ऋग्वेदः सूक्तं ८.५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ८.५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ८.४ ऋग्वेदः - मण्डल ८
सूक्तं ८.५
ब्रह्मातिथिः काण्वः।
सूक्तं ८.६ →
दे. अश्विनौ, ३७(उत्तरार्धस्य) - ३९ चैद्यः कशुः। गायत्री, ३७-३८ बृहती, ३९ अनुष्टुप्


दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत् ।
वि भानुं विश्वधातनत् ॥१॥
नृवद्दस्रा मनोयुजा रथेन पृथुपाजसा ।
सचेथे अश्विनोषसम् ॥२॥
युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत ।
वाचं दूतो यथोहिषे ॥३॥
पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू ।
स्तुषे कण्वासो अश्विना ॥४॥
मंहिष्ठा वाजसातमेषयन्ता शुभस्पती ।
गन्तारा दाशुषो गृहम् ॥५॥
ता सुदेवाय दाशुषे सुमेधामवितारिणीम् ।
घृतैर्गव्यूतिमुक्षतम् ॥६॥
आ न स्तोममुप द्रवत्तूयं श्येनेभिराशुभिः ।
यातमश्वेभिरश्विना ॥७॥
येभिस्तिस्रः परावतो दिवो विश्वानि रोचना ।
त्रीँरक्तून्परिदीयथः ॥८॥
उत नो गोमतीरिष उत सातीरहर्विदा ।
वि पथः सातये सितम् ॥९॥
आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम् ।
वोळ्हमश्वावतीरिषः ॥१०॥
वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी ।
पिबतं सोम्यं मधु ॥११॥
अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः ।
छर्दिर्यन्तमदाभ्यम् ॥१२॥
नि षु ब्रह्म जनानां याविष्टं तूयमा गतम् ।
मो ष्वन्याँ उपारतम् ॥१३॥
अस्य पिबतमश्विना युवं मदस्य चारुणः ।
मध्वो रातस्य धिष्ण्या ॥१४॥
अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् ।
पुरुक्षुं विश्वधायसम् ॥१५॥
पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः ।
वाघद्भिरश्विना गतम् ॥१६॥
जनासो वृक्तबर्हिषो हविष्मन्तो अरंकृतः ।
युवां हवन्ते अश्विना ॥१७॥
अस्माकमद्य वामयं स्तोमो वाहिष्ठो अन्तमः ।
युवाभ्यां भूत्वश्विना ॥१८॥
यो ह वां मधुनो दृतिराहितो रथचर्षणे ।
ततः पिबतमश्विना ॥१९॥
तेन नो वाजिनीवसू पश्वे तोकाय शं गवे ।
वहतं पीवरीरिषः ॥२०॥
उत नो दिव्या इष उत सिन्धूँरहर्विदा ।
अप द्वारेव वर्षथः ॥२१॥
कदा वां तौग्र्यो विधत्समुद्रे जहितो नरा ।
यद्वां रथो विभिष्पतात् ॥२२॥
युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये ।
शश्वदूतीर्दशस्यथः ॥२३॥
ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः ।
यद्वां वृषण्वसू हुवे ॥२४॥
यथा चित्कण्वमावतं प्रियमेधमुपस्तुतम् ।
अत्रिं शिञ्जारमश्विना ॥२५॥
यथोत कृत्व्ये धनेऽंशुं गोष्वगस्त्यम् ।
यथा वाजेषु सोभरिम् ॥२६॥
एतावद्वां वृषण्वसू अतो वा भूयो अश्विना ।
गृणन्तः सुम्नमीमहे ॥२७॥
रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना ।
आ हि स्थाथो दिविस्पृशम् ॥२८॥
हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः ।
उभा चक्रा हिरण्यया ॥२९॥
तेन नो वाजिनीवसू परावतश्चिदा गतम् ।
उपेमां सुष्टुतिं मम ॥३०॥
आ वहेथे पराकात्पूर्वीरश्नन्तावश्विना ।
इषो दासीरमर्त्या ॥३१॥
आ नो द्युम्नैरा श्रवोभिरा राया यातमश्विना ।
पुरुश्चन्द्रा नासत्या ॥३२॥
एह वां प्रुषितप्सवो वयो वहन्तु पर्णिनः ।
अच्छा स्वध्वरं जनम् ॥३३॥
रथं वामनुगायसं य इषा वर्तते सह ।
न चक्रमभि बाधते ॥३४॥
हिरण्ययेन रथेन द्रवत्पाणिभिरश्वैः ।
धीजवना नासत्या ॥३५॥
युवं मृगं जागृवांसं स्वदथो वा वृषण्वसू ।
ता नः पृङ्क्तमिषा रयिम् ॥३६॥
ता मे अश्विना सनीनां विद्यातं नवानाम् ।
यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत्सहस्रा दश गोनाम् ॥३७॥
यो मे हिरण्यसंदृशो दश राज्ञो अमंहत ।
अधस्पदा इच्चैद्यस्य कृष्टयश्चर्मम्ना अभितो जनाः ॥३८॥
माकिरेना पथा गाद्येनेमे यन्ति चेदयः ।
अन्यो नेत्सूरिरोहते भूरिदावत्तरो जनः ॥३९॥

सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथाष्टमो व्याख्यातुमारभ्यते । अष्टमे मण्डले प्रथमेऽनुवाके चत्वारि सूक्तानि व्याकृतानि । ‘दूरात्' इत्येकोनचत्वारिंशदृचं पञ्चमं सूक्तं कृण्वगोत्रस्य ब्रह्मातिथेरार्षम्। आदितः षट्त्रिंशद्गायत्र्यः । ततो द्वे बृहत्यौ। अन्तिमानुष्टुप् । अन्त्येषु पञ्चस्वर्धर्चेषु चेदिपुत्रस्य कशुनाम्नो राज्ञो दानं स्तूयते । अतस्तद्देवताकाः । शिष्टा आश्विन्यः । तथा चानुक्रान्तं - दूरादेकान्नचत्वारिंशद्ब्रह्मातिथिराश्विनं द्विबृहत्यनुष्टुबन्तमन्त्याः पञ्चार्धर्चाश्चैद्यस्य कशोर्दानस्तुतिः' इति । प्रातरनुवाकाश्विनशस्त्रयोराश्विने क्रतौ गायत्रे छन्दसि अन्त्यतृचवर्जमिदं सूक्तम् । सूत्र्यते हि-- दूरादिहेवेति तिस्र उत्तमा उद्धरेत्' (आश्व. श्रौ. ४. १५) इति ॥


दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् ।

वि भा॒नुं वि॒श्वधा॑तनत् ॥१

दू॒रात् । इ॒हऽइ॑व । यत् । स॒ती । अ॒रु॒णऽप्सुः॑ । अशि॑श्वितत् ।

वि । भा॒नुम् । वि॒श्वधा॑ । अ॒त॒न॒त् ॥१

दूरात् । इहऽइव । यत् । सती । अरुणऽप्सुः । अशिश्वितत् ।

वि । भानुम् । विश्वधा । अतनत् ॥१

"दूरात् दूरत एव विप्रकृष्ट एव नभसः प्राक्प्रदेशे वर्तमाना “इहेव “सती इह समीपे विद्यमानेव। अस्तेः शतरि श्नसोरल्लोपे ‘उगितश्च' इति ङीप् । ‘शतुरनुमः । इति नद्या उदात्तत्वम् । “अरुणप्सुः आरोचमानरूपा ईदृशी उषाः यत् यदा “अशिश्वितत् अश्वेतयत्। ' श्विता वर्णे'। अस्माण्ण्यन्तात् लुङि चङि रूपम् । यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । तदा “भानुं दीप्तिं विश्वधा' बहुविधं “वि “अतनत् विस्तारितवती । तनोतेर्व्यत्ययेन शप् । ईदृशीमुषसं हे अश्विनौ सचेथे इत्युत्तरयैकवाक्यता । यद्वा । प्रातरनुवाक्य उषस्येन काण्डेन उषाः स्तुता सती प्रादुर्बभूव । हे अश्विनौ शंसिष्यमाणमाश्विनं क्रतुं श्रोतुं युवामपि प्रादुर्भवतमित्यध्याहारेण वाक्यं पूरणीयम् ॥


