पञ्चविंशब्राह्मणम्/अध्यायः १८
- उपहव्य, ऋतपेय, शुनाशीर्य, वैश्यस्तोम, तीव्रसुत, वाजपेय, राजसूय विधिः
18.1
सप्तदशोऽग्निष्टोमः
देवाश्च वा असुराश्च प्रजापतेर्द्वयाः पुत्रा आसंस्तेऽसुरा भूयांसो बलीयांस आसन् कनीयांसो देवास्ते देवाः प्रजापतिमुपाधावन् स एतमुपहव्यमपश्यत्
स ऐक्षत यन्निरुक्तमाहरिष्याम्यसुरा मे यज्ञं हनिष्यन्तीति सोऽनिरुक्तमाहरत्
स उत्तमे स्तोत्रेऽऽदेवो वो द्रविणोदा"इति देवानभिपर्यावर्तत
ततो देवा अभवन् परासुराः
भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद
अथो खल्वाहुःऽऽयज्ञायज्ञा वो अग्नय"इत्येव कार्यम्
अग्निर्वै सर्वा देवतास्तेन न देवतानां कां चनान्तरेति
इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत् तमश्लीला वागभ्यवदत् स प्रजापतिमुपाधावत् तस्मा एतमुपहव्यं प्रायच्छत् तं विश्वे देवा उपाह्वयन्त तस्मादुपहव्यः
अभिशस्यमानं याजयेत्
देवता वा एतं परिव्रजन्ति यमनृतमभिशंसन्ति देवता एवास्यान्नमादयन्ति
तस्य पूतस्य स्वदितस्य मनुष्या अन्नमदन्ति
ग्रामकामो यजेत
मारुती भवति मरुतौ वै देवानां विशो विशमेवास्मा अनुनियुनक्त्यनपक्रामुकास्माद्विड्भवति
पशुकामो यजेत पौषी भवति
पशवो वै पूषा पशूनेवावरुन्धे
वैश्वदेवी भवति विश्वे ह्येनं देवा उपाह्वयन्त
बृहत्सामा भवति
प्रजापतिर्ह्येनमिन्द्राय प्रायच्छत्
अश्वः श्यवो दक्षिणा
स ह्यनिरुक्तः
स ब्रह्मणे देयः
ब्रह्मा वा ऋत्विजामनिरुक्तः स्वेनैवैनं तद्रूपेण समर्धयति
यावद्ध वै कुमारे सद्यो जात एनो नास्मिंस्तावच्च नैनो भवति य एवं वेद
18.2
सप्तदशोऽग्निष्टोमः
तस्य द्वादश दीक्षोपसदः
स्वर्गकामो यजेत
द्वादश मासाः संवत्सरः संवत्सरः स्वर्गो लोकः स्वर्गमेवैतेन लोकमाप्नोति
घृतव्रतो भवति
देवव्रतं वै घृतं देवव्रतेनैव देवता अप्येति
उत्तरेणोत्तरेण काण्डेनोपैत्युत्तर उत्तर एषां लोकानां ज्यायान् स्वर्गस्य समष्ट्यै
बृहत्साम भवति बृहता वै देवाः स्वर्गं लोकमायन् स्वर्गमेवेतेन लोकमाप्नोति
ऋतमुक्त्वा प्रसर्पन्त्यृतेनैवैनं स्वर्गं लोकं गमयन्ति
सोमचमसो दक्षिणा देवतयैव देवता अप्येति
औदुम्बरो भवत्यूर्गुदुम्बर ऊर्जमेवावरुन्धे
सगोत्राय ब्रह्मणे देयः सोमपीथस्याविदोहाय
सर्वः सप्तदशो भवति
द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरः स्वर्गो लोकः स्वर्गमेवैतेन लोकमाप्नोति
18.3
सप्तदशोऽग्निष्टोमः
तस्य दीक्षणीयायामिष्टौ द्वादशमानं हिरण्यं ददाति चतुर्विंशतिमानं प्रायणीयायां द्वे चतुर्विंशतिमाने आतिथ्यायां चत्वारि चतुर्विंशतिमानानि प्रातः प्रथमायामुपसद्यष्टौ चतुर्विंशतिमानान्यपराह्णे प्रथमायामुपसदि षोडशचतुर्विंशतिमानानि प्रातर्मध्यमायामुपसदि द्वात्रिंशतं चतुर्विंशतिमानान्यपराह्णे मध्यमायामुपसदि चतुःषष्टिं चतुर्विंशतिमानानि प्रातरुत्तमायामुपसद्यष्टाविंशतिशतं चतुर्विंशतिमानान्यपराह्ण उत्तमायामुपसदि द्वे अष्टाविंशतिशतमाने अग्नीषोमीयस्य पशोर्वपायां चत्वार्यष्टाविंशतिशतमानानि प्रातः पशोर्वपायामष्टावष्टाविंशतिशतमानानि प्रातःसवने सन्नेषु नाराशंसेषु षोडशाष्टाविंशतिशतमानानि माध्यन्दिने सवनेऽनडुच्छतं च रुक्मो होतुः स्रगुद्गातुर्द्वात्रिंशतमष्टाविंशतिशतमानानि तृतीयसवने सन्नेषु नाराशंसेषु चतुःषष्टिमष्टाविंशतिशतमानान्युदयनीयायामिष्टावष्टाविंशतिशतमष्टाविंशतिशतमानानि वशाया वपायाम्
एष वा अनडुहो लोकमाप्नोति य एवं वेद
एष वै ज्योतिष्मन्तं पुण्यं लोकं जयति य एवं विद्वानेतेन यजते
18.4
सप्तदशोऽग्निष्टोमः
तस्य प्रातःसवनीयान् सोमान् प्रतिदुहा श्रीणाति शृतेन मध्यन्दिने दध्ना तृतीयसवने
पशुकामो यजेत
यत् सर्वाणि सवनान्याशीर्वन्ति भवन्त्यनुसवनमेवैनं पशुभिः सर्मर्धयति प्रजा त्वस्य मीलितेव भवति शुक्रिये हि सवने पयसा श्रीणाति
वैश्यं याजयेत्
एतद्वै वैश्यस्य समृद्धं यत् पशवः पशुभिरेवैनं समर्धयति
तस्य कण्वरथन्तरं पृष्ठम्
सदोविशीयं ब्रह्मसाम
पशवो वै कण्वरथन्तरं पशवः सदोविशीयमाभिपूर्वानेवास्मिन् पशून् दधाति
सर्वः सप्तदशो भवति
द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरं पशवोऽनुप्रजायन्ते तानेवाप्त्वावरुन्धे
18.5
सप्तदश उक्थ्यः
इन्द्रो वृत्रमहन् स विष्वङ्वीर्येण व्यार्च्छत् तस्मै देवाः प्रायश्चित्तिमैच्छंस्तं न किं चनाधिनोत् तं तीव्रसोम एवाधिनोत्
सोमातिपवितं याजयेत्
छिद्र इव वा एष यं सोमोऽतिपवते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
राजानमपरुद्धं याजयेत्
विड्वा एतमतिपवते यो राजापरुध्यते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
ग्रामकामो यजेत
ग्रामो वा एतमतिपवते योऽलं ग्रामाय सन् ग्रामं न विन्दते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
