ऋग्वेदः सूक्तं ८.३
← सूक्तं ८.२ | ऋग्वेदः - मण्डल ८ सूक्तं ८.३ मेध्यातिथिः काण्वः। |
सूक्तं ८.४ → |
दे. इन्द्रः, २१-२४ कौरयाणः पाकस्थामा। प्रगाथः ( ), २१ अनुष्टुप् , २२-२३ गायत्री, २४ बृहती। |
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
आपिर्नो बोधि सधमाद्यो वृधेऽस्माँ अवन्तु ते धियः ॥१॥
भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये ।
अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥२॥
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥३॥
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥४॥
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।
इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥५॥
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।
इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥६॥
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥७॥
अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।
अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥८॥
तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।
येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥९॥
येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।
सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥१०॥
शग्धी न इन्द्र यत्त्वा रयिं यामि सुवीर्यम् ।
शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥११॥
शग्धी नो अस्य यद्ध पौरमाविथ धिय इन्द्र सिषासतः ।
शग्धि यथा रुशमं श्यावकं कृपमिन्द्र प्रावः स्वर्णरम् ॥१२॥
कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः ।
नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥१३॥
कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।
कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः ॥१४॥
उदु त्ये मधुमत्तमा गिर स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१५॥
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।
इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥१६॥
युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः ।
अर्वाचीनो मघवन्सोमपीतय उग्र ऋष्वेभिरा गहि ॥१७॥
इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये ।
स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥१८॥
निरिन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः ।
निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥१९॥
निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः ।
निरन्तरिक्षादधमो महामहिं कृषे तदिन्द्र पौंस्यम् ॥२०॥
यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः ।
विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानम् ॥२१॥
रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम् ।
अदाद्रायो विबोधनम् ॥२२॥
यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः ।
अस्तं वयो न तुग्र्यम् ॥२३॥
आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् ।
तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम् ॥२४॥
सायणभाष्यम्
‘पिबा सुतस्य' इति चतुर्विंशत्यृचं तृतीयं सूक्तं काण्वस्य मेध्यातिथेरार्षम्। अयुजो बृहत्यो युजः सतोबृहत्यः एकविंश्यनुष्टुब्द्वाविंशीत्रयोविंश्यौ गायत्र्यौ चतुर्विंशी बृहती । एताश्चतस्रः कुरयाणस्य पुत्रस्य पाकस्थामनाम्नो राज्ञो दानस्तुतिप्रतिपादिकाः । अतस्तदेवताकाः । शिष्टा ऐन्द्र्यः । तथा चानुक्रान्तं -- पिब चतुर्विंशतिर्मेध्यातिथिः प्रागाथं त्वनुष्टुब्गायत्र्यौ बृहती चान्त्याः कौरयाणस्य पाकस्थाम्नो दानस्तुतिः' इति । महाव्रते निकेवल्ये बार्हततृचाशीतौ दानस्तुतीर्विनेदं सूक्तं सप्तम्यष्टम्योश्चोद्धारः । तथैव पञ्चमारण्यके सूत्रितं---‘पिबा सुतस्य रसिन इति विंशतेः सप्तमीं चाष्टमीं चोद्धरति (ऐ. आ. ५, २. ४) इति । ज्योतिष्टोमे निष्केवल्ये आद्यो रथन्तरसामप्रगाथः शंसनीयः । सूत्र्यते हि----’ पिबा सुतस्य रसिन इति सामप्रगाथः' (आश्व. श्रौ. ५. १५) इति । चातुर्विंशिकेऽहनि निष्केवल्येऽप्ययं प्रगाथः । सूत्र्यते हि उक्तो रथन्तरस्योभयं शृणवच्च न इति बृहतः' ( आश्व. श्रौ. ७. ३ ) इति । एवमन्यत्रापि यदि रथन्तरं पृष्ठं भवति तत्र सर्वत्रायं प्रगाथो द्रष्टव्यः । पञ्चमेऽहनि प्रउगशस्त्रे ‘पिबा सुतस्थ' इत्ययमैन्द्रः प्रगाथः । सूत्रितं च -- पिबा सुतस्य रसिनो देवंदेवं वोऽवसे' ( आश्व. श्रौ. ७. १२) इति ॥
पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इन्द्र॒ गोम॑तः ।
आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वन्तु ते॒ धिय॑ः ॥१
पिब॑ । सु॒तस्य॑ । र॒सिनः॑ । मत्स्व॑ । नः॒ । इ॒न्द्र॒ । गोऽम॑तः ।
आ॒पिः । नः॒ । बो॒धि॒ । स॒ध॒ऽमाद्यः॑ । वृ॒धे । अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । धियः॑ ॥१
पिब । सुतस्य । रसिनः । मत्स्व । नः । इन्द्र । गोऽमतः ।
आपिः । नः । बोधि । सधऽमाद्यः । वृधे । अस्मान् । अवन्तु । ते । धियः ॥१
हे “इन्द्र “रसिनः रसवतः “गोमतः गोविकारैः पयःप्रभृतिभिः श्रयणद्रव्यैर्युक्तस्य “नः अस्मदीयस्य “सुतस्य अभिषुतस्य । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । ईदृशं सोमं “पिब । पीत्वा च “मत्स्व तृप्तो भव । अपि च “सधमाद्यः सह मादयितव्यः सहितैरस्माभिस्तर्पयितव्यस्त्वम् “आपिः आपयिता बन्धुः सन् “नः अस्माकं “वृधे वर्धनाय “बोधि बुध्यस्व । “ते त्वदीयाः “धियः बुद्धयोऽनुग्रहात्मिकाः “अस्मान् स्तोतॄन् "अवन्तु रक्षन्तु ॥
भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा न॑ः स्तर॒भिमा॑तये ।
अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा न॑ः सु॒म्नेषु॑ यामय ॥२
भू॒याम॑ । ते॒ । सु॒ऽम॒तौ । वा॒जिनः॑ । व॒यम् । मा । नः॒ । स्तः॒ । अ॒भिऽमा॑तये ।
अ॒स्मान् । चि॒त्राभिः॑ । अ॒व॒ता॒त् । अ॒भिष्टि॑ऽभिः । आ । नः॒ । सु॒म्नेषु॑ । य॒म॒य॒ ॥२
भूयाम । ते । सुऽमतौ । वाजिनः । वयम् । मा । नः । स्तः । अभिऽमातये ।
अस्मान् । चित्राभिः । अवतात् । अभिष्टिऽभिः । आ । नः । सुम्नेषु । यमय ॥२
हे इन्द्र “ते तव “सुमतौ शोभनायां मतावनुग्रहबुद्धौ “वाजिनः हविष्मन्तः “वयं “भूयाम वर्तमाना भवाम । “अभिमातये । अभिमन्यत इत्यभिमातिः शत्रुः । तस्मै तदर्थं “नः अस्मान् "मा “स्तः मा हिंसीः । ‘स्तृङ् हिंसायाम् । माङि लुङि छान्दसश्लेनःर्लुक् । अपि तु “अभिष्टिभिः अभ्येषणी याभिः प्रार्थनीयाभिः “चित्राभिः चायनीयाभिर्बहुविधाभिर्वा त्वदीयाभिरूतिभिः “अस्मान् “अवतात् अव रक्ष । तथा “नः अस्मान् “सुम्नेषु सुखेषु “आ "यामय आयतान् कुरु। सर्वदा सुखिन एवं कुरु ॥
इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑ ।
पा॒व॒कव॑र्णा॒ः शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥३
इ॒माः । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । गिरः॑ । व॒र्ध॒न्तु॒ । याः । मम॑ ।
पा॒व॒कऽव॑र्णाः । शुच॑यः । वि॒पः॒ऽचितः॑ । अ॒भि । स्तोमैः॑ । अ॒नू॒ष॒त॒ ॥३
इमाः । ऊं इति । त्वा । पुरुवसो इति पुरुऽवसो । गिरः । वर्धन्तु । याः । मम ।
पावकऽवर्णाः । शुचयः । विपःऽचितः । अभि । स्तोमैः । अनूषत ॥३
हे “पुरूवसो बहुधनेन्द्र "मम मदीयाः “इमाः “गिरः शस्त्ररूपा वाचः “त्वा त्वां “वर्धन्तु वर्धयन्तु । तथा "पावकवर्णाः अग्निसमानतेजस्काः अत एव “शुचयः शुद्धाः “विपश्चितः विद्वांस उद्गातारश्च “स्तोमैः स्तोत्रैर्बहिष्पवमानादिभिः “अभि "अनूषत त्वामभिष्टुवन्ति । नू स्तुतौ ' । कुटादिः ॥
अ॒यं स॒हस्र॒मृषि॑भि॒ः सह॑स्कृतः समु॒द्र इ॑व पप्रथे ।
स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥४
अ॒यम् । स॒हस्र॑म् । ऋषि॑ऽभिः । सहः॑ऽकृतः । स॒मु॒द्रःऽइ॑व । प॒प्र॒थे॒ ।
स॒त्यः । सः । अ॒स्य॒ । म॒हि॒मा । गृ॒णे॒ । शवः॑ । य॒ज्ञेषु॑ । वि॒प्र॒ऽराज्ये॑ ॥४
अयम् । सहस्रम् । ऋषिऽभिः । सहःऽकृतः । समुद्रःऽइव । पप्रथे ।
सत्यः । सः । अस्य । महिमा । गृणे । शवः । यज्ञेषु । विप्रऽराज्ये ॥४
“अयम् इन्द्रः “सहस्रं सहस्रसंख्याकैः “ऋषिभिः अतीन्द्रियार्थदर्शिभिः स्तोतृभिः “सहस्कृतः सहसा बलेन युक्तः कृतः । स्तुत्या हि देवताया बलं वर्धते । स चैवंभूतः सन् “समुद्रइव उदधिरिव “पप्रथे प्रथितो विस्तीर्णो बभूव । “अस्य चेन्द्रस्य “सत्यः अवितथः “सः प्रसिद्धः “महिमा महत्त्वं “शवः बलं च “यज्ञेषु यागेषु “विप्रराज्ये । राज्ञः कर्म राज्यम् । विप्राणां स्तोतॄणां राज्ये स्तुतशस्त्रसंघे “गृणे स्तूयते ॥
चातुर्विंशिकेऽहनि निष्केवल्ये ‘इन्द्रमिद्देवतातये' इति रैवतसामप्रगाथः शंसनीयः पृष्ठ्येऽहनि निष्केवल्ये त्वयं प्रगाथः । सूत्र्यते हि— इन्द्रमिद्देवतातय इतीतरेषां पृष्ठ्य एवैकैकमन्वहम्' ( आश्व. श्रौ. ७. ३ ) इति ॥
इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे ।
इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥५
इन्द्र॑म् । इत् । दे॒वऽता॑तये । इन्द्र॑म् । प्र॒ऽय॒ति । अ॒ध्व॒रे ।