नृ॒वद्द॑स्रा मनो॒युजा॒ रथे॑न पृथु॒पाज॑सा ।

सचे॑थे अश्विनो॒षसं॑ ॥२

नृ॒ऽवत् । द॒स्रा॒ । म॒नः॒ऽयुजा॑ । रथे॑न । पृ॒थु॒ऽपाज॑सा ।

सचे॑थे॒ इति॑ । अ॒श्वि॒ना॒ । उ॒षस॑म् ॥२

नृऽवत् । दस्रा । मनःऽयुजा । रथेन । पृथुऽपाजसा ।

सचेथे इति । अश्विना । उषसम् ॥२

हे “दस्रा दस्रौ दर्शनीयौ शत्रूणामुपक्षपयितारौ वा । ‘सुपां सुलुक्' इत्याकारः । ईदृशौ हे “अश्विना अश्विनौ "नृवत् नृभिः नेतृभिस्तुल्यं वर्तमानौ युवाम् । तेन तुल्यम्' इति प्रथमार्थे वतिः । यद्वा । नृवतीम् । नृशब्दान्मतुपश्छान्दसत्वम् । रश्रुतिसामान्याद्वा” ‘छन्दसीरः' इति वत्वम् । ङीपश्छान्दसो लुक् । 'हस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम्। ईदृशीम् “उषसं “रथेन आत्मीयेन वाहनेन "सचेथे सम्यगागच्छथः । ‘षच समवाये । यद्वा । सचतिः सेवनार्थः । सचेथे सेवेथे । तदाह यास्कः-- सचस्वा नः स्वस्तये सेवस्व नः स्वस्तये' (निरु. ३. २१) इति । कीदृशेन रथेन । “मनोयुजा मनसैव व्यापारान्तरनिरपेक्षेण स्मरणमात्रेणाश्वैर्युज्यमानेन “पृथुपाजसा विस्तीर्णबलेन बह्वन्नेन वा । उषसोऽनन्तरमश्विनोः स्तूयमानत्वात्तामश्विनौ गच्छत इत्युच्यते ॥


यु॒वाभ्यां॑ वाजिनीवसू॒ प्रति॒ स्तोमा॑ अदृक्षत ।

वाचं॑ दू॒तो यथो॑हिषे ॥३

यु॒वाभ्या॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प्रति॑ । स्तोमाः॑ । अ॒दृ॒क्ष॒त॒ ।

वाच॑म् । दू॒तः । यथा॑ । ओ॒हि॒षे॒ ॥३

युवाभ्याम् । वाजिनीवसू इति वाजिनीऽवसू । प्रति । स्तोमाः । अदृक्षत ।

वाचम् । दूतः । यथा । ओहिषे ॥३

हे “वाजिनीवसू । वाजो हविर्लक्षणमन्नम् । तद्युक्ता यागक्रिया वाजिनी । तस्यां वसु धनं ययोरस्ति तौ तथोक्तौ । यद्वा । अन्नयुक्तं स्तोतृभ्यो देयं वसु धनं ययोरस्ति तादृशौ । हे अश्विनौ “युवाभ्यां “स्तोमाः अस्माभिः कृतानि स्तोत्राणि “प्रति “अदृक्षत प्रतिदृश्यन्ताम् । दृशेश्छान्दसः कर्मणि लुङ् । लिङ्सिचावात्मनेपदेषु' इति कित्त्वात् ' सृजिदृशोः' इत्यमभावः । षत्वकत्वषत्वानि । अहं च “यथा येन प्रकारेण “दूतः प्रेष्यः “वाचं स्वामिनो वाक्यं याचते तथा युवयोः प्रीतिपूर्विकां वाचम् ओहिषे । पुरुषव्यत्ययः । याचे । ‘उहिरर्दने'। याचन इत्यर्थः । व्यत्ययेनात्मनेपदम् । यद्वा । दूतो यथा स्वामिनोक्तां वाचं विदेशस्थमन्यं प्रापयति एवमहमपि स्तुतिरूपां वाचमोहिषे वहे युवां प्रापयामि ॥ वहेर्व्यत्ययेन मध्यमः। छान्दसं संप्रसारणम् । 'छन्दस्युभयथा' इत्यार्धधातुकत्वात् इडागमः । शबभावो लघूपगुणश्च । 'एङि पररूपम्' इति पररूपत्वम् ।।


पु॒रु॒प्रि॒या ण॑ ऊ॒तये॑ पुरुमं॒द्रा पु॑रू॒वसू॑ ।

स्तु॒षे कण्वा॑सो अ॒श्विना॑ ॥४

पु॒रु॒ऽप्रि॒या । नः॒ । ऊ॒तये॑ । पु॒रु॒ऽम॒न्द्रा । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ ।

स्तु॒षे । कण्वा॑सः । अ॒श्विना॑ ॥४

पुरुऽप्रिया । नः । ऊतये । पुरुऽमन्द्रा । पुरुवसू इति पुरुऽवसू ।

स्तुषे । कण्वासः । अश्विना ॥४

“पुरुप्रिया बहूनां प्रियौ “पुरुमन्द्रा बहुमदौ बहूनां मादयितारौ वा । यद्वा । पुरु बहुलं माद्यन्तौ । "पुरुवसू बहुधनौ ईदृशौ “अश्विना अश्विनौ “नः अस्माकम् “ऊतये रक्षणाय “कण्वासः कण्वगोत्रा वयं "स्तुषे स्तुमहे । पुरुषवचनयोर्व्यत्ययः । यद्वा । कण्वास इति पूजार्थं बहुवचनम् । ऋषिरात्मानं संबोध्य ब्रूते । हे अन्तरात्मन् कण्वासः कण्वगोत्रस्त्वं स्तुषे अश्विनौ स्तुहि ॥


मंहि॑ष्ठा वाज॒सात॑मे॒षयं॑ता शु॒भस्पती॑ ।

गंता॑रा दा॒शुषो॑ गृ॒हं ॥५

मंहि॑ष्ठा । वा॒ज॒ऽसात॑मा । इ॒षय॑न्ता । शु॒भः । पती॒ इति॑ ।

गन्ता॑रा । दा॒शुषः॑ । गृ॒हम् ॥५

मंहिष्ठा । वाजऽसातमा । इषयन्ता । शुभः । पती इति ।

गन्तारा । दाशुषः । गृहम् ॥५

“मंहिष्ठा मंहिष्ठौ मंहनीयौ पूजनीयौ यद्वा दातृतमौ “वाजसातमा । वाजोऽन्नं बलं वा । तस्य अतिशयेन दातारौ । यद्वा वाजो हविर्लक्षणमन्नम्। तस्य संभक्तृतमौ । सनोतेः सनतेर्वा' जनसन” । इति विट् । विड्वनोरनुनासिकस्यात्वम् । “इषयन्ता स्तोतृभ्य इषमन्नं कुर्वन्तौ । इट्शब्दात् ' तत्करोति' ' इति णिच् । णेरिष्ठवद्भावेन टिलोपे प्राप्ते ‘प्रकृत्यैकाच्' इति प्रकृतिभावः । यद्वा । इषयन्ता एषयन्तौ श्रेयांसि प्रापयन्तौ । 'इष गतौ । अस्माद्धेतुमण्णिच् । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः । शुभः शोभनस्य धनस्योदकस्य वा “पती स्वामिनौ । “षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् । “दाशुषः चरुपुरोडाशादीनि दत्तवतो यजमानस्य “गृहं “गन्तारा गमनशीलौ । गमेस्ताच्छीलिकस्तृन् । अतः ‘न लोकाव्यय°' इति कर्मणि षष्याः प्रतिषेधः । ईदृशावश्विनौ स्तुम इति शेषः । ॥ १ ॥