प्रजाकामो यजेत प्रजा वा एतमतिपवते योऽलं प्रजायाः सन् प्रजां न विन्दते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
पशुकामो यजेत पशवो वा एतमतिपवन्ते योऽलं पशुभ्यः सन् पशून्न विन्दते यत् तीव्रसोमेन यजते पिहित्या [थुस्Bई॑ऽपिहित्या Kष्ष्] एवाच्छिद्रतायै
आमयाविनं याजयेत् प्राणा वा एतमतिपवन्ते य आमयावी यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
शतमाशिरं दुहन्ति तीव्रयन्त्येवैनम्
तत् ता उ एव दक्षिणाः
अभ्यभिसोमानुन्नयन्ति तीव्र एनं धिनवदित्युभावध्वर्यू सर्वे चमसाध्वर्यवोऽच्छावाकाय प्रतिगृणन्ति तीव्रयन्त्येवैनम्
तदभक्षयन्त ऋत्विजश्चमसानवजिघ्रन्ति तीव्रयन्त्येवैनं तत् तानच्छावाकस्य स्तोत्रे भक्षयन्ति तीव्रयन्त्येवैनम्
तद्यत् सवनानि व्यवभक्षयेयुरपक्रामुका यजमानाच्छ्रीः स्यात् सकृत्सकृत् सवनानामन्ततो भक्षयन्ति सवनानामसंभेदाय
रथन्तरं साम भवति
इयं वै रथन्तरमस्यां वा एष न प्रतितिष्ठति यो न प्रतितिष्ठत्यस्यामेवैनं प्रतिष्ठापयति
श्रायन्तीयं ब्रह्मसाम भवत्येतदेवास्मिञ्छ्रीणाति
वागनुष्टुप्वाचो रसो यज्ञायज्ञीयं वाच्येवास्य रसं दधाति
विशोविशीयमग्निष्टोमसाम भवत्येतदेवास्मिन् सर्वं प्रतिष्ठापयति
उद्वंशीयमुक्थानामन्ततो भवति सर्वेषां वा एतत् पृष्ठानां रूपं सर्वेष्वेव रूपेषु प्रतितिष्ठति
उक्थ्यो भवति पशवो वा उक्थानि पशुष्वेव प्रतितिष्ठति
18.6
सप्तदश उक्थ्यः षोडशिमान् सप्तदशी
यावान् वै प्रजापतिरूर्ध्वस्तावांस्तिर्यङ्
यावन्त इमे लोका ऊर्ध्वास्तावन्तस्तिर्यञ्चः
वाजपेययाजी वाव प्रजापतिमाप्नोति
यत् सप्तदश स्तोत्राणि तेनोर्ध्वमप्नोति यत् सर्वः सप्तदशस्तेन तिर्यञ्चम्
तस्य नानावीर्याणि सवनानि
अनिरुक्तं प्रातःसवनं वाजवन्माध्यन्दिनं सवनं चित्रवत् तृतीयसवनम्
यदनिरुक्तं प्रातःसवनं भवत्यनिरुक्तो वै प्रजापतिः प्रजापतिमेवाप्नोति यद्वाजवन्माध्यन्दिनं सवनं अन्नं वै वाजोऽन्नाद्यस्यावरुध्यै यच्चित्रवत् तृतीयसवनं स्वर्गस्य लोकस्य समष्ट्यै
वियोनिर्वाजपेय इत्याहुः प्राजापत्यः सन्निरुक्तसामेति यदनिरुक्तं प्रातःसवनं तेन सयोनिः
रथन्तरं साम भवत्याशीय उज्झित्यै
इयं वै रथन्तरमस्यामेवाध्यभिषिच्यते
तस्माद्वाजपेययाज्यप्रत्यवरोही
अस्यां हि सोऽध्यभिषिच्यते
अभीवर्तो ब्रह्मसाम भवति ब्रह्मणो वा एष ऋषभ ऋषभतामेवैनं गमयति
यज्ञायज्ञीयमनुष्टुभि भवति वागनुष्टुप्वाचो रसो यज्ञायज्ञीयं वाच्येवास्य रसं दधाति
वारवन्तीयमग्निष्टोमसाम भवतीन्द्रियस्य वीर्यस्य परिगृहीत्यै
उद्वंशीयमुक्थानामन्ततो भवति सर्वेषां वा एतत् पृष्ठानां रूपं सर्वेष्वेव रूपेषु प्रतितिष्ठति
गौरीवितं षोडशिसाम भवति
अतिरिक्तं गौरीवितमतिरिक्तः षोडश्यतिरिक्त एवातिरिक्तं दधाति
तदाहुर्जामि वा एतद्यज्ञे क्रियते यदुद्वंशीयाद्गौरीवितेन स्तुवते स्वारात् स्वारेणेति
न जाम्यस्ति सवनं संतिष्ठते
उक्थं शस्यते वषट्कारोऽन्तरा तेनाजामि
अपच्छिदिव वा एतद्यज्ञकाण्डं यत् षोडशी तेनाजामि
यज्ञारण्ये संतिष्ठत इत्याहुरत्युक्थान्येत्यति षोडशिनं न रात्रिं प्राप्नोतीति
विष्णोः शिपिविष्टवतीषु बृहदुत्तमं भवति
एषा वै प्रजापतेः पशुष्ठा तनूर्यच्छिपिविष्टः प्राणो वै बृहत् प्राण एव पशुषु प्रतितिष्ठति
बृहता स्तुवन्ति बृहदमुं लोकमाप्तुमर्हति तमेवाप्नोति
18.7
प्रजापतिरकामयत वाजमाप्नुयां स्वर्गं लोकमिति स एतं वाजपेयमपश्यद्वाजपेयो वा एष वाजमेवैतेन स्वर्गं लोकमाप्नोति
शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति तेजो ब्रह्मवर्चसं ताभिरवरुन्धे
वाजवत्यो माध्यन्दिने भवन्ति स्वर्गस्य लोकस्य समष्ट्यै
अन्नवत्यो गणवत्यः पशुमत्यस्तृतीयसवने भवन्ति भूमानं ताभिरवरुनधे
सर्वः सप्तदशो भवति प्रजापतिर्वै सप्तदशः प्रजापतिमेवाप्नोति
हिरण्यस्रज ऋत्विजो भवन्ति महस एव तद्रूपं क्रियते
एष मेऽमुष्मिन् लोके प्रकाशोऽसदिति
ज्योतिर्वै हिरण्यं ज्योतिरेवास्मिन् दधाति
आजिं धावन्ति यजमानमुज्जापयन्ति स्वर्गमेवैनं तल्लोकमुज्जापयन्ति
नाकं रोहति स्वर्गमेव तल्लोकं रोहति
सरजसे रोहति मनुष्यलोकादेवैनमन्तर्दधाति
वाजिनां साम ब्रह्मा रथचक्रेऽभिगायति वाजो वै स्वर्गो लोकः स्वर्गमेवैनं तल्लोकमुज्जापयति
विष्णोः शिपिविष्टवतीषु बृहदुत्तमं भवति स्वर्गमेव तल्लोकं रूढ्वा ब्रध्नस्य विष्टपमभ्यतिक्रामति
18.8
अग्निष्टोमं प्रथममाहरति यज्ञमुखं वा अग्निष्टोमो यज्ञमुखमेवारभ्य सवमाक्रमते
अथैषोऽभिषेचनीयः
तस्य द्वात्रिंशाः पवमाना द्वात्रिंशदक्षराऽनुष्टुब्वागनुष्टुब्यावती वाक्तयैव सूयते
संशर इव वा एष छन्दसां यद्विषमा स्तोमा अयथापूर्वमिति
यत् समाः पवमानास्तेनासंशरस्तेन यथापूर्वम्
आत्मना वा अग्निष्टोमेनर्ध्नोत्यात्मना पुण्यो भवत्यथ यदुक्थानि पशवो वा उक्थानि विडुक्थानि यदुक्थानि भवन्त्यनुसन्तत्या एव
