ऋग्वेदः सूक्तं ८.५१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.५० ऋग्वेदः - मण्डल ८
सूक्तं ८.५१
श्रुष्टिगुः काण्वः।
सूक्तं ८.५२ →
दे. इन्द्रः । प्रगाथः ( )।


यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम् ।
नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥१॥
पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् ।
सहस्राण्यसिषासद्गवामृषिस्त्वोतो दस्यवे वृकः ॥२॥
य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः ।
इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसे ॥३॥
यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे ।
स त्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यम् ॥४॥
यो नो दाता वसूनामिन्द्रं तं हूमहे वयम् ।
विद्मा ह्यस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥५॥
यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते ।
तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥६॥
कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे ।
उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥७॥
प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् ।
यदेदस्तम्भीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः ॥८॥
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।
तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयिः ॥९॥
तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः ।
अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥१०॥


भाष्यम्

“यथा मनौ सांवरणौ ' इति दशर्चं तृतीयं सूक्तं काण्वस्य श्रुष्टिगोरार्षमैन्द्रम् । अनुक्रान्तं च--- यथा मनौ श्रुष्टिगुः' इति । अयुजां बृहती छन्दः युजां सतोबृहती छन्दः । विनियोगः सूत्रादवगन्तव्यः ।


यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मि॒न्द्रापि॑बः सु॒तम् ।

नीपा॑तिथौ मघव॒न्मेध्या॑तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा॑ ॥१

यथा॑ । मनौ॑ । साम्ऽव॑रणौ । सोम॑म् । इ॒न्द्र॒ । अपि॑बः । सु॒तम् ।

नीप॑ऽअतिथौ । म॒घ॒ऽव॒न् । मेध्य॑ऽअतिथौ । पुष्टि॑ऽगौ । श्रुष्टि॑ऽगौ । सचा॑ ॥१

यथा । मनौ । साम्ऽवरणौ। सोमम् । इन्द्र। अपिबः । सुतम् ।

नीपऽअतिथौ । मघऽवन् । मेध्यऽअतिथौ । पुष्टिऽगौ । श्रुष्टिsगौ। सचा ॥ १ ॥

हे इन्द्र यथा येन प्रकारेण सांवरणौ संवरणस्य पुत्रे मनौ वर्तमानं सुतमभिषुतं सोममपिबः पीतवानसि । तथा हे मघवन् धनवन्निन्द्र नीपातिथौ। नयति हविर्देवान् पाति रक्षति यजमानं चेति नीपः । तादृशोऽतिथिर्यस्य तस्मिन् । एतत्संज्ञके ऋषौ मेध्यातिथौ । मेध्यः यज्ञार्हः अतिथिर्यस्य तादृशे एतन्नामके ऋषौ पुष्टिगौ। पुष्टिः कुटुम्बपोषिका गौर्यस्य तादृशे ऋषौ । ‘क्तिच्क्तौ च संज्ञायाम्' इति पुषिधातोः कर्तरि क्तिच् । श्रुष्टिगौ । श्रुष्टिः शीघ्रव्यापिनी गौर्यस्य तादृशे मयि च । 'श्रुष्टीति क्षिप्रनाम आशु अष्टि ' इति निरुक्तमत्रानुसंधेयम् । एतेष्वस्मासु वर्तमानभिषुतं सोमं सचा सहैव पिबेति शेषः । इह सचापदेन युगपदनेकरूपधारणशक्तिः सूच्यते । संभवति च सा । 'इन्द्रो मायाभिः पुरुरूप ईयते' इत्यादिश्रुतेः ।।


पा॒र्ष॒द्वा॒णः प्रस्क॑ण्वं॒ सम॑सादय॒च्छया॑नं॒ जिव्रि॒मुद्धि॑तम् ।

स॒हस्रा॑ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृकः॑ ॥२

पा॒र्ष॒द्वा॒णः । प्रस्क॑ण्वम् । सम् । अ॒सा॒द॒य॒त् । शया॑नम् । जिव्रि॑म् । उद्धि॑तम् ।