ता सु॑दे॒वाय॑ दा॒शुषे॑ सुमे॒धामवि॑तारिणीं ।

घृ॒तैर्गव्यू॑तिमुक्षतं ॥६

ता । सु॒ऽदे॒वाय॑ । दा॒शुषे॑ । सु॒ऽमे॒धाम् । अवि॑ऽतारिणीम् ।

घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् ॥६

ता । सुऽदेवाय । दाशुषे । सुऽमेधाम् । अविऽतारिणीम् ।

घृतैः । गव्यूतिम् । उक्षतम् ॥६

हे अश्विनौ “ता तौ तादृशौ युवां “सुदेवाय । शोभना देवा येन यष्टव्याः स तथोक्तः । बहुव्रीहौ ' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । तस्मै “दाशुषे हविर्दत्तवते यजमानाय । तादथ्यें चतुर्थी । ईदृग्यजमानार्थं "सुमेधां शोभनयज्ञाम् “अवितारिणीम् । वितरणं विगमनमपायः । अनपायिनीम् । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । ईदृशीं गव्यूतिम् । गावो यूयन्ते संयुज्यन्तेऽत्रेति गव्यूतिर्गोसंचारभूमिः । ‘गोर्यूतौ छन्दसि' (पा, सू. ६. १. ७९. २) इत्यवादेशः । तां “घृतैः क्षरणशीलैरुदकैः “उक्षतं सिञ्चतम्। 'उक्ष सेचने' ॥


आ नः॒ स्तोम॒मुप॑ द्र॒वत्तूयं॑ श्ये॒नेभि॑रा॒शुभिः॑ ।

या॒तमश्वे॑भिरश्विना ॥७

आ । नः॒ । स्तोम॑म् । उप॑ । द्र॒वत् । तूय॑म् । श्ये॒नेभिः॑ । आ॒शुऽभिः॑ ।

या॒तम् । अश्वे॑भिः । अ॒श्वि॒ना॒ ॥७

आ । नः । स्तोमम् । उप । द्रवत् । तूयम् । श्येनेभिः । आशुऽभिः ।

यातम् । अश्वेभिः । अश्विना ॥७

हे “अश्विना अश्विनौ "नः अस्माकं “स्तोमं स्तोत्रम् “अश्वेभिः अश्वैः । 'द्रवत् तूयम्' इत्युभे क्षिप्रनामनी । एकः पूरकः । “तूयं क्षिप्रम् “उप “आ “यातम् उपागच्छतम् । यद्वा । द्रवदिति स्तोमविशेषणम् । “द्रवत् शीघ्रं प्रवर्तमानं स्तोममित्यर्थः । कीदृशैरश्वैः । “श्येनेभिः शंसनीयगतिभिः प्रशस्यगमनैः "आशुभिः शीघ्रगैः ॥


येभि॑स्ति॒स्रः प॑रा॒वतो॑ दि॒वो विश्वा॑नि रोच॒ना ।

त्रीँर॒क्तून्प॑रि॒दीय॑थः ॥८

येभिः॑ । ति॒स्रः । प॒रा॒ऽवतः॑ । दि॒वः । विश्वा॑नि । रो॒च॒ना ।

त्रीन् । अ॒क्तून् । प॒रि॒ऽदीय॑थः ॥८

येभिः । तिस्रः । पराऽवतः । दिवः । विश्वानि । रोचना ।

त्रीन् । अक्तून् । परिऽदीयथः ॥८

हे अश्विनौ “तिस्रः “दिवः त्रीन् दिवसान “त्रीन् 'अक्तून् तिस्रो रात्रीश्च । अत्यन्तसंयोगे द्वितीया । एतावन्तं कालं “विश्वानि सर्वाणि व्याप्तानि वा “रोचना रोचमानानि नक्षत्ररूपाणि देवगृहाणि "परावतः दूरदेशात् "येभिः यैरश्वैः “परिदीयथः परिगच्छथः । दीयतिर्गतिकर्मा । तैरस्माकं स्तोत्रमुपयातमिति पूर्वत्रान्वयः ॥


उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा ।

वि प॒थः सा॒तये॑ सितं ॥९

उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । उ॒त । सा॒तीः । अ॒हः॒ऽवि॒दा॒ ।

वि । प॒थः । सा॒तये॑ । सि॒त॒म् ॥९

उत । नः । गोऽमतीः । इषः । उत । सातीः । अहःऽविदा ।

वि । पथः । सातये । सितम् ॥९

“उत अपि च हे “अहर्विदा अह्नो लम्भयितारौ । यद्वा । अह्नि प्रभातसमये वेदितव्यौ स्तोतव्यौ । “नः अस्मभ्यं “गोमतीः बहुभिर्गोंभिर्युक्ताः इषः अन्नानि दत्तमिति शेषः। “उत अपि च "सातीः संभजनीया दातव्या वा रायश्चास्मभ्यं दत्तम् । सनतेः सनोतेर्वा कर्मणि क्तिन् । ‘जनसनखनाम्' इत्यात्वम् ।' उतियूति' इत्यादिना क्तिन उदात्तत्वं निपात्यते । अपि चास्माकं "सातये उक्तानां गवादीनां लाभाय संभजनाय वा “पथः तदुपायरूपान् मार्गान् “वि “सितं विशेषेण बध्नीतम् । यथान्ये न प्रविशन्ति तथा कुरुतमित्यर्थः। 'षिञ् बन्धने । छान्दसो विकरणस्य लुक् । यद्वा । उपसर्गवशादयं धातुः स्वार्थविपरीते बन्धनाभावे वर्तते । प्रस्मरणं प्रस्थानमिति यथा। पथो मार्गान् वि सितं विमुञ्चतम् । प्रदर्शयतमित्यर्थः । पथिञ्छब्दोऽन्तोदात्तः । तस्य शसि टिलोप उदात्तनिवृत्तिस्वरेण शस उदात्तत्वम्


आ नो॒ गोमं॑तमश्विना सु॒वीरं॑ सु॒रथं॑ र॒यिं ।

वो॒ळ्हमश्वा॑वती॒रिषः॑ ॥१०

आ । नः॒ । गोऽम॑न्तम् । अ॒श्वि॒ना॒ । सु॒ऽवीर॑म् । सु॒ऽरथ॑म् । र॒यिम् ।

वो॒ळ्हम् । अश्व॑ऽवतीः । इषः॑ ॥१०

आ । नः । गोऽमन्तम् । अश्विना । सुऽवीरम् । सुऽरथम् । रयिम् ।

वोळ्हम् । अश्वऽवतीः । इषः ॥१०

हे “अश्विना अश्विनौ “नः अस्मभ्यं “रयिं धनम् “आ “वोळ्हम् आवहतम् आहरतम् । वहेर्लोटि छान्दसः शपो लुक् । ढत्वधत्वष्टुत्वढलोपेषु कृतेषु • सहिवहोरोदवर्णस्य' इत्योत्वम् । कीदृशं रयिम् । “गोमन्तं बह्वीभिर्गोभिर्युक्तं “सुवीरम् । वीर्याज्जायन्त इति वीराः पुत्राः । शोभनैस्तैरुपेतम् । विविधमीरयन्ति शत्रूनिति वा वीराः शूराः। तैरुपेतम् । “सुरथं शोभनरथेन युक्तम् । अपि च “अश्वावतीः अश्वयुक्ताः । मन्त्रे सोमाश्व ' इति मतौ दीर्घः। “इषः इष्यमाणान्यन्नानि चास्मभ्यमावहतम् ॥ ॥ २ ॥


वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर॑ण्यवर्तनी ।

पिब॑तं सो॒म्यं मधु॑ ॥११

व॒वृ॒धा॒ना । शु॒भः॒ । प॒ती॒ इति॑ । दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी ।

पिब॑तम् । सो॒म्यम् । मधु॑ ॥११

ववृधाना । शुभः । पती इति । दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी ।

पिबतम् । सोम्यम् । मधु ॥११

हे शुभस्पती शुभः शोभनस्थालंकारस्योदकस्य वा पती स्वामिनौ हे अश्विनौ ॥ ‘सुबामन्त्रिते ' इति षष्ठ्यन्तस्य पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् ॥ “दस्रा दर्शनीयौ शत्रूणामुपक्षपयितारौ वा “हिरण्यवर्तनी हिरण्मयमार्गौ । यद्वा। वर्ततेऽस्मिन्निति वर्तनी रथः । हिरण्मयो रथो ययोस्तौ। यद्वा। वर्तनि वर्तनमाचरणम्। हितरमणीयाचरणौ। “ववृधाना प्रवृद्धौ। वृधेर्लिटः कानच् । ईदृशौ युवां “सोम्यं सोममयं "मधु माधुर्योपेतं मदकरं वा रसं “पिबतम् ॥


अ॒स्मभ्यं॑ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथः॑ ।

छ॒र्दिर्यं॑त॒मदा॑भ्यं ॥१२

अ॒स्मभ्य॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । म॒घव॑त्ऽभ्यः । च॒ । स॒ऽप्रथः॑ ।

छ॒र्दिः । य॒न्त॒म् । अदा॑भ्यम् ॥१२

अस्मभ्यम् । वाजिनीवसू इति वाजिनीऽवसू । मघवत्ऽभ्यः । च । सऽप्रथः ।

छर्दिः । यन्तम् । अदाभ्यम् ॥१२

हे “वाजिनीवसू । वाजिनी हविर्युक्ता यागक्रिया । तस्यां वसु धनं हविर्भागलक्षणं ययोस्तथाविधौ है अश्विनौ “अस्मभ्यं स्तोतृभ्यः मघवद्भ्यः । मघं धनं हविर्लक्षणम्। तद्वद्योहै यजमानेभ्यः “च “सप्रथः सर्वतः पृथु विस्तीर्णम् “अदाभ्यं केनाप्यहिंस्यं "छर्दिः । गृहनामैतत् । गृहं “यन्तं नियच्छतं दत्तमिति यावत् ॥ यमेश्छान्दसः शपो लुक् । छन्दस्युभयथा' इत्यार्धधातुकत्वेन ङित्त्वाभावादनुनासिकलोपाभावः ॥


नि षु ब्रह्म॒ जना॑नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तं ।

मो ष्व१॒॑न्याँ उपा॑रतं ॥१३

नि । सु । ब्रह्म॑ । जना॑नाम् । या । अवि॑ष्टम् । तूय॑म् । आ । ग॒त॒म् ।

मो इति॑ । सु । अ॒न्यान् । उप॑ । अ॒र॒त॒म् ॥१३

नि । सु । ब्रह्म । जनानाम् । या । अविष्टम् । तूयम् । आ । गतम् ।

मो इति । सु । अन्यान् । उप । अरतम् ॥१३

हे अश्विनौ “या यौ युवां “जनानां प्राणिनां मध्ये "ब्रह्म ब्राह्मणजातिं “सु सुष्ठु “नि नितराम्। “अविष्टम् अरक्षिष्टम् । यद्वा । जनानां यजमानानां ब्रह्म परिवृढं स्तोत्रं हविर्लक्षणमन्नं वा यौ युवां न्यविष्टं न्यगच्छतम् । अवतिर्गत्यर्थः । तौ युवां “तूयं क्षिप्रम् “आ “गतम् अस्मानप्यागच्छतम् । “अन्यान् अस्मद्व्यतिरिक्तान यजमानान् "मो मैव "सु “उपारतम् उपगमतम् । कदाचिदपि मैव प्राप्नुतमित्यर्थः ॥ अर्तेर्माङि लुङि' सर्तिशास्त्यर्तिभ्यश्च' इति च्लेरङादेशः ॥


‘आपराह्निके प्रवर्ग्ये घर्मस्य हविषः ‘अस्य पिबतम्' इति द्वितीया याज्या । सूत्रितं च - अस्य पिबतमश्विनेति चाप्रेषितो होता' (आश्व. श्रौ. ४. ७) इति ॥

अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः ।

मध्वो॑ रा॒तस्य॑ धिष्ण्या ॥१४

अ॒स्य । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । मद॑स्य । चारु॑णः ।

मध्वः॑ । रा॒तस्य॑ । धि॒ष्ण्या॒ ॥१४

अस्य । पिबतम् । अश्विना । युवम् । मदस्य । चारुणः ।

मध्वः । रातस्य । धिष्ण्या ॥१४

हे "अश्विना अश्विनौ हे “धिष्ण्या । धिषणा स्तुतिः । तदर्हौ “युवं युवां "मदस्य मदरस्य “चारुणः शोभनस्य "रातस्य अस्माभिर्दत्तस्य “अस्य “मध्वः मधुरस्य सोमस्य स्वांशलक्षणं भागं “पिबतम् । यद्वा । द्वितीयार्थे षष्ठी । इमं सोमं पिबतम् ॥


अ॒स्मे आ व॑हतं र॒यिं श॒तवं॑तं सह॒स्रिणं॑ ।

पु॒रु॒क्षुं वि॒श्वधा॑यसं ॥१५

अ॒स्मे इति॑ । आ । व॒ह॒त॒म् । र॒यिम् । श॒तऽव॑न्तम् । स॒ह॒स्रिण॑म् ।

पु॒रु॒ऽक्षुम् । वि॒श्वऽधा॑यसम् ॥१५

अस्मे इति । आ । वहतम् । रयिम् । शतऽवन्तम् । सहस्रिणम् ।

पुरुऽक्षुम् । विश्वऽधायसम् ॥१५

हे अश्विनौ "अस्मे अस्मभ्यं “रयिं धनं “आ “वहतम् आनयतम् । कथंभूतम् । “शतवन्तं शतसंख्योपेतं “सहस्रिणं सहस्रसंख्योपेतं च “पुरुक्षुं बहुनिवासं यद्वा पुरुभिर्बहुभिः स्तुत्यं “विश्वधायसं विश्वेषां सर्वेषामस्मदीयानां धारकम् ।' वहिहाधाम्भ्यश्छन्दसि' इति दधातेरसुन्। णित्' इत्यनुवृत्तेर्णिद्वद्भावेन युगागमः ॥ ॥ ३ ॥


पु॒रु॒त्रा चि॒द्धि वां॑ नरा वि॒ह्वयं॑ते मनी॒षिणः॑ ।

वा॒घद्भि॑रश्वि॒ना ग॑तं ॥१६

पु॒रु॒ऽत्रा । चि॒त् । हि । वा॒म् । न॒रा॒ । वि॒ऽह्वय॑न्ते । म॒नी॒षिणः॑ ।

वा॒घत्ऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥१६

पुरुऽत्रा । चित् । हि । वाम् । नरा । विऽह्वयन्ते । मनीषिणः ।

वाघत्ऽभिः । अश्विना । आ । गतम् ॥१६

हे "नरा नरौ स्तोतॄणां धनस्य नेतारावश्विनौ “मनीषिणः मनस ईशितारः स्तोतारः “वां युवां “पुरुत्रा “चिद्धि बहुषु हि देशेषु विह्वयन्ते विविधमाह्वयन्ति । तथा सति हे अश्विनौ “वाघद्भिः वाहकैरश्वैः “आ “गतम् अस्मानेवागच्छतम् ॥


