ऋग्वेदः सूक्तं ८.४०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.३९ ऋग्वेदः - मण्डल ८
सूक्तं ८.४०
नाभाकः काण्वः।
सूक्तं ८.४१ →
दे. इन्द्राग्नी । महापङ्क्तिः, २ शक्वरी, १२ त्रिष्टुप्


इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् ।
येन दृळ्हा समत्स्वा वीळु चित्साहिषीमह्यग्निर्वनेव वात इन्नभन्तामन्यके समे ॥१॥
नहि वां वव्रयामहेऽथेन्द्रमिद्यजामहे शविष्ठं नृणां नरम् ।
स नः कदा चिदर्वता गमदा वाजसातये गमदा मेधसातये नभन्तामन्यके समे ॥२॥
ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः ।
ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ॥३॥
अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा ।
ययोर्विश्वमिदं जगदियं द्यौः पृथिवी मह्युपस्थे बिभृतो वसु नभन्तामन्यके समे ॥४॥
प्र ब्रह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत ।
या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे ॥५॥
अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय ।
वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे ॥६॥
यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा ।
अस्माकेभिर्नृभिर्वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे ॥७॥
या नु श्वेताववो दिव उच्चरात उप द्युभिः ।
इन्द्राग्न्योरनु व्रतमुहाना यन्ति सिन्धवो यान्त्सीं बन्धादमुञ्चतां नभन्तामन्यके समे ॥८॥
पूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत प्रशस्तयः सूनो हिन्वस्य हरिवः ।
वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्तामन्यके समे ॥९॥
तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियम् ।
उतो नु चिद्य ओजसा शुष्णस्याण्डानि भेदति जेषत्स्वर्वतीरपो नभन्तामन्यके समे ॥१०॥
तं शिशीता स्वध्वरं सत्यं सत्वानमृत्वियम् ।
उतो नु चिद्य ओहत आण्डा शुष्णस्य भेदत्यजैः स्वर्वतीरपो नभन्तामन्यके समे ॥११॥
एवेन्द्राग्निभ्यां पितृवन्नवीयो मन्धातृवदङ्गिरस्वदवाचि ।
त्रिधातुना शर्मणा पातमस्मान्वयं स्याम पतयो रयीणाम् ॥१२॥


सायणभाष्यम्

‘ इन्द्राग्नी युवम् ' इति द्वादशर्चं दशमं सूक्तं नाभाकस्यार्षम् । द्वितीया षट्पञ्चाशदक्षरा शक्वरी द्वादशी त्रिष्टुप् शिष्टा महापङ्क्तयः । इन्द्राग्नी देवता । तथा चानुक्रान्तम् - ' इन्द्राग्नी द्वादशैन्द्राग्नं त्रिष्टुबन्तं द्वितीया शक्वरी ' इति । महाव्रते निष्केवल्ये ऊरुभाग एतत्सूक्तम् । तथा च पञ्चमारण्यके सूत्रितम् - ‘ ऊरू इन्द्राग्नी युवं सु नः ' (ऐ. आ. ५. ३. १ ) इति । चातुर्विंशिकेऽहनि तृतीयसवने मैत्रावरुणो यदि महावालभिदं शंसेत्तदानीं माध्यंदिनसवने होत्रकाः स्वशस्त्र आरम्भ णीयाभ्य ऊर्ध्वं नाभाकतृचावावपेरन् । तत्र ‘ता हि मध्यम् ' इत्यच्छावाकस्य नाभाकतृचः । सूत्रितं च -- ता हि मध्यं भराणामित्यच्छावाकः' (आश्व. श्रौ. ७. २) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनः ‘ पूर्वीष्ट इन्द्र ' इति नाभाकतृचः। सूत्रितं च - ' पूर्वीष्ट इन्द्रोपमातय इति ब्राह्मणाच्छंसी ' (आश्व. श्रौ. ७. २) इति ॥


इन्द्रा॑ग्नी यु॒वं सु न॒ः सह॑न्ता॒ दास॑थो र॒यिम् ।

येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने॑व॒ वात॒ इन्नभ॑न्तामन्य॒के स॑मे ॥१

इन्द्रा॑ग्नी॒ इति॑ । यु॒वम् । सु । नः॒ । सह॑न्ता । दास॑थः । र॒यिम् ।

येन॑ । दृ॒ळ्हा । स॒मत्ऽसु॑ । आ । वी॒ळु । चि॒त् । स॒हि॒षी॒महि॑ । अ॒ग्निः । वना॑ऽइव । वाते॑ । इत् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥१