वायो शुक्रो अयामित"इति वायव्या प्रतिपद्भवति वाग्वै वायुर्वाचमेवास्य यज्ञमुखे युनक्ति तयाभिषिच्यते सर्वस्या एव वाचः सूयते सर्वा एनं वाचो राजेति वदन्ति
संभार्या भवन्ति पृष्ठान्येव ताभिर्युनक्ति यन्नानादेवत्यास्तेन युनक्ति वीर्यं वै पृष्ठानि वीर्य एवाध्यभिषिच्यते
यन्ति वा एते यज्ञमुखादित्याहुर्ये संभार्याः कुर्वत इति
यत्ऽऽपवस्य वाचो अग्रिय"इति तेन यज्ञमुखान्न यन्ति
दविद्युतत्या रुचा"इति छन्दसां रूपं छन्दांस्येवास्य यज्ञमुखे युनक्ति तैरभिषिच्यते
एतमु त्यं दश क्षिप"इत्यादित्या आदित्या वा इमाः प्रजास्तासामेव मध्यतः सूयते
पवस्वेन्दो वृषा सुत"वृषण्वत्यो भवन्ति त्रिष्टुभो रूपं वीर्यं वै त्रिष्टुप्वीर्य एवाध्यभिषिच्यते
उत्ते शुष्मास ईरत"इत्युद्वत्यो भवन्त्युद्वद्वा अनुष्टुभो रूपमानुष्टुभो राजन्यस्तस्मादुद्वत्यो भवन्ति
पवमानस्य ते कव"इति प्राणानां कॢप्त्यै
अध क्षपा परिष्कृत"इत्यनुष्टुप्प्रथमानुष्टुबुत्तमा वाग्वा अनुष्टुब्वाचैव प्रयन्ति वाचमभ्युद्यन्ति
छिन्नमिव वा एतद्यदेकर्चा यदेतावानुष्टुभौ तृचावभितो भवतो बहवः पुरएतारो भवन्ति बहवः पश्चापिनः
सौर्यानुष्टुबुत्तमा भवति स्वर्गस्य लोकस्य समष्ट्यै
18.9
वरुणस्य वै सुषुवाणस्य भर्गोऽपाक्रामत् स त्रेधापतद्भृगुस्तृतीयमभवच्छ्रायन्तीयं तृतीयमपस्तृतीयं प्राविशत्
यद्भार्गवो होता भवति तेनैव तदिन्द्रियं वीर्यमाप्त्वावरुन्धे यत् श्रायन्तीयं ब्रह्मसाम भवति तेनैव तदिन्द्रियं वीर्यमाप्त्वारुन्धे यत् पुष्करस्रजं प्रतिमुञ्चते तेनैव तदिन्द्रियं वीर्यमाप्त्वावरुन्धे
दशमी भवति
दश चमसा दश चमसाध्वर्यवो दश दश चमसमभियन्त्या दशमात् पुरुषादन्वाख्याय प्रसर्पन्ति दश समृद्धो ह्येष यज्ञ एनं वाव ते तद्यज्ञमन्वैच्छन् य एतेन यजत एतदेवेन्द्रियं वीर्यमात्त्वास्मिन् दधाति
सर्वः सप्तदशो भवति द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरादेवेन्द्रियं वीर्यमाप्त्वावरुन्धे
इन्द्रो वृत्रमहंस्तस्येयं चित्राण्युपैद्रूपाण्यसौ नक्षत्राणामवकाशेन पुण्डरीकं जायते यत् पुष्करस्रजं प्रतिमुञ्चते वृत्रस्यैव तद्रूपं क्षत्रं प्रतिमुञ्चते
द्वादश पुष्करा भवन्ति द्वादश मासाः संवत्सरः संवत्सरेऽन्तर्भूतं च भव्यं च भूतेन चैवैनं भव्येन च समर्धयति
स्रगुद्गातुस्सौर्य उद्गाता न वै तस्मै व्यौच्छदथो व्येवास्मै वासयति
रुक्मो होतुराग्नेयो होताथो अमुमेवास्मा आदित्यमुन्नयति
प्राकाशावध्वर्योर्याविव ह्यध्वर्यू अथो चक्षुषी एवास्मिन् दधाति
अश्वः प्रस्तोतुः प्राजापत्योऽश्वः प्राजापत्यः प्रस्तोताथो प्रेव ह्यश्वः प्रोथति प्रेव प्रस्तोता स्तौति
धेनुः प्रतिहर्तुः पय एवास्मिन् दधाति
वशा मैत्रावरुणस्य वशं मा नयादिति
ऋषभो ब्राह्मणाच्छंसिनो वीर्यं वा ऋषभो वीर्यमेवास्मिन् दधाति
वासः पोतुः पवित्रत्वाय
वरासी नेष्टुरनुलम्बेव ह्येषा होत्रा
स्थूरि यवाचितमच्छावाकस्य स्थूरिरिव ह्येषा होत्राथो निर्वरुणत्वायैव यवा न वै तर्हि यदस्यां दक्षिणा अभ्यभवन्नथो अस्य त एव तेनाभीष्टाः प्रीता भवन्ति
अनड्वानग्नीधो युक्त्यै
अजः सुब्रह्मण्यायै
वत्सतर्युन्नेतुः साण्डस्त्रिवत्सो ग्रावस्तुतो मिथुनत्वाय
द्वादश पष्ठौह्यो गर्भिण्यो ब्रह्मणो द्वादश मासाः संवत्सरः संवत्सर एव प्रतितिष्ठत्यथ यद्गर्भिण्यो वाग्वै धेनुर्मन्त्रो गर्भो वाच्येवास्य मन्त्रं दधात्यामन्त्रणीयो भवत्यथ यद्धेनुभव्या द्वादश पयांसि तान्येवास्मिन् दधाति तस्मादाहुः पयस्वी राजा पुण्य इति
सायणभाष्यम्
अथ नवमः खण्डः ।
अभिषेचनीये वक्तव्या विशेषा उक्ता: अथ दशपेये वक्तव्यान् विशेषान् विधातुं तद्विधिस्तावकमर्थवादमाह ।
वरुणस्य वै सुषुवाणस्य भर्गोऽपाक्रामत्स त्रेधापतद्भृगुस्तृतीयमभवच्छ्रायन्तीयं तृतीयमपस्तृतीयं प्राविशत् ॥१॥
सुषुवाणस्याभिषेचनीयस्य क्रतावभिषिक्तस्य वरुणस्य भर्गः इन्द्रियसामर्थ्यं तस्माद्वरुणादपगतं त्रेधापतितमभूत् तस्य पतितस्य भर्गस्य यत्तृतीयमंशरूपं तद्भृगुनामक: ऋषिरभवत् अत एव भृगोर्वरुणपुत्रत्वमन्यत्र श्रूयते भृगुर्वै वारुणिः वरुणं पितरमुपससारेति अन्यत् तृतीयमंशस्वरूपं श्रायन्तीयनामकं सामाभवत् श्रायन्तइव सूर्यमित्यस्यामृच्युत्पन्नं साम श्रायन्तीयं अत:परं तृतीयमंशरूपमपः प्राविशत् ॥ १ ॥
अथ विवक्षितान् विशेषान् विधत्ते ।
यद्भार्गवो होता भवति तेनैव तदिन्द्रियं वीर्यमाप्त्वावरुन्धे यत् श्रायन्तीयं ब्रह्मसाम भवति तेनैव तदिन्द्रियं वीर्यमाप्त्वावरुन्धे यत् पुष्करस्रजं प्रतिमुञ्चते तेनैव तदिन्द्रियं वीर्यमाप्त्वावरुन्धे ॥३॥
