरुषु बहुषु पात्रेषु ग्रहचमसादिषु निःशेषेण स्थाता “मध्यतः मध्ये मैत्रावरुणग्रहादौ “क्षीरैः पयःप्रभृतिभिः श्रयणद्रव्यैः “आशीर्तः मिश्रणेन संस्कृतः । तृतीये सवने “दध्ना चाशीर्तः । एवंभूतस्त्वं “शूरस्य विक्रान्तस्येन्द्रस्य “मन्दिष्ठः मादयितृतमो भव ॥


इ॒मे त॑ इन्द्र॒ सोमा॑स्ती॒व्रा अ॒स्मे सु॒तास॑ः ।

शु॒क्रा आ॒शिरं॑ याचन्ते ॥१०

इ॒मे । ते॒ । इ॒न्द्र॒ । सोमाः॑ । ती॒व्राः । अ॒स्मे इति॑ । सु॒तासः॑ ।

शु॒क्राः । आ॒ऽशिर॑म् । या॒च॒न्ते॒ ॥१०

इमे । ते । इन्द्र । सोमाः । तीव्राः । अस्मे इति । सुतासः ।

शुक्राः । आऽशिरम् । याचन्ते ॥१०

हे “इन्द्र “ते त्वदीयाः “इमे “सोमाः “तीव्राः तीव्रमदाः “अस्मे अस्माभिरध्वर्युभिः “सुतासः अभिषुताः “शुक्राः शुद्धाः सन्तः “आशिरं क्षीरादिकं श्रयणद्रव्यं त्वां “याचन्ते । ताञ्छ्रीणीहीत्युत्तरत्रान्वयः ॥ ॥ १८ ॥


ताँ आ॒शिरं॑ पुरो॒ळाश॒मिन्द्रे॒मं सोमं॑ श्रीणीहि ।

रे॒वन्तं॒ हि त्वा॑ शृ॒णोमि॑ ॥११

तान् । आ॒ऽशिर॑म् । पु॒रो॒ळाश॑म् । इन्द्र॑ । इ॒मम् । सोम॑म् । श्री॒णी॒हि॒ ।

रे॒वन्त॑म् । हि । त्वा॒ । शृ॒णोमि॑ ॥११

तान् । आऽशिरम् । पुरोळाशम् । इन्द्र । इमम् । सोमम् । श्रीणीहि ।

रेवन्तम् । हि । त्वा । शृणोमि ॥११

हे "इन्द्र “तान् पूर्वोक्तान् सोमान् “आशिरं श्रयणद्रव्यं च क्षीरादिकं “श्रीणीहि मिश्रय यागार्थम् । तदनन्तरं “पुरोळाशं धानाकरम्भादिलक्षणं सवनीयपुरोडाशम् “इमम् अस्मदीयं “सोमं च श्रीणीहि मिश्रय । प्रथमं भक्षितं पुरोळाशं पश्चात्पीतेन सोमेन संयोजयेत्यर्थः । तव प्रार्थने को हेतुरिति चेत् । “हि यस्मात् "रेवन्तं रयिमन्तम् । ‘ रयेर्मतौ बहुलम्' इति संप्रसारणम् । बहुलधनं त्वां “शृणोमि त्वं बहुधन इति सर्वत्र श्रूयते अतः कारणात् त्वामेव प्रार्थयामहे ।।


हृ॒त्सु पी॒तासो॑ युध्यन्ते दु॒र्मदा॑सो॒ न सुरा॑याम् ।

ऊध॒र्न न॒ग्ना ज॑रन्ते ॥१२

हृ॒त्ऽसु । पी॒तासः॑ । यु॒ध्य॒न्ते॒ । दुः॒ऽमदा॑सः । न । सुरा॑याम् ।

ऊधः॑ । न । न॒ग्नाः । ज॒र॒न्ते॒ ॥१२

हृत्ऽसु । पीतासः । युध्यन्ते । दुःऽमदासः । न । सुरायाम् ।

ऊधः । न । नग्नाः । जरन्ते ॥१२

हे इन्द्र "पीतासः त्वया पीताः सोमाः "हृत्सु हृदयेषु त्वदीयेषु “युध्यन्ते । परस्परं संप्रहारं कुर्वते । तत्र दृष्टान्तः । “सुरायां पीतायां जायमानाः “दुर्मदासो “न । दुष्टमदा यथा पातारं मादयन्ति तद्वत्त्वां मादयितुं परस्परं युध्यन्त इत्यर्थः। अपि च । ग्नाश्छन्दांसि । तानि न जहतीति “नग्नाः स्तोतारः । ते च “ऊधर्न पयसा पूर्णं गवादेरूध इव सोमपूर्णं त्वां “जरन्ते स्तुवन्ति । जरतिः स्तुतिकर्मा ॥


षष्ठेऽहनि यदि रैवतसामसाध्यं पृष्ठस्तोत्रं तदा निष्केवल्ये ‘रेवाँ इत्' इत्यनुरूपस्तृचः । सूत्र्यते हि - रेवतीर्नः सधमादे रेवाँ इद्रेवतः स्तोतेति स्तोत्रियानुरूपौ' (आश्व. श्रौ. ८. १) इति ॥

