ऋग्वेदः सूक्तं ८.३४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.३३ ऋग्वेदः - मण्डल ८
सूक्तं ८.३४
नीपातिथिः काण्वः, १६-१८ सहस्रं वसुरोचिषोऽङ्गिरसः।
सूक्तं ८.३५ →
दे. इन्द्रः। गायत्री।


एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१॥
आ त्वा ग्रावा वदन्निह सोमी घोषेण यच्छतु ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥२॥
अत्रा वि नेमिरेषामुरां न धूनुते वृकः ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥३॥
आ त्वा कण्वा इहावसे हवन्ते वाजसातये ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥४॥
दधामि ते सुतानां वृष्णे न पूर्वपाय्यम् ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥५॥
स्मत्पुरंधिर्न आ गहि विश्वतोधीर्न ऊतये ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥६॥
आ नो याहि महेमते सहस्रोते शतामघ ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥७॥
आ त्वा होता मनुर्हितो देवत्रा वक्षदीड्यः ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥८॥
आ त्वा मदच्युता हरी श्येनं पक्षेव वक्षतः ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥९॥
आ याह्यर्य आ परि स्वाहा सोमस्य पीतये ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१०॥
आ नो याह्युपश्रुत्युक्थेषु रणया इह ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥११॥
सरूपैरा सु नो गहि सम्भृतैः सम्भृताश्वः ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१२॥
आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१३॥
आ नो गव्यान्यश्व्या सहस्रा शूर दर्दृहि ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१४॥
आ नः सहस्रशो भरायुतानि शतानि च ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१५॥
आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः ।
ओजिष्ठमश्व्यं पशुम् ॥१६॥
य ऋज्रा वातरंहसोऽरुषासो रघुष्यदः ।
भ्राजन्ते सूर्या इव ॥१७॥
पारावतस्य रातिषु द्रवच्चक्रेष्वाशुषु ।
तिष्ठं वनस्य मध्य आ ॥१८॥

सायणभाष्यम्

‘एन्द्र याहि' इत्यष्टादशर्चं चतुर्थं सूक्तं काण्वस्य नीपातिथेरार्षमानुष्टुभम् । षोडश्याद्यास्तिस्रो गायत्र्यः । वसुरोचिषोऽङ्गिरोगोत्राः सहस्रसंख्याकाः ‘आ यदिन्द्रश्च' इत्यादीनां तासां तिसृणामृषयः । इन्द्रो देवता । तथा चानुक्रमणम्-' एन्द्र याहि द्व्यूना नीपातिथिरानुष्टुभं तृचोऽन्त्यो गायत्रस्तं सहस्रं वसुरोचिषोऽङ्गिरसोऽपश्यन्' इति । विनियोगो लैङ्गिकः ।।


एन्द्र॑ याहि॒ हरि॑भि॒रुप॒ कण्व॑स्य सुष्टु॒तिम् ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥१

आ । इ॒न्द्र॒ । या॒हि॒ । हरि॑ऽभिः । उप॑ । कण्व॑स्य । सु॒ऽस्तु॒तिम् ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥१

आ । इन्द्र । याहि । हरिऽभिः । उप । कण्वस्य । सुऽस्तुतिम् ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥१

हे “इन्द्र “कण्वस्य “सुष्टुतिं शोभनां स्तुतिं “हरिभिः अश्वैः “उप "आ “याहि । “दिवः द्युलोकम् । द्वितीयार्थे षष्ठी । “अमुष्य अमुष्मिन्निन्द्रे “शासतः शासति । विभक्तिव्यत्ययः । तत्र वयं सुखमास्महे । हे “दिवावसो दीप्तहविष्केन्द्र “दिवं स्वर्गं “यय यूयं गच्छत । बहुवचनं पूजार्थम् । यद्वा । हे दिवावसो दिवो द्युनामकम् अमुष्य अमुं लोकं शासनं कुर्वन्तो यूयं दिवं स्वर्गं यय गच्छत । अत्र बहुवचनं पूजार्थमित्यर्थः ॥


आ त्वा॒ ग्रावा॒ वद॑न्नि॒ह सो॒मी घोषे॑ण यच्छतु ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥२

आ । त्वा॒ । ग्रावा॑ । वद॑न् । इ॒ह । सो॒मी । घोषे॑ण । य॒च्छ॒तु॒ ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥२

