ऋग्वेदः सूक्तं ८.३६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.३५ ऋग्वेदः - मण्डल ८
सूक्तं ८.३६
श्यावाश्व आत्रेयः।
सूक्तं ८.३७ →
दे. इन्द्रः । शक्वरी, ७ महापङ्क्तिः।


अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो ।
यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥१॥
प्राव स्तोतारं मघवन्नव त्वां पिबा सोमं मदाय कं शतक्रतो ।
यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥२॥
ऊर्जा देवाँ अवस्योजसा त्वां पिबा सोमं मदाय कं शतक्रतो ।
यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥३॥
जनिता दिवो जनिता पृथिव्याः पिबा सोमं मदाय कं शतक्रतो ।
यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥४॥
जनिताश्वानां जनिता गवामसि पिबा सोमं मदाय कं शतक्रतो ।
यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥५॥
अत्रीणां स्तोममद्रिवो महस्कृधि पिबा सोमं मदाय कं शतक्रतो ।
यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥६॥
श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।
प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥७॥


सायणभाष्यम्

‘ अवितासि ' इति सप्तर्चं षष्ठं सूक्तमात्रेयस्य श्यावाश्वस्यार्षम् । अत्रेयमनुक्रमणिका ‘ अविता सप्त शाक्करं महापङ्क्त्यन्तम्' इति । षट्पञ्चाशदक्षरा शक्वरी छन्दः । ‘श्यावाश्वस्य' इति सप्तमी महापङ्क्तिः ‘ षळष्टका वा महापङ्क्तिः ' (अनु. १०. ३) इति लक्षणसद्भावात् । दशरात्रे पञ्चमेऽहनि मरुत्वतीय इदं सूक्तम् । सूत्रितं च- अवितासीत्था हि ' (आश्व. श्रौ. ७. १२) इति ।।


अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिष॒ः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥१

अ॒वि॒ता । अ॒सि॒ । सु॒न्व॒तः । वृ॒क्तऽब॑र्हिषः । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥१

अविता । असि । सुन्वतः । वृक्तऽबर्हिषः । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।

यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥१

हे “शतक्रतो बहुकर्मन्निन्द्र “सुन्वतः सोमाभिषवं कुर्वतः “वृक्तबर्हिषः स्तीर्णबर्हिषो यजमानस्य “अविता रक्षिता “असि भवसि । “मदाय मदार्थं “सोमं “पिब । हे “सत्पते सतां पते “इन्द्र “ते तुभ्यं “यं सोमस्य “भागमधारयन् सर्वे देवा अकल्पयन् । तथा च यजुर्ब्राह्मणं---' स एतं माहेन्द्रमुद्धारमुदहरत वृत्रं हत्वान्यासु देवतास्वधि' ( तै. सं. ६. ५. ५. ३ ) इति । तं भागं “विश्वाः “पृतनाः शत्रूणां सर्वाः सेनाः “उरु बहु “ज्रयः वेगं च “सं “सेहानः सम्यगभिभवन् “अप्सुजित् अप्सु जेता च सन् पिब ॥


प्राव॑ स्तो॒तारं॑ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥२

प्र । अ॒व॒ । स्तो॒तार॑म् । म॒घ॒ऽव॒न् । अव॑ । त्वाम् । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥२

प्र । अव । स्तोतारम् । मघऽवन् । अव । त्वाम् । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।

यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥२

हे "मघवन् "स्तोतारं "प्राव प्ररक्ष । “त्वां च "अव सोमपानेन रक्ष । सिद्धमन्यत् ॥


ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥३

ऊ॒र्जा । दे॒वान् । अव॑सि । ओज॑सा । त्वाम् । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥३

ऊर्जा । देवान् । अवसि । ओजसा । त्वाम् । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।

यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥३

हे इन्द्र त्वं “देवान् “ऊर्जा अन्नेन हविषा “अवसि रक्षसि । “त्वाम् अपि “ओजसा बलेन अवसि । सिद्धमन्यत् ॥


ज॒नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥४

ज॒नि॒ता । दि॒वः । ज॒नि॒ता । पृ॒थि॒व्याः । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥४

जनिता । दिवः । जनिता । पृथिव्याः । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।

यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥४

हे इन्द्र त्वं “दिवः द्युलोकस्य “जनिता जनकोऽसि । “पृथिव्याः च "जनिता असि । सिद्धमन्यत् ॥


ज॒नि॒ताश्वा॑नां जनि॒ता गवा॑मसि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥५

ज॒नि॒ता । अश्वा॑नाम् । ज॒नि॒ता । गवा॑म् । अ॒सि॒ । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥५

जनिता । अश्वानाम् । जनिता । गवाम् । असि । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।

यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥५

हे इन्द्र त्वम् “अश्वानां “जनिता जनकः “असि । “गवां च "जनिता असि । सिद्धमन्यत् ॥


अत्री॑णां॒ स्तोम॑मद्रिवो म॒हस्कृ॑धि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।

यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥६

अत्री॑णाम् । स्तोम॑म् । अ॒द्रि॒ऽवः॒ । म॒हः । कृ॒धि॒ । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥६

अत्रीणाम् । स्तोमम् । अद्रिऽवः । महः । कृधि । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।

यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥६

हे "अद्रिवः अद्रिमन् “अत्रीणां “स्तोमं “महस्कृधि पूजितं कुरु । सिद्धमन्यत् ॥


श्या॒वाश्व॑स्य सुन्व॒तस्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रे॒ः कर्मा॑णि कृण्व॒तः ।

प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॒ ब्रह्मा॑णि व॒र्धय॑न् ॥७

श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । तथा॑ । शृ॒णु॒ । यथा॑ । अशृ॑णोः । अत्रेः॑ । कर्मा॑णि । कृ॒ण्व॒तः ।

प्र । त्र॒सद॑स्युम् । आ॒वि॒थ॒ । त्वम् । एकः॑ । इत् । नृ॒ऽसह्ये॑ । इन्द्र॑ । ब्रह्मा॑णि । व॒र्धय॑न् ॥७

श्यावऽअश्वस्य । सुन्वतः । तथा । शृणु । यथा । अशृणोः । अत्रेः । कर्माणि । कृण्वतः ।

प्र । त्रसदस्युम् । आविथ । त्वम् । एकः । इत् । नृऽसह्ये । इन्द्र । ब्रह्माणि । वर्धयन् ॥७

हे “इन्द्र त्वं "सुन्वतः सोमाभिषवं कुर्वतः “श्यावाश्वस्य मम स्तुतिं “कर्माणि “कृण्वतः कुर्वतः "अत्रेः “यथाशृणोः अश्रौषीः “तथा “शृणु । अपि च “त्वमेक “इत् एक एव “नृषाह्ये युद्धे “ब्रह्माणि स्तोत्राणि कामैः “वर्धयन् “त्रसदस्युं “प्र “आविथ ।। ॥ १८ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३६&oldid=191733" इत्यस्माद् प्रतिप्राप्तम्