ऋग्वेदः सूक्तं ८.६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.५ ऋग्वेदः - मण्डल ८
सूक्तं ८.६
वत्सः काण्वः।
सूक्तं ८.७ →
दे. इन्द्रः, ४६-४८ तिरिन्दरः पार्शव्यः। गायत्री ।


महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव ।
स्तोमैर्वत्सस्य वावृधे ॥१॥
प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
विप्रा ऋतस्य वाहसा ॥२॥
कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
जामि ब्रुवत आयुधम् ॥३॥
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
समुद्रायेव सिन्धवः ॥४॥
ओजस्तदस्य तित्विष उभे यत्समवर्तयत् ।
इन्द्रश्चर्मेव रोदसी ॥५॥
वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा ।
शिरो बिभेद वृष्णिना ॥६॥
इमा अभि प्र णोनुमो विपामग्रेषु धीतयः ।
अग्नेः शोचिर्न दिद्युतः ॥७॥
गुहा सतीरुप त्मना प्र यच्छोचन्त धीतयः ।
कण्वा ऋतस्य धारया ॥८॥
प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम् ।
प्र ब्रह्म पूर्वचित्तये ॥९॥
अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ ।
अहं सूर्य इवाजनि ॥१०॥
अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् ।
येनेन्द्रः शुष्ममिद्दधे ॥११॥
ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
ममेद्वर्धस्व सुष्टुतः ॥१२॥
यदस्य मन्युरध्वनीद्वि वृत्रं पर्वशो रुजन् ।
अपः समुद्रमैरयत् ॥१३॥
नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि ।
वृषा ह्युग्र शृण्विषे ॥१४॥
न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम् ।
न विव्यचन्त भूमयः ॥१५॥
यस्त इन्द्र महीरप स्तभूयमान आशयत् ।
नि तं पद्यासु शिश्नथः ॥१६॥
य इमे रोदसी मही समीची समजग्रभीत् ।
तमोभिरिन्द्र तं गुहः ॥१७॥
य इन्द्र यतयस्त्वा भृगवो ये च तुष्टुवुः ।
ममेदुग्र श्रुधी हवम् ॥१८॥
इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् ।
एनामृतस्य पिप्युषीः ॥१९॥
या इन्द्र प्रस्वस्त्वासा गर्भमचक्रिरन् ।
परि धर्मेव सूर्यम् ॥२०॥
त्वामिच्छवसस्पते कण्वा उक्थेन वावृधुः ।
त्वां सुतास इन्दवः ॥२१॥
तवेदिन्द्र प्रणीतिषूत प्रशस्तिरद्रिवः ।
यज्ञो वितन्तसाय्यः ॥२२॥
आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम् ।
उत प्रजां सुवीर्यम् ॥२३॥
उत त्यदाश्वश्व्यं यदिन्द्र नाहुषीष्वा ।
अग्रे विक्षु प्रदीदयत् ॥२४॥
अभि व्रजं न तत्निषे सूर उपाकचक्षसम् ।
यदिन्द्र मृळयासि नः ॥२५॥
यदङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः ।
महाँ अपार ओजसा ॥२६॥
तं त्वा हविष्मतीर्विश उप ब्रुवत ऊतये ।
उरुज्रयसमिन्दुभिः ॥२७॥
उपह्वरे गिरीणां संगथे च नदीनाम् ।
धिया विप्रो अजायत ॥२८॥
अतः समुद्रमुद्वतश्चिकित्वाँ अव पश्यति ।
यतो विपान एजति ॥२९॥
आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् ।
परो यदिध्यते दिवा ॥३०॥
कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् ।
उतो शविष्ठ वृष्ण्यम् ॥३१॥
इमां म इन्द्र सुष्टुतिं जुषस्व प्र सु मामव ।
उत प्र वर्धया मतिम् ॥३२॥
उत ब्रह्मण्या वयं तुभ्यं प्रवृद्ध वज्रिवः ।
विप्रा अतक्ष्म जीवसे ॥३३॥
अभि कण्वा अनूषतापो न प्रवता यतीः ।
इन्द्रं वनन्वती मतिः ॥३४॥
इन्द्रमुक्थानि वावृधुः समुद्रमिव सिन्धवः ।
अनुत्तमन्युमजरम् ॥३५॥
आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् ।
इममिन्द्र सुतं पिब ॥३६॥
त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः ।
हवन्ते वाजसातये ॥३७॥
अनु त्वा रोदसी उभे चक्रं न वर्त्येतशम् ।
अनु सुवानास इन्दवः ॥३८॥
मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति ।
मत्स्वा विवस्वतो मती ॥३९॥
वावृधान उप द्यवि वृषा वज्र्यरोरवीत् ।
वृत्रहा सोमपातमः ॥४०॥
ऋषिर्हि पूर्वजा अस्येक ईशान ओजसा ।
इन्द्र चोष्कूयसे वसु ॥४१॥
अस्माकं त्वा सुताँ उप वीतपृष्ठा अभि प्रयः ।
शतं वहन्तु हरयः ॥४२॥
इमां सु पूर्व्यां धियं मधोर्घृतस्य पिप्युषीम् ।
कण्वा उक्थेन वावृधुः ॥४३॥
इन्द्रमिद्विमहीनां मेधे वृणीत मर्त्यः ।
इन्द्रं सनिष्युरूतये ॥४४॥
अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
सोमपेयाय वक्षतः ॥४५॥
शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे ।
राधांसि याद्वानाम् ॥४६॥
त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ।
ददुष्पज्राय साम्ने ॥४७॥
उदानट् ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत् ।
श्रवसा याद्वं जनम् ॥४८॥


सायणभाष्यम्

द्वितीयेऽनुवाके सप्त सूक्तानि । तत्र ‘महाँ इन्द्रः' इत्यष्टाचत्वारिंशदृचं प्रथमं सूक्तं काण्वस्य वत्सस्यार्षं गायत्रम् । अन्त्यतृचवर्जमैन्द्रम् । तस्मिन् परशुनाम्नो राज्ञः पुत्रस्य तिरिन्दिरस्य दानं स्तूयते । अतः स तृचस्तद्देवताकः । तथा चानुक्रान्तं-’ महाँ इन्द्रोऽष्टाचत्वारिंशद्वत्सस्तृचोऽन्त्यस्तिरिन्दिरस्य पारशव्यस्य दानस्तुतिः' इति । महाव्रते गायत्रतृचाशीतौ अन्त्यतृचवर्जमिदं सूक्तम् । तथैव पञ्चमारण्यके सूत्र्यते- महाँ इन्द्रो य ओजसेति तिस्र उत्तमा उद्धरति ' (ऐ. आ. ५. २. ३) इति । प्रातःसवने सोमातिरेके ‘महान्' इत्यादिकाः स्तोमातिशंसनार्थाः । सूत्रितं च--’ महाँ इन्द्रो य ओजसातो देवा अवन्तु न इत्यैन्द्रीभिर्वैष्णवीभिश्च स्तोममतिशस्य' (आश्व. श्रौ. ६. ७) इति । तृतीये पर्याये होतुः शस्त्रे ‘महाँ इन्द्रः' इति तृचोऽनुरूपः । सूत्रितं च -- महाँ इन्द्रो य ओजसा समस्य मन्यवे विश इति' ( आश्व. श्रौ. ६. ४ ) इति । अप्तोर्यामे ब्रह्मणोऽतिरिक्तोक्थे अयमेव तृचोऽनुरूपः । सूत्र्यते हि-’ महाँ इन्द्रो य ओजसा नूनमश्विना ' ( आश्व. श्रौ. ९. ११) इति । दर्शयागे महेन्द्रयाजिनः सांनाय्यस्य ‘महान्' इत्येषानुवाक्या । सूत्र्यते हि -- महाँ इन्द्रो य ओजसा भुवस्त्वमिन्द्र ब्रह्मणा महान् ' (अश्व. श्रौ. १. ६ ) इति ॥


म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ।

स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥१

म॒हान् । इन्द्रः॑ । यः । ओज॑सा । प॒र्जन्यः॑ । वृ॒ष्टि॒मान्ऽइ॑व ।

स्तोमैः॑ । व॒त्सस्य॑ । व॒वृ॒धे॒ ॥१

महान् । इन्द्रः । यः । ओजसा । पर्जन्यः । वृष्टिमान्ऽइव ।

स्तोमैः । वत्सस्य । ववृधे ॥१

“यः “इन्द्रः “ओजसा बलेन "महान् सर्वेभ्योऽधिकः । क इव । "वृष्टिमानिव । यथा वृष्ट्या युक्तः “पर्जन्यः रसानां प्रार्जयिता देवो महान् स इवेत्यर्थः । स इन्द्रः "वत्सस्य पुत्रस्थानीयस्य स्तोतुर्वत्सनाम्न एवर्षेः स्तोत्रैः “ववृधे प्रवर्धते ।।