आ । त्वा । ग्रावा । वदन् । इह । सोमी । घोषेण । यच्छतु ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥२

हे इन्द्र “त्वा त्वाम् “इह यज्ञे “ग्रावा सोमाभिषवपाषाणः “सोमी सोमवान् “वदन् शब्दं कुर्वन् “घोषेण ध्वनिना सह "आ “यच्छतु । सिद्धमन्यत् ॥


अत्रा॒ वि ने॒मिरे॑षा॒मुरां॒ न धू॑नुते॒ वृक॑ः ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥३

अत्र॑ । वि । ने॒मिः । ए॒षा॒म् । उरा॑म् । न । धू॒नु॒ते॒ । वृकः॑ ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥३

अत्र । वि । नेमिः । एषाम् । उराम् । न । धूनुते । वृकः ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥३

“अत्र अस्मिन् यज्ञे “एषाम् अभिषवग्राव्णां “नेमिः सोमलतां “वि “धूनुते विशेषेण कम्पयति । "उरां मेषीं “वृको “न वृक इव । सिद्धमन्यत् ॥


आ त्वा॒ कण्वा॑ इ॒हाव॑से॒ हव॑न्ते॒ वाज॑सातये ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥४

आ । त्वा॒ । कण्वाः॑ । इ॒ह । अव॑से । हव॑न्ते । वाज॑ऽसातये ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥४

आ । त्वा । कण्वाः । इह । अवसे । हवन्ते । वाजऽसातये ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥४

हे इन्द्र “त्वा त्वाम् “इह यज्ञे “कण्वाः “अवसे रक्षणाय “वाजसातये अन्नस्य प्राप्त्यर्थं च “आ “हवन्ते आभिमुख्येन ह्वयन्ति । सिद्धमन्यत् ।।


दधा॑मि ते सु॒तानां॒ वृष्णे॒ न पू॑र्व॒पाय्य॑म् ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥५

दधा॑मि । ते॒ । सु॒ताना॑म् । वृष्णे॑ । न । पू॒र्व॒ऽपाय्य॑म् ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥५

दधामि । ते । सुतानाम् । वृष्णे । न । पूर्वऽपाय्यम् ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥५

हे इन्द्र “ते तुभ्यं “सुतानाम् । द्वितीयार्थे षष्ठी । सुतान् सोमान् “दधामि प्रयच्छामि । “वृष्णे “न यथा वायवे “पूर्वपाय्यं यज्ञमुखे पेयं प्रयच्छन्ति तद्वदहं प्रयच्छामीत्यर्थः । सिद्धमन्यत् ॥ ॥११॥


स्मत्पु॑रंधिर्न॒ आ ग॑हि वि॒श्वतो॑धीर्न ऊ॒तये॑ ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥६

स्मत्ऽपु॑रन्धिः । नः॒ । आ । ग॒हि॒ । वि॒श्वतः॑ऽधीः । नः॒ । ऊ॒तये॑ ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥६

स्मत्ऽपुरन्धिः । नः । आ । गहि । विश्वतःऽधीः । नः । ऊतये ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥६

हे इन्द्र “स्मत्पुरंधिः स्वर्गकुटुम्बी “नः अस्मान् “आ “गहि । तथा “विश्वतोधीः सर्वजगतो धारकस्त्वं “नः अस्माकम् “ऊतये रक्षणाय आ गहि आगच्छ ।।


आ नो॑ याहि महेमते॒ सह॑स्रोते॒ शता॑मघ ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥७

आ । नः॒ । या॒हि॒ । म॒हे॒ऽम॒ते॒ । सह॑स्रऽऊते । शत॑ऽमघ ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥७

आ । नः । याहि । महेऽमते । सहस्रऽऊते । शतऽमघ ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥७

हे “महेमते महाबुद्धे "सहस्रोते सहस्ररक्षण “शतामघ बहुधनेन्द्र त्वं “नः अस्मान् “आ “याहि आगच्छ । सिद्धमन्यत् ।।


आ त्वा॒ होता॒ मनु॑र्हितो देव॒त्रा व॑क्ष॒दीड्य॑ः ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥८

आ । त्वा॒ । होता॑ । मनुः॑ऽहितः । दे॒व॒ऽत्रा । व॒क्ष॒त् । ईड्यः॑ ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥८

