सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/श्रायन्तीयम्
९. श्रायन्तीयम् ॥ प्रजापतिः। बृहती। इन्द्रः ।।
श्रा꣢꣯यन्तइवसूऽ१राया꣢म् ॥ वि꣡श्वाऽ᳒२᳒इदि꣡न्द्राऽ᳒२᳒ । स्य꣡भाऽ᳒२᳒क्षा꣡ता। वासू꣯नि꣢जा꣯तो꣡꣯जनिमा꣢꣯ । नियो꣡जा꣢ऽ१साऽ᳒२᳒ ।। प्र꣡तिभा꣢꣯ग꣡न्नदीऽ᳒२᳒धिमः । प्रा꣡ऽ२३ती꣢॥ भा꣡꣯गान्ना꣢ऽऽदा꣢ । हु꣡म् । धि꣣मा꣢ऽ३: । ओ꣡ऽ२३४वा꣥ ॥श्रीः।। प्र꣢तिभा꣯गन्नदाऽ१इधाइमा꣢:। प्रताऽ᳒२᳒इभा꣡꣯गाऽ᳒२᳒म् ॥ न꣡दाऽ᳒२᳒इधा꣡इमाः। आलर्षि꣢रा꣯तिं꣡ वसु꣢दा꣯म् । उपा꣡स्तू꣢ऽ१हाऽ२इ ॥ भद्रा꣡꣯इन्द्रस्य꣢रा꣯त꣡य꣢: । भा꣡ऽ२३द्रा꣢: ।। इ꣡न्द्रास्या꣢ऽ३रा꣢ । हु꣡म् । त꣣या꣢ऽ३: । ओ꣡ऽ२३४वा꣥ ॥श्रीः।। भ꣢द्रा꣯इन्द्रस्यराऽ१ताया꣢: ॥ भ꣡द्राऽ᳒२᳒इ꣡न्द्राऽ᳒२᳒। स्य꣡राऽ᳒२᳒ता꣡याः । योअस्य꣢का꣯मं꣡विध꣢तः । नरो꣡षा꣢ऽ१ताऽ᳒२᳒इ ॥ म꣡नो꣢꣯दा꣡꣯ना꣯य꣢चो꣯द꣡य꣢न् । मा꣡ऽ२३ना꣢: ॥ दा꣡꣯नाया꣢ऽ३चो꣢ । हु꣡म् । दया꣢ऽ३ । ओ꣡ऽ२३४वा꣥ ॥ हेऽ२३꣡४꣡५꣡ ॥
दी. २०. उत्. ७. मा. २१. फ. ॥१८९।।
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ।। १३१९ ।।ऋ. ८.९९.३
अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ।।१३२० ।।
९. श्रायन्तीयम् ॥ प्रजापतिः। बृहती। इन्द्रः ।।
श्रायन्तइवसूऽ१रायाम् ॥ विश्वाऽ२इदिन्द्राऽ२ । स्यभाऽ२क्षाता। वासूनिजातोजनिमा । नियोजाऽ१साऽ२ ।। प्रतिभागन्नदीऽ२धिमः । प्राऽ२३ती॥ भागान्नाऽऽदा । हुम् । धिमाऽ३: । ओऽ२३४वा ॥श्रीः।। प्रतिभागन्नदाऽ१इधाइमाः। प्रताऽ२इभागाऽ२म् ॥ नदाऽ२इधाइमाः। आलर्षिरातिं वसुदाम् । उपास्तूऽ१हाऽ२इ ॥ भद्राइन्द्रस्यरातयः । भाऽ२३द्राः ।। इन्द्रास्याऽ३रा । हुम् । तयाऽ३: । ओऽ२३४वा ॥श्रीः।। भद्राइन्द्रस्यराऽ१तायाः ॥ भद्राऽ२इन्द्राऽ२। स्यराऽ२तायाः । योअस्यकामंविधतः । नरोषाऽ१ताऽ२इ ॥ मनोदानायचोदयन् । माऽ२३नाः ॥ दानायाऽ३चो । हुम् । दयाऽ३ । ओऽ२३४वा ॥ हेऽ२३४५ ॥
दी. २०. उत्. ७. मा. २१. फ. ॥१८९।।
टिप्पणी
श्रायन्तीयम् (ग्रामगेयः)
श्रायन्त इव सूर्यं विश्वेद् इन्द्रस्य भक्षतेति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। वसूनि जातो जनिमान्य् ओजसेति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः। प्रति भागं न दीधिमः॥ अलर्षिरातिं वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः। यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन्॥ इत्य् आशिषम् एवैतेनाशास्ते॥जैब्रा ३.२६१ ॥