भृगुगोत्रसमुत्पन्न: पुरुषो दशपेयक्रतौ होता भवेदिति यदस्ति तेनैव भृगुगोत्रसम्बन्धेनैव तत्पतितं वरुणस्त्विन्द्रियं तत्सामर्थ्यञ्च प्राप्य अवरुन्धे स्वाधीनं कुरुते ब्रह्माणमभिलक्ष्य गातव्यं साम ब्रह्मसाम तच्चात्र श्रायन्तीयं भवेत् पुष्करस्रजं तामरसपुष्पाणां मालां यजमानः प्रतिमुञ्चत एतेन त्रितयेन कृत्स्नमपीन्द्रियसामर्थ्यं अवरुद्धं भवति असाध्वर्यु ब्राह्मणमेवमाम्नायते जामि वा एतत् कुर्वन्ति यत्सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति पुण्डरीकस्रजं प्रयच्छन्त्यजामिताया अङ्गिरसः स्वर्गं लोकं यन्तः अप्सु दीक्षातपसी प्रावेशयन् तत् पुण्डरीकमभवत् यत्पुण्डरीकस्रजं प्रयच्छति साक्षादेव दीक्षातपसी अवरुन्ध इति अध्वर्युसूत्रमप्येवं पठ्यते दीक्षायास्थाने द्वादशपुण्डरीकां स्रजं प्रतिमुञ्चत इति ॥ २ ॥ तस्याः स्रजः कालविशेषं विधत्ते।
दशमी भवति॥३॥
अभिषेचनीयादुत्तरमारभ्य दशसु दिनेषु क्रमेण दशसख्याकानि संसृपसंज्ञकानि हवींषि दशसु दिनेष्वनुष्ठेयानि तस्मिन् दशमेऽहन्यपराह्णे पुष्करस्रजःप्रतिमोकः ततः स्रगेषा दिनगताया दशसंख्यायाः पूरकत्वात् दशमीत्युच्यते उक्तं हि सूत्रकृता तद्दीक्षित एव दशाहे ततो दशपेयेन यजेतेति ॥ ३ ॥
अपरं विशेषं विधत्ते।
दश चमसा दश चमसाध्वर्यवो दश दश चमसमभियन्त्यादशमात् पुरुषादन्वाख्याय प्रसर्पन्ति दशसमृद्धो ह्येष यज्ञ एनं वाव ते तद्यज्ञमन्वैच्छन्य एतेन यजत एतदेवेन्द्रियं वीर्यमाप्त्वास्मिन् दधाति॥ ४ ॥
यजमानचमसव्यतिरिक्ता: दशसङ्ख्याका अत्र सोमचमसाः स्युस्तेषाञ्च सोमचमसानां हर्त्तारो दशसंख्याकाश्चमसाध्वर्यवो भवन्ति एकैकं यच्चमसं दशदश ब्राह्मणा: पानार्थमभियन्ति तत्रैकैकः पुरुषः स्वकीयान् पित्रादीन् दशपुरुषपर्यन्तानन्वाख्याय पानार्थं प्रसर्पेत् तदुक्तं सूत्रकृता ते दशमातृर्द्दश पितॄनित्यन्वाख्याय प्रसर्पेयुरिति अध्वर्युसूत्रमपि श्वोभूते पात्रसादनकाले...........
18.10
यो वै सवादेति नैनं सव उपनमत्यथ यः सामभ्य एति पापीयान् सुषुवाणो भवति
संभार्या भवन्ति पृष्ठान्येव ताभिर्युनक्ति
एतानि वाव सामानि यत् पृष्ठानि
यत् संभार्या भवन्ति तदेव सामभ्यो नैति
यानि देवराज्ञां सामानि तैरमुष्मिन् लोक ऋध्नोति यानि मनुष्यराज्ञां तैरस्मिन्नुभयोरनयोर्लोकयोरृध्नोति देवलोके च मनुष्यलोके च
सामत्रिष्टुभ्यध्यभिषिच्यते वीर्यं वै साम त्रिष्टुप्वीर्य एवाध्यभिषिच्यते
एकादश राजसामानि भवन्त्येकादशाक्षरा त्रिष्टुबोजो वीर्यं त्रिष्टुबोजस्येव वीर्येऽध्यभिषिच्यते
यत् त्रिवृतमभिषेचनीये कुर्युर्ब्रह्म क्षत्रायापिदध्युर्यत् त्रिवृतमुद्धरन्ति ब्रह्म तत् क्षत्रादुद्धरन्ति तस्माद्भरतां प्रतिदण्डा ब्रह्मणा न हि ते त्रिवृतमभिषेचनीये कुर्वन्ति
एकविंशोऽभिषेचनीयस्योत्तमः सप्तदशो दशपेय एकविंशः केशवपनीयस्य प्रथमः क्षत्रं वा एकविंशो विट्सप्तदशः क्षत्रेणैवास्मै विशमुभयतः परिगृह्णात्यनपक्रामुकास्माद्विट्भवति
यद्वै राजसूयेनाभिषिच्यते तत् स्वर्गं लोकमारोहति स यदिमं लोकं नोपावरोहेदति जनं वा गच्छेदुद्वा माद्येद्यदेषोऽर्वाचीनस्तोमः केशवपनीयो भवत्यस्य लोकस्यानुद्धानाय यथा शाखायाः शाखामालम्भमुपावरोहेदेवमेतेनेमं लोकमुपावरोहति प्रतिष्ठायै
18.11
इन्द्रो वृत्रमहन् स विष्यङ्वीर्येण व्यभ्रंशत स एतच्छ्रायन्तीयमपश्यत् तेनात्मानं समश्रीणादिन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति यच्छ्रायन्तीयं ब्रह्मसाम भवति पुनरेवात्मानं संश्रीणाति
यज्ञायज्ञीयमनुष्टुभि भवति वाचा वा एष व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति वागनुष्टुब्वाचो रसो यज्ञायज्ञीयं वाच्येवास्य रसं दधाति
वारवन्तीयमग्निष्टोमसाम भवतीन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति यद्वारवन्तीयमग्निष्टोमसाम भवतीन्द्रियस्य वीर्यस्य परिगृहीत्यै
अश्रयन् वाव श्रायन्तीयेनावारयन्त वारवन्तीयेनेन्द्रियस्य वा एषा वीर्यस्य परिगृहीतिः
अप्रतिष्ठितो वा एष यो राजसूयेनाभिषिच्यते यदा वा एतेन द्विरात्रेण यजतेऽथैव प्रतिष्ठा
यावन्ति संवत्सरस्याहोरात्राणि तावत्य एताः स्तोत्रीयाः संवत्सर एव प्रतितिष्ठति
अग्निष्टोमः पूर्वमहरतिरात्र उत्तरं नानैवाहोरात्रयोः प्रतितिष्ठति
अमावास्यायां पूर्वमहरुद्रिष्ट [एम्. Cअलन्दुद्दृष्ट] उत्तरं नानैवार्धमासयोः प्रतितिष्ठति पौर्णमास्यां पूर्वमहर्व्यष्टकायामुत्तरं नानैव मासोः प्रतितिष्ठति तदाहुर्य एव समानपक्षे पुण्याहनी स्यातां तयोरेव कार्यं समृध्यै
अपशव्यो द्विरात्र इत्याहुर्द्वे ह्येते छन्दसी गायत्रं च त्रैष्टुभं च जगतीमन्तर्यन्तीति न तेन जगती कृता यत् तृतीयसवने क्रियते
यदा वा एषाहीनस्याहर्भजते साह्वस्य वा सवनमथैव जगती कृता त्रैशोकमुत्तरस्याह्नो ब्रह्मसाम भवति वैखानसमच्छावाकसाम यच्छुक्रिये सवने क्रियेते तेनैव जगती कृता तेन पशव्यः