इन्द्र॑म् । स॒म्ऽई॒के । व॒निनः॑ । ह॒वा॒म॒हे॒ । इन्द्र॑म् । धन॑स्य । सा॒तये॑ ॥५
इन्द्रम् । इत् । देवऽतातये । इन्द्रम् । प्रऽयति । अध्वरे ।
इन्द्रम् । सम्ऽईके । वनिनः । हवामहे । इन्द्रम् । धनस्य । सातये ॥५
“देवतातये । देवैः स्तोतृभिस्तायते विस्तार्यत इति देवतातिर्यज्ञः । तदर्थम् “इन्द्रमित् देवेषु मध्य इन्द्रमेव आह्वयामहे । “अध्वरे यज्ञे “प्रयति प्रगच्छत्युपक्रान्ते सति “इन्द्रं “हवामहे । तथा “समीके सम्यग्गते संपूर्णे च यागे “वनिनः संभजमाना वयम् “इन्द्रम् एवाह्वयामहे । यद्वा । समीकमिति संग्रामनाम । समीके संग्राम इन्द्रमाह्वयामहे । “धनस्य "सातये लाभाय “इन्द्रम् एवाह्वयामहे । अतः शीघ्रमिन्द्र आगच्छत्वित्यर्थः ॥ ॥ २५ ॥
इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्र॒ः सूर्य॑मरोचयत् ।
इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः ॥६
इन्द्रः॑ । म॒ह्ना । रोद॑सी॒ इति॑ । प॒प्र॒थ॒त् । शवः॑ । इन्द्रः॑ । सूर्य॑म् । अ॒रो॒च॒य॒त् ।
इन्द्रे॑ । ह॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ । इन्द्रे॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥६
इन्द्रः । मह्ना । रोदसी इति । पप्रथत् । शवः । इन्द्रः । सूर्यम् । अरोचयत् ।
इन्द्रे । ह । विश्वा । भुवनानि । येमिरे । इन्द्रे । सुवानासः । इन्दवः ॥६
अयम् “इन्द्रः “शवः शवस आत्मीयस्य बलस्य “मह्ना महिम्ना महत्त्वेन “रोदसी द्यावापृथिव्यौ "पप्रथत् अप्रथयत् विस्तारितवान् । तथा स्वर्भानुनावृतं "सूर्यम् अयमेव “इन्द्रः “अरोचयत् अदीपयत्। तस्यासुरस्य वधेन प्रकाशितवान् । अपि च "इन्द्रे “ह अस्मिन्नेवेन्द्रे “विश्वा विश्वानि व्याप्तानि “भुवनानि भूतजातानि “येमिरे उपरमन्ते। इन्द्रेण नियम्यन्त इत्यर्थः । तथा “सुवानासः सूयमाना अभिषूयमाणाः “इन्दवः सोमाश्च अस्मिन्नेव “इन्द्रे नियम्यन्ते अन्तर्भवन्तीत्यर्थः ॥
ज्योतिष्टोमो यदि रथन्तरपृष्ठस्तदा निष्केवल्ये 'अभि त्वा पूर्वपीतये' इति प्रगाथोऽनुरूपः । सूत्र्यते हि-- अभि त्वा पूर्वपीतय इति प्रगाथौ स्तोत्रियानुरूपौ' (आश्व. श्रौ. ५. १५) इति । महाव्रतेऽपि निष्केवल्ये दक्षिणपक्षेऽप्ययं प्रगाथः । सूत्रितं च-- अभि त्वा पूर्वपीतय इति रथन्तरस्य स्तोत्रियानुरूपौ प्रगाथौ' (ऐ. आ. ५. २. २) इति ॥
अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यव॑ः ।
स॒मी॒ची॒नास॑ ऋ॒भव॒ः सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म् ॥७
अ॒भि । त्वा॒ । पू॒र्वऽपी॑तये । इन्द्र॑ । स्तोमे॑भिः । आ॒यवः॑ ।
स॒म्ऽई॒ची॒नासः॑ । ऋ॒भवः॑ । सम् । अ॒स्व॒र॒न् । रु॒द्राः । गृ॒ण॒न्त॒ । पूर्व्य॑म् ॥७
अभि । त्वा । पूर्वऽपीतये । इन्द्र । स्तोमेभिः । आयवः ।
सम्ऽईचीनासः । ऋभवः । सम् । अस्वरन् । रुद्राः । गृणन्त । पूर्व्यम् ॥७
हे "इन्द्र “आयवः मनुष्याः स्तोतारः “स्तोमेभिः स्तोत्रैस्त्वामभिष्टुवन्ति । किमर्थम् । “पूर्वपीतये सर्वेभ्यो देवेभ्यः पूर्वं प्रथमत एव सोमस्य पानाय । सवनमुखे हि चमसगणैरिन्द्रस्यैव सोमो हूयते । तथा "समीचीनासः संगताः “ऋभवः । प्रथमवाचकेन शब्देन त्रयोऽप्युपलक्ष्यन्ते । ऋभुर्विभ्वा वाज इत्येते च “समस्वरन् त्वामेव सम्यगस्तुवन् । 'स्वृ शब्दोपतापयोः'। “रुद्राः रुद्रपुत्रा मरुतश्च “पूर्व्यं पुरातनं वृद्धं त्वामेव “गृणन्त अभ्यस्तुवन् । वृत्रवधसमये ‘प्रहर भगवो जहि वीरयस्व' इत्येवंरूपया वाचा त्वां स्तुतवन्त इत्यर्थः ॥
अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि ।
अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥८
अ॒स्य । इत् । इन्द्रः॑ । व॒वृ॒धे॒ । वृष्ण्य॑म् । शवः॑ । मदे॑ । सु॒तस्य॑ । विष्ण॑वि ।
अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यवः॑ । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥८
अस्य । इत् । इन्द्रः । ववृधे । वृष्ण्यम् । शवः । मदे । सुतस्य । विष्णवि ।
अद्य । तम् । अस्य । महिमानम् । आयवः । अनु । स्तुवन्ति । पूर्वऽथा ॥८
“अस्येत् अस्यैव यजमानस्य “वृष्ण्यं वृषत्वं वीर्यं "शवः बलं च “इन्द्रः “वावृधे वर्धयति । “सुतस्य अभिषुतस्य सोमस्य पानेन “विष्णवि कृत्स्नदेहस्य व्यापके “मदे हर्षे सति तस्यैव यजमानस्य बलं वर्धयतीत्यर्थः। अद्य अस्मिन् काले “अस्य इन्द्रस्य “तम् उक्तगुणं "महिमानं महत्व्नम् "आयवः मनुष्याः “अनु “ष्टुवन्ति । आनुपूर्व्येण स्तुवन्ति । "पूर्वथा । पूर्वशब्दादिवार्थे ' प्रत्नपूर्व' इत्यादिना थाल्प्रत्ययः । यथा पूर्वस्मिन् कालेऽस्तुवन् एवमिदानीमपि तेनैव क्रमेण स्तुवन्तीत्यर्थः ॥