प्र॒जामृ॒तस्य॒ पिप्र॑त॒ः प्र यद्भर॑न्त॒ वह्न॑यः ।

विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥२

प्र॒ऽजाम् । ऋ॒तस्य॑ । पिप्र॑तः । प्र । यत् । भर॑न्त । वह्न॑यः ।

विप्राः॑ । ऋ॒तस्य॑ । वाह॑सा ॥२

प्रऽजाम् । ऋतस्य । पिप्रतः । प्र । यत् । भरन्त । वह्नयः ।

विप्राः । ऋतस्य । वाहसा ॥२

“ऋतस्य यज्ञस्य सत्यस्य वा “प्रजां प्रकर्षेण जातमिन्द्रं “पिप्रतः नभसः प्रदेशान् पूरयन्तः “वह्नयः वाहका अश्वाः “यत् यदा “प्र “भरन्त प्रकर्षेण भरन्ति वहन्ति तदा “विप्राः मेधाविनः “ऋतस्य यज्ञस्य “वाहसा प्रापकेण स्तोत्रेण तमिन्द्रं स्तुवन्तीति शेषः ॥


कण्वा॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम् ।

जा॒मि ब्रु॑वत॒ आयु॑धम् ॥३

कण्वाः॑ । इन्द्र॑म् । यत् । अक्र॑त । स्तोमैः॑ । य॒ज्ञस्य॑ । साध॑नम् ।

जा॒मि । ब्रु॒व॒ते॒ । आयु॑धम् ॥३

कण्वाः । इन्द्रम् । यत् । अक्रत । स्तोमैः । यज्ञस्य । साधनम् ।

जामि । ब्रुवते । आयुधम् ॥३

“कण्वाः । स्तोतृनामैतत् । स्तोतारः कण्वगोत्रा वा “इन्द्रं “स्तोमैः स्तोत्रैः “यज्ञस्य यागस्य “साधनं साधयितारं निष्पादकं “यत् यदा "अक्रत अकृषत । करोतेर्लुङि ‘मन्त्रे घस' इति च्लेर्लुक् । तदानीम् “आयुधं शत्रूणां हिंसकं बाणादिकं “जामि । अतिरेकनामैतत् । अतिरिक्तमहितं प्रयोजनरहितं “ब्रुवते कथयन्ति । आयुधसाध्यस्य सर्वकार्यस्येन्द्रेण कृतत्वादायुधं निष्प्रयोजनमित्यर्थः। यद्वा । आयुधमायोधनशीलमिन्द्रं जामि जामिं भ्रातरं ब्रुवते वदन्ति । सर्वकार्येषु भ्रातृवद्वर्तत इत्यर्थः॥


तृतीये पर्याये होतुः शस्त्रे ‘समस्य मन्यवे' इत्याद्या द्विचत्वारिंशदृचः । सूत्र्यते हि--’ समस्य मन्यवे विश इति द्विचत्वारिंशद्विश्वजिते ' ( आश्व. श्रौ. ६. ४ ) इति ॥

सम॑स्य म॒न्यवे॒ विशो॒ विश्वा॑ नमन्त कृ॒ष्टय॑ः ।

स॒मु॒द्राये॑व॒ सिन्ध॑वः ॥४

सम् । अ॒स्य॒ । म॒न्यवे॑ । विशः॑ । विश्वाः॑ । न॒म॒न्त॒ । कृ॒ष्टयः॑ ।

स॒मु॒द्राय॑ऽइव । सिन्ध॑वः ॥४

सम् । अस्य । मन्यवे । विशः । विश्वाः । नमन्त । कृष्टयः ।

समुद्रायऽइव । सिन्धवः ॥४

“विशः विशन्त्यः “विश्वाः सर्वाः “कृष्टयः प्रजाः “अस्य इन्द्रस्य “मन्यवे क्रोधाय । यद्वा । मन्युः मननसाधनं स्तोत्रम् । तदर्थं “सं “नमन्त सम्यक् स्वत एव नमन्ति । नमतेः कर्मकर्तरि छान्दसो लङ् । ‘न दुहस्नुनमाम्' इति यक्चिणोः प्रतिषेधः । प्रह्वीभवन्ति । तत्र दृष्टान्तः । “समुद्रायेव यथा समुद्रमब्धिं प्रति “सिन्धवः स्यन्दनशीला नद्यः स्वयमेव नमन्ते तद्वत् ॥


ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् ।

इन्द्र॒श्चर्मे॑व॒ रोद॑सी ॥५

ओजः॑ । तत् । अ॒स्य॒ । ति॒त्वि॒षे॒ । उ॒भे इति॑ । यत् । स॒म्ऽअव॑र्तयत् ।

इन्द्रः॑ । चर्म॑ऽइव । रोद॑सी॒ इति॑ ॥५

ओजः । तत् । अस्य । तित्विषे । उभे इति । यत् । सम्ऽअवर्तयत् ।

इन्द्रः । चर्मऽइव । रोदसी इति ॥५

“अस्य इन्द्रस्य “तत् "ओजः बलं “तित्विषे दिदीपे। ‘त्विष दीप्तौ'। “यत् येन ओजसा अयम् “इन्द्रः “उभे “रोदसी द्यावापृथिव्यौ “चर्मेव “समवर्तयत् सम्यवर्तयति । यथा कश्चित् किंचिच्चर्म कदाचिद्विस्तारयति कदाचित् संकोचयति एवं तदधीने अभूतामित्यर्थः ॥ ॥ ९ ॥


वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे॑ण श॒तप॑र्वणा ।

शिरो॑ बिभेद वृ॒ष्णिना॑ ॥६

वि । चि॒त् । वृ॒त्रस्य॑ । दोध॑तः । वज्रे॑ण । श॒तऽप॑र्वणा ।

शिरः॑ । बि॒भे॒द॒ । वृ॒ष्णिना॑ ॥६

वि । चित् । वृत्रस्य । दोधतः । वज्रेण । शतऽपर्वणा ।

शिरः । बिभेद । वृष्णिना ॥६

चिच्छब्दोऽप्यर्थे । स च भिन्नक्रमः । “वृत्रस्य “चित् आवरकस्यापि "दोधतः अत्यर्थं जगत्कम्पयतोऽसुरस्य “शिरः मूर्धानं “शतपर्वणा शतसंख्याकपर्वाणि धारा यस्य तादृशेन “वृष्णिना वीर्यवता “वज्रेण इन्द्रः “वि “बिभेद विचिच्छेद ॥


आभिप्लविकेषूक्थ्येषु तृतीयसवने प्रशास्तुः शस्त्रे ‘ इमा अभि ' इति तृचो वैकल्पिकोऽनुरूपः । सूत्रितं च – ‘ इमा अभि प्र णोनुम इत्यथ ब्राह्मणाच्छंसिनः' (आश्व. श्रौ. ७. ८) इति ॥

इ॒मा अ॒भि प्र णो॑नुमो वि॒पामग्रे॑षु धी॒तय॑ः ।

अ॒ग्नेः शो॒चिर्न दि॒द्युत॑ः ॥७

इ॒माः । अ॒भि । प्र । नो॒नु॒मः॒ । वि॒पाम् । अग्रे॑षु । धी॒तयः॑ ।

अ॒ग्नेः । शो॒चिः । न । दि॒द्युतः॑ ॥७

इमाः । अभि । प्र । नोनुमः । विपाम् । अग्रेषु । धीतयः ।

अग्नेः । शोचिः । न । दिद्युतः ॥७

“विपां स्तोतॄणाम् “अग्रेषु पुरस्तात् “इमाः अस्मदीयाः “धीतयः धियः स्तोत्राणि “अभि “प्र “णोनुमः आभिमुख्येन पुनःपुनः प्रवदामः । ‘णु शब्दे'। कीदृशीः स्तुतीः । “अग्नेः “शोचिर्न दीप्तिरिव “दिद्युतः दीप्यमाना वेदरूपाः ॥