स॒हस्रा॑णि । अ॒सि॒सा॒स॒त् । गवा॑म् । ऋषिः॑ । त्वाऽऊ॑तः । दस्य॑वे । वृकः॑ ॥२

पार्षद्वाणः । प्रस्कण्वम् । सम् । असादयत्। शयानम् । जिव्रिम् । उद्धितम् ।

सहस्राणि । असिसासत् । गवाम् । ऋषिः । त्वाऽऊतः । दस्यवे । वृकः ॥ २ ॥

हे इन्द्र पार्षद्वाणः परुषवाक् श्चिछत्तुः(कश्चिच्छत्रुः )। वाण इति वाङ्नाम ‘वाणीची वाणः' इति तन्नामसु पाठात् । शयानं स्वपन्तं प्रस्कण्वं कण्वस्य पुत्रं यदा समसादयत् सम्यगपीडयत् । कीदृशम् । जिव्रिं जराजीर्णम् उद्धितम् ऊर्ध्वदेशे स्थापितम् । तदा त्वोतः त्वया इन्द्रेण रक्षितः स ऋषिः प्रस्कण्वः दस्यवे उपक्षपयितुः शत्रोः वृकः विकर्तनः सन् तदीयानि गवां सहस्राणि असिसासत् संभजते स्म । इत्थंप्रभावस्त्वमसि तस्मात्त्वां स्तुम इत्यर्थः ।।


य उ॒क्थेभि॒र्न वि॒न्धते॑ चि॒किद्य ऋ॑षि॒चोद॑नः ।

इन्द्रं॒ तमच्छा॑ वद॒ नव्य॑स्या म॒त्यरि॑ष्यन्तं॒ न भोज॑से ॥३

यः । उ॒क्थेभिः॑ । न । वि॒न्धते॑ । चि॒कित् । यः । ऋ॒षि॒ऽचोद॑नः ।

इन्द्र॑म् । तम् । अच्छ॑ । व॒द॒ । नव्य॑स्या । म॒ती । अवि॑ष्यन्तम् । न । भोज॑से ॥३

यः । उक्थेभिः । न । विन्धते । चिकित् । यः । ऋषिऽचोदनः ।

इन्द्रम् । तम् । अच्छ। वद । नव्यस्या । मती । अरिष्यन्तम् । न । भोजसे ॥ ३ ॥

ऋषिरात्मानं ब्रूते । हे श्रुष्टिगो य इन्द्रः न संप्रति उक्थेभिः उक्थैः स्तोत्रैः स्तुतः सन् चिकित् स्तोतुः ज्ञानं विन्धते परिचरति । विधतिः परिचरणकर्मा । मत्स्तवने तव सम्यक् ज्ञानमस्तीत्या(त्य)भिनन्दति । यश्चेन्द्रः ऋषिचोदनः ऋषीणां मन्त्राणां तद्द्रष्टॄणां वा चोदनः प्रवर्तकोऽस्ति तमिन्द्रं परमेश्वरम् अच्छाभिलक्ष्य नव्यस्या नवतना( नवतरां) मती मतिं स्तुतिं वद ब्रूहि । तत्र दृष्टान्तः । अरिष्यन्तं न भोजसे । यथा कश्चिदरिष्यन्तम् अहिंसन्तं स्वामिनं भोजसे स्वपालनाय नवतरां स्तुतिं ब्रूते तद्वत् ।।


यस्मा॑ अ॒र्कं स॒प्तशी॑र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे ।

स त्वि१॒॑मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्य॑म् ॥४

यस्मै॑ । अ॒र्कम् । स॒प्तऽशी॑र्षाणम् । आ॒नृ॒चुः । त्रि॒ऽधातु॑म् । उ॒त्ऽत॒मे । प॒दे ।

सः । तु । इ॒मा । विश्वा॑ । भुव॑नानि । चि॒क्र॒द॒त् । आत् । इत् । ज॒नि॒ष्ट॒ । पौंस्य॑म् ॥४

यस्मै । अर्कम् । सप्तऽशीर्षाणम् । आनृचुः । त्रिऽधातुम् । उत्ऽतमे । पदे ।।

सः । तु । इमा । विश्वा । भुवनानि । चिक्रदत् । आत् । इत् । जनिष्ट । पौंस्यम् ॥ ४ ॥

