ऋग्वेदः सूक्तं ८.९९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.९८ ऋग्वेदः - मण्डल ८
सूक्तं ८.९९
नृमेध आङ्गिरसः।
सूक्तं ८.१०० →
दे. इन्द्रः। प्रगाथः - विषमा बृहती, समा सतोबृहती।


त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः ।
स इन्द्र स्तोमवाहसामिह श्रुध्युप स्वसरमा गहि ॥१॥
मत्स्वा सुशिप्र हरिवस्तदीमहे त्वे आ भूषन्ति वेधसः ।
तव श्रवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः ॥२॥
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥३॥
अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥४॥
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।
अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥५॥
अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।
विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥६॥
इत ऊती वो अजरं प्रहेतारमप्रहितम् ।
आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥७॥
इष्कर्तारमनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम् ।
समानमिन्द्रमवसे हवामहे वसवानं वसूजुवम् ॥८॥


सायणभाष्यम्

‘ त्वामिदा ह्यः' इत्यष्टर्चं षष्ठं सूक्तं नृमेधस्यार्षमैन्द्रम् । अयुजो बृहत्यो युजः सतोवृहत्यः । तथा चानुक्रान्तं - त्वामिदाष्टौ प्रागाथम्' इति । चातुर्विंशिकेऽहनि मध्यंदिनसवनेऽच्छावाकस्य ‘त्वामिदा ह्यः' इति (आश्व. श्रौ. ७. ४ )। महाव्रतेऽपि निष्केवल्ये बार्हततृचाशीतावयं प्रगाथः । तथैव पञ्चमारण्यके सूत्रितं- त्वामिदा ह्यो नर इत्येतं प्रगाथं प्रत्यवदधाति' (ऐ. आ. ५, २. ४ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनः ‘ श्रायन्तइव ' इति वैकल्पिकः स्तोत्रियः प्रगाथः । सूत्रितं च - ‘ श्रायन्तइव सूर्यं बण्महाँ असि सूर्य' (आश्व. श्रौ. ७, ४) इति । चातुर्विंशिकेऽहनि माध्यंदिने ‘त्वमिन्द्र प्रतूर्तिषु त्वमिन्द्र यशा असि ( आश्व. श्रौ. ७. ४) इति । तस्मिन्नेवाहनि निष्केवल्ये वैराजयोनिभूतोऽयं प्रगाथः शंसनीयः । [सूत्रितं च–' तयोरक्रियमाणस्य योनिं शंसेद्वैरूपवैराजशाक्कररैवतानां च ' (आश्व, श्रौ. ७. ३) इति ।।


त्वामि॒दा ह्यो नरोऽपी॑प्यन्वज्रि॒न्भूर्ण॑यः ।

स इ॑न्द्र॒ स्तोम॑वाहसामि॒ह श्रु॒ध्युप॒ स्वस॑र॒मा ग॑हि ॥१

त्वाम् । इ॒दा । ह्यः । नरः॑ । अपी॑प्यन् । व॒ज्रि॒न् । भूर्ण॑यः ।

सः । इ॒न्द्र॒ । स्तोम॑ऽवाहसाम् । इ॒ह । श्रु॒धि॒ । उप॑ । स्वस॑रम् । आ । ग॒हि॒ ॥१

त्वाम् । इदा । ह्यः । नरः । अपीप्यन् । वज्रिन् । भूर्णयः ।

सः । इन्द्र । स्तोमऽवाहसाम् । इह । श्रुधि । उप । स्वसरम् । आ । गहि ॥१

हे “वज्रिन् “इन्द्र यं “त्वां “भूर्णयः हविर्भिर्भरणशीलाः “नरः कर्मणां नेतारो यजमानाः “इदा अद्य “ह्यः च “अपीप्यन् सोममपाययन् “सः त्वं “स्तोमवाहसां स्तोत्रवाहकानामस्माकं स्तोत्रम् “इह यज्ञे “श्रुधि शृणु। “स्वसरं गृहं च । 'दुर्याः स्वसराणि' इति गृहनामसु पाठात् । "उप “आ “गहि उपागच्छ ॥


मत्स्वा॑ सुशिप्र हरिव॒स्तदी॑महे॒ त्वे आ भू॑षन्ति वे॒धस॑ः ।

तव॒ श्रवां॑स्युप॒मान्यु॒क्थ्या॑ सु॒तेष्वि॑न्द्र गिर्वणः ॥२

मत्स्व॑ । सु॒ऽशि॒प्र॒ । ह॒रि॒ऽवः॒ । तत् । ई॒म॒हे॒ । त्वे इति॑ । आ । भू॒ष॒न्ति॒ । वे॒धसः॑ ।

तव॑ । श्रवां॑सि । उ॒प॒ऽमानि॑ । उ॒क्थ्या॑ । सु॒तेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥२

