ऋग्वेदः सूक्तं ८.९१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.९० ऋग्वेदः - मण्डल ८
सूक्तं ८.९१
आत्रेयी अपाला।
सूक्तं ८.९२ →
दे. इन्द्रः । अनुष्टुप्, १-२ पङ्क्तिः ।


कन्या वारवायती सोममपि स्रुताविदत् ।
अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥१॥
असौ य एषि वीरको गृहंगृहं विचाकशद् ।
इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ॥२॥
आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि ।
शनैरिव शनकैरिवेन्द्रायेन्दो परि स्रव ॥३॥
कुविच्छकत्कुवित्करत्कुविन्नो वस्यसस्करत् ।
कुवित्पतिद्विषो यतीरिन्द्रेण संगमामहै ॥४॥
इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय ।
शिरस्ततस्योर्वरामादिदं म उपोदरे ॥५॥
असौ च या न उर्वरादिमां तन्वं मम ।
अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि ॥६॥
खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।
अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम् ॥७॥

सायणभाष्यम्

‘ कन्या वाः' इति सप्तर्चमेकादशं सूक्तम् । अत्रेः पुत्र्यपालाख्या त्वग्दोषपरिहारायानेन सूक्तेनेन्द्रं स्तुतवती । अतः सैवर्षिः । प्रथमाद्वितीये पङ्क्ती शिष्टाः पञ्चानुष्टुभः । इन्द्रो देवता । तथा चानुक्रान्तं- कन्या वाः सप्तात्रेय्यपालेतिहास ऐन्द्र आनुष्टुभं द्विपङ्क्त्यादि ' इति । विनियोगो लैङ्गिकः । अत्रेतिहासमाचक्षते । पुरा किलात्रिसुतापाला ब्रह्मवादिनी केनचित्कारणेन त्वग्दोषदुष्टा सत्यत एव दुर्भगेति भर्त्रा परित्यक्ता पितुराश्रमे त्वग्दोषपरिहाराय चिरकालमिन्द्रमधिकृत्य तपस्तेपे । सा कदाचिदिन्द्रस्य सोमः प्रियकरो भवति तमिन्द्राय दास्यामीति बुद्ध्या नदीतीरं प्रत्यागमत् । सा तत्र स्नात्वा पथि सोममप्यलभत । तमादाय गृहं प्रत्यागच्छन्ती मार्ग एव तं चखाद । तद्भक्षणकाले दन्तघर्षणजातं शब्दं ग्राव्णां सोमाभिषवध्वनिमिति मत्वा तदानीमेवेन्द्रः समागमत् । आगत्य तमुवाच । किमत्र ग्रावाणोऽभिषुण्वन्तीति । सा प्रत्यूचे । अत्र कन्या स्नानार्थमागत्य सोमं दृष्ट्वा तं भक्षयति तद्भक्षणजो ध्वनिरेव न तु ग्राव्णां सोमाभिषवध्वनिरिति । तथा प्रत्युक्त इन्द्रः पराङावर्तत । गच्छन्तमिन्द्रं सा पुनरब्रवीत् । किमर्थं निवर्तसे त्वं तु सोमपानाय गृहं गृहं प्रति गच्छसि । इदानीमत्रापि मम दंष्ट्राभ्यामभिषुतं सोमं पिब धानादींश्च भक्षयेति । सैवेन्द्रमनाद्रियमाणा सती पुनरप्याह । अत्रागतं त्वामिन्द्र इति न जानामि त्वयि गृहमागते बहुमानं करिष्यामीतीन्द्रमुक्त्वात्र समागत इन्द्र एव नान्य इति निश्चित्य स्वास्ये निहितं सोममाह । हे सोम त्वमागतायेन्द्राय पूर्वं शनैस्ततः शनकैः क्षिप्रं परिस्रवेति । तत इन्द्रस्तां कामयित्वा तस्या आस्य एव दंष्ट्राभिषुतं सोममपात् । तत इन्द्रेण सोमे पीते सति त्वग्दोषादहं भर्त्रा परित्यक्ता सतीदानीमिन्द्रेण संगतेत्यपालायामुक्तायामिन्द्रस्तां व्याजहार । किं कामयसे तदहं करिष्यामीत्युक्ते सा वरमचीकमत । मम पितुः शिरो रोमवर्जितं तस्योषरं क्षेत्रं फलादिरहितं मम गुह्यस्थानमप्यरोमशमेतानि रोमफलादियुक्तं कुर्वित्युक्तायां तत्पितृशिरःस्थितं खलतिमपहाय क्षेत्रं च फलादियुक्तं कृत्वैतस्यास्त्वग्दोषपरिहाराय स्वकीयरथच्छिद्रे शकटस्य युगस्य च छिद्र एतां त्रिवारं निश्चकर्ष । तस्याः पूर्वापहता या त्वक् शल्यको द्वितीया गोधा तृतीया कृकलासोऽभूत् । तत इन्द्रस्तामप्यपालां सूर्यसदृशत्वचमकरोदित्यैतिहासिकी कथा । एतच्च शाट्यायनब्राह्मणे स्पष्टमुक्तम् । तद्ब्राह्मणं तत्तदृग्व्याख्यानसमये दर्शयिष्यते । एषोऽर्थः ‘कन्या वाः' इत्यादिष्वृक्षु प्रतिपाद्यते ॥