ज्योतिष्टोमे माध्यंदिनसवने ब्रह्मशस्त्रे ' तत्त्वा यामि' इति प्रगाथोऽनुरूपः । सूत्रितं च -- तत्त्वा यामि सुवीर्यमिति प्रगाथौ स्तोत्रियानुरूपौ' (आश्व. श्रौ. ५. १६ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवनेऽप्ययं प्रगाथस्तस्यैवानुरूपः। सूत्रितं च -- तत्त्वा यामि सुवीर्यमभि प्र वः सुराधसम्' (आश्व. श्रौ. ७. ४) इति ॥
तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये ।
येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥९
तत् । त्वा॒ । या॒मि॒ । सु॒ऽवीर्य॑म् । तत् । ब्रह्म॑ । पू॒र्वऽचि॑त्तये ।
येन॑ । यति॑ऽभ्यः । भृग॑वे । धने॑ । हि॒ते । येन॑ । प्रस्क॑ण्वम् । आवि॑थ ॥९
तत् । त्वा । यामि । सुऽवीर्यम् । तत् । ब्रह्म । पूर्वऽचित्तये ।
येन । यतिऽभ्यः । भृगवे । धने । हिते । येन । प्रस्कण्वम् । आविथ ॥९
हे “इन्द्र “तत् “सुवीर्यं शोभनवीर्यं “त्वा त्वां “यामि याचामि । छान्दसो वर्णलोपः । तथा “तत् “ब्रह्म परिवृढमन्नं "पूर्वचित्तये पूर्वप्रज्ञानायान्येभ्यः पूर्वमेव लाभाय त्वां याचामि । “धने “हिते अभीष्टे सति "येन सुवीर्येण “यतिभ्यः कर्मसूपरतेभ्योऽयष्टृभ्यो जनेभ्यः सकाशाद्धनमाहृत्य “भृगवे महर्षये प्रयच्छसि । यद्वा । कर्मसु नियता अङ्गिरसो यतयः । तेषामर्थं धनं प्रयच्छसि । तादर्थ्ये चतुर्थी। "येन च ब्रह्मणा "प्रस्कण्वं कण्वप्रभवं कण्वस्य पुत्रमृषिम् “आविथ ररक्षिथ। तदुभयं याचामीत्यन्वयः ॥
येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शव॑ः ।
स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥१०
येन॑ । स॒मु॒द्रम् । असृ॑जः । म॒हीः । अ॒पः । तत् । इ॒न्द्र॒ । वृष्णि॑ । ते॒ । शवः॑ ।
स॒द्यः । सः । अ॒स्य॒ । म॒हि॒मा । न । स॒म्ऽनशे॑ । यम् । क्षो॒णीः । अ॒नु॒ऽच॒क्र॒दे ॥१०
येन । समुद्रम् । असृजः । महीः । अपः । तत् । इन्द्र । वृष्णि । ते । शवः ।
सद्यः । सः । अस्य । महिमा । न । सम्ऽनशे । यम् । क्षोणीः । अनुऽचक्रदे ॥१०
हे “इन्द्र “येन आत्मीयेन बलेन “समुद्रम् अब्धिं प्रति “महीः महतीः "अपः उदकानि “असृजः व्यसृजः । महान् समुद्रो यावद्भिर्जलैः पूर्यते तावन्ति जलानि पुरा त्वं सृष्टवानित्यर्थः । “ते त्वदीयं “तत् “शवः बलं “वृष्णि[१] वर्षकम् । अभीष्टफलदमित्यर्थः । “अस्य इन्द्रस्य “सः "महिमा “न ”संनशे न सम्यगापनीयः । परैरप्रधृष्य इत्यर्थः। नशेः कृत्यार्थे केन्प्रत्ययः । “यं महिमानं “क्षोणीः क्षोणी पृथिवी “अनुचक्रदे अनुगच्छति । क्रदिरत्र गत्यर्थः । यदधीना वर्तत इत्यर्थः ॥ ॥२६॥
श॒ग्धी न॑ इन्द्र॒ यत्त्वा॑ र॒यिं यामि॑ सु॒वीर्य॑म् ।
श॒ग्धि वाजा॑य प्रथ॒मं सिषा॑सते श॒ग्धि स्तोमा॑य पूर्व्य ॥११
श॒ग्धि । नः॒ । इ॒न्द्र॒ । यत् । त्वा॒ । र॒यिम् । यामि॑ । सु॒ऽवीर्य॑म् ।
श॒ग्धि । वाजा॑य । प्र॒थ॒मम् । सिसा॑सते । श॒ग्धि । स्तोमा॑य । पू॒र्व्य॒ ॥११
शग्धि । नः । इन्द्र । यत् । त्वा । रयिम् । यामि । सुऽवीर्यम् ।
शग्धि । वाजाय । प्रथमम् । सिसासते । शग्धि । स्तोमाय । पूर्व्य ॥११
हे "इन्द्र सुवीर्यं शोभनवीर्योपेतम् । बहुव्रीहौ • वीरवीय च' इत्युत्तरपदाद्युदात्तत्वम् । “यत् “रयिं धनं त्वां “यामि याचामि । छान्दसो वर्णलोपः । “नः अस्मभ्यं तद्धनं “शग्धि देहि । शकिरत्र दानार्थः । तस्मात् लोटि हौ छान्दसो विकरणस्य लुक् । ‘हुझल्भ्यः' इति हेर्धित्वम् । तथा “सिषासते संभक्तुमिच्छते । सनतेः सनि ‘सनीवन्तर्ध' इति विकल्पनादिडभावे ‘जनसनखनाम्' इत्यात्वम् । “वाजाय। वाज इत्यन्ननाम । तेन च तद्वाँलक्ष्यते । हविष्मते यजमानाय “प्रथमं सर्वेभ्यः पूर्वमेव “शग्धि धनं प्रयच्छ । यद्वा वाजायेति द्वितीयार्थे चतुर्थी । कर्मभिस्त्वां संभक्तुमिच्छते जनाय प्रथमं वाजाय वाजमन्नं शग्धि देहि । पश्चात् “स्तोमाय स्तोत्रे हे "पूर्व्य पूर्वस्मिन् काले भव चिरंतनेन्द्र "शग्धि देहि । स्तौतेः कर्तरि • अर्तिस्तुसु ' इत्यादिना मन्प्रत्ययः ॥
श॒ग्धी नो॑ अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इन्द्र॒ सिषा॑सतः ।
श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिन्द्र॒ प्राव॒ः स्व॑र्णरम् ॥१२
श॒ग्धि । नः॒ । अ॒स्य । यत् । ह॒ । पौ॒रम् । आवि॑थ । धियः॑ । इ॒न्द्र॒ । सिसा॑सतः ।
श॒ग्धि । यथा॑ । रुश॑मम् । श्याव॑कम् । कृप॑म् । इन्द्र॑ । प्र । आवः॑ । स्वः॑ऽनरम् ॥१२
शग्धि । नः । अस्य । यत् । ह । पौरम् । आविथ । धियः । इन्द्र । सिसासतः ।