जना॑सो वृ॒क्तब॑र्हिषो ह॒विष्मं॑तो अरं॒कृतः॑ ।

यु॒वां ह॑वंते अश्विना ॥१७

जना॑सः । वृ॒क्तऽब॑र्हिषः । ह॒विष्म॑न्तः । अ॒र॒म्ऽकृतः॑ ।

यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ॥१७

जनासः । वृक्तऽबर्हिषः । हविष्मन्तः । अरम्ऽकृतः ।

युवाम् । हवन्ते । अश्विना ॥१७

"वृक्तबर्हिषः । वृक्तं छिन्नं बर्हिर्यैस्ते तथोक्ताः । "हविष्मन्तः हविर्भिर्युक्ताः “अरंकृतः पर्याप्तकारिणः यद्वा हविरादीनामलंकर्तारः “जनासः ऋत्विग्लक्षणा जना हे “अश्विना अश्विनौ “युवां हवन्ते आह्वयन्ति । अत आगच्छतमिति शेषः ॥


अ॒स्माक॑म॒द्य वा॑म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अंत॑मः ।

यु॒वाभ्यां॑ भूत्वश्विना ॥१८

अ॒स्माक॑म् । अ॒द्य । वा॒म् । अ॒यम् । स्तोमः॑ । वाहि॑ष्ठः । अन्त॑मः ।

यु॒वाभ्या॑म् । भू॒तु॒ । अ॒श्वि॒ना॒ ॥१८

अस्माकम् । अद्य । वाम् । अयम् । स्तोमः । वाहिष्ठः । अन्तमः ।

युवाभ्याम् । भूतु । अश्विना ॥१८

"अद्य इदानीम् “अस्माकम् "अयं “स्तोमः अस्मदीयं स्तोत्रं हे अश्विनौ “वां युवयोः “वाहिष्ठः वाहयितृतमः प्रापयितृतमः सन् "युवाभ्याम् “अन्तमः अन्तिकतमः अतिशयेन समीपवर्ती “भूतु भवतु । ' तमे तादेश्च' (पा. सू. ६. ४. १४९. ९) इत्यन्तिकशब्दस्य तादिर्लुप्यते । भवतेश्छान्दसः शपो लुक् ॥


यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे ।

ततः॑ पिबतमश्विना ॥१९

यः । ह॒ । वा॒म् । मधु॑नः । दृतिः॑ । आऽहि॑तः । र॒थ॒ऽचर्ष॑णे ।

ततः॑ । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥१९

यः । ह । वाम् । मधुनः । दृतिः । आऽहितः । रथऽचर्षणे ।

ततः । पिबतम् । अश्विना ॥१९

हे "अश्विना अश्विनौ “रथचर्षणे रथस्य चर्षणे द्रष्टव्ये मध्ये देशे “यः “द्दतिः "मधुनः मधुरस्यास्माभिर्दत्तस्य सोमस्य संबन्धी तेन मधुना पूर्णः “आहितः स्थापितो वर्तते “ततः दृतेः सकाशात् सोमं “पिबतम् ॥


तेन॑ नो वाजिनीवसू॒ पश्वे॑ तो॒काय॒ शं गवे॑ ।

वह॑तं॒ पीव॑री॒रिषः॑ ॥२०

तेन॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । पश्वे॑ । तो॒काय॑ । शम् । गवे॑ ।

वह॑तम् । पीव॑रीः । इषः॑ ॥२०

तेन । नः । वाजिनीवसू इति वाजिनीऽवसू । पश्वे । तोकाय । शम् । गवे ।

वहतम् । पीवरीः । इषः ॥२०

हे "वाजिनीवसू । वाजोऽन्नं बलं वा । तद्युक्तधनौ "नः अस्माकं “पश्वे पशवे अश्वादिलक्षणाय । ‘जसादिषु छन्दसि वावचनम्' इति धेर्ङिति' इति गुणस्य विकल्पितत्वाद्यण् ॥ “तोकाय पुत्राय “गवे च । जात्यभिप्रायं सर्वत्रैकवचनम्। पशुप्रभृतिभ्यः “शं सुखं यथा भवति तथा “पीवरीः प्रवृद्धान् “इषः अन्नानि “तेन भवदीयेन रथेन “वहतम् आवहतं प्रापयतम् । दत्तमित्यर्थः ॥ ॥ ४ ॥


उ॒त नो॑ दि॒व्या इष॑ उ॒त सिंधूँ॑रहर्विदा ।

अप॒ द्वारे॑व वर्षथः ॥२१

उ॒त । नः॒ । दि॒व्याः । इषः॑ । उ॒त । सिन्धू॑न् । अ॒हः॒ऽवि॒दा॒ ।

अप॑ । द्वारा॑ऽइव । व॒र्ष॒थः॒ ॥२१

उत । नः । दिव्याः । इषः । उत । सिन्धून् । अहःऽविदा ।

अप । द्वाराऽइव । वर्षथः ॥२१

“उत अपि च हे "अहर्विदा अह्नो लम्भयितारौ । यद्वा । अह्नि प्रभातसमये वेदितव्यौ स्तोतव्यावश्विनौ । “दिव्याः दिविभवाः “इषः इष्यमाणा अपः “नः अस्मदर्थं “द्वारेव द्वारेणेव छिद्रेणेव “अप “वर्षथः मेघादपकृष्य युवां सिञ्चथः । “उत अपि च "सिन्धून् स्यन्दनशीला नदीः वृष्टैस्तैरुदकैः अस्माकं स्नानपानादिकार्थाय कृतवन्तावित्यर्थः ॥


क॒दा वां॑ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा ।

यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥२२

क॒दा । वा॒म् । तौ॒ग्र्यः । वि॒ध॒त् । स॒मु॒द्रे । ज॒हि॒तः । न॒रा॒ ।

यत् । वा॒म् । रथः॑ । विऽभिः॑ । पता॑त् ॥२२

कदा । वाम् । तौग्र्यः । विधत् । समुद्रे । जहितः । नरा ।

यत् । वाम् । रथः । विऽभिः । पतात् ॥२२

हे "नरा नरौ नेतारावश्विनौ “तौग्र्यः तुग्रपुत्रो भुज्युः "समुद्रे जलधौ “जहितः असुरैः प्रक्षिप्तः सन् "कदा कस्मिन् काले “वां युवां “विधत् अविधत् स्तुतिभिः पर्यंचरत् । “यत् यदा “वां युवयोः “विभिः गन्तृभिरश्वैरुपेतः “रथः “पतात् तं भुज्युमानेतुं पतेत् गच्छेत् तदानीं भुज्युरस्तौदिति पूर्वेणार्धेन पृष्टस्य प्रतिवचनम् ॥