रे॒वाँ इद्रे॒वत॑ः स्तो॒ता स्यात्त्वाव॑तो म॒घोन॑ः ।

प्रेदु॑ हरिवः श्रु॒तस्य॑ ॥१३

रे॒वान् । इत् । रे॒वतः॑ । स्तो॒ता । स्यात् । त्वाऽव॑तः । म॒घोनः॑ ।

प्र । इत् । ऊं॒ इति॑ । ह॒रि॒ऽवः॒ । श्रु॒तस्य॑ ॥१३

रेवान् । इत् । रेवतः । स्तोता । स्यात् । त्वाऽवतः । मघोनः ।

प्र । इत् । ऊं इति । हरिऽवः । श्रुतस्य ॥१३

हे “हरिवः हरिवन् । मतुवसो रुः' इति नकारस्य रुत्वम् । हरी अश्वौ । तद्वन्निन्द्र “रेवतः रयिमतो बहुधनोपेतस्य तव “स्तोता “रेवान् “स्यात् रयिमान् भवेत् । इच्छब्दोऽवधारणे । धनवान् भवेदेव न तु दारिद्र्यं प्राप्नोति । उक्तमेवार्थं कैमुतिकन्यायेन द्रढयति । “त्वावतः त्वत्सदृशस्य । ‘ युष्मदस्मद्यां । छन्दसि सादृश्य उपसंख्यानम् ' इति वतुप् । “मघोनः मघवतो धनाढ्यस्य “श्रुतस्य विश्रुतस्य सर्वत्र प्रख्यातस्यान्यस्यापि स्तोता “प्रेदु । स्यात् इत्यनुषज्यते । प्रस्यात् । प्रभवेदेव न तु निहीयते । किमु वक्तव्यं तव स्तोता धनवान् भवेदेवेति ॥


उ॒क्थं च॒न श॒स्यमा॑न॒मगो॑र॒रिरा चि॑केत ।

न गा॑य॒त्रं गी॒यमा॑नम् ॥१४

उ॒क्थम् । च॒न । श॒स्यमा॑नम् । अगोः॑ । अ॒रिः । आ । चि॒के॒त॒ ।

न । गा॒य॒त्रम् । गी॒यमा॑नम् ॥१४

उक्थम् । चन । शस्यमानम् । अगोः । अरिः । आ । चिकेत ।

न । गायत्रम् । गीयमानम् ॥१४

गायतेर्गौः । "अगोः अस्तोतुः "अरिः शत्रुरिन्द्रः “शस्यमानं होत्रा पठ्यमानम् “उक्थं “चन शस्त्रमपि। “आ “चिकेत अभिजानाति । कित ज्ञाने'। छान्दसो लिट् । नेति संप्रत्यर्थे । “न संप्रति प्रस्तोत्रादिभिः “गीयमानं “गायत्रं गातव्यं साम यद्वा गायत्राख्यमपि चिकेतेत्येव । अतः कारणात् वयमपि तमिन्द्रं स्तुम इत्यर्थः ॥


मा न॑ इन्द्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा॑ दाः ।

शिक्षा॑ शचीव॒ः शची॑भिः ॥१५

मा । नः॒ । इ॒न्द्र॒ । पी॒य॒त्नवे॑ । मा । शर्ध॑ते । परा॑ । दाः॒ ।

शिक्ष॑ । श॒ची॒ऽवः॒ । शची॑भिः ॥१५

मा । नः । इन्द्र । पीयत्नवे । मा । शर्धते । परा । दाः ।

शिक्ष । शचीऽवः । शचीभिः ॥१५

हे “इन्द्र त्वं “पीयत्नवे। पीयतिर्वधकर्मा । वधशीलाय हिंसाकारिणे शत्रवे “नः अस्मान् "मा “परा “दाः मा परित्याक्षीः । “मा च “शर्धते अभिभवित्रे अस्मान् मा परा दाः । ‘ शृधु प्रसहने ' इति धातुः। अपि तु हे "शचीवः शक्तिमन्निन्द्र “शचीभिः आत्मीयैः कर्मभिः “शिक्ष अस्माननुशाधि । यद्वा । शिक्षतिर्दानकर्मा । अभीष्टं धनमस्मभ्यं देहि । यद्वा। शत्रून् जेतुं शिक्ष शक्तान् कर्तुमिच्छ । शकेः सनन्तस्य ‘ सनि मीमा' इति इसादेशेऽभ्यासलोपे च कृते लोटि रूपमेतत् ॥ ॥ १९ ॥


प्रथमे रात्रिपर्याये ब्रह्मशस्त्रे 'वयमु त्वा' इति स्तोत्रियस्तृचः । सूत्रितं च--‘ वयमु त्वा तदिदर्था वयमिन्द्र त्वायवोऽभि ' (आश्व. श्रौ. ६. ४) इति ॥

व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्त॒ः सखा॑यः ।

कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥१६

व॒यम् । ऊं॒ इति॑ । त्वा॒ । त॒दित्ऽअ॑र्थाः । इन्द्र॑ । त्वा॒ऽयन्तः॑ । सखा॑यः ।

कण्वाः॑ । उ॒क्थेभिः॑ । ज॒र॒न्ते॒ ॥१६

वयम् । ऊं इति । त्वा । तदित्ऽअर्थाः । इन्द्र । त्वाऽयन्तः । सखायः ।

कण्वाः । उक्थेभिः । जरन्ते ॥१६

हे “इन्द्र “त्वायन्तः त्वामात्मन इच्छन्तः “सखायः समानख्यानाः “वयं “तदिदर्थाः यत्त्वद्विषयं स्तोत्रं तदित्तदेवार्थः प्रयोजनं येषां तादृशाः सन्तः “त्वा त्वां जरामहे स्तुमहे । “उ इति पूरणः । “कण्वाः कण्वगोत्रोत्पन्ना अस्मदीयाः पुत्रादयश्च “उक्थेभिः उक्थैः शस्त्रैः “जरन्ते त्वां स्तुवन्ति ।।