व्युष्टिर्वा एष द्विरात्रो व्येवास्मै वासयति
- १८.१.१ उपहव्यैकाहः
सप्तदशोऽग्निष्टोमः
- १८.१.२ आख्यायिका कथनं
देवाश्च वा असुराश्च प्रजापतेर्द्वयाः पुत्रा आसंस्तेऽसुरा भूयांसो बलीयांस आसन्कनीयांसो देवास्ते देवाः प्रजापतिं उपाधावन्स एतं उपहव्यं अपश्यत्
- १८.१.३ उपहव्य निरुक्त प्रयोगः
स ऐक्षत यन्निरुक्तं आहरिष्याम्यसुरा मे यज्ञं हनिष्यन्तीति सोऽनिरुक्तं आहरत्
- १८.१.४ प्रजापतेर्देवताभिमुख्यं
स उत्तमे स्तोत्रेऽऽदेवो वो द्रविणोदाऽऽ इति देवानभिपर्यावर्तत
- १८.१.५ प्रजापतेर्देवताभिमुख्यं
ततो देवा अभवन्परासुराः
- १८.१.६ तद्वेदन प्रशंसा
भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद
- १८.१.७ यज्ञायज्ञीय कार्यता
अथो खल्वाहुःऽऽयज्ञायज्ञा वो अग्नयऽऽ इत्येव कार्यम्
- १८.१.८ यज्ञायज्ञीय कार्यता
अग्निर्वै सर्वा देवतास्तेन न देवतानां कां चनान्तरेति
- १८.१.९ उपहव्य शब्द प्रवृत्ति निमित्तं
इन्द्रो यतीन्सालावृकेयेभ्यः प्रायच्छत्तं अश्लीला वागभ्यवदत्स प्रजापतिं उपाधावत्तस्मा एतं उपहव्यं प्रायच्छत्तं विश्वे देवा उपाह्वयन्त तस्मादुपहव्यः
- १८.१.१० अधिकारि निरूपणं
अभिशस्यमानं याजयेत्
- १८.१.११ अधिकारि निरूपणं
देवता वा एतं परिव्रजन्ति यं अनृतं अभिशंसन्ति देवता एवास्यान्नं आदयन्ति
- १८.१.१२ अधिकारि निरूपणं
तस्य पूतस्य स्वदितस्य मनुष्या अन्नं अदन्ति
- १८.१.१३ अधिकारि निरूपणं
ग्रामकामो यजेत
- १८.१.१४ अधिकारि निरूपणं
मारुती भवति मरुतौ वै देवानां विशो विशं एवास्मा अनुनियुनक्त्यनपक्रामुकास्माद्विड्भवति
- १८.१.१५ अधिकारि निरूपणं
पशुकामो यजेत पौषी भवति
- १८.१.१६ पूष्णः पशोश्च सम्बन्धः
पशवो वै पूषा पशूनेवावरुन्धे
- १८.१.१७ वैश्वदेवी प्रशंसा
वैश्वदेवी भवति विश्वे ह्येनं देवा उपाह्वयन्त
- १८.१.१८ होतुः पृष्ठे बृहत् सामता
बृहत्सामा भवति
- १८.१.१९ होतुः पृष्ठे बृहत् सामता
प्रजापतिर्ह्येनं इन्द्राय प्रायच्छत्
- १८.१.२० दक्षिणा विशेषः
अश्वः श्यावो दक्षिणा
- १८.१.२१ अश्वान्वयः
स ह्यनिरुक्तः
- १८.१.२२ अश्वान्वयः
स ब्रह्मणे देयः
- १८.१.२३ अश्वान्वयः
ब्रह्मा वा ऋत्विजां अनिरुक्तः स्वेनैवैनं तद्रूपेण समर्धयति
- १८.१.२४ उक्तार्थ प्रशंसा
यावद्ध वै कुमारे सद्यो जात एनो नास्मिंस्तावच्च नैनो भवति य एवं वेद
- १८.२.१ अन्यैकाहः
सप्तदशोऽग्निष्टोमः
- १८.२.२
तस्य द्वादश दीक्षोपसदः
- १८.२.३
स्वर्गकामो यजेत
- १८.२.४
द्वादश मासाः संवत्सरः संवत्सरः स्वर्गो लोकः स्वर्गं एवैतेन लोकं आप्नोति
- १८.२.५
घृतव्रतो भवति
- १८.२.६
देवव्रतं वै घृतं देवव्रतेनैव देवता अप्येति
- १८.२.७
उत्तरेणोत्तरेण काण्डेनोपैत्युत्तर उत्तर एषां लोकानां ज्यायान्स्वर्गस्य समष्ट्यै
- १८.२.८
बृहत्साम भवति बृहता वै देवाः स्वर्गं लोकं आयन्स्वर्गं एवेतेन लोकं आप्नोति
- १८.२.९
ऋतं उक्त्वा प्रसर्पन्त्यृतेनैवैनं स्वर्गं लोकं गमयन्ति
- १८.२.१०
सोमचमसो दक्षिणा देवतयैव देवता अप्येति
- १८.२.११
औदुम्बरो भवत्यूर्गुदुम्बर ऊर्जं एवावरुन्धे
- १८.२.१२
सगोत्राय ब्रह्मणे देयः सोमपीथस्याविदोहाय
- १८.२.१३
सर्वः सप्तदशो भवति
- १८.२.१४
द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरः स्वर्गो लोकः स्वर्गं एवैतेन लोकं आप्नोति
- १८.३.१ अग्निष्टोमसंस्थैकाहः
सप्तदशोऽग्निष्टोमः
- १८.३.२
तस्य दीक्षणीयायां इष्टौ द्वादशमानं हिरण्यं ददाति चतुर्विंशतिमानं प्रायणीयायां द्वे चतुर्विंशतिमाने आतिथ्यायां चत्वारि चतुर्विंशतिमानानि प्रातः प्रथमायां उपसद्यष्टौ चतुर्विंशतिमानान्यपराह्णे प्रथमायां उपसदि षोडशचतुर्विंशतिमानानि प्रातर्मध्यमायां उपसदि द्वात्रिंशतं चतुर्विंशतिमानान्यपराह्णे मध्यमायां उपसदि चतुःषष्टिं चतुर्विंशतिमानानि प्रातरुत्तमायां उपसद्यष्टाविंशतिशतं चतुर्विंशतिमानान्यपराह्ण उत्तमायां उपसदि द्वे अष्टाविंशतिशतमाने अग्नीषोमीयस्य पशोर्वपायां चत्वार्यष्टाविंशतिशतमानानि प्रातः पशोर्वपायां अष्टावष्टाविंशतिशतमानानि प्रातःसवने सन्नेषु नाराशंसेषु षोडशाष्टाविंशतिशतमानानि माध्यन्दिने सवनेऽनडुच्छतं च रुक्मो होतुः स्रगुद्गातुर्द्वात्रिंशतं अष्टाविंशतिशतमानानि तृतीयसवने सन्नेषु नाराशंसेषु चतुःषष्टिं अष्टाविंशतिशतमानान्युदयनीयायां इष्टावष्टाविंशतिशतं अष्टाविंशतिशतमानानि वशाया वपायाम्
- १८.३.३
एष वा अनडुहो लोकं आप्नोति य एवं वेद
- १८.३.४
एष वै ज्योतिष्मन्तं पुण्यं लोकं जयति य एवं विद्वानेतेन यजते
- १८.४.१ वैश्यस्तोमाग्निष्टोमैकाहः
सप्तदशोऽग्निष्टोमः
- १८.४.२
तस्य प्रातःसवनीयान्सोमान्प्रतिदुहा श्रीणाति शृतेन मध्यन्दिने दध्ना तृतीयसवने
- १८.४.३
पशुकामो यजेत