आ । त्वा । होता । मनुःऽहितः । देवऽत्रा । वक्षत् । ईड्यः ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥८

हे इन्द्र “त्वा त्वां “देवत्रा देवानां मध्ये “ईड्यः स्तुत्यः "होता देवानामाह्वाताग्निः “मनुर्हितः मनुष्यैर्गृहेषु निहितः “आ “वक्षत् वहतु । सिद्धमन्यत् ॥


आ त्वा॑ मद॒च्युता॒ हरी॑ श्ये॒नं प॒क्षेव॑ वक्षतः ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥९

आ । त्वा॒ । म॒द॒ऽच्युता॑ । हरी॒ इति॑ । श्ये॒नम् । प॒क्षाऽइ॑व । व॒क्ष॒तः॒ ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥९

आ । त्वा । मदऽच्युता । हरी इति । श्येनम् । पक्षाऽइव । वक्षतः ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥९

हे इन्द्र “त्वा त्वां “मदच्युता मदच्युतौ शत्रूणां मदस्य च्यावयितारौ "हरी अश्वौ “श्येनं श्येनाख्यं पक्षिणं “पक्षेव आत्मीयपक्षाविव “आ “वक्षतः आवहताम् । सिद्धमन्यत् ॥


आ या॑ह्य॒र्य आ परि॒ स्वाहा॒ सोम॑स्य पी॒तये॑ ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥१०

आ । या॒हि॒ । अ॒र्यः । आ । परि॑ । स्वाहा॑ । सोम॑स्य । पी॒तये॑ ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥१०

आ । याहि । अर्यः । आ । परि । स्वाहा । सोमस्य । पीतये ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥१०

हे “अर्य ईश्वर त्वम् “आ "परि सर्वतः “आ “याहि आगच्छ । “पीतये तव पानार्थं “सोमस्य सोमं “स्वाहा स्वाहा करोमि । सिद्धमन्यत् ॥ ॥ १२ ॥


आ नो॑ या॒ह्युप॑श्रुत्यु॒क्थेषु॑ रणया इ॒ह ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥११

आ । नः॒ । या॒हि॒ । उप॑ऽश्रुति । उ॒क्थेषु॑ । र॒ण॒य॒ । इ॒ह ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥११

आ । नः । याहि । उपऽश्रुति । उक्थेषु । रणय । इह ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥११

हे इन्द्र त्वं “नः अस्माकम् “इह यज्ञे “उक्थेषु शस्त्रेषु पठ्यमानेषु “उपश्रुति उपश्रुतौ समीपम् “आ “याहि आगच्छ । अस्मान् “रणय च । सिद्धमन्यत् ॥


सरू॑पै॒रा सु नो॑ गहि॒ सम्भृ॑तै॒ः सम्भृ॑ताश्वः ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥१२

सऽरू॑पैः । आ । सु । नः॒ । ग॒हि॒ । सम्ऽभृ॑तैः । सम्भृ॑तऽअश्वः ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥१२

सऽरूपैः । आ । सु । नः । गहि । सम्ऽभृतैः । सम्भृतऽअश्वः ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥१२

हे इन्द्र “संभृताश्वः पुष्टाश्वस्त्वं “सु “संभृतैः “सरूपैः समानरूपैरश्वैः “नः अस्मान् “आ “गहि आगच्छ । सिद्धमन्यत् ।।


आ या॑हि॒ पर्व॑तेभ्यः समु॒द्रस्याधि॑ वि॒ष्टप॑ः ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥१३

आ । या॒हि॒ । पर्व॑तेभ्यः । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपः॑ ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥१३

आ । याहि । पर्वतेभ्यः । समुद्रस्य । अधि । विष्टपः ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥१३

हे इन्द्र त्वं “पर्वतेभ्यः “आ “याहि आगच्छ । “समुद्रस्य अन्तरिक्षस्य “विष्टपः विष्टपाच्च “अधि आयाहीत्यर्थः । सिद्धमन्यत् ॥


आ नो॒ गव्या॒न्यश्व्या॑ स॒हस्रा॑ शूर दर्दृहि ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥१४

आ । नः॒ । गव्या॑नि । अश्व्या॑ । स॒हस्रा॑ । शू॒र॒ । द॒र्दृ॒हि॒ ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥१४

