ऋग्वेदः सूक्तं ८.६२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.६१ ऋग्वेदः - मण्डल ८
सूक्तं ८.६२
प्रगाथो घौरः काण्वः ।
सूक्तं ८.६३ →
दे. इन्द्रः । पंक्तिः, ७-९ बृहती ।


प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति ।
उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ॥१॥
अयुजो असमो नृभिरेकः कृष्टीरयास्यः ।
पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः ॥२॥
अहितेन चिदर्वता जीरदानुः सिषासति ।
प्रवाच्यमिन्द्र तत्तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ॥३॥
आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना ।
येभिः शविष्ठ चाकनो भद्रमिह श्रवस्यते भद्रा इन्द्रस्य रातयः ॥४॥
धृषतश्चिद्धृषन्मनः कृणोषीन्द्र यत्त्वम् ।
तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः ॥५॥
अव चष्ट ऋचीषमोऽवताँ इव मानुषः ।
जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजं भद्रा इन्द्रस्य रातयः ॥६॥
विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः ।
भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ॥७॥
गृणे तदिन्द्र ते शव उपमं देवतातये ।
यद्धंसि वृत्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः ॥८॥
समनेव वपुष्यतः कृणवन्मानुषा युगा ।
विदे तदिन्द्रश्चेतनमध श्रुतो भद्रा इन्द्रस्य रातयः ॥९॥
उज्जातमिन्द्र ते शव उत्त्वामुत्तव क्रतुम् ।
भूरिगो भूरि वावृधुर्मघवन्तव शर्मणि भद्रा इन्द्रस्य रातयः ॥१०॥
अहं च त्वं च वृत्रहन्सं युज्याव सनिभ्य आ ।
अरातीवा चिदद्रिवोऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ॥११॥
सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम नानृतम् ।
महाँ असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ॥१२॥


सायणभाष्यम्

‘प्रो अस्मै' इति द्वादशर्चं तृतीयं सूक्तं काण्वस्य प्रगाथस्यार्षम् । पञ्चपदा पङ्क्तिः । सप्तम्याद्यास्तिस्रो बृहत्यः । इन्द्रो देवता । अत्रानुक्रमणिका- प्रो अस्मै द्वादश प्रगाथः पाङ्क्तं सप्तम्याद्याश्च तिस्रो बृहत्यः' इति । विनियोगो लैङ्गिकः ।।


प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो॑षति ।

उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ वयो॑ वर्धन्ति सो॒मिनो॑ भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥१

प्रो इति॑ । अ॒स्मै॒ । उप॑ऽस्तुतिम् । भर॑त । यत् । जुजो॑षति ।

उ॒क्थैः । इन्द्र॑स्य । माहि॑नम् । वयः॑ । व॒र्ध॒न्ति॒ । सो॒मिनः॑ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥१

प्रो इति । अस्मै । उपऽस्तुतिम् । भरत। यत् । जुजोषति ।।

उक्थैः । इन्द्रस्य । माहिनम् । वयः । वर्धन्ति । सोमिनः । भद्राः । इन्द्रस्य । रातयः ॥१॥

“अस्मै इन्द्राय उपस्तुतिम् उपेत्य क्रियमाणां स्तुतिं “प्रो “भरत प्रकर्षेण संपादयत हे ऋत्विजः । यत् यदि अयमिन्द्रः “जुजोषति सेवते तर्हि भरतेति । सोमिनः सोमप्रियस्य “इन्द्रस्य स्वभूतं "माहिनं महत् वयः अन्नं सोमलक्षणम् उक्थैः शस्त्रैः "वर्धन्ति वर्धयन्ति । “भद्राः स्तुत्यानि खलु “इन्द्रस्य रातयः दानानि ।।।


अ॒यु॒जो अस॑मो॒ नृभि॒रेकः॑ कृ॒ष्टीर॒यास्यः॑ ।

पू॒र्वीरति॒ प्र वा॑वृधे॒ विश्वा॑ जा॒तान्योज॑सा भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥२