शग्धि । यथा । रुशमम् । श्यावकम् । कृपम् । इन्द्र । प्र । आवः । स्वःऽनरम् ॥१२
हे “इन्द्र “धियः कर्माणि स्तोत्राणि वा “सिषासतः संभक्तवतः “नः अस्माकं संबन्धिनः “अस्य यजमानस्य तद्धनं “शग्धि प्रदेहि “यद्ध येन खलु धनेन “पौरम् । पुरुर्नाम राजा । तस्य पुत्रम् “आविथ ररक्षिथ । अपि च हे “इन्द्र “रुशमं “श्यावकं “कृपं चैतन्नामकांस्त्रीन् राजर्षीन् “यथा येन प्रकारेण “प्रावः प्रारक्षः तथा “स्वर्णरं सर्वस्य हविषो नेतारं प्रापयितारम् । यद्वा । स्वः स्वर्गं प्रति नेतव्यमिमं यजमानं “शग्धि शक्तं कुरु। धनादिसंपत्त्या यागानुष्ठानाय यथा शक्तो भवति तथा कुर्वित्यर्थः । इन्द्र इत्यामन्त्रितस्य पादादित्वेनाष्टमिकनिघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ॥
चातुर्विशिकेऽहनि माध्यंदिनसवने ब्रह्मशस्त्रे ‘कन्नव्यः' इति कद्वत्प्रगाथः । सूत्रितं च -- ’ कन्नव्यो अतसीनां कदू न्वस्याकृतमिति कद्वन्तः प्रगाथाः ' ( आश्व. श्रौ. ७. ४ ) इति । अहर्गणेषु द्वितीयादिष्वहःसु तस्मिञ्छस्त्रे तस्यैवायं प्रगाथः । सूत्र्यते हि-’ आरम्भणीयाः पर्यासान् कद्वतोऽहरहःशस्यानीति होत्रका द्वितीयादिष्वेव' (आश्व. श्रौ. ७. १) इति ॥
कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्य॑ः ।
न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्व॑र्गृ॒णन्त॑ आन॒शुः ॥१३
कत् । नव्यः॑ । अ॒त॒सीना॑म् । तु॒रः । गृ॒णी॒त॒ । मर्त्यः॑ ।
न॒हि । नु । अ॒स्य॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । स्वः॑ । गृ॒णन्तः॑ । आ॒न॒शुः ॥१३
कत् । नव्यः । अतसीनाम् । तुरः । गृणीत । मर्त्यः ।
नहि । नु । अस्य । महिमानम् । इन्द्रियम् । स्वः । गृणन्तः । आनशुः ॥१३
“अतसीनाम् अतन्तीनां सततगामिनीनां स्तुतीनां “तुरः प्रेरयिता “मर्त्यः मरणधर्मा "नव्यः अभिनव इदानींतनः “कत् को नाम स्तोता “गृणीत इन्द्रं स्तुयात् । अल्पप्रज्ञैरिदानींतनैरिन्द्रः स्तोतुं न शक्यत इत्यर्थः । ‘गॄ शब्दे'। क्रैयादिकः । प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । “नु पुरा पूर्वस्मिन्नपि काले विद्यमानाः “स्वः सर्वे “गृणन्तः स्तोतारः। यद्वा । स्वः सुष्ठ्वरणीयं प्राप्तव्यमिन्द्रं गृणन्तः स्तुवन्तो जनाः । “इन्द्रियम् । इन्द्रियमिन्द्रस्य लिङ्गमिन्द्रस्यैवासाधारणम् । “अस्य इन्द्रस्य “महिमानं महत्त्वं “नहि “आनशुः न खलु प्राप्नुवन् । अश्नोतेर्लिटि व्यत्ययेन परस्मैपदम् । अत आदेः ' इत्यभ्यासस्यात्वम्। 'अश्नोतेश्च' इति नुट् । ' हि च' इति निघातप्रतिषेधः ॥
कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषि॒ः को विप्र॑ ओहते ।
क॒दा हवं॑ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ॥१४
कत् । ऊं॒ इति॑ । स्तु॒वन्तः॑ । ऋ॒त॒ऽय॒न्त॒ । दे॒वता॑ । ऋषिः॑ । कः । विप्रः॑ । ओ॒ह॒ते॒ ।
क॒दा । हव॑म् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । सु॒न्व॒तः । कत् । ऊं॒ इति॑ । स्तु॒व॒तः । आ । ग॒मः॒ ॥१४
कत् । ऊं इति । स्तुवन्तः । ऋतऽयन्त । देवता । ऋषिः । कः । विप्रः । ओहते ।
कदा । हवम् । मघऽवन् । इन्द्र । सुन्वतः । कत् । ऊं इति । स्तुवतः । आ । गमः ॥१४
हे इन्द्र “स्तुवन्तः स्तोत्रं कुर्वन्तः “कदु के खलु जनाः “देवता । ‘देवात्तल्' इति स्वार्थिकस्तल्प्रत्ययः । व्यत्ययेन प्रथमा । देवं त्वामुद्दिश्य “ऋतयन्त ऋतं यज्ञमैच्छन् । त्वदीययागेच्छापि दुर्लभा दूरे त्वद्यागकथा । “ऋषिः द्रष्टा “विप्रः मेधावी “कः स्तोता “ओहते वहति । त्वां स्तुतीः प्रापयति । न कश्चिदपि त्वां स्तोतुं शक्नोतीत्यर्थः । यत एवमतः कारणात् हे "मघवन् धनवन् “इन्द्र अनुग्रहीत्रा त्वयैवागन्तव्यम् । स त्वं “कदा कस्मिन् काले “सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य हवम् आह्वानं प्रति “आ “गमः आगच्छः । “कदु कदा च कस्मिंश्च काले “स्तुवतः केवलं स्तोत्रं कुर्वतो यजमानस्य हवमाह्वानमा गमः अभ्यगच्छः। सुन्वतः स्तुवतः इत्युभयत्र ‘शतुरनुमः । इति विभक्तेरुदात्तत्वम् । गमेर्लुङि लुदित्त्वात् च्लेरङादेशः ॥
ज्योतिष्टोमे माध्यंदिनसवने ब्रह्मशस्त्रे ‘उदु त्ये' इति प्रगाथोऽनुरूपानन्तरं शंसनीयः । सूत्रितं च - उदु त्ये मधुमत्तमा इन्द्रः पूर्भित्' (आश्व. श्रौ. ५. १६) इति । चातुर्विंशिके माध्यंदिनसवने तस्मिन्नेव शस्त्रेऽयं प्रगाथो वैकल्पिकोऽनुरूपः । सूत्रितं च-- उदु त्ये मधुमत्तमास्त्वमिन्द्र प्रतूर्तिषु' (आश्व. श्रौ. ७. ४) इति ॥
उदु॒ त्ये मधु॑मत्तमा॒ गिर॒ः स्तोमा॑स ईरते ।
