सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः ७/उत्सेधः

विकिस्रोतः तः
उत्सेधः
उत्सेधः

१५. उत्सेधः॥ अङ्गिरसः। बृहती। इन्द्रः॥
पि꣤बा꣣꣯सु꣤त꣣स्य꣤र꣥सि꣤न꣥: । मत्स्वा꣯ । न꣣आ꣢ऽ३४औ꣣꣯हो꣤꣯वा꣥ ॥ द्र꣢गो꣡꣯मताऽ२꣮ः । हाऽ३१उवाऽ२३ । ऊ꣢३४पा꣥ ॥ आ꣣꣯पा꣢ऽ३इर्नो꣤꣯बो । औ꣥꣯हो꣤वाहा꣥इ । धा꣡इसध꣢मा꣡ । दि꣢ये꣯वा꣡र्द्धे꣢꣯। हाऽ३१उवाऽ२३ । ऊ꣢३४पा꣥ ॥ अ꣣स्म꣢ꣲऽ३अ꣤व । औ꣥꣯हो꣤वाहा꣥इ ॥ तु꣣ता꣢ऽ३इधा꣤ऽ५या६५६: ॥ श्रीः ।। अ꣤स्मा꣣꣯ꣲअ꣤वन्तुते꣯धियो꣥꣯ । स्मा꣯न् । अ꣣वा꣢ऽ३४औ꣣꣯हो꣤꣯वा꣥ ॥ तु꣢ते꣡꣯धियाऽ२꣮ः। हाऽ३१उवाऽ२३ । ऊ꣢ऽ३४पा꣥ ॥ भू꣣꣯या꣢ऽ३म꣤ता। औ꣥꣯हो꣤वाहा꣥इ ॥ सू꣡मतौ꣢꣯वा꣡। जि꣢नो꣯वा꣡य꣢म् । हाऽ३१उवाऽ२३ । ऊ꣢ऽ३४पा꣥ ॥ मा꣣꣯ना꣢ऽ३स्त꣤र। औ꣥꣯हो꣤वाहा꣥इ ॥ भि꣣मा꣢ऽ३ता꣤ऽ५याऽ६५६इ ॥ श्रीः ॥ मा꣣꣯न꣤स्तरभि꣣मा꣤꣯त꣥ये꣯। मा꣯नः। स्त꣣रा꣢ऽ३४औ꣣꣯हो꣤꣯वा꣥ ॥ भि꣢मा꣡꣯तयाऽ२꣮इ । हाऽ३१उवाऽ२३ । ऊ꣢ऽ३४पा꣥ ॥ अ꣣स्मा꣢ऽ३न्चि꣤त्रा। औ꣥꣯हो꣤वाहा꣥इ । भा꣡इरव꣢ता꣡त् । अ꣢भिष्टा꣡इभि꣢:। हाऽ३१उवाऽ२३ । ऊ꣢ऽ३४पा꣥ ॥ आ꣣꣯ना꣢ऽ३स्सु꣤म्ने꣯ । औ꣥꣯हो꣤वाहा꣥इ ॥ षु꣣या꣢ऽ३मा꣤ऽ५याऽ६५६ ॥ ऊ꣣ऽ२३꣡४꣡५꣡ ॥
दी. ३५. उत् . ६. मा. ३४. पी. ॥५१०॥




पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
आपिर्नो बोधि सधमाद्ये वृधे३ऽस्मां अवन्तु ते धियः ॥ १४२१ ॥
भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये ।
अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥ १४२२ ॥ ऋ. ८.३.१

१५. उत्सेधः॥ अङ्गिरसः। बृहती। इन्द्रः॥

पिबासुतस्यरसिनः । मत्स्वा । नआऽ३४औहोवा ॥ द्रगोमताऽ२ः । हाऽ३१ उवाऽ२३ । ऊ३४पा ॥ आपाऽ३इर्नोबो । औहोवाहाइ । धाइसधमा । दियेवार्द्धे। हाऽ३१उवाऽ२३ । ऊ३४पा ॥ अस्मꣲऽ३अव । औहोवाहाइ ॥ तुताऽ३इधाऽ५या६५६: ॥ श्रीः ।। अस्माꣲअवन्तुतधियो । स्मान् । अवाऽ३४औहोवा ॥ तुतेधियाऽ२ः। हाऽ३१उवाऽ२३ । ऊऽ३४पा ॥ भूयाऽ३मता। औहोवाहाइ ॥ सूमतौवा। जिनोवायम् । हाऽ३१उवाऽ२३ । ऊऽ३४पा ॥ मानाऽ३स्तर। औहोवाहाइ ॥ भिमाऽ३ताऽ५याऽ६५६इ ॥ श्रीः ॥ मानस्तरभिमातये। मानः। स्तराऽ३४बऔहोवा ॥ भिमातयाऽ२इ । हाऽ३१उवाऽ२३ । ऊऽ३४पा ॥ अस्माऽ३न्चित्रा। औहोवाहाइ । भाइरवतात् । अभिष्टाइभिः। हाऽ३१ उवाऽ२३ । ऊऽ३४पा ॥ आनाऽ३स्सुम्ने । औहोवाहाइ ॥ षुयाऽ३माऽ५याऽ६५६ ॥ ऊऽ२३४५ ॥

दी. ३५. उत् . ६. मा. ३४. पी. ॥५१०॥



[सम्पाद्यताम्]

टिप्पणी

उत्सेधः - निषेधः (ग्रामगेयः)

......अथो आहुर् - अग्निर् एवैष यत् त्रिवृत् स्तोमः। वज्र एष यत् पञ्चदशः। तद् यथाग्निनाश्मानम् अभ्योप्य तं कूटेन भिन्द्याद्, एवम् एवैतेन त्रिवृताग्निना स्तोमेन वलम् अभ्योप्य पञ्चदशेन वज्रेण व्यासुर् इति। ता हान्तर एव तस्थुर् अयनम् अविन्दमानाः। ता होत्सेधेनैवोत्सिषिधुः। अथैष उद्भित् सप्ति सप्तदशो भवति। ततो याः सप्तत एव सप्ततयाः पशवो ऽथ यास् सप्तदश, स एव सप्तदशः प्रजापतिः। ताः पितरम् एव प्रजापतिं पश्यन्तीः प्रतिमोदमाना उदेयुः। ता होदेत्य महद् एवाभि विससृजिरे। तासां ह देवाः परावापाद् बिभयांचक्रुः। ता होत्सेधेनैवोत्सिध्य निषेधेन निषिध्यात्मन् दधिरे। स यः पशुकाम स्यात्, त एताभ्यां यजेत। वलभिदैव वलं भिनत्त्य्, उद्भिदा गा उत्सृजते। उत्सेधेनैवैना उत्सिध्य निषेधेन निषिध्यात्मन् धत्ते, अव पशून् रुन्द्धे, बहुपशुर् भवति॥जैब्रा २.९०