क॒न्या॒३॒॑ वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् ।

अस्तं॒ भर॑न्त्यब्रवी॒दिन्द्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ॥१

क॒न्या॑ । वाः । अ॒व॒ऽय॒ती । सोम॑म् । अपि॑ । स्रु॒ता । अ॒वि॒द॒त् ।

अस्त॑म् । भर॑न्ती । अ॒ब्र॒वी॒त् । इन्द्रा॑य । सु॒न॒वै॒ । त्वा॒ । श॒क्राय॑ । सु॒न॒वै॒ । त्वा॒ ॥१

कन्या । वाः । अवऽयती । सोमम् । अपि । स्रुता । अविदत् ।

अस्तम् । भरन्ती । अब्रवीत् । इन्द्राय । सुनवै । त्वा । शक्राय । सुनवै । त्वा ॥१

“वाः उदकं प्रति “अवायती स्नानार्थमभ्यवगच्छन्ती “कन्या अपाला नाम स्त्री “स्रुता स्रुतौ मार्गे “सोममपि “अविदत् अलभत । ‘ विद्लृ लाभे' । लतारूपं तं सोमम् “अस्तं गृहं प्रति “भरन्ती आहरन्ती सा सोमम् "अब्रवीत् । हे सोम “त्वा त्वाम् “इन्द्राय "सुनवै मम दन्तैरेवाभिषुणवै । पुनर्हे सोम “त्वा त्वां “शक्राय समर्थायेन्द्राय “सुनवै इदानीमेवाभिषवं करवै । सोमभक्षणकाले दन्तध्वनिं ग्रावध्वनिमिति मत्वेन्द्रस्तामगमत् । एषोऽर्थः शाट्यायनब्राह्मणे स्पष्टमभिहितः ‘ सा तीर्थमभ्यवयन्ती सोमांशुमविन्दत्तं समखादत्तस्यै ह ग्रावाण इव दन्ता ऊदुः। स इन्द्र आद्रवत् ग्रावाणो वै वदन्तीति । सा तमभिव्याजहार कन्या वारवायती सोममपि स्रुताविददित्यस्यै त इदं ग्रावाण इव दन्ता वदन्तीति विदित्वेन्द्रः पराङावर्तत । तमब्रवीदसौ य एषि वीरक इत्यादिना' इति ।।


अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शद् ।

इ॒मं जम्भ॑सुतं पिब धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ॥२

अ॒सौ । यः । एषि॑ । वी॒र॒कः । गृ॒हम्ऽगृ॑हम् । वि॒ऽचाक॑शत् ।

इ॒मम् । जम्भ॑ऽसुतम् । पि॒ब॒ । धा॒नाऽव॑न्तम् । क॒र॒म्भिण॑म् । अ॒पू॒पऽव॑न्तम् । उ॒क्थिन॑म् ॥२