अ॒यु॒जः । अस॑मः । नृऽभिः॑ । एकः॑ । कृ॒ष्टीः । अ॒यास्यः॑ ।

पू॒र्वीः । अति॑ । प्र । व॒वृ॒धे॒ । विश्वा॑ । जा॒तानि॑ । ओज॑सा । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥२

अयुजः । असमः । नृऽभिः । एकः । कृष्टीः । अयास्यः ।

पूर्वीः । अति । प्र । ववृधे । विश्वा । जातानि । ओजसा । भद्राः । इन्द्रस्य । रातयः ॥२॥

“अयुजः असहायः "असमः असदृशोऽन्यैः "नृभिः देवैः "एकः मुख्यः “अयास्यः उपक्षपयितुमशक्यः "पूर्वीः कृष्टीः पूर्वतन्यः प्रजाः "अति “प्र “ववृधे अतिप्रवर्धते । किंच “विश्वा सर्वाणि “जातानि इदानीमुत्पन्नानि "ओजसा बलेनाति प्र वावृधे । “भद्राः हि "इन्द्रस्य "रातयः । अथवा । अयमृषिरयुजोऽसहायोऽन्यैरसदृश एक एव सन् पूर्वीः प्रजा जातानि सर्वाण्यप्यतिक्रम्य वर्धते । शिष्टं समानम् ॥


अहि॑तेन चि॒दर्व॑ता जी॒रदा॑नुः सिषासति ।

प्र॒वाच्य॑मिन्द्र॒ तत्तव॑ वी॒र्या॑णि करिष्य॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥३

अहि॑तेन । चि॒त् । अर्व॑ता । जी॒रऽदा॑नुः । सि॒सा॒स॒ति॒ ।

प्र॒ऽवाच्य॑म् । इ॒न्द्र॒ । तत् । तव॑ । वी॒र्या॑णि । क॒रि॒ष्य॒तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

अहितेन । चित् । अर्वता । जीरऽदानुः । सिसासति ।। ३

प्रऽवाच्यम् । इन्द्र । तत् । तव । वीर्याणि । करिष्यतः । भद्राः । इन्द्रस्य । रातयः ॥ ३ ॥

अयं "जीरदानुः क्षिप्रप्रदान इन्द्रः "अहितेन अयोजितेनाप्रेरितेन’ “चित् "अर्वता अरणवताश्वेन "सिषासति संभक्तुमिच्छति । तस्माद्धे “इन्द्र वीर्याणि सामर्थ्यानि "करिष्यतः तव महत्त्वं “प्रवाच्यम् । स्तुत्यमित्यर्थः ।।


आ या॑हि कृ॒णवा॑म त॒ इन्द्र॒ ब्रह्मा॑णि॒ वर्ध॑ना ।

येभिः॑ शविष्ठ चा॒कनो॑ भ॒द्रमि॒ह श्र॑वस्य॒ते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥४

आ । या॒हि॒ । कृ॒णवा॑म । ते॒ । इन्द्र॑ । ब्रह्मा॑णि । वर्ध॑ना ।

येभिः॑ । श॒वि॒ष्ठ॒ । चा॒कनः॑ । भ॒द्रम् । इ॒ह । श्र॒व॒स्य॒ते । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥४

आ। याहि । कृणवाम । ते । इन्द्र । ब्रह्माणि । वर्धना।

येभिः । शविष्ठ । चाकनः । भद्रम् । इह । श्रवस्यते । भद्राः । इन्द्रस्य । रातयः ॥ ४ ॥

हे "इन्द्र “आ “याहि आगच्छ । “ते “कृणवाम । किम् । ब्रह्माणि परिवृढानि स्तुतिलक्षणानि कर्माणि । कीदृशानि । “वर्धना उत्साहवर्धकानि । "येभिः यैः कर्मभिः हे शविष्ठ अतिशयेन बलवन्निन्द्र "चाकनः कामयसे । किम् । "भद्रं कर्तुम् । कस्मै । "श्रवस्यते अन्नमिच्छते स्तोत्रे ।।