न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ ।

तवेदु॒ स्तोमं॑ चिकेत ॥१७

न । घ॒ । ई॒म् । अ॒न्यत् । आ । प॒प॒न॒ । वज्रि॑न् । अ॒पसः॑ । नवि॑ष्टौ ।

तव॑ । इत् । ऊं॒ इति॑ । स्तोम॑म् । चि॒के॒त॒ ॥१७

न । घ । ईम् । अन्यत् । आ । पपन । वज्रिन् । अपसः । नविष्टौ ।

तव । इत् । ऊं इति । स्तोमम् । चिकेत ॥१७

हे “वज्रिन् वज्रवन्निन्द्र “अपसः अपस्विनः कर्मवतः तव संबन्धिनि "नविष्टौ अभिनवे यागे वर्तमानोऽहम् “अन्यत् त्वद्विषयादन्यत् स्तोत्रं “न “घें नैव “आ “पपन अभिष्टौमि । पनतेः स्तुतिकर्मण उत्तमे णलि लिटि रूपम् । अपि तु “तवेदु तवैव “स्तोमं स्तोत्रं “चिकेत अभिजानामि । त्वामेव सर्वदा स्तौमीत्यर्थः ।।


इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति ।

यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥१८

इ॒च्छन्ति॑ । दे॒वाः । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पृ॒ह॒य॒न्ति॒ ।

यन्ति॑ । प्र॒ऽमाद॑म् । अत॑न्द्राः ॥१८

इच्छन्ति । देवाः । सुन्वन्तम् । न । स्वप्नाय । स्पृहयन्ति ।

यन्ति । प्रऽमादम् । अतन्द्राः ॥१८

"सुन्वन्तं सोमाभिषवं कुर्वन्तं यजमानं "देवाः इन्द्रादयः सर्वे "इच्छन्ति रक्षितुम् । “स्वप्नाय “न “स्पृहयन्ति । स्वप्नावस्थां तस्य सुन्वतो नेप्सन्ति । सर्वदा प्रबुद्धमेव कुर्वन्तीत्यर्थः । ‘ स्पृहेरीप्सितः' (पा. सू. १. ४. ३६ ) इति कर्मणि चतुर्थी। ‘स्पृह ईप्सायाम् । चुरादिरदन्तः । यत एवमतः कारणात् “अतन्द्राः अनलसा देवाः “प्रमादं प्रकर्षेण मदकरं तदीयं सोमं “यन्ति प्राप्नुवन्ति ॥


ओ षु प्र या॑हि॒ वाजे॑भि॒र्मा हृ॑णीथा अ॒भ्य१॒॑स्मान् ।

म॒हाँ इ॑व॒ युव॑जानिः ॥१९

ओ इति॑ । सु । प्र । या॒हि॒ । वाजे॑भिः । मा । हृ॒णी॒थाः॒ । अ॒भि । अ॒स्मान् ।

म॒हान्ऽइ॑व । युव॑ऽजानिः ॥१९

ओ इति । सु । प्र । याहि । वाजेभिः । मा । हृणीथाः । अभि । अस्मान् ।

महान्ऽइव । युवऽजानिः ॥१९

हे इन्द्र “वाजेभिः वाजैरस्मभ्यं दातव्यैरन्नैः सार्धम् “अस्मान् “अभि आभिमुख्येन “सु सुष्ठु “प्र प्रकर्षेण “ओ आ उ “याहि शीघ्रमायाह्येव आगच्छैव । “मा “हृणीथाः मा क्रुध्यस्व । हृणीयतिः क्रुध्यतिकर्मा । यद्वा मा लज्जां प्राप्नुहि । ‘हृणीङ् लज्जायाम्' इति कण्ड्वादौ पठ्यते । तत्र दृष्टान्तः । “महानिव “युवजानिः। युवतिर्जाया यस्य स तथोक्तः। ‘जायाया निङ्' इति समासान्तो निङादेशः । ईदृशो महान् गुणैरधिकोऽपि यथा स्वभार्यां प्रति निर्लज्जः सन् शीघ्रं गच्छति तद्वत् ।।


मो ष्व१॒॑द्य दु॒र्हणा॑वान्सा॒यं क॑रदा॒रे अ॒स्मत् ।

अ॒श्री॒र इ॑व॒ जामा॑ता ॥२०

मो इति॑ । सु । अ॒द्य । दुः॒ऽहना॑वान् । सा॒यम् । क॒र॒त् । आ॒रे । अ॒स्मत् ।

अ॒श्री॒रःऽइ॑व । जामा॑ता ॥२०

मो इति । सु । अद्य । दुःऽहनावान् । सायम् । करत् । आरे । अस्मत् ।

अश्रीरःऽइव । जामाता ॥२०

“दुर्हणावान् । परैर्दुःसहहननं दुर्हणम् । तद्वानिन्द्रः “अद्य इदानीम् “अस्मत् "आरे अस्माकं समीप आगच्छतु । "सु सुष्ठु अतिशयेन “सायं दिवसस्यावसानं सायंकालं “मो “करत् मा कार्षीत् । करोतेर्माङि लुङि ‘ कृमृदृरुहिभ्यः' इति च्लेरङादेशः । “जामाता । जायत इति जा अपत्यम् । तस्य निर्माता दुहितुः पतिः । “अश्रीरइव । न श्रीरश्रीः । तदस्यास्तीत्यश्रीरः । मत्वर्थीयो रः । गुणैर्विहीनः कुत्सितो जामातासकृदाहूयमानोऽप्यासायंकालं विलम्बते । तद्वत्त्वं कालविलम्बं मा कृथा इत्यर्थः ॥ ॥ २० ॥


वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिम् ।

त्रि॒षु जा॒तस्य॒ मनां॑सि ॥२१

वि॒द्म । हि । अ॒स्य॒ । वी॒रस्य॑ । भू॒रि॒ऽदाव॑रीम् । सु॒ऽम॒तिम् ।

त्रि॒षु । जा॒तस्य॑ । मनां॑सि ॥२१

विद्म । हि । अस्य । वीरस्य । भूरिऽदावरीम् । सुऽमतिम् ।

त्रिषु । जातस्य । मनांसि ॥२१

“अस्य इन्द्रस्य “वीरस्य विक्रान्तस्य "भूरिदावरीं बहुधनस्य दात्रीं “सुमतिं कल्याणीं मतिमनुग्रहबुद्धिं “विद्मा “हि जानीमः खलु । तथा “त्रिषु भूम्यादिषु त्रिषु लोकेषु "जातस्य तत्कार्यार्थं प्रादुर्भूतस्य “मनांसि हृदयानि च जानीमः । अतस्तस्येन्द्रस्य यथा प्रीतिर्जनिष्यते तथा स्तोत्रं कुर्म इत्यर्थः ॥