इन्द्राग्नी इति । युवम् । सु । नः । सहन्ता । दासथः । रयिम् ।

येन । दृळ्हा । समत्ऽसु । आ । वीळु । चित् । सहिषीमहि । अग्निः । वनाऽइव । वाते । इत् । नभन्ताम् । अन्यके । समे ॥१

हे “इन्द्राग्नी “सहन्ता शत्रूनभिभवन्तौ “युवं युवां “नः अस्मभ्यं “रयिं धनं सुष्ठु "दासथः दत्तम् । तं रयिं विशिनष्टि। “येन रयिणा "समत्सु “चित् संग्रामे “दृढा “चित् दृढानि स्थिराण्यपि “वीळु शत्रुबलानि “अग्निर्वनेव यथाग्निर्वनानि “वात “इत् वातेनैवाभिभवति तथा “सहिषीमहि अभिभवाम । सिद्धमन्यत् ॥


न॒हि वां॑ व॒व्रया॑म॒हेऽथेन्द्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नर॑म् ।

स न॑ः क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा॑तये॒ नभ॑न्तामन्य॒के स॑मे ॥२

न॒हि । वा॒म् । व॒व्रया॑महे । अथ॑ । इन्द्र॑म् । इत् । य॒जा॒म॒हे॒ । शवि॑ष्ठम् । नृ॒णाम् । नर॑म् ।

सः । नः॒ । क॒दा । चि॒त् । अर्व॑ता । गम॑त् । आ । वाज॑ऽसातये । गम॑त् । आ । मे॒धऽसा॑तये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥२

नहि । वाम् । वव्रयामहे । अथ । इन्द्रम् । इत् । यजामहे । शविष्ठम् । नृणाम् । नरम् ।

सः । नः । कदा । चित् । अर्वता । गमत् । आ । वाजऽसातये । गमत् । आ । मेधऽसातये । नभन्ताम् । अन्यके । समे ॥२

हे इन्द्राग्नी “वां युवां “न “वव्रयामहे वयं धन न याचामहे । अथ “हि अपि तर्हि "शविष्ठम् अतिशयेन बलवन्तं “नृणां “नरं नेतॄणामपि नेतारम् “इन्द्रमित् इन्द्रमेव “यजामहे । “सः इन्द्रः “नः अस्मान् "अर्वता अश्वेन "कदा “चित् “वाजसातये अन्नलाभाय “आ “गमत् आगच्छति । कदाचित् “मेधसातये यज्ञभजनाय “आ “गमत् । सिद्धमन्यत् ॥


ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः ।

ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥३

ता । हि । मध्य॑म् । भरा॑णाम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒धि॒ऽक्षि॒तः ।

ता । ऊं॒ इति॑ । क॒वि॒ऽत्व॒ना । क॒वी इति॑ । पृ॒च्छ्यमा॑ना । स॒खि॒ऽय॒ते । सम् । धी॒तम् । अ॒श्नु॒त॒म् । न॒रा॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥३

ता । हि । मध्यम् । भराणाम् । इन्द्राग्नी इति । अधिऽक्षितः ।

ता । ऊं इति । कविऽत्वना । कवी इति । पृच्छ्यमाना । सखिऽयते । सम् । धीतम् । अश्नुतम् । नरा । नभन्ताम् । अन्यके । समे ॥३

“ता तौ प्रसिद्धौ “इन्द्राग्नी "भराणां संग्रामाणां “मध्यम् “अधिक्षितः अधिनिवसतः “हि । अथ प्रत्यक्षस्तुतिः। हे “नरा नेतारौ "कवित्वना कवित्वेन “कवी क्रान्तकर्माणौ “पृच्छ्यमाना कविजनैः पृच्छ्यमानौ “ता “उ तावेव युवां “सखीयते सखित्वमिच्छते यजमानाय “धीतं तत्कृतं कर्म “सम् “अश्नुतम् । सिद्धमन्यत् ॥


अ॒भ्य॑र्च नभाक॒वदि॑न्द्रा॒ग्नी य॒जसा॑ गि॒रा ।

ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॒॑पस्थे॑ बिभृ॒तो वसु॒ नभ॑न्तामन्य॒के स॑मे ॥४

अ॒भि । अ॒र्च॒ । न॒भा॒क॒ऽवत् । इ॒न्द्रा॒ग्नी इति॑ । य॒जसा॑ । गि॒रा ।

ययोः॑ । विश्व॑म् । इ॒दम् । जग॑त् । इ॒यम् । द्यौः । पृ॒थि॒वी । म॒ही । उ॒पऽस्थे॑ । बि॒भृ॒तः । वसु॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥४