धृ॒ष॒तश्चि॑द्धृ॒षन्मनः॑ कृ॒णोषी॑न्द्र॒ यत्त्वम् ।

ती॒व्रैः सोमैः॑ सपर्य॒तो नमो॑भिः प्रति॒भूष॑तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥५

धृ॒ष॒तः । चि॒त् । धृ॒षत् । मनः॑ । कृ॒णोषि॑ । इ॒न्द्र॒ । यत् । त्वम् ।

ती॒व्रैः । सोमैः॑ । स॒प॒र्य॒तः । नमः॑ऽभिः । प्र॒ति॒ऽभूष॑तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥५

धृषतः । चित् । धृषत् । मनः । कृणोषि । इन्द्र । यत् । त्वम् ।

तीव्रैः । सोमैः । सपर्यतः । नम:ऽभिः । प्रतिऽभूषतः । भद्राः । इन्द्रस्य । रातयः ॥ ५ ॥

हे इन्द्र “धृषतश्चित् धृष्टादपि “धृषत् धृष्टं "मनः "कृणोषि । अत्यन्तं धृष्टं करोषि । “यत् यस्मात् "त्वं "तीव्रैः मदजनकैः "सोमैः "सपर्यतः पूजयतः "नमोभिः नमस्कारैश्च “प्रतिभूषतः अलंकुर्वतो यजमानस्याभिमतं दित्ससीति शेषः ॥


अव॑ चष्ट॒ ऋची॑षमोऽव॒ताँ इ॑व॒ मानु॑षः ।

जु॒ष्ट्वी दक्ष॑स्य सो॒मिन॒ः सखा॑यं कृणुते॒ युजं॑ भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥६

अव॑ । च॒ष्टे॒ । ऋची॑षमः । अ॒व॒तान्ऽइ॑व । मानु॑षः ।

जु॒ष्ट्वी । दक्ष॑स्य । सो॒मिनः॑ । सखा॑यम् । कृ॒णु॒ते॒ । युज॑म् । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥६

अव । चष्टे । ऋचीषमः । अवतान्ऽइव । मानुषः ।

जुष्ट्वी । दक्षस्य । सोमिनः । सखायम् । कृणुते । युजम् । भद्राः । इन्द्रस्य । रातयः ॥ ६॥

अयमिन्द्रः "ऋचीषमः ऋचा स्तुत्या समस्तथा परिच्छिन्नः सन् "अव "चष्टे पश्यत्यनुग्रहेणास्मान् । तत्र दृष्टान्तः । "मानुषः मनुष्यः "अवतान् अवटान् कूपादिप्रदेशान् "इव । दृष्ट्वा च जुष्वी ् प्रीतोऽयं "दक्षस्य प्रवृद्धस्य "सोमिनः यजमानस्य युजं युज्यमात्मानं "सखायं "कृणुते करोति । तस्याभिमतं साधयतीत्यर्थः । अथवा । तृषितो मनुष्यो जलपूर्णानवटानिव स्तुतः सन् पश्यति सोमं पातुम् । पश्चादवेक्षितं तं युज्यमानं सोमं जुष्ट्वी सेवित्वा दक्षस्य सोमिनः सखायं कुरुते ॥ ॥ ४० ॥


विश्वे॑ त इन्द्र वी॒र्यं॑ दे॒वा अनु॒ क्रतुं॑ ददुः ।

भुवो॒ विश्व॑स्य॒ गोप॑तिः पुरुष्टुत भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥७

विश्वे॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । दे॒वाः । अनु॑ । क्रतु॑म् । द॒दुः॒ ।

भुवः॑ । विश्व॑स्य । गोऽप॑तिः । पु॒रु॒ऽस्तु॒त॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥७