गुहा॑ स॒तीरुप॒ त्मना॒ प्र यच्छोच॑न्त धी॒तय॑ः ।

कण्वा॑ ऋ॒तस्य॒ धार॑या ॥८

गुहा॑ । स॒तीः । उप॑ । त्मना॑ । प्र । यत् । शोच॑न्त । धी॒तयः॑ ।

कण्वाः॑ । ऋ॒तस्य॑ । धार॑या ॥८

गुहा । सतीः । उप । त्मना । प्र । यत् । शोचन्त । धीतयः ।

कण्वाः । ऋतस्य । धारया ॥८

“गुहा गुहायां “सतीः सत्यो भवन्त्यः “यत् याः “धीतयः स्तुतयः कर्माणि वा “त्मना आत्मना स्वेनेन्द्रेणोपगम्यमानाः “प्र “शोचन्त प्रादीप्यन्त । यद्वा । आत्मना स्वत एवेन्द्रमुपगच्छन्त्यः प्रदीप्यन्ते । ताः स्तुतीः “कण्वाः कण्वगोत्रा ऋषयः “ऋतस्य उदकस्य सोमात्मकस्य “धारया सहिताः कुर्वन्तीति शेषः ॥


प्र तमि॑न्द्र नशीमहि र॒यिं गोम॑न्तम॒श्विन॑म् ।

प्र ब्रह्म॑ पू॒र्वचि॑त्तये ॥९

प्र । तम् । इ॒न्द्र॒ । न॒शी॒म॒हि॒ । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।

प्र । ब्रह्म॑ । पू॒र्वऽचि॑त्तये ॥९

प्र । तम् । इन्द्र । नशीमहि । रयिम् । गोऽमन्तम् । अश्विनम् ।

प्र । ब्रह्म । पूर्वऽचित्तये ॥९

हे “इन्द्र “गोमन्तं गोभिर्युक्तम् “अश्विनम् अश्वैरुपेतं “तं प्रसिद्धं “रयिं त्वदीयं धनं “प्र "नशीमहि प्राप्नुयाम । तथा “ब्रह्म परिवृढमन्नं च “पूर्वचित्तये अन्येभ्यः पूर्वमेव ज्ञानाय प्राप्नवाम ॥


अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ ।

अ॒हं सूर्य॑ इवाजनि ॥१०

अ॒हम् । इत् । हि । पि॒तुः । परि॑ । मे॒धाम् । ऋ॒तस्य॑ । ज॒ग्रभ॑ ।

अ॒हम् । सूर्यः॑ऽइव । अ॒ज॒नि॒ ॥१०

अहम् । इत् । हि । पितुः । परि । मेधाम् । ऋतस्य । जग्रभ ।

अहम् । सूर्यःऽइव । अजनि ॥१०

“पितुः पालकस्य “ऋतस्य सत्यस्य अवितथस्येन्द्रस्य “मेधाम् अनुग्रहात्मिकां बुद्धिम् “अहमित् अहमेव “परि “जग्रभ परिगृहीतवानस्मि नान्ये । "हि यस्मादेवं तस्मात् “अहं सूर्यइवाजनि सूर्यो यथा प्रकाशमानः सन् प्रादुर्भवति तथाजनिषं प्रादुरभूवम् ॥ ॥ १० ॥


अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिर॑ः शुम्भामि कण्व॒वत् ।

येनेन्द्र॒ः शुष्म॒मिद्द॒धे ॥११

अ॒हम् । प्र॒त्नेन॑ । मन्म॑ना । गिरः॑ । शु॒म्भा॒मि॒ । क॒ण्व॒ऽवत् ।

येन॑ । इन्द्रः॑ । शुष्म॑म् । इत् । द॒धे ॥११

अहम् । प्रत्नेन । मन्मना । गिरः । शुम्भामि । कण्वऽवत् ।

येन । इन्द्रः । शुष्मम् । इत् । दधे ॥११

“कण्ववत् मम जनकः कण्व इव "अहं “प्रत्नेन नित्येन वेदरूपेण “मन्मना मनसाधनेनेन्द्रविषयेण स्तोत्रेण “गिरः वाचः “शुम्भामि अलंकरोमि । यदा हीन्द्रविषये प्रयुज्यन्ते तदानीं यथार्थत्वाद्वाचोऽलंकृता भवन्ति । “येन खलु स्तोत्रेण “इन्द्रः “शुष्मं शत्रूणां शोषकं बलं “दधे “इत् धत्त एव धारयत्येव । यत्स्तोत्रमिन्द्रे ईदृशं बलमवश्यं जनयति तेन मन्मनेत्यर्थः ।।


ये त्वामि॑न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः ।

ममेद्व॑र्धस्व॒ सुष्टु॑तः ॥१२

ये । त्वाम् । इ॒न्द्र॒ । न । तु॒स्तु॒वुः । ऋष॑यः । ये । च॒ । तु॒स्तु॒वुः ।

मम॑ । इत् । व॒र्ध॒स्व॒ । सुऽस्तु॑तः ॥१२

ये । त्वाम् । इन्द्र । न । तुस्तुवुः । ऋषयः । ये । च । तुस्तुवुः ।

मम । इत् । वर्धस्व । सुऽस्तुतः ॥१२

हे इन्द्र "ये जनाः “त्वां “न "तुष्टुवुः न स्तुवन्ति "ये “च “ऋषयः मन्त्राणां द्रष्टारो जनाः “तुष्टुवुः त्वां स्तुवन्ति उभयेषां मध्ये "ममेत् ममैव स्तोत्रेण “सुष्टुतः शोभनं स्तुतः सन् "वर्धस्व वृद्धो भव ॥


यद॑स्य म॒न्युरध्व॑नी॒द्वि वृ॒त्रं प॑र्व॒शो रु॒जन् ।

अ॒पः स॑मु॒द्रमैर॑यत् ॥१३

यत् । अ॒स्य॒ । म॒न्युः । अध्व॑नीत् । वि । वृ॒त्रम् । प॒र्व॒ऽशः । रु॒जन् ।

अ॒पः । स॒मु॒द्रम् । ऐर॑यत् ॥१३

यत् । अस्य । मन्युः । अध्वनीत् । वि । वृत्रम् । पर्वऽशः । रुजन् ।

अपः । समुद्रम् । ऐरयत् ॥१३

“अस्य इन्द्रस्य “मन्युः क्रोधः “वृत्रम् आवृत्य तिष्ठन्तमसुरं मेघं वा “पर्वशः पर्वणि पर्वणि परुषि परुषि “वि “रुजन् विभञ्जन् “यत् यदा “अध्वनीत् स्तनयित्नुलक्षणं शब्दमकरोत् तदानीं “समुद्रं समुन्दनीयमुदधिं प्रति “अपः वृष्ट्युदकानि “ऐरयत् स इन्द्रः प्रेरितवान् ।।


नि शुष्ण॑ इन्द्र धर्ण॒सिं वज्रं॑ जघन्थ॒ दस्य॑वि ।

वृषा॒ ह्यु॑ग्र शृण्वि॒षे ॥१४

नि । शुष्णे॑ । इ॒न्द्र॒ । ध॒र्ण॒सिम् । वज्र॑म् । ज॒घ॒न्थ॒ । दस्य॑वि ।

वृषा॑ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे ॥१४

नि । शुष्णे । इन्द्र । धर्णसिम् । वज्रम् । जघन्थ । दस्यवि ।

वृषा । हि । उग्र । शृण्विषे ॥१४

हे "इन्द्र “शुष्णे शोषक एतत्संज्ञे “दस्यवि उपक्षपयितर्यसुरे “धर्णसिं धारयितव्यं “वज्रं कुलिशं त्वं “नि “जघन्थ निहतवानसि । वज्रेण तमसुरं न्यवधीरित्यर्थः । हे “उग्र उद्गूर्णबलेन्द्र "वृषा कामानां वर्षितेति "हि “ऋण्विषे श्रूयसे । अतोऽस्मदपेक्षितं धनं देहीति शेषः ।।


न द्याव॒ इन्द्र॒मोज॑सा॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् ।

न वि॑व्यचन्त॒ भूम॑यः ॥१५

न । द्यावः॑ । इन्द्र॑म् । ओज॑सा । न । अ॒न्तरि॑क्षाणि । व॒ज्रिण॑म् ।

न । वि॒व्य॒च॒न्त॒ । भूम॑यः ॥१५

न । द्यावः । इन्द्रम् । ओजसा । न । अन्तरिक्षाणि । वज्रिणम् ।

न । विव्यचन्त । भूमयः ॥१५

“द्यावः द्युलोका इमम् “इन्द्रम् “ओजसा बलेन “न “विव्यचन्त न व्याप्नुवन्ति । द्युलोकेभ्योऽप्यस्य बलमधिकमित्यर्थः । तथा “अन्तरिक्षाणि अन्तरा क्षान्तानि द्यावापृथिव्योर्मध्ये वर्तमाना लोकाः “वज्रिणं वज्रवन्तमिन्द्रं न व्याप्नुवन्ति । तथा “भूमयः भूलोकाश्च तमिन्द्रं “न व्याप्नुवन्ति । त्रयो वा इमे त्रिवृतो लोकाः' (ऐ. आ. १. १. २ ) इति ब्राह्मणादेकैकस्य लोकस्य त्रित्वम् । ‘तिस्रो भूमीः' (ऋ. सं. २. २७.८) इत्यादिनिगमाच्च ॥ ॥ ११ ॥