यु॒वं कण्वा॑य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये ।

शश्व॑दू॒तीर्द॑शस्यथः ॥२३

यु॒वम् । कण्वा॑य । ना॒स॒त्या॒ । अपि॑ऽरिप्ताय । ह॒र्म्ये ।

शश्व॑त् । ऊ॒तीः । द॒श॒स्य॒थः॒ ॥२३

युवम् । कण्वाय । नासत्या । अपिऽरिप्ताय । हर्म्ये ।

शश्वत् । ऊतीः । दशस्यथः ॥२३

हे "नासत्या । सत्सु साधू सत्यौ। न सत्यावसत्यौ । न असत्यौ नासत्यौ। ‘नभ्राण्नपात्” । इति नञः प्रकृतिभावः । यद्वा । सत्यस्य नेतारौ नासिकाप्रभवौ वा । उक्तं च भगवता यास्केन -- ‘सत्यावेव नासत्यावित्यौर्णवाभः । सत्यस्य प्रणेतारावित्याग्रायणः । नासिकाप्रभवौ बभूवतुरिति वा' (निरु. ६.१३ ) इति । तौ युवां “कण्वाय एतत्संज्ञायर्षये “हर्म्ये हर्म्यतले अपिरिप्ताय असुरैर्बाधिताय "शश्वत् शश्वतीः बह्वीः "ऊतीः रक्षाः “दशस्यथः दत्तवन्तौ । 'युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तम्' (ऋ. सं. १. ११८.७) इत्यत्रेतिहास उक्तः । सोऽत्र द्रष्टव्यः ॥


ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः॑ ।

यद्वां॑ वृषण्वसू हु॒वे ॥२४

ताभिः॑ । आ । या॒त॒म् । ऊ॒तिऽभिः॑ । नव्य॑सीभिः । सु॒श॒स्तिऽभिः॑ ।

यत् । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । हु॒वे ॥२४

ताभिः । आ । यातम् । ऊतिऽभिः । नव्यसीभिः । सुशस्तिऽभिः ।

यत् । वाम् । वृषण्वसू इति वृषण्ऽवसू । हुवे ॥२४

हे "वृषण्वसू वर्षणधनौ। ‘वृषण्वस्वश्वयोरुपसंख्यानम्' (पा.सू. १. ४. १८. ४) इति वृषभावो निपात्यते । तदानीं "ताभिः पूर्वोक्ताभिः "नव्यसीभिः नवतराभिः "सुशस्तिभिः सुप्रशस्याभिः “ऊतिभिः रक्षाभिः सार्धम् "आ "यातम् आगच्छतम् । "यत् यदा "वां "हुवे स्तुतिभिराह्वयामि ॥


यथा॑ चि॒त्कण्व॒माव॑तं प्रि॒यमे॑धमुपस्तु॒तं ।

अत्रिं॑ शिं॒जार॑मश्विना ॥२५

यथा॑ । चि॒त् । कण्व॑म् । आव॑तम् । प्रि॒यऽमे॑धम् । उ॒प॒ऽस्तु॒तम् ।

अत्रि॑म् । शि॒ञ्जार॑म् । अ॒श्वि॒ना॒ ॥२५

यथा । चित् । कण्वम् । आवतम् । प्रियऽमेधम् । उपऽस्तुतम् ।

अत्रिम् । शिञ्जारम् । अश्विना ॥२५

हे "अश्विना अश्विनौ "यथा "चित् येन खलु प्रकारेण "कण्वम् एतत्संज्ञमृषिम् "आवतम् अरक्षतं प्रियमेधं प्रिययज्ञमेतत्संज्ञं च "उपस्तुतम् एतदाख्यं च "शिञ्जारं शब्दयन्तं स्तुवन्तम् “अत्रिम् एतानृषींश्च येन प्रकारेणारक्षतं तथास्मानपि रक्षतमिति शेषः । यद्वा । एतावद्वां वृषण्वसू' इत्यनयैकवाक्यता॥ ॥ ५ ॥


यथो॒त कृत्व्ये॒ धने॒ऽंशुं गोष्व॒गस्त्यं॑ ।

यथा॒ वाजे॑षु॒ सोभ॑रिं ॥२६

यथा॑ । उ॒त । कृत्व्ये॑ । धने॑ । अं॒शुम् । गोषु॑ । अ॒गस्त्य॑म् ।

यथा॑ । वाजे॑षु । सोभ॑रिम् ॥२६

यथा । उत । कृत्व्ये । धने । अंशुम् । गोषु । अगस्त्यम् ।

यथा । वाजेषु । सोभरिम् ॥२६

“उत अपि च "यथा येन प्रकारेण "धने "कृत्व्ये कर्तव्ये प्राप्तव्ये सति "अंशुम् एतत्संज्ञं स्तोतारमावतमरक्षतम् । “गोषु च लब्धव्यासु "यथा “अगस्त्यम् ऋषिमरक्षतम् । "वाजेषु अन्नेषु लब्धव्येषु यथा येन प्रकारेण "सोभरिम् एतत्संज्ञमृषिं चारक्षतम् । अत्रापि पूर्ववद्वाक्यशेष उत्तरयैकवाक्यता वा ।।


ए॒ताव॑द्वां वृषण्वसू॒ अतो॑ वा॒ भूयो॑ अश्विना ।

गृ॒णंतः॑ सु॒म्नमी॑महे ॥२७

ए॒ताव॑त् । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । अतः॑ । वा॒ । भूयः॑ । अ॒श्वि॒ना॒ ।

गृ॒णन्तः॑ । सु॒म्नम् । ई॒म॒हे॒ ॥२७

एतावत् । वाम् । वृषण्वसू इति वृषण्ऽवसू । अतः । वा । भूयः । अश्विना ।

गृणन्तः । सुम्नम् । ईमहे ॥२७

हे वृषण्वसू वर्षणधनौ “अश्विना अश्विनौ "गृणन्तः स्तुवन्तो वयम् "एतावत् ‘यथा चित् कण्वम् ' इत्यादिना यावदनुक्रान्तमेतत्परिमाणं "सुम्नं सुखम् "अतो "वा अस्माद्वा “भूयः बहुतरमधिकं सुम्नं "वां युवाम् "ईमहे याचामहे ।।


रथं॒ हिर॑ण्यवंधुरं॒ हिर॑ण्याभीशुमश्विना ।

आ हि स्थाथो॑ दिवि॒स्पृशं॑ ॥२८

रथ॑म् । हिर॑ण्यऽवन्धुरम् । हिर॑ण्यऽअभीशुम् । अ॒श्वि॒ना॒ ।

आ । हि । स्थाथः॑ । दि॒वि॒ऽस्पृश॑म् ॥२८

रथम् । हिरण्यऽवन्धुरम् । हिरण्यऽअभीशुम् । अश्विना ।

आ । हि । स्थाथः । दिविऽस्पृशम् ॥२८

हे "अश्विना अश्विनौ "हिरण्यवन्धुरम् । सारथिस्थानं वन्धुरम् । हिरण्मयसारथिस्थानं “हिरण्याभीशुं हिरण्मयप्रग्रहं "दिविस्पृशम् अत्युन्नतत्वाद्दिवं स्पृशन्तम् । स्पृशेः क्विन् । द्विशब्दादद्वितीयार्थे सप्तमी । “हृद्द्युभ्यां ङेरुपसंख्यानम्' इत्यलुक् । ईदृशं "रथम् “आ “हि "स्थाथः युवामातिष्ठथ एव । हिरवधारणे । अस्मदीयां स्तुतिं श्रोतुं शीघ्रं रथमास्थायागतमिति भावः ।। ‘ष्ठा गतिनिवृत्तौ' । लटि छान्दसः शपो लुक् ॥


