सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०६/पृष्ठम्(पिबासुत)

विकिस्रोतः तः
पृष्ठम्

(२३९।१) पृष्ठम् । पृष्ठोबृहतीन्द्रः ॥

पि꣥बा꣤ऽ३सु꣢त꣣स्य꣤रसि꣥ना꣱:॥ म꣡त्स्वा꣯नइन्द्रगो꣯मताऽ२३हो꣡इया। आ꣢꣯पि꣡र्नो꣯बो꣯धिसधमा꣯द्ये꣯वृधाऽ२३हो꣡इया॥ अ꣢स्मा꣡꣯ꣳआऽ२३वा꣢ ।। तुता꣡इधाऽ२३या꣢ऽ३४३: । ओ꣡ऽ२३४५इ ॥ डा॥

(दी० ८ । प० ७ । मा० ८ )१२ (ठै। ४००)

(२३९।२) ॥ शौक्लम्/शौल्कम् । शुक्लो बृहतीन्द्रः। अभीवर्तौ द्वौ । द्वयोर्जमदग्निः॥

पि꣥बा꣯सुतस्यरसिनो꣯हाउ॥ म꣡त्स्वा꣯नइन्द्र꣢गो꣡꣯माऽ२᳐त꣣: । हा꣢᳐ओ꣣ऽ२३४वा꣥ ॥ आ꣢꣯पि꣡र्नो꣯बो꣯धिसधमा꣯दि꣢ये꣡꣯वाऽ᳐२᳐र्द्धे꣣꣯ । हा꣢ओ꣣ऽ२३४वा꣥। अ꣢स्मा꣡꣯ꣳअवन्तु꣢ते꣡꣯धाऽ२᳐य꣣: । हा꣢᳐ओ꣣ऽ२३४वा꣥ ॥ ई꣣ऽ२३꣡४꣡५꣡॥

( दी० १२ । प० ८ । मा० ८ ) १३ (ज्रै। ४०१)

(२३९।३) ॥ जमदग्नेरभीवर्तः। जमदग्निर्बृहतीन्द्रः॥

पि꣥बा꣯सुतस्यरसिनो꣯मत्स्वा꣯हाउ॥ नाऽ᳒२᳒ः । इ꣡न्द्राऽ᳒२᳒गो꣡꣯मताऽ२३ः । हा꣢उ । आ꣯पि꣡꣰र्नो꣯ऽ२बो꣯ । धिसा꣡ध꣪माऽ᳒२᳒ । दि꣡ये꣯वृधाऽ२३ । हा꣢उ॥ अस्मा꣡ꣳअ꣪वाऽ२३ । हा꣢᳐॥ तु꣣ते꣢ऽ३हो꣡ऽ२᳐ । या꣣ऽ२३४औ꣥꣯हो꣯वा ॥ धि꣢य᳐ऊ꣣ऽ२३꣡४꣡५꣡॥

(दी० १० । प० १३ । मा० ८ )१४ (बै।४०२)


पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।

आपिर्नो बोधि सधमाद्ये वृधे३ऽस्मां अवन्तु ते धियः ॥ २३९ ॥ ऋ. ८.३.१

(२३९।१) पृष्ठम् । पृष्ठोबृहतीन्द्रः ॥

पिबाऽ३सुतस्यरसिनाः॥ मत्स्वानइन्द्रगोमताऽ२३होइया। आपिर्नोबोधिसधमाद्येवृधाऽ२३होइया॥ अस्माꣳआऽ२३वा ।। तुताइधाऽ२३याऽ३४३: । ओऽ२३४५इ ॥ डा॥

(दी० ८ । प० ७ । मा० ८ )१२ (ठै। ४००)

(२३९।२) ॥ शौक्लम्/शौल्कम् । शुक्लो बृहतीन्द्रः। अभीवर्तौ द्वौ । द्वयोर्जमदग्निः॥

पिबासुतस्यरसिनोहाउ॥ मत्स्वानइन्द्रगोमाऽ२तः । हाओऽ२३४वा ॥ आपिर्नोबोधिसधमादियेवाऽ२र्द्धे । हाओऽ२३४वा। अस्माꣳअवन्तुतेधाऽ२यः ।हाओऽ२३४वा ॥ ईऽ२३४५॥

( दी० १२ । प० ८ । मा० ८ ) १३ (ज्रै। ४०१)

(२३९।३) ॥ जमदग्नेरभीवर्तः। जमदग्निर्बृहतीन्द्रः॥

पिबासुतस्यरसिनोमत्स्वाहाउ॥ नाऽ२ः । इन्द्राऽ२गोमताऽ२३ः । हाउ । आपिर्नोऽ२बो । धिसाधमाऽ२ । दियेवृधाऽ२३ । हाउ॥ अस्माꣳअवाऽ२३ । हा॥ तुतेऽ३होऽ२ । याऽ२३४औहावा ॥ धियऊऽ२३४५॥

(दी० १० । प० १३ । मा० ८ )१४ (बै।४०२)


[सम्पाद्यताम्]

टिप्पणी