यस्त॑ इन्द्र म॒हीर॒पः स्त॑भू॒यमा॑न॒ आश॑यत् ।

नि तं पद्या॑सु शिश्नथः ॥१६

यः । ते॒ । इ॒न्द्र॒ । म॒हीः । अ॒पः । स्त॒भु॒ऽयमा॑नः । आ । अश॑यत् ।

नि । तम् । पद्या॑सु । शि॒श्न॒थः॒ ॥१६

यः । ते । इन्द्र । महीः । अपः । स्तभुऽयमानः । आ । अशयत् ।

नि । तम् । पद्यासु । शिश्नथः ॥१६

हे “इन्द्र “ते तव संबन्धिनीः “महीः महतीः “अपः आन्तरिक्ष्याण्युदकानि “यः वृत्रः “स्तभूयमानः स्तम्भयन् यथाधो न पतन्ति तथा कुर्वन् “आशयत् आवृत्याशेत “तम् असुरं "पद्यासु गमनशीलास्वप्सु मध्ये “नि शिश्नथः न्यहिंसीः । श्नथिर्हिँसार्थः । वज्रेण तमसुरं हत्वा नदीषु पातितवानित्यर्थः ॥


य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् ।

तमो॑भिरिन्द्र॒ तं गु॑हः ॥१७

यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । म॒ही इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । स॒म्ऽअज॑ग्रभीत् ।

तमः॑ऽभिः । इ॒न्द्र॒ । तम् । गु॒हः॒ ॥१७

यः । इमे इति । रोदसी इति । मही इति । समीची इति सम्ऽईची । सम्ऽअजग्रभीत् ।

तमःऽभिः । इन्द्र । तम् । गुहः ॥१७

"यः वृत्रः “मही महत्यौ विस्तीर्णे “समीची संगते “इमे प्रत्यक्षत उपलभ्यमाने “रोदसी द्यावापृथिव्यौ "समजग्रभीत् सम्यगग्रहीत् । आवृणोदित्यर्थः । “तम् असुरं हे "इन्द्र त्वं “तमोभिः अन्धकारैः “गुहः संवृतमकरोः । अनाद्यनन्तं मरणलक्षणं तमः प्रावेशय इत्यर्थः ॥


य इ॑न्द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः ।

ममेदु॑ग्र श्रुधी॒ हव॑म् ॥१८

ये । इ॒न्द्र॒ । यत॑यः । त्वा॒ । भृग॑वः । ये । च॒ । तु॒स्तु॒वुः ।

मम॑ । इत् । उ॒ग्र॒ । श्रु॒धि॒ । हव॑म् ॥१८

ये । इन्द्र । यतयः । त्वा । भृगवः । ये । च । तुस्तुवुः ।

मम । इत् । उग्र । श्रुधि । हवम् ॥१८

हे “इन्द्र "ये “यतयः नियता अङ्गिरसस्त्वां “तुष्टुवुः “ये “च "भृगवः भृगुगोत्रास्त्वां तुष्टुवुः स्तुवन्ति तेषु मध्ये "ममेत् ममैव “हवं स्तोत्रं हे “उग्र ओजस्विन्निन्द्र “श्रुधि शृणु ।।


इ॒मास्त॑ इन्द्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिर॑म् ।

ए॒नामृ॒तस्य॑ पि॒प्युषी॑ः ॥१९

इ॒माः । ते॒ । इ॒न्द्र॒ । पृश्न॑यः । घृ॒तम् । दु॒ह॒ते॒ । आ॒ऽशिर॑म् ।

ए॒नाम् । ऋ॒तस्य॑ । पि॒प्युषीः॑ ॥१९

इमाः । ते । इन्द्र । पृश्नयः । घृतम् । दुहते । आऽशिरम् ।

एनाम् । ऋतस्य । पिप्युषीः ॥१९

हे “इन्द्र “ते त्वदीयाः “इमाः “पृश्नयः प्राष्टवर्णाः गावः “घृतं क्षरणशीलम् “एनाम् । “आशिरम् आश्रयणद्रव्यं पयः “दुहते दुहन्ति क्षारयन्ति । कीदृश्यः पृश्नयः । “ऋतस्य सत्यस्यावितथस्येन्द्रस्य यज्ञस्य वा “पिप्युषीः वर्धयित्र्यः ॥


या इ॑न्द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन् ।

परि॒ धर्मे॑व॒ सूर्य॑म् ॥२०

याः । इ॒न्द्र॒ । प्र॒ऽस्वः॑ । त्वा॒ । आ॒सा । गर्भ॑म् । अच॑क्रिरन् ।

परि॑ । धर्म॑ऽइव । सूर्य॑म् ॥२०

याः । इन्द्र । प्रऽस्वः । त्वा । आसा । गर्भम् । अचक्रिरन् ।

परि । धर्मऽइव । सूर्यम् ॥२०

हे “इन्द्र “प्रस्वः । प्रसुवते गर्भं विमुञ्चन्तीति प्रस्वः। सूतेः ‘सत्सूद्विष°' इति क्विप् । ईदृश्यः “याः गावः “आसा आस्येन “त्वा त्वदीयं वीर्यं वृत्रवधानन्तरमोषध्यादिरूपेण परिणतं भक्षयित्वा “गर्भमचक्रिरन् अकुर्वन् त्वदीयं वीर्यमन्तरधारयन्। तत्र दृष्टान्तः । “सूर्यं परितः सूर्यमण्डलस्योपरि “धर्मेव धारकं पोषकमुदकं यथा रश्मयो गर्भरूपेण बिभ्रति तद्वत्। यद्वा । परि धर्मव परितो धारयितारं सूर्यमिव । यथा सूर्यः परितः सर्वं जगद्धत्ते तद्वत् । कृत्स्नस्य जगतो धारकमिन्द्रस्य वीर्यमित्यर्थः । ओषध्यादिरूपेण परिणतस्येन्द्रवीर्यस्य गोभिरात्मनि धारणम् ‘इन्द्रस्य वृत्रं जघ्नुषः' इत्यारभ्य तैत्तिरीयके विस्पष्टमाम्नातं-’ तत्पशव ओषधीभ्योऽध्यात्मन्त्समनयन् तत्प्रत्यदुहन्' (तै. सं. २. ५. ३. ३) इति । पयोरूपेण परिणतं तद्वीर्यमिमा गाव आशिरार्थं दुहत इति पूर्वस्यामृच्यन्वयः ॥ ॥ १२ ॥


वाजपेयेऽतिरिक्तोक्थे ‘त्वामिच्छवसस्पते' इत्येषा । सूत्रितं च त्वामिच्छवसस्पते तं प्रत्नथा' (आश्व. श्रौ. ९. ९) इति ॥

त्वामिच्छ॑वसस्पते॒ कण्वा॑ उ॒क्थेन॑ वावृधुः ।

त्वां सु॒तास॒ इन्द॑वः ॥२१

त्वाम् । इत् । श॒व॒सः॒ । प॒ते॒ । कण्वाः॑ । उ॒क्थेन॑ । व॒वृ॒धुः॒ ।

त्वाम् । सु॒तासः॑ । इन्द॑वः ॥२१

त्वाम् । इत् । शवसः । पते । कण्वाः । उक्थेन । ववृधुः ।

त्वाम् । सुतासः । इन्दवः ॥२१

हे “शवसस्पते बलस्य स्वामिन्निन्द्र “त्वाम् एव “कण्वाः स्तोतारः कण्वगोत्रा वा ऋषयः “उक्थेन शस्त्रेण "ववृधुः वर्धयन्ति । "सुतासः अध्वर्युभिरभिषुताः “इन्दवः सोमाश्च “त्वाम् एव वर्धयन्ति ॥