आ तू षि॑ञ्च॒ कण्व॑मन्तं॒ न घा॑ विद्म शवसा॒नात् ।

य॒शस्त॑रं श॒तमू॑तेः ॥२२

आ । तु । सि॒ञ्च॒ । कण्व॑ऽमन्तम् । न । घ॒ । वि॒द्म॒ । श॒व॒सा॒नात् ।

य॒शःऽत॑रम् । श॒तम्ऽऊ॑तेः ॥२२

आ । तु । सिञ्च । कण्वऽमन्तम् । न । घ । विद्म । शवसानात् ।

यशःऽतरम् । शतम्ऽऊतेः ॥२२

हे अध्वर्यो “कण्वमन्तम् । कणतिः शब्दकर्मा । कण्वाः स्तोतारः । यद्वा । कण्वगोत्रा ऋषयः ।। तैर्युक्तमिन्द्रमुद्दिश्य “तु क्षिप्रम् “आ “सिञ्च सोमं जुहुधि। “शवसानात् । शवो बलम् । तदिवाचरतोऽतिबलात् “शतमूतेः । शतं बहुनामैतत् । बह्व्य ऊतयो रक्षा यस्मिन् स शतमूतिः । तादृशादस्मादिन्द्रात् “यशस्तरं यशस्वितरं पुरुषं “न “घ नैव “विद्म जानीमः । अतस्तमेवोद्दिश्य सोमं जुहुधीत्यर्थः ।।


ज्येष्ठे॑न सोत॒रिन्द्रा॑य॒ सोमं॑ वी॒राय॑ श॒क्राय॑ ।

भरा॒ पिब॒न्नर्या॑य ॥२३

ज्येष्ठे॑न । सो॒तः॒ । इन्द्रा॑य । सोम॑म् । वी॒राय॑ । श॒क्राय॑ ।

भर॑ । पिब॑त् । नर्या॑य ॥२३

ज्येष्ठेन । सोतः । इन्द्राय । सोमम् । वीराय । शक्राय ।

भर । पिबत् । नर्याय ॥२३

हे “सोतः अभिषोतरध्वर्यो “वीराय विक्रान्ताय “शक्राय शक्तियुक्ताय "नर्याय नृभ्यो हिताय “इन्द्राय “ज्येष्ठेन मुख्येनैन्द्रवायवग्रहेण । स हि धाराग्रहाणां मध्ये ज्येष्ठः । तेन “सोमं “भर हर आहर । वीर्यं प्रापय । स चेन्द्रः “पिबत् तं सोमं पिबतु । ।


यो वेदि॑ष्ठो अव्य॒थिष्वश्वा॑वन्तं जरि॒तृभ्य॑ः ।

वाजं॑ स्तो॒तृभ्यो॒ गोम॑न्तम् ॥२४

यः । वेदि॑ष्ठः । अ॒व्य॒थिषु॑ । अश्व॑ऽवन्तम् । ज॒रि॒तृऽभ्यः॑ ।

वाज॑म् । स्तो॒तृऽभ्यः॑ । गोऽम॑न्तम् ॥२४

यः । वेदिष्ठः । अव्यथिषु । अश्वऽवन्तम् । जरितृऽभ्यः ।

वाजम् । स्तोतृऽभ्यः । गोऽमन्तम् ॥२४

“यः इन्द्रः अव्यथिषु अव्यथथितृषु सुखकरेषु स्तोतृषु "वेदिष्ठः अतिशयेन वेदिता कृतस्य स्तोत्रस्य ज्ञाता स इन्द्रः जारितृभ्यः शंसितृभ्यो होत्रादिभ्यः स्तोतृभ्यः प्रस्तोत्रादिभ्यश्च “अश्वावन्तं बहुभिरश्वैरुपेतं “गोमन्तं बहुभिर्गोंभिरुपेतं सन्त “वाजम् अन्नं बलं वा ददातीति शेषः ।।


अहीनान्तर्गतेऽतिरात्रे प्रथमे पर्याये होतुः शस्त्रे ‘पन्यंपन्यम् ' इति स्तोत्रियस्तृचः छन्दोगैरस्थ तृचस्य स्तूयमानत्वात् । ‘छन्दोगप्रत्ययं स्तोमः स्तोत्रियः' (आश्व. श्री. ८. १३) इति हि स्मर्यते ॥

पन्य॑म्पन्य॒मित्सो॑तार॒ आ धा॑वत॒ मद्या॑य ।

सोमं॑ वी॒राय॒ शूरा॑य ॥२५

पन्य॑म्ऽपन्यम् । इत् । सो॒ता॒रः॒ । आ । धा॒व॒त॒ । मद्या॑य ।

सोम॑म् । वी॒राय॑ । शूरा॑य ॥२५

पन्यम्ऽपन्यम् । इत् । सोतारः । आ । धावत । मद्याय ।

सोमम् । वीराय । शूराय ॥२५

हे “सोतारः अभिषोतारोऽध्वर्यवः “मद्याय मादयितव्याय “वीराय विक्रान्ताय “शूराय शौर्यवत इन्द्राय “पन्यंपन्यमित् सर्वत्र स्तुत्यमेव “सोमम् “आ “धावत अभिगमयत । प्रयच्छतेत्यर्थः ॥ ॥ २१ ॥