विश्वे । ते । इन्द्र। वीर्यम् । देवाः । अनु ।। क्रतुम् । ददुः ।

भुवः । विश्वस्य । गोऽप॑तिः । पुरुऽस्तुत । भद्राः । इन्द्रस्य । रातयः ॥ ७ ॥

हे “इन्द्र ते तव वीर्यं सामर्थ्यं "क्रतुं प्रज्ञां च "अनु अनुसृत्य "विश्वे सर्वे देवाः "ददुः। दधुः । धारयन्ति वीर्यं प्रज्ञा च । तव बलेन प्रज्ञया च तेऽपि बलिनः प्रज्ञावन्तश्च भवन्तीत्यर्थः । तादृशस्त्वं "गोपतिः प्रसिद्धानां गवामुदकानां स्तुतिवचसो वा पतिः “भुवः भवसि । विश्वस्य इत्येतत् पदान्तर्गतस्यापि गोशब्दस्य विशेषः । हे "पुरुष्टुत बहुभिः स्तुतेन्द्र भवसीति समन्वयः ॥


गृ॒णे तदि॑न्द्र ते॒ शव॑ उप॒मं दे॒वता॑तये ।

यद्धंसि॑ वृ॒त्रमोज॑सा शचीपते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥८

गृ॒णे । तत् । इ॒न्द्र॒ । ते॒ । शवः॑ । उ॒प॒ऽमम् । दे॒वऽता॑तये ।

यत् । हंसि॑ । वृ॒त्रम् । ओज॑सा । श॒ची॒ऽप॒ते॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥८

गृणे । तत् । इन्द्र । ते । शवः । उपऽमम् । देवऽतातये ।।

यत् । हंसि । वृत्रम्। ओजसा । शचीपते । भद्राः । इन्द्रस्य । रातयः ॥ ८ ॥

हे "इन्द्र "ते तव तत् "शवः बलम् "उपमम् अन्तिकं "देवतातये यजमानाय यज्ञार्थं वा “गृणे स्तुवे । "यत् यस्माद्धे “शचीपते "वृत्रम् "ओजसा बलेन हंसि तस्मात्ते शवो गृणे ॥


सम॑नेव वपुष्य॒तः कृ॒णव॒न्मानु॑षा यु॒गा ।

वि॒दे तदिन्द्र॒श्चेत॑न॒मध॑ श्रु॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥९

सम॑नाऽइव । व॒पु॒ष्य॒तः । कृ॒णव॑त् । मानु॑षा । यु॒गा ।

वि॒दे । तत् । इन्द्रः॑ । चेत॑नम् । अध॑ । श्रु॒तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥९

समनाऽइव । वपुष्यतः । कृणवत् । मानुषा । युगा।

विदे। तत् । इन्द्रः । चेतनम् । अध । श्रुतः । भद्राः । इन्द्रस्य । रातयः ॥ ९ ॥

“समनेव समानमनस्का योषिदिव सा यथा “वपुष्यतः वपुरिच्छतः पुरुषान् कृणवत् करोति स्ववशान् एवमयमिन्द्रः "मानुषा मनुष्यान् "युगा युगानि कालान् संवत्सरायनर्तुमासादीन् "विदे लम्भयति । "तत् युगनिर्माणात्मकं कर्म “इन्द्रः चेतनं सर्वस्य प्रज्ञापकं कृतवानिति शेषः । "अध अथैवं कृत्वा "श्रुतः सर्वत्र ख्यातोऽभूत् ॥


उज्जा॒तमि॑न्द्र ते॒ शव॒ उत्त्वामुत्तव॒ क्रतु॑म् ।

भूरि॑गो॒ भूरि॑ वावृधु॒र्मघ॑व॒न्तव॒ शर्म॑णि भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥१०

उत् । जा॒तम् । इ॒न्द्र॒ । ते॒ । शवः॑ । उत् । त्वाम् । उत् । तव॑ । क्रतु॑म् ।

भूरि॑गो॒ इति॒ भूरि॑ऽगो । भूरि॑ । व॒वृ॒धुः॒ । मघ॑ऽवन् । तव॑ । शर्म॑णि । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥१०