यस्मै इन्द्राय परमेश्वराय तदर्थम् उत्तमे पदे उत्कृष्टतमे स्थाने द्युलोकाख्ये स्थितम् अर्कम् अर्चनीयमादित्यमानृचुः अर्चन्ति सर्वे । “अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते । (छा. उ. १. ६. ६) इत्यादिश्रुत्युक्तं यदीयं स्वरूपमुपलब्धम् । सर्वे सूर्यमाराधयन्तीत्यर्थः । कीदृशमर्कम् । सप्तशीर्षाणम् । सप्तसंख्याकाः शीर्षवत् प्रधानभूता रश्मयो यस्य तादृशम् । त्रिधातुं त्रयाणां भूरादिलोकानां पोषकम् । सूर्यस्य त्रिलोकीपोषकत्वं तु वृष्ट्यादिव्यापारेण प्रसिद्धम् । यत्स्वरूपलाभाय अर्कमर्चन्ति स तु परमेश्वरः इमा इमानि दृश्यमानानि विश्वा सर्वाणि भुवनानि भूतजातानि देवासुरमनुष्यरूपाणि उद्दिश्य अचिक्रदत् आक्रन्दति । माध्यमिक्या वाचा दददशब्दैर्गम(र्दम )दयादानवाचकैः । आदित् अनन्तरमेव पौंस्यं बलं शिक्षालक्षणं जनिष्ट जनयति आविर्भावयति । अयं भावः । परमेश्वर आदौ मेघस्तनितलक्षणया स्ववाण्या भूक्षेभ्यो (भूस्थेभ्यो) हितमुपदिशति । अनाकर्णिते च तस्मिन् पश्चाद्दारिद्र्यादिलक्षणां शिक्षामाविष्करोतीति । अत्राभिहितोऽर्थों बृहदारण्यके खिलकाण्डे ‘त्रया ह वै प्राजापत्याः' इत्यादिना ग्रन्थेन प्रपञ्चितः (बृ. उ. ५. २) ॥


यो नो॑ दा॒ता वसू॑ना॒मिन्द्रं॒ तं हू॑महे व॒यम् ।

वि॒द्मा ह्य॑स्य सुम॒तिं नवी॑यसीं ग॒मेम॒ गोम॑ति व्र॒जे ॥५

यः । नः॒ । दा॒ता । वसू॑नाम् । इन्द्र॑म् । तम् । हू॒म॒हे॒ । व॒यम् ।

वि॒द्म । हि । अ॒स्य॒ । सु॒ऽम॒तिम् । नवी॑यसीम् । ग॒मेम॑ । गोऽम॑ति । व्र॒जे ॥५

यः । नः । दाता । वसूनाम् । इन्द्रम् । तम् । हूमहे । वयम् ।

विद्म । हि । अस्य । सुऽमतिम् । नवीयसीम् । गमेम । गोऽमति । व्रजे ॥ ५ ॥ ॥१८॥

य इन्द्रः नोऽस्माकं वसूनां वासहेतूनां धनानां दाता भवति तमिन्द्रं परमेश्वरं हूमहे आह्वयामो वयं स्तोतारः । हि यस्मादस्येन्द्रस्य नवीयसीं नवतरामकृतपूर्वां सुमतिं कल्याणीं मतिमनुग्रहबुद्धिं विद्म जानीमः । अतस्तमाह्वयामेति पूर्वेण संबन्धः । यया सुमत्या वयं गोमति गवोपेते व्रजे गजाश्वादिपशुसमूहे गमेम स्वामित्वेन प्राप्नुयाम ।। ।। १८ ॥


यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते ।

तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥६

यस्मै॑ । त्वम् । व॒सो॒ इति॑ । दा॒नाय॑ । शिक्ष॑सि । सः । रा॒यः । पोष॑म् । अ॒श्नु॒ते॒ ।