- १८.४.४
यत्सर्वाणि सवनान्याशीर्वन्ति भवन्त्यनुसवनं एवैनं पशुभिः सर्मर्धयति प्रजा त्वस्य मीलितेव भवति शुक्रिये हि सवने पयसा श्रीणाति
- १८.४.५
वैश्यं याजयेत्
- १८.४.६
एतद्वै वैश्यस्य समृद्धं यत्पशवः पशुभिरेवैनं समर्धयति
- १८.४.७
तस्य कण्वरथन्तरं पृष्ठम्
- १८.४.८
सदोविशीयं ब्रह्मसाम
- १८.४.९
पशवो वै कण्वरथन्तरं पशवः सदोविशीयं आभिपूर्वानेवास्मिन्पशून्दधाति
- १८.४.१०
सर्वः सप्तदशो भवति
- १८.४.११
द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरं पशवोऽनुप्रजायन्ते तानेवाप्त्वावरुन्धे
- १८.५.१ तीव्रसोमैकाहः
सप्तदश उक्थ्यः
- १८.५.२
इन्द्रो वृत्रं अहन्स विष्वङ्वीर्येण व्यार्च्छत्तस्मै देवाः प्रायश्चित्तिं ऐच्छंस्तं न किं चनाधिनोत्तं तीव्रसोम एवाधिनोत्
- १८.५.३
सोमातिपवितं याजयेत्
- १८.५.४
छिद्र इव वा एष यं सोमोऽतिपवते यत्तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
- १८.५.५
राजानं अपरुद्धं याजयेत्
- १८.५.६
विड्वा एतं अतिपवते यो राजापरुध्यते यत्तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
- १८.५.७
ग्रामकामो यजेत
- १८.५.८
ग्रामो वा एतं अतिपवते योऽलं ग्रामाय सन्ग्रामं न विन्दते यत्तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
- १८.५.९
प्रजाकामो यजेत प्रजा वा एतं अतिपवते योऽलं प्रजायाः सन्प्रजां न विन्दते यत्तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
- १८.५.१०
पशुकामो यजेत पशवो वा एतं अतिपवन्ते योऽलं पशुभ्यः सन्पशून्न विन्दते यत्तीव्रसोमेन यजते पिहित्या [थुस्Bी;ऽपिहित्या KSS] एवाच्छिद्रतायै
- १८.५.११
आमयाविनं याजयेत्प्राणा वा एतं अतिपवन्ते य आमयावी यत्तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
- १८.५.१२
शतं आशिरं दुहन्ति तीव्रयन्त्येवैनम्
- १८.५.१३
तत्ता उ एव दक्षिणाः
- १८.५.१४
अभ्यभिसोमानुन्नयन्ति तीव्र एनं धिनवदित्युभावध्वर्यू सर्वे चमसाध्वर्यवोऽच्छावाकाय प्रतिगृणन्ति तीव्रयन्त्येवैनम्
- १८.५.१५
तदभक्षयन्त ऋत्विजश्चमसानवजिघ्रन्ति तीव्रयन्त्येवैनं तत्तानच्छावाकस्य स्तोत्रे भक्षयन्ति तीव्रयन्त्येवैनम्
- १८.५.१६
तद्यत्सवनानि व्यवभक्षयेयुरपक्रामुका यजमानाच्छ्रीः स्यात्सकृत्सकृत्सवनानां अन्ततो भक्षयन्ति सवनानां असंभेदाय
- १८.५.१७
रथन्तरं साम भवति
- १८.५.१८
इयं वै रथन्तरं अस्यां वा एष न प्रतितिष्ठति यो न प्रतितिष्ठत्यस्यां एवैनं प्रतिष्ठापयति
- १८.५.१९
श्रायन्तीयं ब्रह्मसाम भवत्येतदेवास्मिञ्छ्रीणाति
- १८.५.२१
वागनुष्टुप्वाचो रसो यज्ञायज्ञीयं वाच्येवास्य रसं दधाति
- १८.५.२२
विशोविशीयं अग्निष्टोमसाम भवत्येतदेवास्मिन्सर्वं प्रतिष्ठापयति
- १८.५.२३
उद्वंशीयं उक्थानां अन्ततो भवति सर्वेषां वा एतत्पृष्ठानां रूपं सर्वेष्वेव रूपेषु प्रतितिष्ठति
- १८.५.२४
उक्थ्यो भवति पशवो वा उक्थानि पशुष्वेव प्रतितिष्ठति
- १८.६.१ वाजपेयैकाहः
सप्तदश उक्थ्यः षोडशिमान्सप्तदशी
- १८.६.२
यावान्वै प्रजापतिरूर्ध्वस्तावांस्तिर्यङ्
- १८.६.३
यावन्त इमे लोका ऊर्ध्वास्तावन्तस्तिर्यञ्चः
- १८.६.४
वाजपेययाजी वाव प्रजापतिं आप्नोति
- १८.६.५
यत्सप्तदश स्तोत्राणि तेनोर्ध्वं अप्नोति यत्सर्वः सप्तदशस्तेन तिर्यञ्चम्
- १८.६.६
तस्य नानावीर्याणि सवनानि
- १८.६.७
अनिरुक्तं प्रातःसवनं वाजवन्माध्यन्दिनं सवनं चित्रवत्तृतीयसवनम्
- १८.६.८
यदनिरुक्तं प्रातःसवनं भवत्यनिरुक्तो वै प्रजापतिः प्रजापतिं एवाप्नोति यद्वाजवन्माध्यन्दिनं सवनं अन्नं वै वाजोऽन्नाद्यस्यावरुध्यै यच्चित्रवत्तृतीयसवनं स्वर्गस्य लोकस्य समष्ट्यै
- १८.६.९
वियोनिर्वाजपेय इत्याहुः प्राजापत्यः सन्निरुक्तसामेति यदनिरुक्तं प्रातःसवनं तेन सयोनिः
- १८.६.१०
रथन्तरं साम भवत्याशीय उज्झित्यै
- १८.६.११
इयं वै रथन्तरं अस्यां एवाध्यभिषिच्यते
- १८.६.१२
तस्माद्वाजपेययाज्यप्रत्यवरोही
- १८.६.१३
अस्यां हि सोऽध्यभिषिच्यते
- १८.६.१४
अभीवर्तो ब्रह्मसाम भवति ब्रह्मणो वा एष ऋषभ ऋषभतां एवैनं गमयति
- १८.६.१५
यज्ञायज्ञीयं अनुष्टुभि भवति वागनुष्टुप्वाचो रसो यज्ञायज्ञीयं वाच्येवास्य रसं दधाति
- १८.६.१६
वारवन्तीयं अग्निष्टोमसाम भवतीन्द्रियस्य वीर्यस्य परिगृहीत्यै
- १८.६.१७
उद्वंशीयं उक्थानां अन्ततो भवति सर्वेषां वा एतत्पृष्ठानां रूपं सर्वेष्वेव रूपेषु प्रतितिष्ठति
- १८.६.१८
गौरीवितं षोडशिसाम भवति
- १८.६.१९
अतिरिक्तं गौरीवितं अतिरिक्तः षोडश्यतिरिक्त एवातिरिक्तं दधाति
- १८.६.२०
तदाहुर्जामि वा एतद्यज्ञे क्रियते यदुद्वंशीयाद्गौरीवितेन स्तुवते स्वारात्स्वारेणेति
- १८.६.२१
न जाम्यस्ति सवनं संतिष्ठते
- १८.६.२२
उक्थं शस्यते वषट्कारोऽन्तरा तेनाजामि
- १८.६.२३
