ऋग्वेदः सूक्तं ८.५८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.५७ ऋग्वेदः - मण्डल ८
सूक्तं ८.५८
मेध्यः काण्वः
सूक्तं ८.५९ →
दे. विश्वे देवाः, १ ऋत्विजो वा। त्रिष्टुप्


यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति ।
यो अनूचानो ब्राह्मणो युक्त आसीत्का स्वित्तत्र यजमानस्य संवित् ॥१॥
एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः ।
एकैवोषाः सर्वमिदं वि भात्येकं वा इदं वि बभूव सर्वम् ॥२॥
ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदं भूरिवारम् ।
चित्रामघा यस्य योगेऽधिजज्ञे तं वां हुवे अति रिक्तं पिबध्यै ॥३॥


सायणभाष्यम्

'यमृत्विजः' इति तृचात्मकं दशमं सूक्तं काण्वस्य मेध्यस्यार्षं वैश्वदेवं त्रैष्टुभम् । अनुक्रान्तं च- यमृत्विजस्तृचं वैश्वदेवमाद्य ऋत्विक्स्तुतिर्वा ' इति । आद्या ऋत्विग्देवत्या वा इत्यर्थः । विनियोगः सूत्रादवगन्तव्यः ।।


यमृ॒त्विजो॑ बहु॒धा क॒ल्पय॑न्त॒ः सचे॑तसो य॒ज्ञमि॒मं वह॑न्ति ।

यो अ॑नूचा॒नो ब्रा॑ह्म॒णो यु॒क्त आ॑सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित् ॥१

यम् । ऋ॒त्विजः॑ । ब॒हु॒धा । क॒ल्पय॑न्तः । सऽचे॑तसः । य॒ज्ञम् । इ॒मम् । वह॑न्ति ।

यः । अ॒नू॒चा॒नः । ब्रा॒ह्म॒णः । यु॒क्तः । आ॒सी॒त् । का । स्वि॒त् । तत्र॑ । यज॑मानस्य । स॒म्ऽवित् ॥१

यम् । ऋत्विजः । बहुधा । कल्पयन्तः । सऽचेतसः । यज्ञम् । इमम् । वहन्ति ।

यः । अनूचानः । ब्राह्मणः । युक्तः । आसीत् । का। स्वित्। तत्रं । यजमानस्य । सम्ऽवित् ॥१॥

सचेतसः समानप्रज्ञाः ऋत्विजः यमिमं यज्ञं यजनीयकर्मविशेषं बहुधा अनेकप्रकारेण कल्पयन्तः रचयन्तः सन्तः वहन्ति देवान् प्रापयन्ति । तमिमं यज्ञं कुर्वन् ब्राह्मणः ऋत्विग्लक्षणो विप्रः यज्ञकर्मविशेषे युक्तः समाहितः आसीत् । तत्र कर्मणि का स्वित् । स्विदिति वितर्के । का वा यजमानस्य संवित् प्रज्ञा । न किंचित्करा इत्यर्थः । यत्र कर्मणि ऋत्विगेव सावधानोऽस्ति तत्र यजमानस्य प्रज्ञापाटवेन किं प्रयोजनमस्ति । न किंचिदपीति भावः । कीदृशो ब्राह्मणः। अनूचानः गुरोः सकाशादधीतवेदवेदाङ्गः ॥


एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एक॒ः सूर्यो॒ विश्व॒मनु॒ प्रभू॑तः ।

एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्व॑म् ॥२

एकः॑ । ए॒व । अ॒ग्निः । ब॒हु॒धा । सम्ऽइ॑द्धः । एकः॑ । सूर्यः॑ । विश्व॑म् । अनु॑ । प्रऽभू॑तः ।

एका॑ । ए॒व । उ॒षाः । सर्व॑म् । इ॒दम् । वि । भा॒ति॒ । एक॑म् । वै । इ॒दम् । वि । ब॒भू॒व॒ । सर्व॑म् ॥२

एकः । एव । अग्निः । बहुधा । सम्ऽइद्धः । एकः । सूर्यः । विश्वम् । अनु । प्रऽभूतः ।

एक । एव । उषाः । सर्वम् । इदम् । वि। भाति । एकम् । वै । इदम् । वि। बभूव । सर्वम् ॥ २ ॥