स॒त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥१५
उत् । ऊं॒ इति॑ । त्ये । मधु॑मत्ऽतमाः । गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ।
स॒त्रा॒ऽजितः॑ । ध॒न॒ऽसाः । अक्षि॑तऽऊतयः । वा॒ज॒ऽयन्तः॑ । रथाः॑ऽइव ॥१५
उत् । ऊं इति । त्ये । मधुमत्ऽतमाः । गिरः । स्तोमासः । ईरते ।
सत्राऽजितः । धनऽसाः । अक्षितऽऊतयः । वाजऽयन्तः । रथाःऽइव ॥१५
“त्ये ते प्रसिद्धाः “मधुमत्तमाः अतिशयेन मधुराः “गिरः अप्रगीताः शस्त्ररूपा वाचः “स्तोमासः प्रगीतानि बहिष्पवमानादीनि स्तोत्राणि च "उत् “ईरते । हे इन्द्र त्वामुद्दिश्य उद्गच्छन्ति । ऊर्ध्वं प्रसरन्ति । ‘ईर गतौ' । आदादिकः । तत्र दृष्टान्तः । “सत्राजितः सहैव शत्रून् जयन्तः अत एव “धनसाः धनानि संभजन्तः । वन षण संभक्तौ । ‘जनसनखनक्रमगमो विट् । ‘विड्वनोरनुनासिकस्यात्' इत्यात्वम् । अक्षितोतयः । अक्षिताः क्षयरहिता ऊतयो रक्षा येषां ते तथोक्ताः । क्षियो भावे निष्ठा । ‘ निष्ठायामण्यदर्थे ' इति पर्युदासाद्दीर्घाभावः । अत एव ‘क्षियो दीर्घात्' इति निष्ठानत्वाभावश्च । “वाजयन्तः वाजमन्नमिच्छन्तः । क्यचि न च्छन्दस्यपुत्रस्य ' इतीत्वदीर्घयोः प्रतिषेधः। एवंगुणविशिष्टाः “रथाइव । ते यथा विविधमितस्तत उत्तिष्ठन्ति तद्वदुदीरत इत्यर्थः॥ ॥२७॥
कण्वा॑ इव॒ भृग॑व॒ः सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः ।
इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यव॑ः प्रि॒यमे॑धासो अस्वरन् ॥१६
कण्वाः॑ऽइव । भृग॑वः । सूर्याः॑ऽइव । विश्व॑म् । इत् । धी॒तम् । आ॒न॒शुः॒ ।
इन्द्र॑म् । स्तोमे॑भिः । म॒हय॑न्तः । आ॒यवः॑ । प्रि॒यऽमे॑धासः । अ॒स्व॒र॒न् ॥१६
कण्वाःऽइव । भृगवः । सूर्याःऽइव । विश्वम् । इत् । धीतम् । आनशुः ।
इन्द्रम् । स्तोमेभिः । महयन्तः । आयवः । प्रियऽमेधासः । अस्वरन् ॥१६
"कण्वाइव कण्वगोत्रोत्पन्ना ऋषय इव स्तुवन्तः “भृगवः भृगुगोत्रोत्पन्ना ऋषयः “धीतम् आध्यातं "विश्वमित् व्याप्तं तमेवेन्द्रम् “आनशुः व्यापुः । “सूर्याइव । यथा सूर्यरश्मयः सर्वं जगद्व्याप्नुवन्ति तद्वत् । अपि च "प्रियमेधासः प्रियप्रज्ञा एतत्संज्ञा वा “आयवः मनुष्यास्तमेव “इन्द्रं "महयन्तः पूजयन्तः “स्तोमेभिः स्तोत्रैः "अस्वरन् अस्तुवन् ।' स्वृ शब्दोपतापयोः '। भौवादिकः ॥
यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी॑ इन्द्र परा॒वत॑ः ।
अ॒र्वा॒ची॒नो म॑घव॒न्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ॥१७
यु॒क्ष्व । हि । वृ॒त्र॒ह॒न्ऽत॒म॒ । हरी॒ इति॑ । इ॒न्द्र॒ । प॒रा॒ऽवतः॑ ।
अ॒र्वा॒ची॒नः । म॒घ॒ऽव॒न् । सोम॑ऽपीतये । उ॒ग्रः । ऋ॒ष्वेभिः॑ । आ । ग॒हि॒ ॥१७
युक्ष्व । हि । वृत्रहन्ऽतम । हरी इति । इन्द्र । पराऽवतः ।
अर्वाचीनः । मघऽवन् । सोमऽपीतये । उग्रः । ऋष्वेभिः । आ । गहि ॥१७
हे वृत्रहन्तम । वृत्रं हतवान् वृत्रहा। अतिशयेन हतवान् वृत्रहन्तमः । यथा पुनर्नोत्तिष्ठति तथा हतवानित्यर्थः । ‘अनो नुट्' इति तमपो नुट् । हे तादृश “इन्द्र “हरी त्वदीयावश्वौ “युक्ष्व । हिरवधारणे । आत्मीये रथे योजयैव । हे “मघवन् धनवन् “उग्रः उद्गूर्णस्त्वं “सोमपीतये सोमपानार्थम् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । “अर्वाचीनः अस्मदभिमुखः “ऋष्वेभिः ऋष्वैः दर्शनीयैर्मरुद्भिः सार्धं “परावतः । दूरनामैतत् । दूरे वर्तमानाद्युलोकात् "आ “गहि आगच्छ । गमेर्लोटः सेर्हिः । छान्दसः शपो लुक् ।' अनुदात्तोपदेश' इत्यनुनासिकलोपः । तस्य ' असिद्धवदत्रा भात् ' इत्यसिद्धत्वात् हेर्लुगभावः ।
इ॒मे हि ते॑ का॒रवो॑ वाव॒शुर्धि॒या विप्रा॑सो मे॒धसा॑तये ।
स त्वं नो॑ मघवन्निन्द्र गिर्वणो वे॒नो न शृ॑णुधी॒ हव॑म् ॥१८
इ॒मे । हि । ते॒ । का॒रवः॑ । वा॒व॒शुः । धि॒या । विप्रा॑सः । मे॒धऽसा॑तये ।
सः । त्वम् । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । वे॒नः । न । शृ॒णु॒धि॒ । हव॑म् ॥१८
इमे । हि । ते । कारवः । वावशुः । धिया । विप्रासः । मेधऽसातये ।
सः । त्वम् । नः । मघऽवन् । इन्द्र । गिर्वणः । वेनः । न । शृणुधि । हवम् ॥१८
“कारवः कर्मणां कर्तारः “विप्रासः मेधाविनः "इमे “हि इमे खलु यजमानाः “धिया स्तुत्या हे इन्द्र “ते त्वां “वावशुः पुनरस्तुवन् ।वाशृ शब्दे' इत्यस्माद्यङ्लुगन्ताद्रूपमेतत् । यद्वा वावशुः पुनःपुनरकामयन्त । वश कान्तौ । अस्माद्यङ्लुगन्ताल्लङि ‘सिजभ्यस्त' इति झेर्जुस् । बाहुलकोऽडभावः । लिटि वा तुजादित्वादभ्यासदीर्घत्वम् । ‘हि च' इति निघातप्रतिषेधः । किमर्थम् । “मेधसातये मेधस्य यागस्य संभजनार्थम् । सनतेः क्तिनि ‘जनसनखनाम् ' इत्यात्वम् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । हे “मघवन् धनवन् “गिर्वणः गीर्भिर्वननीय “नः अस्माकं “हवं स्तोत्रं सर्वपूर्वोक्तगुणस्त्वं “शृणुधि शृणु । बुध्यस्व । “वेनो “न । वेनतिः कान्तिकर्मा । यथा कान्तो जाताभिलाषः पुरुषः कामयितव्यमैकाग्र्येण शृणोति तद्वत् । ‘ श्रुशृणुपॄकृवृभ्यः' इति हेर्धित्वम् । अन्येषामपि ' इति सांहितिको दीर्घः ॥