अपच्छिदिव वा एतद्यज्ञकाण्डं यत्षोडशी तेनाजामि
- १८.६.२४
यज्ञारण्ये संतिष्ठत इत्याहुरत्युक्थान्येत्यति षोडशिनं न रात्रिं प्राप्नोतीति
- १८.६.२५
विष्णोः शिपिविष्टवतीषु बृहदुत्तमं भवति
- १८.६.२६
एषा वै प्रजापतेः पशुष्ठा तनूर्यच्छिपिविष्टः प्राणो वै बृहत्प्राण एव पशुषु प्रतितिष्ठति
- १८.६.२७
बृहता स्तुवन्ति बृहदमुं लोकं आप्तुं अर्हति तं एवाप्नोति
- १८.७.१ वाजपेयशब्दनिर्व्वचनं
प्रजापतिरकामयत वाजं आप्नुयां स्वर्गं लोकं इति स एतं वाजपेयं अपश्यद्वाजपेयो वा एष वाजं एवैतेन स्वर्गं लोकं आप्नोति
- १८.७.२
शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति तेजो ब्रह्मवर्चसं ताभिरवरुन्धे
- १८.७.३
वाजवत्यो माध्यन्दिने भवन्ति स्वर्गस्य लोकस्य समष्ट्यै
- १८.७.४
अन्नवत्यो गणवत्यः पशुमत्यस्तृतीयसवने भवन्ति भूमानं ताभिरवरुनधे
- १८.७.५
सर्वः सप्तदशो भवति प्रजापतिर्वै सप्तदशः प्रजापतिं एवाप्नोति
- १८.७.६
हिरण्यस्रज ऋत्विजो भवन्ति महस एव तद्रूपं क्रियते
- १८.७.७
एष मेऽमुष्मिन्लोके प्रकाशोऽसदिति
- १८.७.८
ज्योतिर्वै हिरण्यं ज्योतिरेवास्मिन्दधाति
- १८.७.९
आजिं धावन्ति यजमानं उज्जापयन्ति स्वर्गं एवैनं तल्लोकं उज्जापयन्ति
- १८.७.१०
नाकं रोहति स्वर्गं एव तल्लोकं रोहति
- १८.७.११
सरजसे रोहति मनुष्यलोकादेवैनं अन्तर्दधाति
- १८.७.१२
वाजिनां साम ब्रह्मा रथचक्रेऽभिगायति वाजो वै स्वर्गो लोकः स्वर्गं एवैनं तल्लोकं उज्जापयति
- १८.७.१३
विष्णोः शिपिविष्टवतीषु बृहदुत्तमं भवति स्वर्गं एव तल्लोकं रूढ्वा ब्रध्नस्य विष्टपं अभ्यतिक्रामति
- १८.८.१ पवित्राग्निष्टोमविधानं
अग्निष्टोमं प्रथमं आहरति यज्ञमुखं वा अग्निष्टोमो यज्ञमुखं एवारभ्य सवमाक्रमते
- १८.८.२
अथैषोऽभिषेचनीयः
- १८.८.३
तस्य द्वात्रिंशाः पवमाना द्वात्रिंशदक्षराऽनुष्टुब्वागनुष्टुब्यावती वाक्तयैव सूयते
- १८.८.४
संशर इव वा एष छन्दसां यद्विषमा स्तोमा अयथापूर्वं इति
- १८.८.५
यत्समाः पवमानास्तेनासंशरस्तेन यथापूर्वम्
- १८.८.६
आत्मना वा अग्निष्टोमेनर्ध्नोत्यात्मना पुण्यो भवत्यथ यदुक्थानि पशवो वा उक्थानि विडुक्थानि यदुक्थानि भवन्त्यनुसन्तत्या एव
- १८.८.७
ऽऽवायो शुक्रो अयामितऽऽ इति वायव्या प्रतिपद्भवति वाग्वै वायुर्वाचं एवास्य यज्ञमुखे युनक्ति तयाभिषिच्यते सर्वस्या एव वाचः सूयते सर्वा एनं वाचो राजेति वदन्ति
- १८.८.८
संभार्या भवन्ति पृष्ठान्येव ताभिर्युनक्ति यन्नानादेवत्यास्तेन युनक्ति वीर्यं वै पृष्ठानि वीर्य एवाध्यभिषिच्यते
- १८.८.९
यन्ति वा एते यज्ञमुखादित्याहुर्ये संभार्याः कुर्वत इति
- १८.८.१०
यत्ऽऽपवस्य वाचो अग्रियऽऽ इति तेन यज्ञमुखान्न यन्ति
- १८.८.११
ऽऽदविद्युतत्या रुचा-ऽऽ इति छन्दसां रूपं छन्दांस्येवास्य यज्ञमुखे युनक्ति तैरभिषिच्यते
- १८.८.१२
ऽऽएतं उ त्यं दश क्षिपऽऽ इत्यादित्या आदित्या वा इमाः प्रजास्तासां एव मध्यतः सूयते
- १८.८.१३
ऽऽपवस्वेन्दो वृषा सुतऽऽ वृषण्वत्यो भवन्ति त्रिष्टुभो रूपं वीर्यं वै त्रिष्टुप्वीर्य एवाध्यभिषिच्यते
- १८.८.१४
ऽऽउत्ते शुष्मास ईरतऽऽ इत्युद्वत्यो भवन्त्युद्वद्वा अनुष्टुभो रूपं आनुष्टुभो राजन्यस्तस्मादुद्वत्यो भवन्ति
- १८.८.१५
ऽऽपवमानस्य ते कवऽऽ इति प्राणानां क्ळ्प्त्यै
- १८.८.१६
ऽऽअध क्षपा परिष्कृतऽऽ इत्यनुष्टुप्प्रथमानुष्टुबुत्तमा वाग्वा अनुष्टुब्वाचैव प्रयन्ति वाचं अभ्युद्यन्ति
- १८.८.१७
छिन्नं इव वा एतद्यदेकर्चा यदेतावानुष्टुभौ तृचावभितो भवतो बहवः पुरएतारो भवन्ति बहवः पश्चापिनः
- १८.८.१८
सौर्यानुष्टुबुत्तमा भवति स्वर्गस्य लोकस्य समष्ट्यै
- १८.९.१ दशपेये वक्तव्यता
वरुणस्य वै सुषुवाणस्य भर्गोऽपाक्रामत्स त्रेधापतद्भृगुस्तृतीयं अभवच्छ्रायन्तीयं तृतीयं अपस्तृतीयं प्राविशत्
- १८.९.२
यद्भार्गवो होता भवति तेनैव तदिन्द्रियं वीर्यं आप्त्वावरुन्धे यत्श्रायन्तीयं ब्रह्मसाम भवति तेनैव तदिन्द्रियं वीर्यं आप्त्वारुन्धे यत्पुष्करस्रजं प्रतिमुञ्चते तेनैव तदिन्द्रियं वीर्यं आप्त्वावरुन्धे
- १८.९.३
दशमी भवति
- १८.९.४
दश चमसा दश चमसाध्वर्यवो दश दश चमसं अभियन्त्या दशमात्पुरुषादन्वाख्याय प्रसर्पन्ति दश समृद्धो ह्येष यज्ञ एनं वाव ते तद्यज्ञं अन्वैच्छन्य एतेन यजत एतदेवेन्द्रियं वीर्यं आत्त्वास्मिन्दधाति
- १८.९.५
सर्वः सप्तदशो भवति द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरादेवेन्द्रियं वीर्यं आप्त्वावरुन्धे
- १८.९.६
इन्द्रो वृत्रं अहंस्तस्येयं चित्राण्युपैद्रूपाण्यसौ नक्षत्राणां अवकाशेन पुण्डरीकं जायते यत्पुष्करस्रजं प्रतिमुञ्चते वृत्रस्यैव तद्रूपं क्षत्रं प्रतिमुञ्चते
- १८.९.७