हि॒र॒ण्ययी॑ वां॒ रभि॑री॒षा अक्षो॑ हिर॒ण्ययः॑ ।

उ॒भा च॒क्रा हि॑र॒ण्यया॑ ॥२९

हि॒र॒ण्ययी॑म् । वा॒म् । रभिः॑ । ई॒षा । अक्षः॑ । हि॒र॒ण्ययः॑ ।

उ॒भा । च॒क्रा । हि॒र॒ण्यया॑ ॥२९

हिरण्ययीम् । वाम् । रभिः । ईषा । अक्षः । हिरण्ययः ।

उभा । चक्रा । हिरण्यया ॥२९

हे अश्विनौ "वां युवयोः “रभिः आरम्भणीयालम्भनभूता रथस्य “ईषा “हिरण्ययी हिरण्मयी हिरण्यविकारा । "अक्षः च “हिरण्ययः हिरण्मयो हिरण्यनिर्मितः । ‘ईषा अक्षादिषु च्छन्दसि । (पा. सू. ६. १. १२७, २) इति प्रकृतिभावः । अपि च "उभा उभे द्वे अपि “चक्रा चक्रे रथचरणे “हिरण्यया हिरण्मये सुवर्णनिर्मिते। ‘सुपां सुलुक्' इति द्विवचनस्याकारः । ‘ऋत्व्यवास्त्व्यवास्त्व इत्यादिना हिरण्यशब्दान्मयटो मलोपो निपात्यते ॥


तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तं ।

उपे॒मां सु॑ष्टु॒तिं मम॑ ॥३०

तेन॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प॒रा॒ऽवतः॑ । चि॒त् । आ । ग॒त॒म् ।

उप॑ । इ॒माम् । सु॒ऽस्तु॒तिम् । मम॑ ॥३०

तेन । नः । वाजिनीवसू इति वाजिनीऽवसू । पराऽवतः । चित् । आ । गतम् ।

उप । इमाम् । सुऽस्तुतिम् । मम ॥३०

हे "वाजिनीवसू अन्नवद्धनावश्विनौ य उक्तो हिरण्मयसर्वावयवो रथः “तेन रथेन “नः अस्मान् “परावतश्चित् दूरदेशादपि “आ "गतम् आगच्छतम्। गमेश्छन्दसः शपो लुक् । 'अनुदात्तोपदेश इत्यनुनासिकलोपः । इदानीमृषिरेकवदाह । "मम मदीयाम् "इमाम् इदानीं क्रियमाणां "सुष्टुतिं शोभनां स्तुतिं चोपगच्छतम् ॥ ॥ ६ ॥


आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नंता॑वश्विना ।

इषो॒ दासी॑रमर्त्या ॥३१

आ । व॒हे॒थे॒ इति॑ । प॒रा॒कात् । पू॒र्वीः । अ॒श्नन्तौ॑ । अ॒श्वि॒ना॒ ।

इषः॑ । दासीः॑ । अ॒म॒र्त्या॒ ॥३१

आ । वहेथे इति । पराकात् । पूर्वीः । अश्नन्तौ । अश्विना ।

इषः । दासीः । अमर्त्या ॥३१

हे "अमर्त्या अमरणौ "अश्विना अश्विनौ "दासीः । दासा उपक्षपयितारोऽसुराः । तत्संबन्धिनीः “पूर्वीः पुरीः अश्नन्तौ भक्षयन्तौ भञ्जन्तौ युवाम् "इषः अन्नानि "पराकात् परागताद्दूरदेशात् “आ “वहेथे अस्मान्प्रापयथः । यद्वा । अश्नन्तौ व्याप्नुवन्तौ । 'अशू व्याप्तौ । अस्माद्व्यत्ययेन श्ना परस्मैपदं च । पूर्वीः बह्वीः "दासीः दासस्योपक्षपयितुः शत्रोः संबन्धिनीः इषः अन्नानि शत्रुभ्योऽपहृत्य अस्मान् प्रापयथः ।।


आ नो॑ द्यु॒म्नैरा श्रवो॑भि॒रा रा॒या या॑तमश्विना ।

पुरु॑श्चंद्रा॒ नास॑त्या ॥३२

आ । नः॒ । द्यु॒म्नैः । आ । श्रवः॑ऽभिः । आ । रा॒या । या॒त॒म् । अ॒श्वि॒ना॒ ।

पुरु॑ऽचन्द्रा । नास॑त्या ॥३२

आ । नः । द्युम्नैः । आ । श्रवःऽभिः । आ । राया । यातम् । अश्विना ।

पुरुऽचन्द्रा । नासत्या ॥३२

हे “पुरुश्चन्द्रा बहुहिरण्यौ यद्वा पुरूणां बहूनामाह्लादकौ ॥ ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे' इति सुट् । पादादित्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ॥ हे "नासत्या सत्यस्वभावौ सत्यस्य नेतारौ नासिकाप्रभवौ वा ॥ ‘आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वस्यामन्त्रितस्याविद्यमानवद्भावात् इदमपि आमन्त्रितमाद्युदात्तम्। न च ' नामन्त्रिते समानाधिकरणे' इत्यविद्यमानवत्त्वनिषेधः पुरुश्चन्द्रेत्यस्य विशेषवचनत्वात् ॥ ईदृशौ हे "अश्विना अश्विनौ “द्युम्नैः द्योतमानैरन्नैर्दातव्यैः सार्धं “नः अस्मान् "आ "यातम् आगच्छतम् । तथा “श्रवोभिः श्रवणीयैर्यशोभिश्च अस्मानागच्छतम् । तथा "राया धनेन चास्मानागच्छतम् ॥


एह वां॑ प्रुषि॒तप्स॑वो॒ वयो॑ वहंतु प॒र्णिनः॑ ।

अच्छा॑ स्वध्व॒रं जनं॑ ॥३३

आ । इ॒ह । वा॒म् । प्रु॒षि॒तऽप्स॑वः । वयः॑ । व॒ह॒न्तु॒ । प॒र्णिनः॑ ।

अच्छ॑ । सु॒ऽअ॒ध्व॒रम् । जन॑म् ॥३३

आ । इह । वाम् । प्रुषितऽप्सवः । वयः । वहन्तु । पर्णिनः ।

अच्छ । सुऽअध्वरम् । जनम् ॥३३

हे अश्विनौ "इह अस्मिन् यागे “वां युवां “प्रुषितप्सवः । प्रुषिः स्नेहनकर्मा। स्निग्धरूपाः “पर्णिनः पक्षोपेताः। यद्वा । लुप्तोपममेतत् । पक्षिण इव शीघ्रगामिनः "वयः गन्तारोऽश्वाः "स्वध्वरं शोभनयज्ञं यजमानलक्षणं "जनम् “अच्छ अभिमुखम् “आ "वहन्तु आनयन्तु ॥


रथं॑ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह ।

न च॒क्रम॒भि बा॑धते ॥३४

रथ॑म् । वा॒म् । अनु॑ऽगायसम् । यः । इ॒षा । वर्त॑ते । स॒ह ।

न । च॒क्रम् । अ॒भि । बा॒ध॒ते॒ ॥३४

रथम् । वाम् । अनुऽगायसम् । यः । इषा । वर्तते । सह ।

न । चक्रम् । अभि । बाधते ॥३४

हे अश्विनौ "यः रथोऽस्मभ्यं देयेनान्नेन "सह "वर्तते "वां युवयोः स्वभूतम् “अनुगायसं स्तोतृभिरनुगातव्यं तं "रथं "चक्रं परसैन्यं "न "अभि "बाधते नाभिहन्ति । यद्वा । चक्रं वीर्यकर्मसाधनम्। 'घञर्थे कविधानम्” इति कः। ‘कृञादीनां के (का. ६. १. १२. १) इति द्विर्वचनम् । अस्मिन् पक्षे अन्यः शत्रुरिति कर्तृपदमध्याहर्तव्यम् ॥