अभि । अर्च । नभाकऽवत् । इन्द्राग्नी इति । यजसा । गिरा ।

ययोः । विश्वम् । इदम् । जगत् । इयम् । द्यौः । पृथिवी । मही । उपऽस्थे । बिभृतः । वसु । नभन्ताम् । अन्यके । समे ॥४

हे नाभाक नभाकवदिन्द्राग्नी "यजसा यागेन “गिरा स्तुत्या च "अभ्यर्च अभिपूजय । "ययोः इन्द्राग्न्योः "विश्वं सर्वम् “इदं जगत् तिष्ठति । ययोश्च “उपस्थे “इयं “द्यौः “मही महती “पृथिवी च द्यावापृथिव्यावुभे “वसु धनं “बिभृतः धारयतः । सिद्धमन्यत्


प्र ब्रह्मा॑णि नभाक॒वदि॑न्द्रा॒ग्निभ्या॑मिरज्यत ।

या स॒प्तबु॑ध्नमर्ण॒वं जि॒ह्मबा॑रमपोर्णु॒त इन्द्र॒ ईशा॑न॒ ओज॑सा॒ नभ॑न्तामन्य॒के स॑मे ॥५

प्र । ब्रह्मा॑णि । न॒भा॒क॒ऽवत् । इ॒न्द्रा॒ग्निऽभ्या॑म् । इ॒र॒ज्य॒त॒ ।

या । स॒प्तऽबु॑ध्नम् । अ॒र्ण॒वम् । जि॒ह्मऽबा॑रम् । अ॒प॒ऽऊ॒र्णु॒तः । इन्द्रः॑ । ईशा॑नः । ओज॑सा । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥५

प्र । ब्रह्माणि । नभाकऽवत् । इन्द्राग्निऽभ्याम् । इरज्यत ।

या । सप्तऽबुध्नम् । अर्णवम् । जिह्मऽबारम् । अपऽऊर्णुतः । इन्द्रः । ईशानः । ओजसा । नभन्ताम् । अन्यके । समे ॥५

“ब्रह्माणि स्तोत्राणि “इन्द्राग्निभ्यां “नभाकवत् “प्र “इरज्यत नाभाकः प्रेरयते । "या याविन्दाग्नी “सप्तबुध्नं सप्तमूलं “जिह्मबारं पिहितद्वारम् “अर्णवम् “अपोर्णुतः तेजोभिराच्छादयतः तयोर्मध्ये “ओजसा बलेन “इन्द्रः “ईशानः ईश्वरो भवति । सिद्धमन्यत् ॥


अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तमोजो॑ दा॒सस्य॑ दम्भय ।

व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जेमहि॒ नभ॑न्तामन्य॒के स॑मे ॥६

अपि॑ । वृ॒श्च॒ । पु॒रा॒ण॒ऽवत् । व्र॒ततेः॑ऽइव । गु॒ष्पि॒तम् । ओजः॑ । दा॒सस्य॑ । द॒म्भ॒य॒ ।

व॒यम् । तत् । अ॒स्य॒ । सम्ऽभृ॑तम् । वसु॑ । इन्द्रे॑ण । वि । भ॒जे॒म॒हि॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥६

अपि । वृश्च । पुराणऽवत् । व्रततेःऽइव । गुष्पितम् । ओजः । दासस्य । दम्भय ।

वयम् । तत् । अस्य । सम्ऽभृतम् । वसु । इन्द्रेण । वि । भजेमहि । नभन्ताम् । अन्यके । समे ॥६

अपि च हे इन्द्र “पुराणवत् प्रत्नो यथा “व्रततेरिव यथा वह्याः “गुष्पितं निर्गतां शाखां वृश्चति तथा शत्रूणां “वृश्च छेदय । तदेवाह । “दासस्य दासनामकस्य शत्रोः “ओजः बलं “दम्भय नाशय । अथ परोक्षस्तुतिः । “वयं नाभाकाः “अस्य दासस्य "संभृतं “वसु “इन्द्रेण हेतुना “वि “भजेमहि । सिद्धमन्यत् ॥ ॥ २४ ॥


यदि॑न्द्रा॒ग्नी जना॑ इ॒मे वि॒ह्वय॑न्ते॒ तना॑ गि॒रा ।

अ॒स्माके॑भि॒र्नृभि॑र्व॒यं सा॑स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभ॑न्तामन्य॒के स॑मे ॥७

यत् । इ॒न्द्रा॒ग्नी इति॑ । जनाः॑ । इ॒मे । वि॒ऽह्वय॑न्ते । तना॑ । गि॒रा ।

अ॒स्माके॑भिः । नृऽभिः॑ । व॒यम् । स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः । व॒नु॒याम॑ । व॒नु॒ष्य॒तः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥७