द्वादश पुष्करा भवन्ति द्वादश मासाः संवत्सरः संवत्सरेऽन्तर्भूतं च भव्यं च भूतेन चैवैनं भव्येन च समर्धयति
- १८.९.८
स्रगुद्गातुस्सौर्य उद्गाता न वै तस्मै व्यौच्छदथो व्येवास्मै वासयति
- १८.९.९
रुक्मो होतुराग्नेयो होताथो अमुं एवास्मा आदित्यं उन्नयति
- १८.९.१०
प्राकाशावध्वर्योर्याविव ह्यध्वर्यू अथो चक्षुषी एवास्मिन्दधाति
- १८.९.११
अश्वः प्रस्तोतुः प्राजापत्योऽश्वः प्राजापत्यः प्रस्तोताथो प्रेव ह्यश्वः प्रोथति प्रेव प्रस्तोता स्तौति
- १८.९.१२
धेनुः प्रतिहर्तुः पय एवास्मिन्दधाति
- १८.९.१३
वशा मैत्रावरुणस्य वशं मा नयादिति
- १८.९.१४
ऋषभो ब्राह्मणाच्छंसिनो वीर्यं वा ऋषभो वीर्यं एवास्मिन्दधाति
- १८.९.१५
वासः पोतुः पवित्रत्वाय
- १८.९.१६
वरासी नेष्टुरनुलम्बेव ह्येषा होत्रा
- १८.९.१७
स्थूरि यवाचितं अच्छावाकस्य स्थूरिरिव ह्येषा होत्राथो निर्वरुणत्वायैव यवा न वै तर्हि यदस्यां दक्षिणा अभ्यभवन्नथो अस्य त एव तेनाभीष्टाः प्रीता भवन्ति
- १८.९.१८
अनड्वानग्नीधो युक्त्यै
- १८.९.१९
अजः सुब्रह्मण्यायै
- १८.९.२०
वत्सतर्युन्नेतुः साण्डस्त्रिवत्सो ग्रावस्तुतो मिथुनत्वाय
- १८.९.२१
द्वादश पष्ठौह्यो गर्भिण्यो ब्रह्मणो द्वादश मासाः संवत्सरः संवत्सर एव प्रतितिष्ठत्यथ यद्गर्भिण्यो वाग्वै धेनुर्मन्त्रो गर्भो वाच्येवास्य मन्त्रं दधात्यामन्त्रणीयो भवत्यथ यद्धेनुभव्या द्वादश पयांसि तान्येवास्मिन्दधाति तस्मादाहुः पयस्वी राजा पुण्य इति
- १८.१०.१ केशवपनीयादिधर्म्मः
यो वै सवादेति नैनं सव उपनमत्यथ यः सामभ्य एति पापीयान्सुषुवाणो भवति
- १८.१०.२
संभार्या भवन्ति पृष्ठान्येव ताभिर्युनक्ति
- १८.१०.३
एतानि वाव सामानि यत्पृष्ठानि
- १८.१०.४
यत्संभार्या भवन्ति तदेव सामभ्यो नैति
- १८.१०.५
यानि देवराज्ञां सामानि तैरमुष्मिन्लोक ऋध्नोति यानि मनुष्यराज्ञां तैरस्मिन्नुभयोरनयोर्लोकयोरृध्नोति देवलोके च मनुष्यलोके च
- १८.१०.६
सामत्रिष्टुभ्यध्यभिषिच्यते वीर्यं वै साम त्रिष्टुप्वीर्य एवाध्यभिषिच्यते
- १८.१०.७
एकादश राजसामानि भवन्त्येकादशाक्षरा त्रिष्टुबोजो वीर्यं त्रिष्टुबोजस्येव वीर्येऽध्यभिषिच्यते
- १८.१०.८
यत्त्रिवृतं अभिषेचनीये कुर्युर्ब्रह्म क्षत्रायापिदध्युर्यत्त्रिवृतं उद्धरन्ति ब्रह्म तत्क्षत्रादुद्धरन्ति तस्माद्भरतां प्रतिदण्डा ब्रह्मणा न हि ते त्रिवृतं अभिषेचनीये कुर्वन्ति
- १८.१०.९
एकविंशोऽभिषेचनीयस्योत्तमः सप्तदशो दशपेय एकविंशः केशवपनीयस्य प्रथमः क्षत्रं वा एकविंशो विट्सप्तदशः क्षत्रेणैवास्मै विशं उभयतः परिगृह्णात्यनपक्रामुकास्माद्विट्भवति
- १८.१०.१०
यद्वै राजसूयेनाभिषिच्यते तत्स्वर्गं लोकं आरोहति स यदिमं लोकं नोपावरोहेदति जनं वा गच्छेदुद्वा माद्येद्यदेषोऽर्वाचीनस्तोमः केशवपनीयो भवत्यस्य लोकस्यानुद्धानाय यथा शाखायाः शाखां आलम्भं उपावरोहेदेवं एतेनेमं लोकं उपावरोहति प्रतिष्ठायै
- १८.११.१ श्रायन्तीयंसामस्तुतिः
इन्द्रो वृत्रं अहन्स विष्यङ्वीर्येण व्यभ्रंशत स एतच्छ्रायन्तीयं अपश्यत्तेनात्मानं समश्रीणादिन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति यच्छ्रायन्तीयं ब्रह्मसाम भवति पुनरेवात्मानं संश्रीणाति
- १८.११.२
यज्ञायज्ञीयं अनुष्टुभि भवति वाचा वा एष व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति वागनुष्टुब्वाचो रसो यज्ञायज्ञीयं वाच्येवास्य रसं दधाति
- १८.११.३
वारवन्तीयं अग्निष्टोमसाम भवतीन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति यद्वारवन्तीयं अग्निष्टोमसाम भवतीन्द्रियस्य वीर्यस्य परिगृहीत्यै
- १८.११.४
अश्रयन्वाव श्रायन्तीयेनावारयन्त वारवन्तीयेनेन्द्रियस्य वा एषा वीर्यस्य परिगृहीतिः
- १८.११.५
अप्रतिष्ठितो वा एष यो राजसूयेनाभिषिच्यते यदा वा एतेन द्विरात्रेण यजतेऽथैव प्रतिष्ठा
- १८.११.६
यावन्ति संवत्सरस्याहोरात्राणि तावत्य एताः स्तोत्रीयाः संवत्सर एव प्रतितिष्ठति
- १८.११.७
अग्निष्टोमः पूर्वं अहरतिरात्र उत्तरं नानैवाहोरात्रयोः प्रतितिष्ठति
- १८.११.८
अमावास्यायां पूर्वं अहरुद्रिष्ट [एम्. Cअलन्दः उद्दृष्ट] उत्तरं नानैवार्धमासयोः प्रतितिष्ठति पौर्णमास्यां पूर्वं अहर्व्यष्टकायां उत्तरं नानैव मासोः प्रतितिष्ठति तदाहुर्य एव समानपक्षे पुण्याहनी स्यातां तयोरेव कार्यं समृध्यै
- १८.११.९
अपशव्यो द्विरात्र इत्याहुर्द्वे ह्येते छन्दसी गायत्रं च त्रैष्टुभं च जगतीं अन्तर्यन्तीति न तेन जगती कृता यत्तृतीयसवने क्रियते
- १८.११.१०
यदा वा एषाहीनस्याहर्भजते साह्वस्य वा सवनं अथैव जगती कृता त्रैशोकं उत्तरस्याह्नो ब्रह्मसाम भवति वैखानसं अच्छावाकसाम यच्छुक्रिये सवने क्रियेते तेनैव जगती कृता तेन पशव्यः
- १८.११.११
व्युष्टिर्वा एष द्विरात्रो व्येवास्मै वासयति