असौ । यः । एषि । वीरकः । गृहम्ऽगृहम् । विऽचाकशत् ।

इमम् । जम्भऽसुतम् । पिब । धानाऽवन्तम् । करम्भिणम् । अपूपऽवन्तम् । उक्थिनम् ॥२

सा शक्रमब्रवीत् । हे इन्द्र “वीरकः वीरः समर्थस्त्वं “यः “असौ त्वं “विचाकशत् । ‘काशृ दीप्तौ' । यङ्लुकि शतरि रूपम् । धातोर्ह्रस्वश्छान्दसः । अत्यर्थं दीप्यमानः सन् "गृहंगृहं यजमानगृहं प्रति सोमपानाय त्वम् “एषि गच्छसि । अतस्त्वमत्रापि "जम्भसुतं मम दन्तैरभिषुतम् “इमं सोमं “पिब । कीदृशम् । “धानावन्तम् । धाना भृष्टयवाः । तद्वन्तं “करम्भिणं सक्तुमन्तम् “अपूपवन्तं पुरोडाशादिसहितम् “उक्थिनं स्तोत्रादियुक्तमेतादृशं सोममत्रैव पिबेति । सा सोमेन सह धानादीनावेदयत् स्तोत्रं चाकार्षीदित्यर्थः ॥


आ च॒न त्वा॑ चिकित्सा॒मोऽधि॑ च॒न त्वा॒ नेम॑सि ।

शनै॑रिव शन॒कैरि॒वेन्द्रा॑येन्दो॒ परि॑ स्रव ॥३

आ । च॒न । त्वा॒ । चि॒कि॒त्सा॒मः॒ । अधि॑ । च॒न । त्वा॒ । न । इ॒म॒सि॒ ।

शनैः॑ऽइव । श॒न॒कैःऽइ॑व । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥३

आ । चन । त्वा । चिकित्सामः । अधि । चन । त्वा । न । इमसि ।

शनैःऽइव । शनकैःऽइव । इन्द्राय । इन्दो इति । परि । स्रव ॥३

पुनरपि सा तमनादृत्याह । हे इन्द्र । “चन इति निपातसमुदायोऽवधारणार्थे । “त्वा त्वाम् “आ “चिकित्सामः ज्ञातुमिच्छाम एव । इह मार्ग एवागतं “त्वा त्वां “न “अधि “इमसि नाधिगच्छामः । अत्रापि “चन इत्यवधारणे । मम गृहमागच्छन्तं त्वामिन्द्र इति न जानीम एवेत्यपाला तमिन्द्रमुक्त्वा स्वास्ये स्थितं सोमं प्रत्याह । हे “इन्दो क्षरणशील सोम अस्मा आगताय “इन्द्राय तदर्थं पूर्वं “शनैः मन्दं मन्दं ततः “शनकैरिव । कुत्सितार्थेऽकच् । कुत्सितं शनैः शनकैः । क्षिप्रमित्यर्थः । क्षिप्रमेव त्वं “परि “स्रव मदीयदंष्ट्राभिरभिषूयमाणः सन् परितः क्षरेति । तथा यज्ञेष्वपि ग्रावभिरभिषूयमाणः सोमः प्रथमं शनैः परिस्रवति ततः शनकैः क्षिप्रमिति तदभिप्रायेणोक्तम् । तत इन्द्र एतद्वाक्यं श्रुत्वा तदानीमेवमभिषुतं सोमं यज्ञस्थानीयादपालामुखादेवाधासीत् । उक्तार्थः शाट्यायनकब्राह्मणे स्पष्टमभ्यधायि- ‘ अनाद्रियमाणैव तमब्रवीदा चन त्वा चिकित्सामोऽधि चन त्वा नेमसीति । पुरा मां सर्वयर्चापाला स्तौतीत्युपपर्यावर्तत शनैरिव शनकैरिवेन्द्रायेन्दो परि स्रवेति ह वा अस्यै मुखात्सोमं निरधयत्सोमपीथ इह वा अस्य भवति य एवं विद्वान् स्त्रीमुपजिघ्रति ' इति ॥


कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् ।

कु॒वित्प॑ति॒द्विषो॑ य॒तीरिन्द्रे॑ण सं॒गमा॑महै ॥४

कु॒वित् । शक॑त् । कु॒वित् । कर॑त् । कु॒वित् । नः॒ । वस्य॑सः । कर॑त् ।

कु॒वित् । प॒ति॒ऽद्विषः॑ । य॒तीः । इन्द्रे॑ण । स॒म्ऽगमा॑महै ॥४

कुवित् । शकत् । कुवित् । करत् । कुवित् । नः । वस्यसः । करत् ।

कुवित् । पतिऽद्विषः । यतीः । इन्द्रेण । सम्ऽगमामहै ॥४

सोमं पीतवानिन्द्रोऽस्मानेवं करोत्वित्याह । स इन्द्रः “कुवित् बहुवारमस्मान् “शकत् शक्तान् समर्थान् करोतु । किंच “कुवित् बहु चास्मभ्यं “करत् करोतु । किंच स एवेन्द्रः “नः अस्मान् “कुवित् बहुकृत्वः “वस्यसः वसीयसोऽतिशयेन वसुमतः करोतु । करोतेः शक्नोतेश्च लेट्यडागमः । इदानीमात्रेय्यहमेवं करिष्यामीति वदति । पूर्वं “कुवित् बहु “पतिद्विषः त्वग्दोषात्पतिभिर्भर्तृभिबहुवारं द्विष्टा अत एव “यतीः पतिभ्यः सकाशादितो गच्छन्त्यो वयं कैश्चिदप्यनूह्यमानाः सत्यः संप्रति “इन्द्रेण सह “संगमामहै संगच्छामहै । सर्वत्र पूजार्थे बहुवचनम् । संगमशब्देनेन्द्रोऽपालामचकमतेति ॥


इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानी॑न्द्र॒ वि रो॑हय ।

शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे॑ ॥५

इ॒मानि॑ । त्रीणि॑ । वि॒ष्टपा॑ । तानि॑ । इ॒न्द्र॒ । वि । रो॒ह॒य॒ ।

शिरः॑ । त॒तस्य॑ । उ॒र्वरा॑म् । आत् । इ॒दम् । मे॒ । उप॑ । उ॒दरे॑ ॥५

इमानि । त्रीणि । विष्टपा । तानि । इन्द्र । वि । रोहय ।

शिरः । ततस्य । उर्वराम् । आत् । इदम् । मे । उप । उदरे ॥५

इन्द्रेण किं कामयसे तद्दास्यामीत्युक्ता सा वरमनया प्रार्थयते । हे “इन्द्र “इमानि “त्रीणि विष्टपानि स्थानानि सन्ति । “तानि त्रीणि स्थानानि “वि “रोहय उत्पादय । कानि तानि । “ततस्य मम पितुः रोमवर्जितं “शिरः । खलतिमित्यर्थः। तच्चापगमय । रोमशं कुर्वित्यर्थः । “उर्वरां तस्योषर क्षेत्रं सर्वसस्याढ्यं कुरु । “आत् अनन्तरं “मे मम “उपोदरे उपोदरस्य समीपे यत् “इदं स्थानम् । गुह्यमित्यर्थः। तच्च त्वग्दोषे सत्यसंजातरोमकम् । तदपि त्वग्दोषपरिहारेण रोमयुक्तं कुरु। एतानि त्रीणि स्थानानि । एषोऽर्थः शाट्यायनके प्रपञ्चेनोक्तः- ‘ तामब्रवीदपाले किं कामयसीति । साब्रवीदिमानि त्रीणि विष्टपेति खलतिर्हास्यै पिता स तं हाखलतिं चकारोर्वरा हास्य न जज्ञे सो ह जज्ञ उपस्थे हास्यै रोमाणि नासुस्तान्यु ह जज्ञिर इत्यस्योत्तरा भूयसे निर्वचनीयासौ च या नः' इति ॥


अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं१॒॑ मम॑ ।

अथो॑ त॒तस्य॒ यच्छिर॒ः सर्वा॒ ता रो॑म॒शा कृ॑धि ॥६

अ॒सौ । च॒ । या । नः॒ । उ॒र्वरा॑ । आत् । इ॒माम् । त॒न्व॑म् । मम॑ ।

अथो॒ इति॑ । त॒तस्य॑ । यत् । शिरः॑ । सर्वा॑ । ता । रो॒म॒शा । कृ॒धि॒ ॥६

असौ । च । या । नः । उर्वरा । आत् । इमाम् । तन्वम् । मम ।

अथो इति । ततस्य । यत् । शिरः । सर्वा । ता । रोमशा । कृधि ॥६

उक्तमेवार्थमनया विवृणोति । "नः अस्माकं पितुः “या “असौ “उर्वरा यदिदमूषरं क्षेत्रमस्ति ।। “आत् अनन्तरं "मम “इमां "तन्वम् इदं त्वग्दोषदुष्टं गुह्यस्थानम् । "अथो अथापि च "ततस्य तातस्य "यच्छिरः रोमवर्जितमस्ति एतानि “सर्वा सर्वाणि तानीमानि त्रीणि स्थानानि “रोमशा रोमशानि "कृधि कुरु ॥


खे रथ॑स्य॒ खेऽन॑स॒ः खे यु॒गस्य॑ शतक्रतो ।

अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्व्यकृ॑णो॒ः सूर्य॑त्वचम् ॥७

खे । रथ॑स्य । खे । अन॑सः । खे । यु॒गस्य॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

अ॒पा॒लाम् । इ॒न्द्र॒ । त्रिः । पू॒त्वी । अकृ॑णोः । सूर्य॑ऽत्वचम् ॥७

खे । रथस्य । खे । अनसः । खे । युगस्य । शतक्रतो इति शतऽक्रतो ।

अपालाम् । इन्द्र । त्रिः । पूत्वी । अकृणोः । सूर्यऽत्वचम् ॥७

अनयापालां सूर्यसदृशप्रभामकरोदित्याह । हे "शतक्रतो हे शतसंख्याकयज्ञ बहुविधप्रज्ञ वा हे “इन्द्र "रथस्य स्वकीयस्य “खे पृथुतरे छिद्रे तथा “अनसः शकटस्य “खे तदपेक्षयाल्पे छिद्रे "युगस्य “खे चाल्पतरे सूक्ष्मे छिद्रे रथशकटयुगानां छिद्रेषु त्वग्दोषपरिहाराय "त्रिः त्रिवारं निष्कर्षणेन “पूत्वी शोधयित्वा ततः अपालाम् एतन्नामिकामत्रिसुतां ब्रह्मवादिनीं "सूर्यत्वचं सूर्यसमानत्वचम् "अकृणोः अकरोः । कल्याणतमरूपभाजमकरोरित्यर्थः शाट्यायनकब्राह्मणे स्पष्टमभिहितः- ‘ तां खे रथस्यात्यबृहत्सा गोधाभवत्तां खेऽनसोऽत्यबृहत्सा संश्लिष्टकाभवत्तदेषाभ्यनूच्यते खे रथस्य खेऽनस इति । तस्यै ह यत्कल्याणतमं रूपाणां तद्रूपमास' इति । त्वग्दोषापनयनाथ अक्षादिद्वारेष्वतिकर्षणमिति। यस्त्वग्दोषदूषितः सन्नेतत्सूक्तं पठति तस्य त्वग्दोषमपगमय्य सूर्यसदृशकान्तिमिन्द्रः करोतीति सूक्तं प्रशस्यते ॥ ॥ १४ ॥

रथोपरि टिप्पणी


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.९१&oldid=193154" इत्यस्माद् पुनः प्राप्तिः