तवेदि॑न्द्र॒ प्रणी॑तिषू॒त प्रश॑स्तिरद्रिवः ।

य॒ज्ञो वि॑तन्त॒साय्य॑ः ॥२२

तव॑ । इत् । इ॒न्द्र॒ । प्रऽनी॑तिषु । उ॒त । प्रऽश॑स्तिः । अ॒द्रि॒ऽवः॒ ।

य॒ज्ञः । वि॒त॒न्त॒साय्यः॑ ॥२२

तव । इत् । इन्द्र । प्रऽनीतिषु । उत । प्रऽशस्तिः । अद्रिऽवः ।

यज्ञः । वितन्तसाय्यः ॥२२

“उत अपि च हे “अद्रिवः । अदृणात्यनेनेत्यद्रिर्वज्रः । तद्वन् “इन्द्र “तवेत् तवैव “प्रणीतिषु प्रकृष्टेषु नयनेषु धनप्रदानेषु सत्सु “प्रशस्तिः प्रकृष्टा स्तुतिः क्रियते । तथा “वितन्तसाय्यः विस्तृत तमः । तनोतेश्छान्दसमेतद्रूपम् । यद्वा । तन्तसिः कण्ड्वादिर्वृद्ध्यर्थः। तस्मादौणादिक आय्यप्रत्ययः । प्रवृद्धो “यज्ञः च तवैव क्रियते ।।


आ न॑ इन्द्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीम् ।

उ॒त प्र॒जां सु॒वीर्य॑म् ॥२३

आ । नः॒ । इ॒न्द्र॒ । म॒हीम् । इष॑म् । पुर॑म् । न । द॒र्षि॒ । गोऽम॑तीम् ।

उ॒त । प्र॒ऽजाम् । सु॒ऽवीर्य॑म् ॥२३

आ । नः । इन्द्र । महीम् । इषम् । पुरम् । न । दर्षि । गोऽमतीम् ।

उत । प्रऽजाम् । सुऽवीर्यम् ॥२३

हे “इन्द्र “नः अस्मभ्यम् अस्मदर्थं “महीं महतीं “गोमतीं गोभिर्युक्ताम् “इषम् अन्नम् “आ “दर्षि आद्रियस्व दातुं कामयस्व । न शब्दश्चार्थे । “पुरं “न । पालनं पूः । पालनं रक्षणं चास्मभ्यं कर्तुमाद्रियस्व ॥


उ॒त त्यदा॒श्वश्व्यं॒ यदि॑न्द्र॒ नाहु॑षी॒ष्वा ।

अग्रे॑ वि॒क्षु प्र॒दीद॑यत् ॥२४

उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । यत् । इ॒न्द्र॒ । नाहु॑षीषु । आ ।

अग्रे॑ । वि॒क्षु । प्र॒ऽदीद॑यत् ॥२४

उत । त्यत् । आशुऽअश्व्यम् । यत् । इन्द्र । नाहुषीषु । आ ।

अग्रे । विक्षु । प्रऽदीदयत् ॥२४

हे “इन्द्र “नाहुषीषु । नहुषा इति मनुष्यनाम । तत्संबन्धिनीषु । यद्वा । नाहुषो नाम कश्चिद्राजा । तदीयासु “विक्षु प्रजासु “अग्रे पुरस्तात् “यत् “आश्वश्व्यं शीघ्रगाम्यश्वसंघात्मकं बलं “प्रदीदयत् प्रादीप्यत “उत अपि च “त्यत् तदपि अस्मभ्यं देहीति शेषः । आकारः पूरकः ॥


अ॒भि व्र॒जं न त॑त्निषे॒ सूर॑ उपा॒कच॑क्षसम् ।

यदि॑न्द्र मृ॒ळया॑सि नः ॥२५

अ॒भि । व्र॒जम् । न । त॒त्नि॒षे॒ । सूरः॑ । उ॒पा॒कऽच॑क्षसम् ।

यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥२५

अभि । व्रजम् । न । तत्निषे । सूरः । उपाकऽचक्षसम् ।

यत् । इन्द्र । मृळयासि । नः ॥२५

न संप्रत्यर्थे । “न संप्रतीदानीं है इन्द्र “सूरः प्राज्ञस्त्वं “व्रजं गोष्ठम् “उपाकचक्षसम् । उपाक इत्यन्तिकनाम । अन्तिके द्रष्टव्यम् “अभि “तत्निषे अभितनोषि अभिविस्तारयसि । गोभिः पूर्णं करोषीत्यर्थः। तनोतेश्छान्दसे लिटि ‘तनिपत्योश्छन्दसि' इत्युपधालोपः । “यत् यदा हे “इन्द्र त्वं “नः अस्मान् “मृळयासि मृळयसि सुखयसि ॥ ॥ १३ ॥


यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः ।

म॒हाँ अ॑पा॒र ओज॑सा ॥२६

यत् । अ॒ङ्ग । त॒वि॒षी॒ऽयसे॑ । इन्द्र॑ । प्र॒ऽराज॑सि । क्षि॒तीः ।

म॒हान् । अ॒पा॒रः । ओज॑सा ॥२६

यत् । अङ्ग । तविषीऽयसे । इन्द्र । प्रऽराजसि । क्षितीः ।

महान् । अपारः । ओजसा ॥२६

“अङ्ग इत्यभिमुखीकरणे । हे “इन्द्र “यत् यस्त्वं “तविषीयसे । तविषीति बलनाम । बलमिवाःचरसि । हस्त्यश्वरथादिकं बलं यथा सर्वं शत्रुजातं भनक्ति तद्वत्त्वमसहाय एव सन् सर्वमेव शत्रुजातं मारयसीत्यर्थः । यश्च त्वं “क्षितीः । मनुष्यनामैतत् । मनुष्यान् “प्रराजसि प्रकर्षेणेशिषे । राजतिरैश्वर्यकर्मा । अस्यापि यद्वृत्तयोगान्न निघातः । स इन्द्रः “ओजसा बलेन “महान् सर्वेभ्योऽधिकः अत एव “अपारः पाररहितः । केनाप्यवसानं प्रापयितुमशक्य इत्यर्थः ।।


तं त्वा॑ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये॑ ।

उ॒रु॒ज्रय॑स॒मिन्दु॑भिः ॥२७

तम् । त्वा॒ । ह॒विष्म॑तीः । विशः॑ । उप॑ । ब्रु॒व॒ते॒ । ऊ॒तये॑ ।

उ॒रु॒ऽज्रय॑सम् । इन्दु॑ऽभिः ॥२७

तम् । त्वा । हविष्मतीः । विशः । उप । ब्रुवते । ऊतये ।

उरुऽज्रयसम् । इन्दुऽभिः ॥२७

हे इन्द्र “तं पूर्वोक्तगुणम् “उरुज्रयसं विस्तीर्णव्यापिनं त्वां "हविष्मतीः हविर्भिश्चरुपुरोडाशादिभिर्युक्ताः “विशः प्रजाः “उप “ब्रुवते उपेत्य स्तुवन्ति । किमर्थम् । “इन्दुभिः सोमैः “ऊतये तर्पणाय । यद्वा । इन्दुभिः सोमैः उरुज्रयसं विस्तीर्णजवमूतये रक्षणाय स्तुवन्ति ।


उ॒प॒ह्व॒रे गि॑री॒णां सं॑ग॒थे च॑ न॒दीना॑म् ।

धि॒या विप्रो॑ अजायत ॥२८

उ॒प॒ऽह्व॒रे । गि॒री॒णाम् । स॒म्ऽग॒थे । च॒ । न॒दीना॑म् ।

धि॒या । विप्रः॑ । अ॒जा॒य॒त॒ ॥२८

उपऽह्वरे । गिरीणाम् । सम्ऽगथे । च । नदीनाम् ।

धिया । विप्रः । अजायत ॥२८

“गिरीणां पर्वतानाम् “उपह्वरे उपह्वर्तव्ये प्रान्ते “नदीनां सरितां “संगथे संगमने “च ईदृग्विधे देशे क्रियमाणया “धिया यागक्रियया स्तुत्या वा “विप्रः मेधावीन्द्रः “अजायत प्रादुर्भवति । अतो वयमपि तादृशे देशे यजामः स्तुमो वेति भावः । गिरीणामित्यत्र 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥


अत॑ः समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ अव॑ पश्यति ।

यतो॑ विपा॒न एज॑ति ॥२९

अतः॑ । स॒मु॒द्रम् । उ॒त्ऽवतः॑ । चि॒कि॒त्वान् । अव॑ । प॒श्य॒ति॒ ।

यतः॑ । वि॒पा॒नः । एज॑ति ॥२९

अतः । समुद्रम् । उत्ऽवतः । चिकित्वान् । अव । पश्यति ।

यतः । विपानः । एजति ॥२९

“यतः यस्मिन् द्युलोके “विपानः व्याप्नुवन् विशिष्टपानयुक्तो वा इन्द्रः “एजति चेष्टते "उद्वतः उद्गतात् । ‘उपसर्गाच्छन्दसि धात्वर्थे ' ( पा. सू. ५. १. ११८) इति वतिः । “अतः अस्मात् द्युलोकात् “चिकित्वान् जानन् स इन्द्रः “समुद्रं समुन्दनशीलं यजमानैर्दीयमानं सोमम् “अव “पश्यति अवाङ्मुखः सन्नीक्षते । यद्वा । सूर्यात्मनेन्द्रः स्तूयते । यस्मिन्नभसि विपानः व्याप्नुवन् सूर्यात्मेन्द्र एजति वर्तते चिकित्वाञ्जानन् विद्वान्वा स इन्द्र उद्वत उद्गतादतोऽस्मादन्तरिक्षात् समुद्रम् । उपलक्षणमेतत् । समुद्रोपलक्षितं सर्वं जगदव पश्यति । अवाङ्मुखं प्रसृतैः किरणैः प्रकाशयति ।


आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्ति वास॒रम् ।

प॒रो यदि॒ध्यते॑ दि॒वा ॥३०

आत् । इत् । प्र॒त्नस्य॑ । रेत॑सः । ज्योतिः॑ । प॒श्य॒न्ति॒ । वा॒स॒रम् ।

प॒रः । यत् । इ॒ध्यते॑ । दि॒वा ॥३०

आत् । इत् । प्रत्नस्य । रेतसः । ज्योतिः । पश्यन्ति । वासरम् ।

परः । यत् । इध्यते । दिवा ॥३०

“परः “दिवा दिवः परस्तात् द्युलोकस्योपरि “यत् यदा अयमिन्द्रः सूर्यात्मना “इध्यते दीप्यते "आदित् अनन्तरमेव “प्रत्नस्य चिरंतनस्य “रेतसः गन्तुः ॥ ‘री गतिरेषणयोः'। अस्मात् ‘ स्रुरीभ्यां तुट् च' ( उ. सू. ४. ६४१ ) इत्यसुन् तुडागमश्च ॥ यद्वा । रेत इत्युदकनाम। रेतस्विन उदकवतः । सामर्थ्यात् मत्वर्थो लक्ष्यते । ईदृशस्येन्द्रस्य सूर्यात्मनः “वासरं निवासकं वासरस्य निवासस्य हेतुभूतं वा “ज्योतिः द्योतमानं तेजः “पश्यन्ति सर्वे जनाः । यद्वा । वासरमिति अत्यन्तसंयोगे द्वितीया । कृत्स्नमहरुदयप्रभृत्यास्तमनं यावज्ज्योतिष्पश्यन्तीत्यर्थः । ‘ इसुसोः सामर्थ्ये' इति विसर्जनीयस्य षत्वम् ॥ ॥ १४ ॥


कण्वा॑स इन्द्र ते म॒तिं विश्वे॑ वर्धन्ति॒ पौंस्य॑म् ।

उ॒तो श॑विष्ठ॒ वृष्ण्य॑म् ॥३१

कण्वा॑सः । इ॒न्द्र॒ । ते॒ । म॒तिम् । विश्वे॑ । व॒र्ध॒न्ति॒ । पौंस्य॑म् ।

उ॒तो इति॑ । श॒वि॒ष्ठ॒ । वृष्ण्य॑म् ॥३१

कण्वासः । इन्द्र । ते । मतिम् । विश्वे । वर्धन्ति । पौंस्यम् ।

उतो इति । शविष्ठ । वृष्ण्यम् ॥३१

हे "इन्द्र "ते त्वदीयां “मतिं बुद्धिं “पौंस्यम्। बलनामैतत्। बलं च “विश्वे सर्वे “कण्वासः कण्वाः स्तोतारः कण्वगोत्रा वा ऋषयः “वर्धन्ति वर्धयन्ति । ‘छन्दस्युभयथा' इति शप आर्धधातुकत्वात् ‘णेरनिटि' इति णिलोपः । “उतो अपि च हे “शविष्ठ शवस्वितम बलवत्तम। ‘ विन्मतोर्लुक् । ‘टेः' इति टिलोपः। ईदृशेन्द्र “वृष्ण्यं त्वदीयं वीर्यं बलकर्म च कण्वासो वर्धयन्त्येव ॥


इ॒मां म॑ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व ।

उ॒त प्र व॑र्धया म॒तिम् ॥३२

इ॒माम् । मे॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒तिम् । जु॒षस्व॑ । प्र । सु । माम् । अ॒व॒ ।

उ॒त । प्र । व॒र्ध॒य॒ । म॒तिम् ॥३२

इमाम् । मे । इन्द्र । सुऽस्तुतिम् । जुषस्व । प्र । सु । माम् । अव ।

उत । प्र । वर्धय । मतिम् ॥३२

हे “इन्द्र “इमां पुरोवर्तिनीं “मे मदीयां “सुष्टुतिं शोभनां स्तुतिं “जुषस्व सेवस्व । सेवित्वा च स्तोतारं “मां “सु शोभनं “प्र “अव प्रकर्षेण रक्ष। “उत अपि च “मतिं अस्मदीयां बुद्धिं “प्र “वर्धय प्रवृद्धां कुरु । यथा बह्वर्थदर्शिनी भवति तथा कुर्वित्यर्थः ॥


उ॒त ब्र॑ह्म॒ण्या व॒यं तुभ्यं॑ प्रवृद्ध वज्रिवः ।

विप्रा॑ अतक्ष्म जी॒वसे॑ ॥३३

उ॒त । ब्र॒ह्म॒ण्या । व॒यम् । तुभ्य॑म् । प्र॒ऽवृ॒द्ध॒ । व॒ज्रि॒ऽवः॒ ।

विप्राः॑ । अ॒त॒क्ष्म॒ । जी॒वसे॑ ॥३३

उत । ब्रह्मण्या । वयम् । तुभ्यम् । प्रऽवृद्ध । वज्रिऽवः ।

विप्राः । अतक्ष्म । जीवसे ॥३३

“उत अपि च हे “प्रवृद्ध स्तुतिभिः प्रकृष्टां वृद्धिं प्राप्त हे “वज्रिवः वज्रवन्निन्द्र। एको मत्वर्थीयोऽनुवादः । यद्वा । वज्रोऽस्यास्तीति वज्री हस्तः । तद्वान् । 'छन्दसीरः' इति मतुपो वत्वम् । ‘मतुवसो रुः' इति मकारस्य रुत्वम् । ईदृशेन्द्र “तुभ्यं त्वदर्थं “विप्राः मेधाविनः “वयं “ब्रह्मण्या ब्रह्माणि स्तोत्राणि हविर्लक्षणान्यन्नानि वा। ‘सुपां सुलुक्' इति सुपो याजादेशः। “जीवसे जीवनार्थम् “अतक्ष्म अकार्ष्म। ‘ तक्षु त्वक्षू तनूकरणे ' । लङि छान्दसः शपो लुक् ॥


अ॒भि कण्वा॑ अनूष॒तापो॒ न प्र॒वता॑ य॒तीः ।

इन्द्रं॒ वन॑न्वती म॒तिः ॥३४

अ॒भि । कण्वाः॑ । अ॒नू॒ष॒त॒ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः ।

इन्द्र॑म् । वन॑न्ऽवती । म॒तिः ॥३४

अभि । कण्वाः । अनूषत । आपः । न । प्रऽवता । यतीः ।

इन्द्रम् । वनन्ऽवती । मतिः ॥३४

“कण्वाः कण्वगोत्रा ऋषयः “अभि "अनूषत इन्द्रमभिष्टुवन्ति । ‘नू स्तुतौ । कुटादिः । “प्रवता प्रवणेन मार्गेण “यतीः गच्छन्त्यः “आपो “न आप इव “मतिः मननीया कण्वैः क्रियमाणा स्तुतिः स्तुत्यम् “इन्द्रं “वनन्वती स्वयमेव संभजनवती भवति ॥


इन्द्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिन्ध॑वः ।

अनु॑त्तमन्युम॒जर॑म् ॥३५

इन्द्र॑म् । उ॒क्थानि॑ । व॒वृ॒धुः॒ । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः ।