यत् । इन्द्राग्नी इति । जनाः । इमे । विऽह्वयन्ते । तना । गिरा ।

अस्माकेभिः । नृऽभिः । वयम् । ससह्याम । पृतन्यतः । वनुयाम । वनुष्यतः । नभन्ताम् । अन्यके । समे ॥७

“यत् ये “इमे “जनाः “तना धनेन “गिरा स्तुत्या च “इन्द्राग्नी “विह्वयन्ते विशेषेण ह्वयन्ति तेषु मध्ये “वयं नाभाकाः “पृतन्यतः पृतनामिच्छन्तः “अस्माकेभिः अस्माकीनैः "नृभिः मनुष्यैः “ससह्याम शत्रूनभिभवेम । “वनुष्यतः स्तुतिमिच्छन्तः शत्रून् "वनुयाम च । सिद्धमन्यत् ॥


या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा॑त॒ उप॒ द्युभि॑ः ।

इ॒न्द्रा॒ग्न्योरनु॑ व्र॒तमुहा॑ना यन्ति॒ सिन्ध॑वो॒ यान्त्सीं॑ ब॒न्धादमु॑ञ्चतां॒ नभ॑न्तामन्य॒के स॑मे ॥८

या । नु । श्वे॒तौ । अ॒वः । दि॒वः । उ॒त्ऽचरा॑तः । उप॑ । द्युऽभिः॑ ।

इ॒न्द्रा॒ग्न्योः । अनु॑ । व्र॒तम् । उहा॑नाः । य॒न्ति॒ । सिन्ध॑वः । यान् । सी॒म् । ब॒न्धात् । अमु॑ञ्चताम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥८

या । नु । श्वेतौ । अवः । दिवः । उत्ऽचरातः । उप । द्युऽभिः ।

इन्द्राग्न्योः । अनु । व्रतम् । उहानाः । यन्ति । सिन्धवः । यान् । सीम् । बन्धात् । अमुञ्चताम् । नभन्ताम् । अन्यके । समे ॥८

"या “नु यावेवेन्द्राग्नी “श्वेतौ श्वेतवर्णौ । सत्वगुणोपेतावित्यर्थः । “अवः अधस्तात् “द्युभिः दीप्तिभिः “दिवः "उप “उच्चरातः उच्चरतः तयोरेव “इन्द्राग्न्योः “उहानाः हविर्वहन्तो यजमानाः “व्रतं कर्म “अनु “यन्ति । अपि “सीम् इमाविन्द्राग्नी “यान् प्रसिद्धान् “सिन्धवः सिन्धून् "बन्धात् बन्धनात् "अमुञ्चताम् । सिद्धमन्यत् ॥


पू॒र्वीष्ट॑ इ॒न्द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तय॒ः सूनो॑ हि॒न्वस्य॑ हरिवः ।

वस्वो॑ वी॒रस्या॒पृचो॒ या नु साध॑न्त नो॒ धियो॒ नभ॑न्तामन्य॒के स॑मे ॥९

पू॒र्वीः । ते॒ । इ॒न्द्र॒ । उप॑ऽमातयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः । सूनो॒ इति॑ । हि॒न्वस्य॑ । ह॒रि॒ऽवः॒ ।

वस्वः॑ । वी॒रस्य॑ । आ॒ऽपृचः॑ । याः । नु । साध॑न्त । नः॒ । धियः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥९

पूर्वीः । ते । इन्द्र । उपऽमातयः । पूर्वीः । उत । प्रऽशस्तयः । सूनो इति । हिन्वस्य । हरिऽवः ।

वस्वः । वीरस्य । आऽपृचः । याः । नु । साधन्त । नः । धियः । नभन्ताम् । अन्यके । समे ॥९

हे "हरिवः वज्रिन् “सूनो प्रेरयितः “इन्द्र “हिन्वस्य प्रीणयितुः “वस्वः दीपकस्य वीरस्य “आपृचः धनान्युपयच्छतः “ते तव ताः “उपमातयः उपमानानि “पूर्वीः बहूनि । “उत अपि च “प्रशस्तयः “पूर्वीः । "याः “नः “धियः प्रज्ञां “साधन्त असाधयन् । सिद्धमन्यत् ।।


तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा॑नमृ॒ग्मिय॑म् ।

उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्या॒ण्डानि॒ भेद॑ति॒ जेष॒त्स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥१०

तम् । शि॒शी॒त॒ । सु॒वृ॒क्तिऽभिः॑ । त्वे॒षम् । सत्वा॑नम् । ऋ॒ग्मिय॑म् ।

उ॒तो इति॑ । नु । चि॒त् । यः । ओज॑सा । शुष्ण॑स्य । आ॒ण्डानि॑ । भेद॑ति । जेष॑त् । स्वः॑ऽवतीः । अ॒पः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥१०