मत्स्व । सुऽशिप्र । हरिऽवः । तत् । ईमहे । त्वे इति । आ । भूषन्ति । वेधसः ।

तव । श्रवांसि । उपऽमानि । उक्थ्या । सुतेषु । इन्द्र । गिर्वणः ॥२

हे "सुशिप्र शोभनहनो शोभनोष्णीषिन् वा “हरिवः अश्ववन् “गिर्वणः गीर्भिर्वननीय “इन्द्र “त्वे त्वयि “वेधसः परिचारकाः “आ “भूषन्ति आभवन्ति । “मत्स्व सोमेन मादयात्मानम् । किंच “तत् “त्वां वयम् “ईमहे याचामहे । किं याच्यमित्यत्राह। “सुतेषु सोमेष्वभिषुतेषु सत्सु “तव “श्रवांसि अन्नानि “उपमानि उपमानभूतानि “उक्थ्या प्रशंस्यानि च सन्त्विति ॥


श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत ।

वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥३

श्राय॑न्तःऽइव । सूर्य॑म् । विश्वा॑ । इत् । इन्द्र॑स्य । भ॒क्ष॒त॒ ।

वसू॑नि । जा॒ते । जन॑माने । ओज॑सा । प्रति॑ । भा॒गम् । न । दी॒धि॒म॒ ॥३

श्रायन्तःऽइव । सूर्यम् । विश्वा । इत् । इन्द्रस्य । भक्षत ।

वसूनि । जाते । जनमाने । ओजसा । प्रति । भागम् । न । दीधिम ॥३

हे अस्मदीया जनाः “श्रायन्तइव “सूर्यं यथा समाश्रिता रश्मयः सूर्यं भजन्ते तथा “इन्द्रस्य “विश्वेत् विश्वान्येव धनानि “भक्षत भजत । स च यानि “वसूनि धनानि “जाते उत्पन्ने “जनमाने जनिष्यमाणे च “ओजसा बलेन करोति “भागं “न पित्र्यं भागमिव तानि धनानि “प्रति “दीधिम प्रतिधारयामेति । यद्वा । श्रयन्तइव सूर्यं यथा समाश्रिता रश्मयः सूर्यमुपतिष्ठन्ते तथेन्द्रस्य विश्वा विश्वानि विभक्तुमिच्छन्तः समाश्रिता मरुत इन्द्रमुपतिष्ठन्त इति शेषः । उपस्थाय च मरुतो वसूनि उदकलक्षणानि धनानि जाते जातीय जनमाने जनिष्यमाणाय च मनुष्याय च ओजसा बलेन भक्षत विभजन्ते । तत्र चास्माकं यो भागस्तं भागम् । नेति संप्रत्यर्थे । प्रतीत्येषोऽन्वित्येतस्य स्थाने । अनु दीधिम वयमनुध्यायाम । तथा च यास्कः - ‘ समाश्रिताः सूर्यमुपतिष्ठन्ते । अपि वोपमार्थे स्यात्सूर्यमिवेन्द्रमुपतिष्ठन्त इति । सर्वाणीन्द्रस्य धनानि विभक्ष्यमाणाः । स यथा धनानि विभजति जाते च जनिष्यमाणे च वयं भागमनुध्यायाम ' (निरु. ६, ८) इति ॥


अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ।

सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥४

अन॑र्शऽरातिम् । व॒सु॒ऽदाम् । उप॑ । स्तु॒हि॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ।

सः । अ॒स्य॒ । काम॑म् । वि॒ध॒तः । न । रो॒ष॒ति॒ । मनः॑ । दा॒नाय॑ । चो॒दय॑न् ॥४

अनर्शऽरातिम् । वसुऽदाम् । उप । स्तुहि । भद्राः । इन्द्रस्य । रातयः ।

सः । अस्य । कामम् । विधतः । न । रोषति । मनः । दानाय । चोदयन् ॥४

हे स्तोतः “अनर्शरातिम् अपापकदानम् । अपापिष्ठस्य दातारमित्यर्थः। तथा च यास्कः -- ‘ अनर्शरातिमनश्लीलदानमश्लीलं पापकम्' (निरु. ६. २३) इति । “वसुदां धनस्य दातारमिन्द्रम् “उप "स्तुहि । यतः “इन्द्रस्य “रातयः दानानि “भद्राः कल्याणानि । महदैश्वर्यकारीणीत्यर्थः । यतश्च “सः इन्द्रः स्वकीयं “मनः “दानाय अभीष्टप्रदानाय “चोदयन् प्रेरयन् “विधतः परिचरतः “अस्य स्तोतुः “कामम् इच्छां “न “रोषति न हिनस्ति ।


त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृध॑ः ।

अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥५

त्वम् । इ॒न्द्र॒ । प्रऽतू॑र्तिषु । अ॒भि । विश्वाः॑ । अ॒सि॒ । स्पृधः॑ ।

अ॒श॒स्ति॒ऽहा । ज॒नि॒ता । वि॒श्व॒ऽतूः । अ॒सि॒ । त्वम् । तू॒र्य॒ । त॒रु॒ष्य॒तः ॥५

त्वम् । इन्द्र । प्रऽतूर्तिषु । अभि । विश्वाः । असि । स्पृधः ।

अशस्तिऽहा । जनिता । विश्वऽतूः । असि । त्वम् । तूर्य । तरुष्यतः ॥५

हे इन्द्र “त्वं “प्रतूर्तिषु संग्रामेषु “विश्वाः सर्वाः “स्पृधः युद्धकारिणीः शत्रुसेनाः “अभि “असि अभिभवसि । किंच हे “तूर्य शत्रूणां बाधकेन्द्र “त्वम् “अशस्तिहा दैव्यानामशस्तीनां हन्ता “असि । “जनिता असुरेभ्योऽशस्तीनां जनयिता चासि । “विश्वतूः सर्वस्य शत्रुवर्गस्य हिंसिता चासि । “तरुष्यतः बाधकांश्च बाधमानोऽसि ।।


अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ ।

विश्वा॑स्ते॒ स्पृध॑ः श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥६

अनु॑ । ते॒ । शुष्म॑म् । तु॒रय॑न्तम् । ई॒य॒तुः॒ । क्षो॒णी इति॑ । शिशु॑म् । न । मा॒तरा॑ ।

विश्वाः॑ । ते॒ । स्पृधः॑ । श्न॒थ॒य॒न्त॒ । म॒न्यवे॑ । वृ॒त्रम् । यत् । इ॒न्द्र॒ । तूर्व॑सि ॥६

अनु । ते । शुष्मम् । तुरयन्तम् । ईयतुः । क्षोणी इति । शिशुम् । न । मातरा ।

विश्वाः । ते । स्पृधः । श्नथयन्त । मन्यवे । वृत्रम् । यत् । इन्द्र । तूर्वसि ॥६

हे इन्द्र "ते तव “शुष्मं बलं “तुरयन्तं हिंसन्तं शत्रुं “क्षोणी द्यावापृथिव्यौ “मातरा मातरौ “शिशुं “न शिशुमिव “अनु “ईयतुः अनुगच्छतः । गमनमात्रे दृष्टान्तः । किंच हे “इन्द्र त्वं “यत् यस्मात् “वृत्रं शत्रुं “तूर्वसि हंसि अतः “ते तव “मन्यवे क्रोधाय “विश्वाः सर्वाः “स्पृधः संग्रामकारिण्यः सेनाः “श्रथयन्त श्रथिताः खिन्ना भवन्ति ॥


इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितम् ।

आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृध॑म् ॥७

इ॒तः । ऊ॒ती । वः॒ । अ॒जर॑म् । प्र॒ऽहे॒तार॑म् । अप्र॑ऽहितम् ।

आ॒शुम् । जेता॑रम् । हेता॑रम् । र॒थिऽत॑मम् । अतू॑र्तम् । तु॒ग्र्य॒ऽवृध॑म् ॥७

इतः । ऊती । वः । अजरम् । प्रऽहेतारम् । अप्रऽहितम् ।

आशुम् । जेतारम् । हेतारम् । रथिऽतमम् । अतूर्तम् । तुग्र्यऽवृधम् ॥७

हे अस्मदीयजनाः “वः यूयम् “अजरं जरारहितं “प्रहेतारं शत्रूणां प्रेरकम् “अप्रहितं केनाप्यप्रेषितम् “आशुं वेगवन्तं “जेतारं शत्रूणां “हेतारं गन्तारं “रथीतमं रथिनां श्रेष्ठम् “अतूर्तं केनाप्यहिंसितं "तुग्र्यावृधम् उदकस्य वर्धयितारमिन्द्रम् “ऊती ऊत्यै रक्षणाय “इतः कुरुत । पुरस्कुरुतेति यावत् ॥


इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒ सह॑स्कृतं श॒तमू॑तिं श॒तक्र॑तुम् ।

स॒मा॒नमिन्द्र॒मव॑से हवामहे॒ वस॑वानं वसू॒जुव॑म् ॥८

इ॒ष्क॒र्तार॑म् । अनिः॑ऽकृतम् । सहः॑ऽकृतम् । श॒तम्ऽऊ॑तिम् । श॒तऽक्र॑तुम् ।

स॒मा॒नम् । इन्द्र॑म् । अव॑से । ह॒वा॒म॒हे॒ । वस॑वानम् । व॒सु॒ऽजुव॑म् ॥८

इष्कर्तारम् । अनिःऽकृतम् । सहःऽकृतम् । शतम्ऽऊतिम् । शतऽक्रतुम् ।

समानम् । इन्द्रम् । अवसे । हवामहे । वसवानम् । वसुऽजुवम् ॥८

“इष्कर्तारं शत्रूणां संस्कर्तारम् “अनिष्कृतं स्वयमन्यैरसंस्कृतं “सहस्कृतं बलेन कृतं “शतमूतिं बहुरक्षणं “शतक्रतुं बहुप्रज्ञं बहुकर्माणं वा “समानं बहूनां साधारणं “वसवानं धनान्याच्छादयन्तं “वसूजुवं यजमानेभ्यो वसूनां प्रेरयितारम् “इन्द्रमवसे रक्षणाय वयं “हवामहे ह्वयामः ॥ ॥ ३ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.९९&oldid=193993" इत्यस्माद् पुनः प्राप्तिः