पाता॑ वृत्र॒हा सु॒तमा घा॑ गम॒न्नारे अ॒स्मत् ।

नि य॑मते श॒तमू॑तिः ॥२६

पाता॑ । वृ॒त्र॒ऽहा । सु॒तम् । आ । घ॒ । ग॒म॒त् । न । आ॒रे । अ॒स्मत् ।

नि । य॒म॒ते॒ । श॒तम्ऽऊ॑तिः ॥२६

पाता । वृत्रऽहा । सुतम् । आ । घ । गमत् । न । आरे । अस्मत् ।

नि । यमते । शतम्ऽऊतिः ॥२६

“सुतम् अभिषुतं सोमं “पाता पानशीलः । ताच्छीलिकस्तृन् । ‘न लोकाव्यय° ' इति कर्मणि षष्ठ्याः प्रतिषेधः । “वृत्रहा वृत्रस्यासुरस्य हन्तेन्द्रः “आ “गमत् । “घ इत्यवधारणे । आगच्छत्वेव “अस्मत् अस्मत्तः “आरे दूरदेशे मा भवतु । आगत्य च “शतमूतिः बहुविधरक्षण इन्द्रः “नि यमते अस्मदीयाञ्छत्रून्नियच्छतु तिरस्करोतु । यद्वा धनान्यस्मभ्यं नियच्छतु ददातु ॥


एह हरी॑ ब्रह्म॒युजा॑ श॒ग्मा व॑क्षत॒ः सखा॑यम् ।

गी॒र्भिः श्रु॒तं गिर्व॑णसम् ॥२७

आ । इ॒ह । हरी॒ इति॑ । ब्र॒ह्म॒ऽयुजा॑ । श॒ग्मा । व॒क्ष॒तः॒ । सखा॑यम् ।

गीः॒ऽभिः । श्रु॒तम् । गिर्व॑णसम् ॥२७

आ । इह । हरी इति । ब्रह्मऽयुजा । शग्मा । वक्षतः । सखायम् ।

गीःऽभिः । श्रुतम् । गिर्वणसम् ॥२७

(“ब्रह्मयुजा ब्रह्मणा मन्त्रेण स्तोत्रेण हविषा वा युज्यमानौ “शग्मा शग्मौ सुखकरौ शक्तौ वा ईदृशौ “हरी अश्वौ “इह अस्मिन् यज्ञे “सखायं समानख्यानं मित्रभूतमिन्द्रम् “आ “वक्षतः आवहताम् । कीदृशमिन्द्रम् । “गीर्भिः स्तुतिभिः “श्रुतं प्रख्यापितमाहात्म्यं “गिर्वणसं गिरां संभक्तारं स्तुतिभिः संभजनीयं वा ॥ )


स्वा॒दव॒ः सोमा॒ आ या॑हि श्री॒ताः सोमा॒ आ या॑हि ।

शिप्रि॒न्नृषी॑व॒ः शची॑वो॒ नायमच्छा॑ सध॒माद॑म् ॥२८

स्वा॒दवः॑ । सोमाः॑ । आ । या॒हि॒ । श्री॒ताः । सोमाः॑ । आ । या॒हि॒ ।

शिप्रि॑न् । ऋषि॑ऽवः । शची॑ऽवः । न । अ॒यम् । अच्छ॑ । स॒ध॒ऽमाद॑म् ॥२८

स्वादवः । सोमाः । आ । याहि । श्रीताः । सोमाः । आ । याहि ।

शिप्रिन् । ऋषिऽवः । शचीऽवः । न । अयम् । अच्छ । सधऽमादम् ॥२८

हे “शिप्रिन् । शिप्रं शिरस्त्राणम् । यद्वा । शिप्रे हनु नासिके वा । तद्वन् हे “ऋषीवः ऋषिभिः स्तोतृभिर्युक्त “शचीवः शक्तिमन् एवंभूत हे इन्द्र अस्मदीया इमे “सोमाः "स्वादवः । अभिषवादिभिः संस्कृतत्वेनास्वादनार्हा जाताः । अतस्त्वम् “आ “याहि आगच्छ। तथा ते “सोमाः “श्रीताः पयआदिभिः श्रयणद्रव्यैर्मिश्रिताः संस्कृताः । अतोऽपि “आ “याहि आगच्छ । नेति संप्रत्यर्थे । “न संप्रति “अयं स्तोता “सधमादं सह मादयितव्यं त्वाम् "अच्छ अभिमुखं स्तौतीति शेषः । अतोऽप्यायाहीत्यर्थः ॥


स्तुत॑श्च॒ यास्त्वा॒ वर्ध॑न्ति म॒हे राध॑से नृ॒म्णाय॑ ।

इन्द्र॑ का॒रिणं॑ वृ॒धन्त॑ः ॥२९

स्तुतः॑ । च॒ । याः । त्वा॒ । वर्ध॑न्ति । म॒हे । राध॑से । नृ॒म्णाय॑ ।

इन्द्र॑ । का॒रिण॑म् । वृ॒धन्तः॑ ॥२९

स्तुतः । च । याः । त्वा । वर्धन्ति । महे । राधसे । नृम्णाय ।

इन्द्र । कारिणम् । वृधन्तः ॥२९

हे "इन्द्र “कारिणं कर्मणां कर्तारं “वृधन्तः वर्धयन्तो ये “स्तुतः स्तोतारः “याः “च तदीयाः स्तुतयः “त्वा त्वां “वर्धन्ति वर्धयन्ति । किमर्थम् । “महे महते “राधसे धनाय “नृम्णाय बलाय च । उभयोर्लाभार्थम् । ते तदुभयं लभन्त इत्यध्याहारः। यद्वा । उत्तरत्र ते सत्रा दधिरे शवांसि इति संबन्धः ॥