उत् । जातम् । इन्द्र । ते । शवः । उत् । त्वाम् । उत् । तव । क्रतुम् ।

भूरिगो इति भूरिऽगो। भूरि । ववृधुः । मघऽवन् । तव । शर्मणि । भद्राः । इन्द्रस्य । रातयः ॥१०॥

हे "इन्द्र "उत् । अयं व्यवहितेनापि "वावृधुः इत्यनेन संबध्यते । उद्वर्धयन्ति सोमेन । किम् । “ते "शवः बलम् । न केवलं बलं किंतु "त्वाम् उत् वर्धयन्ति स्तुत्यादिना । पश्चात् "तव “क्रतुं प्रज्ञां स्वानुकूलाम् "उत् वर्धयन्ति। "भूरि इत्येतत् प्रत्याख्यातं संबध्यते । अतिप्रभूतमुद्वर्धयन्तीत्यर्थः । क एवं कुर्वन्तीति उच्यते । हे भूरिगो बहुपशो हे "मघवन् धनवन्निन्द्र "तव "शर्मणि त्वदीये सुखे ये वर्तन्ते ते च कुर्वन्तीति ।।


अ॒हं च॒ त्वं च॑ वृत्रह॒न्सं यु॑ज्याव स॒निभ्य॒ आ ।

अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मंसते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥११

अ॒हम् । च॒ । त्वम् । च॒ । वृ॒त्र॒ऽह॒न् । सम् । यु॒ज्या॒व॒ । स॒निऽभ्यः॑ । आ ।

अ॒रा॒ति॒ऽवा । चि॒त् । अ॒द्रि॒ऽवः॒ । अनु॑ । नौ॒ । शू॒र॒ । मं॒स॒ते॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥११

अहम् । च । त्वम् । च । वृत्रऽहन् । सम् । युज्याव । सनिऽभ्यः । आ।

अरातिऽवा । चित् । अद्रिवः । अनु। नौ । शूर। मंसते। भद्राः । इन्द्रस्य । रातयः ॥११॥

हे वृत्रहन् इन्द्र “त्वं च "अहं "च "सं "युज्याव संगतौ भवाव । कियदवधीति उच्यते । “सनिभ्य “आ यावता कालेन धनानि लभ्यन्ते तावत्कालम् । "नौ संगतयोश्चावयोर्हे “अद्रिवः वज्रवन् इन्द्र "अरातीवा अदानोऽपि जनस्त्वद्दत्तधनस्य “अनु "मंसते अनुमतिं करोति ॥


स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं॑ स्तवाम॒ नानृ॑तम् ।

म॒हाँ असु॑न्वतो व॒धो भूरि॒ ज्योतीं॑षि सुन्व॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥१२

स॒त्यम् । इत् । वै । ऊं॒ इति॑ । तम् । व॒यम् । इन्द्र॑म् । स्त॒वा॒म॒ । न । अनृ॑तम् ।

म॒हान् । असु॑न्वतः । व॒धः । भूरि॑ । ज्योतीं॑षि । सु॒न्व॒तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥१२

सत्यम् । इत् । वै। ऊँ इति । तम् । वयम् । इन्द्रम् । स्तवाम । न । अनृतम् ।।

महान् । असुन्वतः । वधः । भूरि । ज्योतींषि । सुन्वतः । भद्राः । इन्द्रस्य । रातयः ॥१२॥

“वयं प्रगाथाः "तम् इन्द्रं "सत्यमित् सत्यमेव "स्तवाम । "नानृतम् असत्यं न स्तवाम । अस्माभिरुक्ता गुणाः सत्या एवं सन्तु नानृता इत्यर्थः । स्तुत्यस्येन्द्रस्य संबन्धि “असुन्वतः अयष्टुः । “वधः "महान् प्रभूतो भवति । "भूरि “ज्योतींषि बहून् सोमान् "सुन्वतः अभिषवं कुर्वतो यजमानस्येन्द्रकृतोऽनुग्रहो महान् भवतीत्यर्थः ॥ ॥ ११ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.६२&oldid=191985" इत्यस्माद् पुनः प्राप्तिः