सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/माधुश्छन्दसम्

विकिस्रोतः तः
माधुश्छन्दसम्
माधुश्छन्दसम्

१४
त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः |
स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि || ८१३ || ऋ. ८.९९.१
मत्स्वा सुशिप्रिन्हरिवस्तमीमहे त्वया भूषन्ति वेधसः |
तव श्रवांस्युपमान्युक्थ्य सुतेष्विन्द्र गिर्वणः || ८१४ ||




४ माधुश्छन्दसम् । मधुच्छन्दाः । बृहती । पवमानः सोमः ।।

त्वामिदा । होइ । हियोनराऽ६ए ।। अपाइप्यन्वा । ज्राइन्भूर्णाऽ२३४याः ।। सइन्द्रस्तोमवाहसः । इहाश्रूधा । औहोऽ३४वाहाइ ।। उपास्वासा । औहोऽ३४वाहा ।। रमागाऽ२३हाऽ३४३इ ।। श्रीः ।। उपस्वसा । हो । रमागहीऽ६ए ।। उपास्वसा । रामागाऽ२३४ही । मत्स्वासुशिप्रिन्हरिवः । तमाइमाहा । औहोऽ३४वाहाइ ।। त्वयाभूषा । औहोऽ३४वाहा । तिवेधाऽ२३साऽ३४३ः ।। श्रीः ।। त्वयाभूषा । हो । तिवेधसाऽ६ए ।। त्वयाभूषा। तीवेधाऽ२३४साः । तवश्रवाꣳस्युपमा । नियूक्थाया । औहोऽ३४वाहाइ ।। सुताइषूवा । औहाऽ३४वाहाइ ।। द्रगिर्वाऽ२३णाऽ३४३ः । ओऽ२३४५इ ।। डा ।।

दी २९. उत्, १२ मा. २१ थ. ।।४४।।



[सम्पाद्यताम्]

टिप्पणी

आत्मा वै संवत्सरस्य विषुवान्, पक्षाव् अभितो..........अद्याद्या श्वश्वो, वयम् एनम् इदा ह्यस्, त्वाम् इदा ह्यो नरः, क्वेयथ क्वेद् असि, इन्द्र त्रिधातु शरणम् इति संतनयः प्रगाथा भवन्त्य् अद्यश्वस्यैव संतत्यै। अद्य चैव ते श्वश् च संतन्वन्ति। अयातयामानम् उ संवत्सरम् आसते। - जैब्रा. २.३९१

तद् यत् त्वाम् इदा ह्यो नर इति भवति। तेनैव द्वितीयम् अहः क्रियते॥3.26॥ तासु माधुच्छन्दसम्। मधुच्छन्दा वै वैश्वामित्रो ऽकामयताग्र्यो मुख्यो ब्रह्मवर्चसी स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽग्र्यो मुख्यो ब्रह्मवर्चस्य् अभवत्। - जै.ब्रा. ३.२७

अद्याद्याश्वः श्वस्त्वामिदा ह्यो नरो वयमेनमिदा ह्य इति संतनयः प्रगाथा भवन्ति तेषामेकः कार्यः सलोमत्वाय श्वस्तनमेवाभिसंतन्वन्ति - तांब्रा. ४.७.७

त्वामिदा ह्यो नर इत्यद्य चैव ह्यश्च समारभते द्विरात्रस्याविस्रंसाय - तांब्रा. ११.९.३