निरि॑न्द्र बृह॒तीभ्यो॑ वृ॒त्रं धनु॑भ्यो अस्फुरः ।
निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ॑जः ॥१९
निः । इ॒न्द्र॒ । बृ॒ह॒तीभ्यः॑ । वृ॒त्रम् । धनु॑ऽभ्यः । अ॒स्फु॒रः॒ ।
निः । अर्बु॑दस्य । मृग॑यस्य । मा॒यिनः॑ । निः । पर्व॑तस्य । गाः । आ॒जः॒ ॥१९
निः । इन्द्र । बृहतीभ्यः । वृत्रम् । धनुऽभ्यः । अस्फुरः ।
निः । अर्बुदस्य । मृगयस्य । मायिनः । निः । पर्वतस्य । गाः । आजः ॥१९
हे “इन्द्र “वृत्रम् आवरकमसुरं "बृहतीभ्यः महद्भ्यः । लिङ्गव्यत्ययः । “धनुभ्यः धनुर्भ्यः कोदण्डेभ्यः । छान्दसो रेफलोपः। हेतौ पञ्चमी । महद्भिर्धनुर्भिहेतुभिः “निः “अस्फुरः । स्फुरतिर्वधकर्मा । निरवधीः । निःशेषेण हतवानसि । यद्वा । वृत्रमावरकं मेघं धनुभ्यः । धन्वन्ति गच्छन्तीति धनव आपः । महतीभ्योऽद्यः। । तादर्थ्ये चतुर्थी। ईदृशीनामपां लाभार्थं निरवधीः । अपि च “मायिनः मायाविनः “अर्बुदस्य एतत्संज्ञकस्यासुरस्य “मृगयस्य एतत्संज्ञकस्य च । उभयत्र कर्मणि षष्ठी। इमावप्यसुरौ “निः अस्फुरः निःशेषेणावधीः । मायाशब्दस्य व्रीह्यादिषु पाठात् ' व्रीह्यादिभ्यश्च ' इति मत्यर्थीयो विनिः । तथा “पर्वतस्य वलनाम्नासुरेण गवामदर्शनाय निहितस्य गिरेः संबन्धिनीः “गाः वलेनापहृताः “निः "आजः निरगमयः । अज गतिक्षेपणयोः' ।।
निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रस॑ः ।
निर॒न्तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥२०
निः । अ॒ग्नयः॑ । रु॒रु॒चुः॒ । निः । ऊं॒ इति॑ । सूर्यः॑ । निः । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ ।
निः । अ॒न्तरि॑क्षात् । अ॒ध॒मः॒ । म॒हाम् । अहि॑म् । कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥२०
निः । अग्नयः । रुरुचुः । निः । ऊं इति । सूर्यः । निः । सोमः । इन्द्रियः । रसः ।
निः । अन्तरिक्षात् । अधमः । महाम् । अहिम् । कृषे । तत् । इन्द्र । पौंस्यम् ॥२०
हे “इन्द्र "महां महान्तं कृत्स्नस्य जगतो व्यापकम् “अहिम् आहननशीलं वृत्रं यदा त्वम् “अन्तरिक्षात् आकाशात् “निः “अधमः निरगमयः । धमतिर्गतिकर्मा । “तत् तदानीं “पौंस्यं वृत्रहननहेतुभूतं बलं "कृषे कुरुषे पुरस्कुरुषे । करोतेश्छान्दसो विकरणस्य लुक् । “अग्नयः च त्रिस्थानगताः “निः “रुरुचुः निःशेषेण दिदीपिरे । “सूर्यः प्रेरक आदित्योऽपि निःशेषेण दिदीपे । “इन्द्रियः इन्द्रेण सेव्यः “रसः रसात्मकोऽमृतमयः “सोमः च निःशेषेण दिदीपे। अग्न्यादयः सर्वे पूर्वं वृत्रेणावृतत्वान्निष्प्रभाः सन्त इदानीं तस्मिन्नावरके हते सम्यक् प्राकाशिषतेत्यर्थः ॥ ॥ २८ ॥
यं मे॒ दुरिन्द्रो॑ म॒रुत॒ः पाक॑स्थामा॒ कौर॑याणः ।
विश्वे॑षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे॑व दि॒वि धाव॑मानम् ॥२१
यम् । मे॒ । दुः । इन्द्रः॑ । म॒रुतः॑ । पाक॑ऽस्थामा । कौर॑याणः ।
विश्वे॑षाम् । त्मना॑ । शोभि॑ष्ठम् । उप॑ऽइव । दि॒वि । धाव॑मानम् ॥२१
यम् । मे । दुः । इन्द्रः । मरुतः । पाकऽस्थामा । कौरयाणः ।
विश्वेषाम् । त्मना । शोभिष्ठम् । उपऽइव । दिवि । धावमानम् ॥२१
इदमादिकेन चतुर्ऋचेन कुरयाणपुत्रात् पाकस्थामनाम्नो राज्ञो दानं लब्ध्वा मेध्यातिथिस्तदीयं दानं स्तौति । “यं यादृशं धनसंघं “मे मह्यम् “इन्द्रः “मरुतः च “दुः दत्तवन्तः तादृशमेव धनसमूहं "कौरयाणः । शत्रून् प्रति युद्धाभिमुख्येन कृतं यानं हस्त्यश्वादिकं येनासौ कुरयाणः । तस्य पुत्रः कौरयाणः । “पाकस्थामा । तिष्ठत्यनेनेति स्थाम बलम् । परिपक्वबलः । एतत्संज्ञो राजा मह्यं प्रादात् । ददातेलुङि ‘ गातिस्थ इति सिचो लुक् । अडभावश्छान्दसः। कीदृशं धनसंघम् । “विश्वेषां सर्वेषां धनानां मध्ये “त्मना आत्मना स्वत एव “शोभिष्ठम् अतिशयेन शोभावन्तम्। ‘मन्त्रेष्वाङयादेः इत्यात्मन आकारलोपः। शोभावच्छब्दादातिशायनिक इष्ठन् । ‘विन्मतोर्लुक्'। ' यस्य' इति लोपः। अतिशयेन शोभावत्त्वे दृष्टान्तः । “दिवि आकाशे “उपेव “धावमानं प्रभाभिरुपेतं शीघ्रगामिनं सूर्यमिव । शोभावत्तममित्यर्थः ।।
रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्राम् ।