गिर॑श्च॒ यास्ते॑ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ ।

स॒त्रा द॑धि॒रे शवां॑सि ॥३०

गिरः॑ । च॒ । याः । ते॒ । गि॒र्वा॒हः॒ । उ॒क्था । च॒ । तुभ्य॑म् । तानि॑ ।

स॒त्रा । द॒धि॒रे॒ । शवां॑सि ॥३०

गिरः । च । याः । ते । गिर्वाहः । उक्था । च । तुभ्यम् । तानि ।

सत्रा । दधिरे । शवांसि ॥३०

हे “गिर्वाहः गीर्भिः स्तुतिभिः वहनीयेन्द्र “ते तुभ्यं क्रियमाणाः “गिरश्च स्तुतिरूपाश्च वाचः “याः सन्ति । “उक्था “च उक्थानि च शस्त्ररूपाणि च वचांसि “तुभ्यं त्वदर्थं क्रियमाणानि यानि सन्ति । “तानि सर्वाणि "सत्रा सहैव “शवांसि बलानि “दधिरे तव विदधिरे ॥ ॥ २२ ॥


ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒ एको॒ वज्र॑हस्तः ।

स॒नादमृ॑क्तो दयते ॥३१

ए॒व । इत् । ए॒षः । तु॒वि॒ऽकू॒र्मिः । वाजा॑न् । एकः॑ । वज्र॑ऽहस्तः ।

स॒नात् । अमृ॑क्तः । द॒य॒ते॒ ॥३१

एव । इत् । एषः । तुविऽकूर्मिः । वाजान् । एकः । वज्रऽहस्तः ।

सनात् । अमृक्तः । दयते ॥३१

“एषः “एव इन्द्रः “तुविकूर्मिः बहुकर्मा। "इत् इति पूरकः । “एकः सर्वेषु देवेषु मुख्यः “वज्रहस्तः वज्रबाहुः “सनात् चिरकालादारभ्य "अमृक्तः शत्रुभिरबाधित एवंभूतः स इन्द्रः “वाजान् अन्नानि बलानि वा “दयते स्तोतृभ्यो ददाति ॥


हन्ता॑ वृ॒त्रं दक्षि॑णे॒नेन्द्र॑ः पु॒रू पु॑रुहू॒तः ।

म॒हान्म॒हीभि॒ः शची॑भिः ॥३२

हन्ता॑ । वृ॒त्रम् । दक्षि॑णेन । इन्द्रः॑ । पु॒रु । पु॒रु॒ऽहू॒तः ।

म॒हान् । म॒हीभिः॑ । शची॑भिः ॥३२

हन्ता । वृत्रम् । दक्षिणेन । इन्द्रः । पुरु । पुरुऽहूतः ।

महान् । महीभिः । शचीभिः ॥३२

अयम् “इन्द्रः "दक्षिणेन हस्तेनैकेनैव “वृत्रम् आवरकमसुरं “हन्ता साधु हतवान्। हन्तेः साधुकारिणि तृन् । 'न लोकाव्यय ' इति षष्ठीप्रतिषेधः । “पुरु पुरुषु । ‘सुपां सुलुक्' इति विभक्तेर्लुक् । बहुषु देशेषु “पुरुहूतः “महीभिः महतीभिः “शचीभिः क्रियाभिः शक्तिभिर्वा "महान् सर्वेभ्य उत्कृष्टः । एवंभूत इन्द्रोऽस्मान् रक्षत्वित्यर्थः ॥


यस्मि॒न्विश्वा॑श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां॑सि च ।

अनु॒ घेन्म॒न्दी म॒घोन॑ः ॥३३

यस्मि॑न् । विश्वाः॑ । च॒र्ष॒णयः॑ । उ॒त । च्यौ॒त्ना । ज्रयां॑सि । च॒ ।

अनु॑ । घ॒ । इत् । म॒न्दी । म॒घोनः॑ ॥३३

यस्मिन् । विश्वाः । चर्षणयः । उत । च्यौत्ना । ज्रयांसि । च ।

अनु । घ । इत् । मन्दी । मघोनः ॥३३

“विश्वाः सर्वाः “चर्षणयः प्रजाः “यस्मिन् इन्द्रे वर्तन्ते यदधीना भवन्ति । "उत अपि च “च्यौत्ना च्यौत्नानि । बलनामैतत् । प्रच्युतिसाधनानि बलानि “च “ज्रयांसि शत्रुविषयाण्यभिभवनानि यस्मिन्निन्द्रे वर्तन्ते । ‘ जि ज्रि अभिभवने ' इति धातुः । स इन्द्रः “मघोनः । मघं हविर्लक्षणं धनम् । तद्वतो यजमानान् “अनु “मन्दी अनुमोदको भवति। “घेत् इति पूरकौ। यद्वा । मन्दी स्तुत्यः स इन्द्रस्ताननु गृह्णातीति शेषः । अथवा । यस्य मघोनो धनवत इन्द्रस्य मन्दी स्तोतानुकूलो भवति एष एतानि इत्युत्तरत्रैकवाक्यता ॥


ए॒ष ए॒तानि॑ चका॒रेन्द्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे ।

वा॒ज॒दावा॑ म॒घोना॑म् ॥३४

ए॒षः । ए॒तानि॑ । च॒का॒र॒ । इन्द्रः॑ । विश्वा॑ । यः । अति॑ । शृ॒ण्वे ।

वा॒ज॒ऽदावा॑ । म॒घोना॑म् ॥३४

एषः । एतानि । चकार । इन्द्रः । विश्वा । यः । अति । शृण्वे ।

वाजऽदावा । मघोनाम् ॥३४

“एषः “इन्द्रः "विश्वा विश्वानि व्याप्तानि “एतानि वृत्रवधादीनि वीर्याणि । यद्वा । पृथिव्यादीनि भूतजातानि । तानि “चकार कृतवान् । “यः इन्द्रः बलैरतिशयितः “शृण्वे श्रूयते सर्वत्र स्तूयते । अपि च स इन्द्रः "मघोनां हविष्मतां यजमानानां “वाजदावा वाजस्यान्नस्य दाता भवति ॥