तासु श्रायन्तीयम्। देवा वै सत्रम् उपयन्तो ऽब्रुवन् - यन् नः क्रूरम् आत्मनस् तन् निर्मिमामहै। मा सक्रूरा उपगामेति। तद् यद् एषां क्रूरम् आत्मन् आसीत्, तन् निर्माय शरावयोस् संमार्जं न्यदधुः। अथ सत्रम् उपायन्। तत एषो ऽखलो देवो ऽजायत। तद् यच् छरावाभ्याम् अजायत, तद् अस्यैतन् नाम। एष ह वाव सो ऽग्निर् जज्ञे। न हैनम् एष हिनस्ति य एवं वेद। स देवान् अब्रवीत् - कस्मै माम् अजीजनतेति। औपद्रष्ट्र्यायेत्य् अब्रुवन् - यो ऽतिपादयात् तं हनासा इति। प्रजापतिर् होषसं स्वां दुहितरम् अभ्यध्यायत्। सास्मै रोहिद् भूत्वातिष्ठत्। तां पृषतो भूत्वास्कन्दत्। स ऐषतास्मै वै मां देवा अजीजनन्न् औपद्रष्ट्र्याय। अति वा अयं पादयति, हन्तैनं विध्यानीति। तम् अविध्यत्। स विद्ध एतद् रूपं प्रत्यस्योर्ध्व उदक्रामत्॥जैब्रा ३.२६२॥
स एष इषुस् त्रिकाण्डः। तस्मात् पृषतो ऽस्वादुतमः। तस्माद् उ शोचतीव। तस्य विद्धस्य रेतः परापतत्। तद् धिमवति प्रत्यतिष्ठत्। तन् मानुषम् अभवत। तद् देवाश् चर्षयश् चोपसमेत्याब्रुवन् - मेदं दुषद इति। यद् अब्रुवन् - मेदं दुषद् इति, तन् मादुषस्य मादुषत्वम्। मादुषं ह वै नामैतत्। तन् मानुषम् इत्य् आख्यायते। तद् अग्निना पर्यैन्धत। मरुतो ऽधमन्। श्रायन्तीयेनैनद् अश्रीणन्। तच् छ्रायन्तीयस्य श्रायन्तीयत्वम्। ततः पशवो ऽसृज्यन्त। ये प्रथमे ऽसृज्यन्त ते रोहिताः। ये ऽभितप्यमानाद् असृज्यन्त ते ऽरुणाः। ये ऽभितप्ताद् असृज्यन्त ते बभ्रवः। ये दह्यमानाद् असृज्यन्त ते श्वेताश् च कृष्णाश् च। तस्माद् व् अयम् एवाग्निर् दहति श्वेतं चैव कृष्णं च। विष्फुलिंगाभ्य एवाजाश् चैणेयाश् चासृज्यन्त, अङ्गारेभ्यो ऽङ्गिरसः॥जैब्रा ३.२६३ ॥
अङ्गारमिश्राद् भस्मनस् तिस्रो वशा असृज्यन्त - मैत्रावरुणी बार्हस्पत्या वैश्वदेवी। भस्मन एव गर्दभो ऽसृज्यत। तस्मात् स भस्मनः प्रतिरूपः। तस्मात् स बभ्रियमाणो जीवति। तद् एतद् वीरजननं पशव्यं साम। वीरा वै तद् अजायन्त यद् अङ्गिरसः। एत उ पशवो ऽसृज्यन्त। अस्य वीरो जायते, ऽव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। स यो यज्ञविभ्रष्ट स्याच् छ्रायन्तीयम् अस्य पृष्ठेषु ब्रह्मसाम कुर्युः। पृष्ठानि च वा एतं स्तोत्राणि चावधून्वते यो यज्ञस्य विभ्रष्टः। पृष्ठेषु चैवैनं तत् स्तोत्रेषु च प्रतिष्ठापयन्ति। - जैब्रा ३.२६४
वरुणस्य वै सुषुवाणस्य भर्गोऽपाक्रामत् स त्रेधापतद्भृगुस्तृतीयमभवच्छ्रायन्तीयं तृतीयमपस्तृतीयं प्राविशत्। यद्भार्गवो होता भवति तेनैव तदिन्द्रियं वीर्यमाप्त्वावरुन्धे यत् श्रायन्तीयं ब्रह्मसाम भवति तेनैव तदिन्द्रियं वीर्यमाप्त्वारुन्धे यत् पुष्करस्रजं प्रतिमुञ्चते तेनैव तदिन्द्रियं वीर्यमाप्त्वावरुन्धे - पञ्च.ब्रा. १८.९