अदा॑द्रा॒यो वि॒बोध॑नम् ॥२२
रोहि॑तम् । मे॒ । पाक॑ऽस्थामा । सु॒ऽधुर॑म् । क॒क्ष्य॒ऽप्राम् ।
अदा॑त् । रा॒यः । वि॒ऽबोध॑नम् ॥२२
रोहितम् । मे । पाकऽस्थामा । सुऽधुरम् । कक्ष्यऽप्राम् ।
अदात् । रायः । विऽबोधनम् ॥२२
“पाकस्थामा राजा “रोहितं लोहितवर्णं वृषभमश्वं वा “मे मह्यम् “अदात् दत्तवान् । कीदृशम् । “सुधुरं शोभनधुरं शोभनवहनप्रदेशम्। ‘ऋक्पूरब्धूः ' (पा. सू. ५. ४, ७४ ) इत्यकारः समासान्तः। क्रत्वादयश्च ' इति बहुव्रीहावुत्तरपदाद्युदात्तत्वम् । “कक्ष्यप्राम् । कक्ष्या कक्षयोः बाहुमूलयोः बध्यमाना रज्जुः । तस्याः प्रातारं पूरयितारम् । पीवरमित्यर्थः । ‘ प्रा पूरणे'। "रायः धनस्य “विबोधनं विशेषेण बोधकम् । बहुधनप्राप्तिहेतुमित्यर्थः। ‘ ऊडिदम्' इत्यादिना रायो विभक्तिरुदात्ता ॥
यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह॑न्ति॒ वह्न॑यः ।
अस्तं॒ वयो॒ न तुग्र्य॑म् ॥२३
यस्मै॑ । अ॒न्ये । दश॑ । प्रति॑ । धुर॑म् । वह॑न्ति । वह्न॑यः ।
अस्त॑म् । वयः॑ । न । तुग्र्य॑म् ॥२३
यस्मै । अन्ये । दश । प्रति । धुरम् । वहन्ति । वह्नयः ।
अस्तम् । वयः । न । तुग्र्यम् ॥२३
पूर्वोक्त एवाश्वो विशेष्यते । “यस्मै । षष्ठ्यर्थे चतुर्थी। यस्याश्वस्य वृषभस्य वा “धुरं वोढव्यं युगधुरम् “अन्ये प्रकृतास्माद्विलक्षणा दशसंख्याकाः “वह्नयः वोढारोऽश्वा बलीवर्दा वा प्रतिनिधयः सन्तो मां वोढुं “वहन्ति बिभ्रति । बहूनामेकत्रवहने दृष्टान्तः । “अस्तम् । अस्यते क्षिप्यते तस्मिन् पदार्थजातमित्यस्तं गृहम् । प्रति “वयो न गन्तारोऽश्वा यथा “तुग्र्यं तुग्रपुत्रं भुज्युं समुद्रतीरादवहन् तद्वत् । तादृशमश्वं मह्यं प्रादादिति पूर्वस्यामृच्यन्वयः । भुज्योर्वहनं च ' नासत्या भुज्युमूहथुः । (ऋ. सं. १. ११६. ४) इत्यादाववगन्तव्यम् । यद्वा यस्मा इति कर्मणि चतुर्थी। यं रथमन्ये दशसंख्याका वह्नयो वोढारोऽश्वा धुरं वहनप्रदेशं प्रति गताः सन्तो वहन्ति तादृशं रथमपि मह्यं दत्तवानित्यर्थः ॥
आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यञ्ज॑नम् ।
तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ॥२४
आ॒त्मा । पि॒तुः । त॒नूः । वासः॑ । ओ॒जः॒ऽदाः । अ॒भि॒ऽअञ्ज॑नम् ।
तु॒रीय॑म् । इत् । रोहि॑तस्य । पाक॑ऽस्थामानम् । भो॒जम् । दा॒तार॑म् । अ॒ब्र॒व॒म् ॥२४
आत्मा । पितुः । तनूः । वासः । ओजःऽदाः । अभिऽअञ्जनम् ।
तुरीयम् । इत् । रोहितस्य । पाकऽस्थामानम् । भोजम् । दातारम् । अब्रवम् ॥२४
अयं पाकस्थामा “आत्मा स्वयं “पितुः जनकस्य “तनूः तनयः। पिता यथा सन्मार्गवर्तितया प्रशस्त एवमयमपीत्यर्थः । तथा “वासः वासयिता निवासयिता । वासयतेरौणादिकोऽसुन्। “अभ्यञ्जनम् अभिव्यक्तं यथा भवति तथा “ओजोदाः ओजसो बलस्य दाता धारयिता वा । यद्वा । आत्मा सततगामी । पितुरित्यन्ननाम । व्याप्तमन्नं येन दत्तम्। तनूर्विस्तृतं वासो वस्त्रमभ्यञ्जनमभ्यञ्जनसाधनं घृततैलादिकं च येन दत्तम् । यश्चौजोदा बलस्य दाता । तं “पाकस्थामानं “तुरीयं स्वकीयप्रपितामहापेक्षया चतुर्थं यद्वा तुरीयं शत्रूणां तूर्वकं हिंसितारं “भोजं शत्रूणां भोजयितारं “रोहितस्य लोहितवर्णस्य पूर्वोक्तस्याश्वस्य “दातारम् एवंगुणकं पाकस्थामानम् "अब्रवम् । उक्तेन प्रकारेणास्तौषम् । “इत् इति पूरकः ॥ ॥ २९ ॥
टिप्पणी
८.३.१ पिबा सुतस्य रसिनः इति
पृष्ठम् - शौक्लम् - जमदग्नेरभीवर्तः (ग्रामगेयः)
वरुणस्य देवस्थानम् (आरण्यकम्)
८.३.१५ उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते। सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव॥
उदु त्ये सूनवो गिरः काष्ठा अज्मेष्वत्नत । वाश्रा अभिज्ञु यातवे ॥ऋ. १.३७.१०॥ अत्र सूनवो गिरः मरुतः सन्ति, अयं सायणभाष्ये कथितमस्ति। किं उदु त्ये मधुमत्तमाः अपि मरुतां सम्बोधनमस्ति, विचारणीयः। अयं उल्लेखनीयमस्ति यत् अस्य (उदु त्ये इति ) ऋचायाः विनियोगः उदयनीयाख्ये अहनि ब्राह्मणाच्छंसी कृत्ये अस्ति।
एन्द्र नो गधि प्रियः सत्राजिदगोह्यः । गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥ऋ. ८.९८.४॥ अयं प्रतीयते यत् प्रथमं चरणं गिरायाः प्राकट्यमस्ति, द्वितीयं सत्राजितस्य गिरिरूपे वर्धनम्। पुराणेषु ( द्र. संदर्भाः )सत्राजितः सूर्यतः स्यमन्तकमणिं प्राप्नोति)। सत्रा स्थितिः सर्वस्य स्थितिः अस्ति, विश्वस्य प्रतिलोमा(द्र. सत्राजितोपरि टिप्पणी)
मण्डल ८ | ||||||
---|---|---|---|---|---|---|
- ↑ वृष्णि उपरि टिप्पणीhttp://puranastudy.byethost14.com/pur_index27/vrishni.htm