प्रभ॑र्ता॒ रथं॑ ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति ।

इ॒नो वसु॒ स हि वोळ्हा॑ ॥३५

प्रऽभ॑र्ता । रथ॑म् । ग॒व्यन्त॑म् । अ॒पा॒कात् । चि॒त् । यम् । अव॑ति ।

इ॒नः । वसु॑ । सः । हि । वोळ्हा॑ ॥३५

प्रऽभर्ता । रथम् । गव्यन्तम् । अपाकात् । चित् । यम् । अवति ।

इनः । वसु । सः । हि । वोळ्हा ॥३५

“प्रभर्ता प्रहर्ता प्रहरणशील इन्द्रः “रथं रंहणं “गव्यन्तं गा इच्छन्तं “यं स्तोतारम् “अपाकात् अविपक्वप्रज्ञाच्छत्रोः । चिच्छब्दोऽनुक्तसमुच्चयार्थः । विपक्वप्रज्ञादपि “अवति रक्षति “स “हि स खलु स्तोता “इनः ईश्वरः सन् "वसु धनं “वोळ्हा साधुवाही भवति । वहेः साधुकारिणि तृन् । अतो ‘न लोकाव्यय ' इति कर्मणि षष्ठ्याः प्रतिषेधः ॥ ॥ २३ ॥


सनि॑ता॒ विप्रो॒ अर्व॑द्भि॒र्हन्ता॑ वृ॒त्रं नृभि॒ः शूर॑ः ।

स॒त्यो॑ऽवि॒ता वि॒धन्त॑म् ॥३६

सनि॑ता । विप्रः॑ । अर्व॑त्ऽभिः । हन्ता॑ । वृ॒त्रम् । नृऽभिः॑ । शूरः॑ ।

स॒त्यः । अ॒वि॒ता । वि॒धन्त॑म् ॥३६

सनिता । विप्रः । अर्वत्ऽभिः । हन्ता । वृत्रम् । नृऽभिः । शूरः ।

सत्यः । अविता । विधन्तम् ॥३६

“विप्रः मेधावी स इन्द्रः “अर्वद्भिः अश्वैर्वाहनभूतैः “सनिता गन्तव्यं संभक्ता। तथा “शूरः शौर्योपेतः सन् “नृभिः नेतृभिर्मरुद्भिः सार्धं “वृत्रम् आवरकमसुरं “हन्ता साधुघाती । अपि च “विधन्तं परिचरन्तं यजमानं “सत्यः साधुरवितथस्वभावो वा स इन्द्रः “अविता परिचरतो यजमानस्य रक्षिता भवति । सर्वविधीनां छन्दसि विकल्पितत्वादत्र कर्मणि षष्ठी न प्रवर्तते ॥


यज॑ध्वैनं प्रियमेधा॒ इन्द्रं॑ स॒त्राचा॒ मन॑सा ।

यो भूत्सोमै॑ः स॒त्यम॑द्वा ॥३७

यज॑ध्व । ए॒न॒म् । प्रि॒य॒ऽमे॒धाः॒ । इन्द्र॑म् । स॒त्राचा॑ । मन॑सा ।

यः । भूत् । सोमैः॑ । स॒त्यऽम॑द्वा ॥३७

यजध्व । एनम् । प्रियऽमेधाः । इन्द्रम् । सत्राचा । मनसा ।

यः । भूत् । सोमैः । सत्यऽमद्वा ॥३७

हे "प्रियमेधाः । प्रियोऽनुकूलो मेधो यज्ञो येषां ते तथोक्ताः । आत्मनि पूजार्थं बहुवचनम् । प्रियमेधाख्य ऋषिरात्मानं संबोध्य ब्रूते । हे प्रियमेधाः “सत्राचा सहाञ्चता स्तोतव्येनेन्द्रेण सह वर्तमानेन “मनसा चित्तेन “एनम् “इन्द्रं “यजध्व यजध्वम् । बुद्धिपूर्वकं यजेत्यर्थः । यजध्वैनम्' (पा. सू. ७. १. ४३) इति निपातनाद्वर्णलोपः । “यः इन्द्रः “सोमैः करणभूतैः “सत्यमद्वा “भूत् सत्यमदोऽवितथमदो भवति ॥


गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मान॑म् ।

कण्वा॑सो गा॒त वा॒जिन॑म् ॥३८

गा॒थऽश्र॑वसम् । सत्ऽप॑तिम् । श्रवः॑ऽकामम् । पु॒रु॒ऽत्मान॑म् ।

कण्वा॑सः । गा॒त । वा॒जिन॑म् ॥३८

गाथऽश्रवसम् । सत्ऽपतिम् । श्रवःऽकामम् । पुरुऽत्मानम् ।

कण्वासः । गात । वाजिनम् ॥३८

हे "कण्वासः कण्वपुत्रा मेधातिथयः । पूर्ववद्बहुवचनमात्मनः संबोधनं च । हे कण्वस्य पुत्रा मेधातिथयः यूयं “गाथश्रवसं गातव्ययशसं “सत्पतिं सतां पालयितारं “श्रवस्कामम् । श्रवःस्वन्नेषु हविःषु कामोऽभिलाषो यस्य तादृशम् । “पुरुत्मानं बह्वात्मानं यद्वा पुरुषु बहुषु प्रदेशेष्वतन्तं सततं गच्छन्तं “वाजिनं वेगवन्तमेवंगुणकमिन्द्रं “गात गायत स्तुध्वम् ।।