तम् । शिशीत । सुवृक्तिऽभिः । त्वेषम् । सत्वानम् । ऋग्मियम् ।

उतो इति । नु । चित् । यः । ओजसा । शुष्णस्य । आण्डानि । भेदति । जेषत् । स्वःऽवतीः । अपः । नभन्ताम् । अन्यके । समे ॥१०

हे स्तोतारः “त्वेषं दीप्तं “सत्वानं संभक्तारं धनानाम् "ऋग्मियं ऋगर्हमृग्भिः स्तोतव्यं “तम् इन्द्रं “सुवृक्तिभिः स्तुतिभिः “शिशीत संस्कुरुत । “उतो “नु “चित् अपि च “यः इन्द्रः “ओजसा बलेन “शुष्णस्य शुष्णनामकस्यासुरस्य “आण्डानि अण्डजातान्यपत्यानि “भेदति अभिनत् सः “स्वर्वतीः दिव्यानि “अपः सलिलानि "जेषत् जयतु । सिद्धमन्यत् ।।


तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा॑नमृ॒त्विय॑म् ।

उ॒तो नु चि॒द्य ओह॑त आ॒ण्डा शुष्ण॑स्य॒ भेद॒त्यजै॒ः स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥११

तम् । शि॒शी॒त॒ । सु॒ऽअ॒ध्व॒रम् । स॒त्यम् । सत्वा॑नम् । ऋ॒त्विय॑म् ।

उ॒तो इति॑ । नु । चि॒त् । यः । ओह॑ते । आ॒ण्डा । शुष्ण॑स्य । भेद॑ति । अजैः॑ । स्वः॑ऽवतीः । अ॒पः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥११

तम् । शिशीत । सुऽअध्वरम् । सत्यम् । सत्वानम् । ऋत्वियम् ।

उतो इति । नु । चित् । यः । ओहते । आण्डा । शुष्णस्य । भेदति । अजैः । स्वःऽवतीः । अपः । नभन्ताम् । अन्यके । समे ॥११

हे स्तोतारः “स्वध्वरं सुयज्ञं "सत्यम् अविनाशं “सत्वानं संभक्तारम् “ऋत्वियम् ऋतौ यष्टव्यं “तम् इन्द्रं “शिशीत स्तुतिभिः संस्कुरुत । अथ प्रत्यक्षस्तुतिः । “उतो “नु “चित् अपि च “यः इन्द्रः “ओहते यज्ञं प्रति गच्छति “शुष्णस्य “आण्डा आण्डान्यण्डजातानि च "भेदति भिनत्ति स त्वं “स्वर्वतीः दिव्यानि “अपः सलिलानि "अजैः अजैषीः । सिद्धमन्यत् ॥


ए॒वेन्द्रा॒ग्निभ्यां॑ पितृ॒वन्नवी॑यो मन्धातृ॒वद॑ङ्गिर॒स्वद॑वाचि ।

त्रि॒धातु॑ना॒ शर्म॑णा पातम॒स्मान्व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥१२

ए॒व । इ॒न्द्रा॒ग्निऽभ्या॑म् । पि॒तृ॒ऽवत् । नवी॑यः । म॒न्धा॒तृ॒ऽवत् । अ॒ङ्गि॒र॒स्वत् । अ॒वा॒चि॒ ।

त्रि॒ऽधातु॑ना । शर्म॑णा । पा॒त॒म् । अ॒स्मान् । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥१२

एव । इन्द्राग्निऽभ्याम् । पितृऽवत् । नवीयः । मन्धातृऽवत् । अङ्गिरस्वत् । अवाचि ।

त्रिऽधातुना । शर्मणा । पातम् । अस्मान् । वयम् । स्याम । पतयः । रयीणाम् ॥१२

“एव एवं याभ्याम् “इन्द्राग्निभ्यां “पितृवत् नभाकवत् 'मन्धातृवत् यौवनाश्वमान्धातृवच्च “अङ्गिरस्वत् अङ्गिरोवच्च "नवीयः नवतरम् “अवाचि नाभाकेन मया पाठिताविन्द्राग्नी “त्रिधातुना त्रिपर्वणा “शर्मणा गृहेण नः “अस्मान् नाभाकान् “पातं रक्षतम् । “वयं “रयीणां धनानां “पतयः स्वामिनः “स्याम भवेम ॥ ॥ २५ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.४०&oldid=315356" इत्यस्माद् प्रतिप्राप्तम्