एकः केवल एवाग्निः दानादिगुणयुक्तो देवः बहुधा वाडववैद्युताद्यनेकप्रकारेण समिद्धः सम्यक् दीप्तो भवति । तथा एकः एकाकी सूर्यः प्राणिनां सुष्ठु कर्मस्वीरयिता देवः विश्वं सर्वं जगदनु अनुप्रविश्य । 'तत्सृष्ट्वा तदेवानुप्राविशत्' (तै, उ. २. ६) इति श्रुतेः । प्रभूतः अनेकात्मतया प्रादुर्भूतोऽस्ति । 'सूर्य आत्मा जगतस्तस्थुषश्च' (ऋ. सं. १. ११५. १) इति श्रुतेः । किंच एका एकाकिन्येव उषाः तमो विवासयन्ती देवी सर्वं समस्तमिदं दृश्यमानं जगत् वि भाति विशेषेण दीपयति । तस्मादेकं वै एकमेवाद्वितीयं ब्रह्म इदमाब्रह्मस्तम्बपर्यन्तं जगत् वि बभूव विशेषेणाभवदिति युक्तमिति शेषः । यदग्न्यादयो देवा अप्येकाकिनः सन्तोऽनेकभवनसमर्थास्तदा परं ब्रह्म एकं सदनेकं भवेदिति किमु वक्तव्यमित्यभिप्रायः ।।


ज्योति॑ष्मन्तं केतु॒मन्तं॑ त्रिच॒क्रं सु॒खं रथं॑ सु॒षदं॒ भूरि॑वारम् ।

चि॒त्राम॑घा॒ यस्य॒ योगे॑ऽधिजज्ञे॒ तं वां॑ हु॒वे अति॑ रिक्तं॒ पिब॑ध्यै ॥३

ज्योति॑ष्मन्तम् । के॒तु॒ऽमन्त॑म् । त्रि॒ऽच॒क्रम् । सु॒ऽखम् । रथ॑म् । सु॒ऽसद॑म् । भूरि॑ऽवारम् ।

चि॒त्रऽम॑घा । यस्य॑ । योगे॑ । अ॒धि॒ऽज॒ज्ञे॒ । तम् । वा॒म् । हु॒वे । अति॑ । रि॒क्त॒म् । पिब॑ध्यै ॥३

ज्योतिष्मन्तम् । केतुऽमन्तम् । त्रिऽचक्रम् । सुऽखम् । रथम् । सुऽसदम् । भूरिऽवारम् ।

चित्रऽमघा । यस्य । योगें। अधिऽजज्ञे । तम् । वाम् । हुवे। अति । रिक्तम् । पिबध्यै ।।३॥॥२९॥


हे विश्वेदेवाः वाम् । वचनव्यत्ययश्छन्दसः । वो युष्माकं मध्ये अतिरिक्तं निरतिशयं तं तच्छब्दवाच्यं परमात्मानं पिबध्यै सोमं पातुं हुवे आह्वयामि । तं कम् । यस्य परमात्मनः योगे सेव्यसेवकभावसंबन्धे सति चित्रमघा । चित्रं चायनीयं मघं गवाश्वादिलक्षणं धनं यस्याः सा चित्रमघा। पूजनीयानेकधनोपेता लक्ष्मीः अधि जज्ञे अधिकं प्रादुरभूत् युधिष्ठिरादेस्तम् । कीदृशं तम् । ज्योतिष्मन्तं ज्योतींषि सूर्यादीनि प्रकाश्यत्वेन सन्ति यस्य तम् । ' तस्य भासा सर्वमिदं विभाति' इति श्रुतेः । केतुमन्तम् । केतवः प्रज्ञाः विषयाः सन्ति यस्य तम् । यः सर्वज्ञः सर्ववित् ' ( मु, उ, १, १. ९) इति श्रुतेः । केतुरिति प्रज्ञानाम । ' केतुः केतः' इति तन्नामसु पाठात् । त्रिचक्रं त्रिषु भूरादिलोकेषु चक्रं चंक्रमणं त्रिविक्रमावतारे यस्य तम् । ' इदं विष्णुर्विचक्रमे ' (ऋ. सं. १. २३. १७) इत्यादिश्रुतेः । यद्वा त्रिषु लोकेषु अप्रतिहतं चक्रं सुदर्शनाख्यं यस्य तम् । सुखं निरतिशयानन्दात्मकम् । “ओं कं ब्रह्म खम् ' ( इति ) श्रुतेः । रथं रंहणस्वभावम् । गमनशीलमिति यावत् । ‘अपाणिपादो जवनो ग्रहीता' (श्वे, उ. ३. १९) इति श्रुतेः । सुषदम् । शोभने आत्मस्वरूपे सीदति तिष्ठतीति सुषत् सुप्रतिष्ठः तम् । ' प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म' इति श्रुतेः । भूरिवारं भूरिभिर्बहुभिः प्राणिभिः वारो वरणीयस्तम् । सर्वात्मकत्वात् सर्वप्रियत्वमुचितमस्य । 'आत्मनः कामाय सर्वं प्रियं भवति' (बृ. उ. २. ४. ५) इति श्रुतेः ॥ ॥ २९ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.५८&oldid=209010" इत्यस्माद् पुनः प्राप्तिः