हि॒र॒ण्यये॑न॒ रथे॑न द्र॒वत्पा॑णिभि॒रश्वैः॑ ।

धीज॑वना॒ नास॑त्या ॥३५

हि॒र॒ण्यये॑न । रथे॑न । द्र॒वत्पा॑णिऽभिः । अश्वैः॑ ।

धीऽज॑वना । नास॑त्या ॥३५

हिरण्ययेन । रथेन । द्रवत्पाणिऽभिः । अश्वैः ।

धीऽजवना । नासत्या ॥३५

हे “धीजवना मनोवद्वेगवन्तौ । आमन्त्रिताद्युदात्तत्वम्। हे "नासत्या सत्यस्वभावौ सत्यस्य नेतारौ वा । 'आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वस्याविद्यमानत्वेन पदादपरत्वादाष्टमिक निघाताभावः । न च नामन्त्रितविद्यमानवत्त्वनिषेधो धीजवनेत्यस्य विशेषणत्वेन सामान्यवचनत्वाभावात् । व्यावर्तकं हि विशेषणम् । ईदृशौ युवां "द्रवत्पाणिभिः शीघ्रगमनपदैः “अश्वैः युक्तेन “हिरण्ययेन हिरण्मयेन स्वर्णमयेन "रथेन आगतमिति शेषः । यद्वा । धीजवना नासत्या इत्येतदद्वयमपि प्रथमान्तमेव नामन्त्रितम् । धियो जव इव जवो ययोस्तौ। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ईदृशेन रथेन शीघ्रगमनौ नासत्यावश्विनौ आगच्छतमिति शेषः ॥ ॥ ७ ॥


यु॒वं मृ॒गं जा॑गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू ।

ता नः॑ पृंक्तमि॒षा र॒यिं ॥३६

यु॒वम् । मृ॒गम् । जा॒गृ॒ऽवांसम् । स्वद॑थः । वा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

ता । नः॒ । पृ॒ङ्क्त॒म् । इ॒षा । र॒यिम् ॥३६

युवम् । मृगम् । जागृऽवांसम् । स्वदथः । वा । वृषण्वसू इति वृषण्ऽवसू ।

ता । नः । पृङ्क्तम् । इषा । रयिम् ॥३६

वाशब्दः समुच्चये । अपि च हे वृषण्वसू वर्षणधनावश्विनौ "युवं युवां "जागृवांसं जागरणशीलं स्वकार्ये मदजनने व्यग्रं "मृगं मृग्यमन्वेषणीयं सोमं "स्वदथः आस्वादयथः । यद्वा । जागृवांसं जाग्रतं मृगं मृगनामानमसुरं स्वदथः स्वादयथः हिंस्थ इत्यर्थः। “ता तौ युवां "नः अस्मदर्थम् "इषा अन्नेन "रयिं धनं "पृङ्क्तं संपृङ्क्तं कुरुतम्। ईदृशं धनमस्मभ्यं प्रयच्छतमित्यर्थः ।


ता मे॑ अश्विना सनी॒नां वि॒द्यातं॒ नवा॑नां ।

यथा॑ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा॑नां॒ दद॑त्स॒हस्रा॒ दश॒ गोनां॑ ॥३७

ता । मे॒ । अ॒श्वि॒ना॒ । स॒नी॒नाम् । वि॒द्यात॑म् । नवा॑नाम् ।

यथा॑ । चि॒त् । चै॒द्यः । क॒शुः । श॒तम् । उष्ट्रा॑नाम् । दद॑त् । स॒हस्रा॑ । दश॑ । गोना॑म् ॥३७

ता । मे । अश्विना । सनीनाम् । विद्यातम् । नवानाम् ।

यथा । चित् । चैद्यः । कशुः । शतम् । उष्ट्रानाम् । ददत् । सहस्रा । दश । गोनाम् ॥३७

हे अश्विना अश्विनौ "ता तादृशौ युवां "नवानाम् अभिनवानां श्रेष्ठानां "सनीनां संभजनीयानां धनानाम् । कर्मणि षष्ठी । ईदृशानि धनानि "मे मह्यं दापयितुं "विद्यातं जानीतम् । “यथा “चित् येन खलु प्रकारेण "चैद्यः चेदिपुत्रः “कशुः एतत्संज्ञो राजा "उष्ट्रानां "शतं तथा "गोनां गवां “दश "सहस्रा दशसंख्यानि सहस्राणि "ददत् दद्यात् तथा विद्यातमिति पूर्वत्रान्वयः ॥


यो मे॒ हिर॑ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं॑हत ।

अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जनाः॑ ॥३८

यः । मे॒ । हिर॑ण्यऽसन्दृशः । दश॑ । राज्ञः॑ । अमं॑हत ।

अ॒धः॒ऽप॒दाः । इत् । चै॒द्यस्य॑ । कृ॒ष्टयः॑ । च॒र्म॒ऽम्नाः । अ॒भितः॑ । जनाः॑ ॥३८

यः । मे । हिरण्यऽसन्दृशः । दश । राज्ञः । अमंहत ।

अधःऽपदाः । इत् । चैद्यस्य । कृष्टयः । चर्मऽम्नाः । अभितः । जनाः ॥३८

“यः कशुसंज्ञो राजा “मे मह्यं "हिरण्यसंदृशः हिरण्यसंदर्शनान् हिरण्यसमानतेजस्कान् "दश “राज्ञः “अमंहत परिचरणार्थं दत्तवान् । दशसंख्याकान् राज्ञो युद्धे पराजितान् गृहीत्वा दासत्वेनास्मै दत्तवानित्यर्थः । नन्वीदृशानां बहुविधानां राज्ञां दान एकः कथं शक्नुयादिति तत्राह । “कृष्टयः सर्वाः प्रजास्तस्य "चैद्यस्य चेदिपुत्रस्य कशोः "अधस्पदा "इत् पादयोरधस्तादेव वर्तन्ते। न कश्चिदपि तत्समानस्तदधिको वा विद्यते । "अभितः सर्वतो वर्तमानाः "जनाः "चर्मम्नाः चर्ममयस्य कवचादेर्धारणे कृताभ्थासाः । यद्वा। चर्माणि चरणसाधनान्यश्वादीनि वाहनानि । तेषु मनन्त्यभ्यस्यन्तीति चर्मम्नाः । म्ना अभ्यासे । ‘आतो मनिन्” इति विच् । सर्वे मनुष्यास्तस्य भटा इत्यर्थः ॥


माकि॑रे॒ना प॒था गा॒द्येने॒मे यंति॑ चे॒दयः॑ ।

अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ॥३९

माकिः॑ । ए॒ना । प॒था । गा॒त् । येन॑ । इ॒मे । यन्ति॑ । चे॒दयः॑ ।

अ॒न्यः । न । इत् । सू॒रिः । ओह॑ते । भू॒रि॒दाव॑त्ऽतरः । जनः॑ ॥३९

माकिः । एना । पथा । गात् । येन । इमे । यन्ति । चेदयः ।

अन्यः । न । इत् । सूरिः । ओहते । भूरिदावत्ऽतरः । जनः ॥३९

"येन मार्गेण "इमे “चेदयः अस्य राज्ञः पितृपितामहादयः “यन्ति गच्छन्ति “एना अनेन “पथा मार्गेण "माकिः “गात् अन्यो न गन्तुं शक्नोति । अपि च अस्माद्राज्ञः “अन्यः “भूरिदावत्तरः। बहुदातृतमः "सूरिः विद्वान् सन् "जनः "नेत् नैव “ओहते वहति स्तोतृभ्यो धनं प्रापयति । यद्वा । बहुदातृतमो यो जनः कशुर्नाम अस्मादन्यः । व्यत्ययेन प्रथमा । अन्यं "सूरिः स्तोता नेदोहते नैव याचते । ओहिर्याञ्चाकर्मा । यथान्यं न याचते तथा बहु धनं प्रयच्छतीत्यर्थः ॥ ॥ ८॥ ॥ १ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.५&oldid=208918" इत्यस्माद् पुनः प्राप्तिः