अनु॑त्तऽमन्युम् । अ॒जर॑म् ॥३५

इन्द्रम् । उक्थानि । ववृधुः । समुद्रम्ऽइव । सिन्धवः ।

अनुत्तऽमन्युम् । अजरम् ॥३५

“उक्थानि शस्त्राण्यस्माभिः शस्यमानानि “इन्द्रं “ववृधुः वर्धयन्ति । “सिन्धवः स्यन्दनशीला नद्यः “समुद्रमिव समुद्रं जलधिं यथा वर्धयन्ति तद्वत् । कीदृशमिन्द्रम् । “अनुत्तमन्युम् । अनुत्तोऽप्रेरितः परैरनभिभूतो मन्युः क्रोधो यस्य तादृशम् । ‘नुदविदोन्दत्रा' (पा. सू. ८. २. ५६ ) इत्यादिना विकल्पितत्वान्निष्ठानत्वाभावः । “अजरं जरारहितम् । बहुव्रीहौ ‘नञो जरमरमित्रमृताः ' इत्युत्तरपदाद्युदात्तत्वम् ॥ ॥ १५ ॥


आ नो॑ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्या॑म् ।

इ॒ममि॑न्द्र सु॒तं पि॑ब ॥३६

आ । नः॒ । या॒हि॒ । प॒रा॒ऽवतः॑ । हरि॑ऽभ्याम् । ह॒र्य॒ताभ्या॑म् ।

इ॒मम् । इ॒न्द्र॒ । सु॒तम् । पि॒ब॒ ॥३६

आ । नः । याहि । पराऽवतः । हरिऽभ्याम् । हर्यताभ्याम् ।

इमम् । इन्द्र । सुतम् । पिब ॥३६

हे “इन्द्र “परावतः परागताद्दूरे वर्तमानात् द्युलोकात् "हर्यताभ्यां कान्ताभ्यां "हरिभ्याम् अश्वाभ्यां “नः अस्मान् “आ “याहि आगच्छ । आगत्य च “इमम् अस्मदीयं “सुतम् अभिषुतं सोमं “पिब ॥


त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः ।

हव॑न्ते॒ वाज॑सातये ॥३७

त्वाम् । इत् । वृ॒त्र॒ह॒न्ऽत॒म॒ । जना॑सः । वृ॒क्तऽब॑र्हिषः ।

हव॑न्ते । वाज॑ऽसातये ॥३७

त्वाम् । इत् । वृत्रहन्ऽतम । जनासः । वृक्तऽबर्हिषः ।

हवन्ते । वाजऽसातये ॥३७

हे “वृत्रहन्तम अतिशयेन वृत्राणामावृण्वतां शत्रूणां हन्तः “त्वामित् त्वामेव “वृक्तबर्हिषः वृक्तं यागार्थं छिन्नं बर्हिर्येषां तथाविधोक्ताः प्रवृत्तयज्ञाः “जनासः जना ऋत्विग्लक्षणाः “ह्वयन्ते आह्वयन्ति । ह्वेञः शपि ‘बहुलं छन्दसि' इति संप्रसारणम्। किमर्थम् । “वाजसातये वाजस्य अन्नस्य बलस्य वा सातये लाभाय । यद्वा । संग्रामनामैतत् । वाजस्य सातिर्यस्मिन् संग्रामे तत्र साहाय्याय त्वामाह्वयन्तीत्यर्थः ॥


अनु॑ त्वा॒ रोद॑सी उ॒भे च॒क्रं न व॒र्त्येत॑शम् ।

अनु॑ सुवा॒नास॒ इन्द॑वः ॥३८

अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । च॒क्रम् । न । व॒र्ति॒ । एत॑शम् ।

अनु॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥३८

अनु । त्वा । रोदसी इति । उभे इति । चक्रम् । न । वर्ति । एतशम् ।

अनु । सुवानासः । इन्दवः ॥३८

हे इन्द्र “त्वा त्वाम् “उभे “रोदसी द्यावापृथिव्यौ अनुवर्तेते । त्वदधीने भवत इत्यर्थः । तत्र दृष्टान्तः । “चक्रं “न यथा रथचक्रम् “एतशम् । अश्वनामैतत् । पुरो गच्छन्तमश्वम् “अनु “वर्ति अनुवर्तते तद्वत् । अपि च "सुवानासः ऋत्विग्भिरभिषूयमाणाः “इन्दवः सोमाश्च त्वाम् “अनु वर्तन्ते ॥


मन्द॑स्वा॒ सु स्व॑र्णर उ॒तेन्द्र॑ शर्य॒णाव॑ति ।

मत्स्वा॒ विव॑स्वतो म॒ती ॥३९

मन्द॑स्व । सु । स्वः॑ऽनरे । उ॒त । इ॒न्द्र॒ । श॒र्य॒णाऽव॑ति ।

मत्स्व॑ । विव॑स्वतः । म॒ती ॥३९

मन्दस्व । सु । स्वःऽनरे । उत । इन्द्र । शर्यणाऽवति ।

मत्स्व । विवस्वतः । मती ॥३९

“उत अपि च हे “इन्द्र “शर्यणावति । शर्यणा नाम कुरुक्षेत्रवर्तिनो देशाः। तेषामदूरभवं सरः शर्यणावत् । “ मध्वादिभ्यश्च' इति स्वार्थिको मतुप् । “मतौ बह्वचः' इति दीर्घः । ‘ संज्ञायाम् इति वत्वम् । तस्मिन् सरसि विद्यमाने “स्वर्णरे सर्वैर्ऋत्विग्भिर्नेतव्ये यज्ञे “सु सुष्ठु “मन्दस्व माद्य तृप्तो भव । अपि च “विवस्वतः परिचरणवतो यजमानस्य “मती मत्या च “मत्स्व मदं प्राप्नुहि । मतिशब्दात्तृतीयायाः ‘सुपां सुलुक्' इति पूर्वसवर्णदीर्घः ॥


वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा॑ व॒ज्र्य॑रोरवीत् ।

वृ॒त्र॒हा सो॑म॒पात॑मः ॥४०

व॒वृ॒धा॒नः । उप॑ । द्यवि॑ । वृषा॑ । व॒ज्री । अ॒रो॒र॒वी॒त् ।

वृ॒त्र॒ऽहा । सो॒म॒ऽपात॑मः ॥४०

ववृधानः । उप । द्यवि । वृषा । वज्री । अरोरवीत् ।

वृत्रऽहा । सोमऽपातमः ॥४०

“वावृधानः वृद्धः “वज्री वज्रवानत एव “वृत्रहा वृत्रस्य मेघस्यासुरस्य वा हन्ता “सोमपातमः अतिशयेन सोमस्य पाता इन्द्रः “वृषा उदकानां वर्षिता “द्यवि द्युलोकेऽन्तरिक्षे “उप समीपे यथास्माभिः श्रूयते तथा “अरोरवीत् भृशं स्तनयित्नुलक्षणं शब्दमकरोत् । मेघेन वज्रहतेनेदृशं शब्दमचीकरदित्यर्थः ॥ ॥ १६ ॥


ऋषि॒र्हि पू॑र्व॒जा अस्येक॒ ईशा॑न॒ ओज॑सा ।

इन्द्र॑ चोष्कू॒यसे॒ वसु॑ ॥४१

ऋषिः॑ । हि । पू॒र्व॒ऽजाः । असि॑ । एकः॑ । ईशा॑नः । ओज॑सा ।

इन्द्र॑ । चो॒ष्कू॒यसे॑ । वसु॑ ॥४१

ऋषिः । हि । पूर्वऽजाः । असि । एकः । ईशानः । ओजसा ।

इन्द्र । चोष्कूयसे । वसु ॥४१

हे “इन्द्र “पूर्वजाः सर्वेभ्यो देवेभ्यः पूर्वं जात उत्पन्नः । यद्वा । यज्ञेषु प्रथममेव प्रादुर्भूतः । त्वम् “ऋषिर्हि द्रष्टा सर्वज्ञः खलु “असि भवसि । अपि च सर्वेषु देवेषु मध्ये “एकः मुख्यः "ओजसा बलेन “ईशानः ईश्वरो भवसि । यद्वा । एकोऽसहाय एव सन्नोजसा आत्मीयेनैव बलेन ईशानः सर्वस्य जगतः ईश्वरो भवसि । स त्वं “वसु धनं “चोष्कूयसे पुनःपुनः स्तोतृभ्यो ददासि । ‘स्कुञ् आप्रवणे इह दानार्थः । तथा चोक्तं-’ चोष्कूयमाण इन्द्र भूरि वामं दददिन्द्र बहु वननीयम्' (निरु. ६. २२) इति ॥