आ । नः । गव्यानि । अश्व्या । सहस्रा । शूर । दर्दृहि ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥१४

हे "शूर इन्द्र त्वं “नः अस्मभ्यं “सहस्रा सहस्राणि सहस्रसंख्यानि “गव्यानि गोहितानि गोरूपाणि वा अश्व्यानि अश्वहितान्यश्वात्मकानि वा "आ “ददृहि आविवृणु । सिद्धमन्यत् ।।


आ न॑ः सहस्र॒शो भ॑रा॒युता॑नि श॒तानि॑ च ।

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥१५

आ । नः॒ । स॒ह॒स्र॒ऽशः । भ॒र॒ । अ॒युता॑नि । श॒तानि॑ । च॒ ।

दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥१५

आ । नः । सहस्रऽशः । भर । अयुतानि । शतानि । च ।

दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवाऽवसो ॥१५

हे इन्द्र “नः अस्मभ्यं “सहस्रशः सहस्रधा "अयुतानि “शतानि “च अभीष्टानि वस्तूनि “आ “भर आहर । सिद्धमन्यत् ॥


आ यदिन्द्र॑श्च॒ दद्व॑हे स॒हस्रं॒ वसु॑रोचिषः ।

ओजि॑ष्ठ॒मश्व्यं॑ प॒शुम् ॥१६

आ । यत् । इन्द्रः॑ । च॒ । दद्व॑हे॒ इति॑ । स॒हस्र॑म् । वसु॑ऽरोचिषः ।

ओजि॑ष्ठम् । अश्व्य॑म् । प॒शुम् ॥१६

आ । यत् । इन्द्रः । च । दद्वहे इति । सहस्रम् । वसुऽरोचिषः ।

ओजिष्ठम् । अश्व्यम् । पशुम् ॥१६

“वसुरोचिषः वसुदीप्तयो वयं “सहस्रम् अस्माकं नेता “इन्द्रश्च “ओजिष्ठं बलवत्तरम् “अश्व्यम् अश्वात्मकं “पशुं च “यत् यदा “आ “दद्वहे पारावतादादद्महे । उत्तरत्र संबन्धः ॥


य ऋ॒ज्रा वात॑रंहसोऽरु॒षासो॑ रघु॒ष्यद॑ः ।

भ्राज॑न्ते॒ सूर्या॑ इव ॥१७

ये । ऋ॒ज्राः । वात॑ऽरंहसः । अ॒रु॒षासः॑ । र॒घु॒ऽस्यदः॑ ।

भ्राज॑न्ते । सूर्याः॑ऽइव ॥१७

ये । ऋज्राः । वातऽरंहसः । अरुषासः । रघुऽस्यदः ।

भ्राजन्ते । सूर्याःऽइव ॥१७

तदा “ये “ऋज्राः ऋजुगामिनः “वातरंहसः वायुसदृशवेगाः "अरुषासः आरोचमानाः रघुष्यदः लघु स्यन्दमाना अश्वाः “सूर्याइव यथा सूर्यस्तथा “भ्राजन्ते ॥


पारा॑वतस्य रा॒तिषु॑ द्र॒वच्च॑क्रेष्वा॒शुषु॑ ।

तिष्ठं॒ वन॑स्य॒ मध्य॒ आ ॥१८

पारा॑वतस्य । रा॒तिषु॑ । द्र॒वत्ऽच॑क्रेषु । आ॒शुषु॑ ।

तिष्ठ॑म् । वन॑स्य । मध्ये॑ । आ ॥१८

पारावतस्य । रातिषु । द्रवत्ऽचक्रेषु । आशुषु ।

तिष्ठम् । वनस्य । मध्ये । आ ॥१८

तेषु “पारावतस्य “रातिषु देयेषु “द्रवच्चक्रेषु द्रवद्रथचक्रेषु "आशुषु अश्वेषु । ‘तार्क्ष्यः आशुः' इत्यश्वनामसु पाठात् । प्रतिगृहीतेषु सत्सु “धनस्य “मध्ये “आ “तिष्ठम् इति वसुरोचिषां सहस्रं वदति ॥ ॥ १३ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३४&oldid=191732" इत्यस्माद् पुनः प्राप्तिः