य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्य॒ः शची॑वान् ।

ये अ॑स्मि॒न्काम॒मश्रि॑यन् ॥३९

यः । ऋ॒ते । चि॒त् । गाः । प॒देभ्यः॑ । दात् । सखा॑ । नृऽभ्यः॑ । शची॑ऽवान् ।

ये । अ॒स्मि॒न् । काम॑म् । अश्रि॑यन् ॥३९

यः । ऋते । चित् । गाः । पदेभ्यः । दात् । सखा । नृऽभ्यः । शचीऽवान् ।

ये । अस्मिन् । कामम् । अश्रियन् ॥३९

पणिभिर्देवगवीष्वपहृतासु “पदेभ्यः गतानां गवां मार्गे संलग्नेभ्योऽन्वेषणसाधनभूतेभ्यः “ऋते “चित् ऋतेऽपि विनापि "सखा मित्रभूतः "शचीवान् कर्मवान् प्रशस्तकर्मा “यः इन्द्रः “नृभ्यः नेतृभ्यः देवेभ्यः “गाः पणिभिरपहृता “दात् पुनर्दत्तवान्। "ये देवाः “अस्मिन् इन्द्रे “कामम् अभिलाषम् “अश्रियन् असेवन्त प्राप्नुवन् । तेभ्यो नृभ्य इत्यन्वयः । तमिन्द्रं गातेति पूर्वेण सहैकवाक्यता ॥


इ॒त्था धीव॑न्तमद्रिवः का॒ण्वं मेध्या॑तिथिम् ।

मे॒षो भू॒तो॒३॒॑ऽभि यन्नय॑ः ॥४०

इ॒त्था । धीऽव॑न्तम् । अ॒द्रि॒ऽवः॒ । का॒ण्वम् । मेध्य॑ऽअतिथिम् ।

मे॒षः । भू॒तः । अ॒भि । यन् । अयः॑ ॥४०

इत्था । धीऽवन्तम् । अद्रिऽवः । काण्वम् । मेध्यऽअतिथिम् ।

मेषः । भूतः । अभि । यन् । अयः ॥४०

“इत्था इत्थमनेनोक्तेन प्रकारेण “धीवन्तं स्तुतिमन्तं “काण्वं कण्वपुत्रं “मेध्यातिथिं यज्ञार्हातिथिमेतत्संज्ञमृषिं हे "अद्रिवः वज्रवन्निन्द्र “मेषो “भूतः मेषरूपतां प्राप्तः "अभि "यन् अभिगच्छन् । य इत्यनुवर्तते । तद्योगाच्च तिङो निघाताभावः । यस्त्वम् “अयः अगमयः तं त्वां स्तुम इत्यर्थः।‘मेधातिथेर्मेष' (तै. आ. १. १२.३) इति सुब्रह्मण्यामन्त्रैकदेशस्य व्याख्यानरूपं ब्राह्मणं छन्दोगैरेवमाम्नायते-- ‘ मेधातिथिं हि काण्वायनिं मेषो भूत्वाजहार' (ष. ब्रा. १. १) इति । तदभिप्रायेणेयं स्तुतिः कृता ।


शिक्षा॑ विभिन्दो अस्मै च॒त्वार्य॒युता॒ दद॑त् ।

अ॒ष्टा प॒रः स॒हस्रा॑ ॥४१

शिक्ष॑ । वि॒भि॒न्दो॒ इति॑ विऽभिन्दो । अ॒स्मै॒ । च॒त्वारि॑ । अ॒युता॑ । दद॑त् ।

अ॒ष्ट । प॒रः । स॒हस्रा॑ ॥४१

शिक्ष । विभिन्दो इति विऽभिन्दो । अस्मै । चत्वारि । अयुता । ददत् ।

अष्ट । परः । सहस्रा ॥४१

विभिन्दुनाम्नो राज्ञः सकाशाद्बहु धनं लब्ध्वा तदीयं दानमिदमादिकेन द्वृचेन प्रशंसति । हे “विभिन्दो राजन् “ददत् दाता त्वम् “अस्मै मह्यमृषये “चत्वारि “अयुता अयुतानि दशसहस्राणि चत्वारिंशत्सहस्राणि "शिक्ष अशिक्षः दत्तवानसि। "परः परस्तात् ऊर्ध्वमपि अष्टसंख्याकानि "सहस्रा सहस्राणि च दत्तवानसि ॥


उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑ ।

ज॒नि॒त्व॒नाय॑ मामहे ॥४२

उ॒त । सु । त्ये इति॑ । प॒यः॒ऽवृधा॑ । मा॒की इति॑ । रण॑स्य । न॒प्त्या॑ ।

ज॒नि॒ऽत्व॒नाय॑ । म॒म॒हे॒ ॥४२

उत । सु । त्ये इति । पयःऽवृधा । माकी इति । रणस्य । नप्त्या ।

जनिऽत्वनाय । ममहे ॥४२

“उत अपि च "सु सुष्ठु “त्ये ते सर्वत्र प्रसिद्धे “पयोवृधा पयस उदकस्य वर्धयित्र्यौ "माकी निर्मात्र्यौ भूतजातस्य “रणस्य । स्तोतृनामैतत् । स्तोतुः “नप्त्या नप्त्यौ न पातयित्र्यौ सर्वदानुग्रहशीले द्यावापृथिव्यौ “जनित्वनाय पूर्वोक्तधनस्य जननाय प्रादुर्भवाय लाभाय “ममहे स्तुतवानस्मि । द्यावापृथिव्योः प्रसन्नयोरेवेदं दानं लभ्यते नान्यदेति दानमाहात्म्यप्रशंसाधिगन्तव्या ॥ ॥ २४ ॥


[सम्पाद्यताम्]

टिप्पणी

८.२.१ इदं वसो सुतमन्धः इति

गारम्


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.२&oldid=302478" इत्यस्माद् प्रतिप्राप्तम्