अ॒स्माकं॑ त्वा सु॒ताँ उप॑ वी॒तपृ॑ष्ठा अ॒भि प्रय॑ः ।

श॒तं व॑हन्तु॒ हर॑यः ॥४२

अ॒स्माक॑म् । त्वा॒ । सु॒तान् । उप॑ । वी॒तऽपृ॑ष्ठाः । अ॒भि । प्रयः॑ ।

श॒तम् । व॒ह॒न्तु॒ । हर॑यः ॥४२

अस्माकम् । त्वा । सुतान् । उप । वीतऽपृष्ठाः । अभि । प्रयः ।

शतम् । वहन्तु । हरयः ॥४२

हे इन्द्र “अस्माकम् अस्मदीयान् सोमानुपलक्ष्य “प्रयः । अन्ननामैतत् । धानाकरम्भादिहविर्लक्षणमन्नं चाभिलक्ष्य “वीतपृष्ठाः प्रशस्तोपरिभागाः “शतं शतसंख्याकाः “हरयः अश्वाः त्वां वहन्तु प्रापयन्तु ॥


इ॒मां सु पू॒र्व्यां धियं॒ मधो॑र्घृ॒तस्य॑ पि॒प्युषी॑म् ।

कण्वा॑ उ॒क्थेन॑ वावृधुः ॥४३

इ॒माम् । सु । पू॒र्व्याम् । धिय॑म् । मधोः॑ । घृ॒तस्य॑ । पि॒प्युषी॑म् ।

कण्वाः॑ । उ॒क्थेन॑ । व॒वृ॒धुः॒ ॥४३

इमाम् । सु । पूर्व्याम् । धियम् । मधोः । घृतस्य । पिप्युषीम् ।

कण्वाः । उक्थेन । ववृधुः ॥४३

"इमाम् इदानीं क्रियमाणां “सु सुष्ठु “पूर्व्यां पूर्वैः पित्रादिभिः कृतां “मधोः मधुरस्य "घृतस्य क्षरणशीलस्योदकस्य “पिप्युषीं वर्धयित्रीं यद्वा मधुरेण घृतेनाज्येन प्रवृद्धां “धियं योगक्रियां “कण्वाः कण्वगोत्रा ऋषयः “उक्थेन शस्त्रेण “वावृधुः इन्द्रार्थं वर्धयन्ति । उक्थैर्हि यागो वर्धते । अत्यग्निष्टोमादिषूत्तरासु संस्थासु शस्त्रवृद्धेर्दृष्टत्वात् । यद्वा । पूर्व्यां चिरंतनीमिमामिन्द्रस्य धियमनुग्रहबुद्धिं क्षरणशीलेन मधुरेण सोमेन पिप्युषीं वर्धनीयामुक्थेन स्तोत्रेण वावृधुः वर्धयन्ति ।।


इन्द्र॒मिद्विम॑हीनां॒ मेधे॑ वृणीत॒ मर्त्य॑ः ।

इन्द्रं॑ सनि॒ष्युरू॒तये॑ ॥४४

इन्द्र॑म् । इत् । विऽम॑हीनाम् । मेधे॑ । वृ॒णी॒त॒ । मर्त्यः॑ ।

इन्द्र॑म् । स॒नि॒ष्युः । ऊ॒तये॑ ॥४४

इन्द्रम् । इत् । विऽमहीनाम् । मेधे । वृणीत । मर्त्यः ।

इन्द्रम् । सनिष्युः । ऊतये ॥४४

“विमहीनां विशेषेण महतां देवानां मध्ये “इन्द्रमित् इन्द्रमेव "मेधे यज्ञे “मर्त्यः मनुष्यो होता “वृणीत स्तुतिभिः संभजते । तथा “सनिष्युः धनकामश्च स्तोता “ऊतये रक्षणाय “इन्द्रम् एव वृणीते स्तुत्या संभजते ।।


अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।

सो॒म॒पेया॑य वक्षतः ॥४५

अ॒र्वाञ्च॑म् । त्वा॒ । पु॒रु॒ऽस्तु॒त॒ । प्रि॒यमे॑धऽस्तुता । हरी॒ इति॑ ।

सो॒म॒ऽपेया॑य । व॒क्ष॒तः॒ ॥४५

अर्वाञ्चम् । त्वा । पुरुऽस्तुत । प्रियमेधऽस्तुता । हरी इति ।

सोमऽपेयाय । वक्षतः ॥४५

हे “पुरुष्टुत बहुभिः स्तुतेन्द्र “प्रियमेधस्तुता प्रियमेधैः प्रिययज्ञैर्ऋषिभिः स्तुतौ। तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्' इत्याकारः । ईदृशौ “हरी अश्वौ “सोमपेयाय सोमपानार्थं त्वाम् “अर्वाञ्चम् अस्मदभिमुखं “वक्षतः वहताम् ॥


श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे ।

राधां॑सि॒ याद्वा॑नाम् ॥४६

श॒तम् । अ॒हम् । ति॒रिन्दि॑रे । स॒हस्र॑म् । पर्शौ॑ । आ । द॒दे॒ ।

राधां॑सि । याद्वा॑नाम् ॥४६

शतम् । अहम् । तिरिन्दिरे । सहस्रम् । पर्शौ । आ । ददे ।

राधांसि । याद्वानाम् ॥४६

इदमादिकेन तृचेन तिरिन्दिरस्य राज्ञो दानं स्तूयते । “पर्शौ परशुनाम्नः पुत्रे । उपचारज्जन्ये जनकशब्दः । “तिरिन्दिरे एतत्संज्ञे राजनि “याद्वानाम् । यदुरिति मनुष्यनाम । यदव एव याद्वाः । स्वार्थिकस्तद्धितः । तेषां मध्ये “अहं “शतं शतसंख्याकानि “सहस्रं सहस्रसंख्याकानि च “राधांसि धनानि “आ “ददे स्वीकरोमि । यद्वा । याद्वानां यदुकुलजानामन्येषां राज्ञां स्वभूतानि राधांसि बलादपहृतानि तिरिन्दिरे वर्तमानान्यहं प्राप्नोमि ।।


त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना॑म् ।

द॒दुष्प॒ज्राय॒ साम्ने॑ ॥४७

त्रीणि॑ । श॒तानि॑ । अर्व॑ताम् । स॒हस्रा॑ । दश॑ । गोना॑म् ।

द॒दुः । प॒ज्राय॑ । साम्ने॑ ॥४७

त्रीणि । शतानि । अर्वताम् । सहस्रा । दश । गोनाम् ।

ददुः । पज्राय । साम्ने ॥४७

पूर्वस्यामृचि स्वसंप्रदानकं दानमुक्तम् । अधुनान्येभ्योऽप्यृषिभ्यस्तिरिन्दिरो बहु धनं दत्तवानित्याह । “अर्वतां गन्तॄणामश्वानां “त्रीणि "शतानि "गोनां गवां “दश दशगुणितानि "सहस्रा सहस्राणि च "पज्राय स्तुतीनां प्रार्जकाय “साम्ने एतत्संज्ञायर्षये । यद्वा । साम्ने । साम स्तोत्रम् । तद्वते पज्राय पज्रकुलजाताय कक्षीवते । “ददुः तिरिन्दिराख्या राजानो दत्तवन्तः ।।


उदा॑नट् ककु॒हो दिव॒मुष्ट्रा॑ञ्चतु॒र्युजो॒ दद॑त् ।

श्रव॑सा॒ याद्वं॒ जन॑म् ॥४८

उत् । आ॒न॒ट् । क॒कु॒हः । दिव॑म् । उष्ट्रा॑न् । च॒तुः॒ऽयुजः॑ । दद॑त् ।

श्रव॑सा । याद्व॑म् । जन॑म् ॥४८

उत् । आनट् । ककुहः । दिवम् । उष्ट्रान् । चतुःऽयुजः । ददत् ।

श्रवसा । याद्वम् । जनम् ॥४८

अयं राजा “ककुहः उच्छ्रितः सन् “श्रवसा कीर्त्या “दिवं स्वर्गम् "उदानट् उत्कृष्टतरं व्याप्नोत् । किं कुर्वन् । "चतुर्युजः चतुर्भिः स्वर्णभारैर्युक्तान् “उष्ट्रान् “ददत् प्रयच्छन् । तथा “याद्वं “जनं च द्रासत्वेन प्रयच्छन् ॥ ॥ १७ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.६&oldid=190356" इत्यस्माद् पुनः प्राप्तिः