तम् । त्वा॒ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥६

यस्मै । त्वम् । वसो इति । दानाय । शिक्षसि । सः । रायः । पोषम् । अश्नुते ।

तम् । त्वा । वयम् । मघवन् । इन्द्र । गिर्वणः । सुतऽवन्तः । हवामहे ॥ ६ ॥

हे वसो वासयितरिन्द्र त्वं यस्मै यजमानाय दानाय धनदानार्थं शिक्षसि आज्ञापयसि स यजमानः रायः धनस्य पोषं पुष्टिमश्नुते व्याप्नोति । यं यजमानं धनं दातुं प्रवर्तयसि स त्वदाज्ञया धनत्यागेन वसुसमृद्धो भवतीत्याश्चर्यम् । अतो हे गिर्वणः गीर्भिर्वननीय मघवन् धनवन्निन्द्र तं तादृशं त्वा त्वां सुतावन्तः अभिषुतसोमा वयं हवामहे आह्वयामः ॥


क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ ।

उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥७

क॒दा । च॒न । स्त॒रीः । अ॒सि॒ । न । इ॒न्द्र॒ । स॒श्च॒सि॒ । दा॒शुषे॑ ।

उप॑ऽउप । इत् । नु । म॒घ॒ऽव॒न् । भूयः॑ । इत् । नु । ते॒ । दान॑म् । दे॒वस्य॑ । पृ॒च्य॒ते॒ ॥७

कदा । चन । स्तरीः । असि । न । इन्द्र । सश्चसि । दाशुषे ।।

उपऽउप । इत् । नु । मघवन् । भूयः । इत् । नु । ते। दानम् । देवस्य । पृच्यते ॥७॥

हे मघवन् धनवन्निन्द्र नु क्षिप्रं दानं हविःसमर्पणं नु निश्चितं भूय इत् प्रचुरं सदेव ते तव देवस्य द्योतमानस्य परमेश्वरस्य उपोपेत् समीपमेव पृच्यते त्वया संपृक्तं भवति । स्वल्पमपि शीघ्रं सत्पात्रे समर्पितं बहुलीभूय ईश्वरे संगतं भवतीत्यभिप्रायः । अतः हे इन्द्र परमेश्वर दाशुषे हविर्दत्तवतो यजमानस्य स्तरीः हिंसकः कदाचन कदापि नासि न भवसि । अपि तु सश्चसि तेन संगच्छसे । तदीयं सख्यं संपादयसीत्यर्थः । 'प्रसमुपोदः पादपूरणे' (पा. सु. ८. १. ६) इत्यनेन उप इत्यस्य द्विवचनं (द्विर्वचनं ) पादपूरणार्थम् ॥


प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् ।

य॒देदस्त॑म्भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥८

प्र । यः । न॒न॒क्षे । अ॒भि । ओज॑सा । क्रिवि॑म् । व॒धैः । शुष्ण॑म् । नि॒ऽघो॒षय॑न् ।

य॒दा । इत् । अस्त॑म्भीत् । प्र॒थय॑न् । अ॒मूम् । दिव॑म् । आत् । इत् । ज॒नि॒ष्ट॒ । पार्थि॑वः ॥८

प्र । यः। ननक्षे । अभि । ओजसा । क्रिविम् । वधैः । शुष्णम् । निऽघोषयन् ।

यदा । इत् । अस्तम्भीत् । प्रथयन् । अमूम् । दिवम् । आत् । इत् । जनिष्ट । पार्थिवः ॥८॥

य इन्द्रः वधैः आयुधप्रहारैः क्रिविं विकृत्तं शुष्णमेतन्नामानमसुरम् ओजसा बलेन निघोषयन् नितरां शब्दयन् सन् अभि अभितः प्र प्रकर्षेण ननक्षे व्याप्नोति स्म । असुरं हत्वा स्वसामर्थ्यं सर्वतः प्रकाशितवानित्यर्थः । कदेत्यपेक्षायामाह । यदेत् यदैव सोऽसुरः प्रथयन् आत्मानं पृथुं कुर्वन् अमुं दूरे दृश्यमानं दिवं द्युलोकम् अस्तम्भीत् स्तब्धं कृतवान् । आदित् अनन्तरमेव पार्थिवोऽग्निः जनिष्ट प्रादुरभूत् । लोकानां प्राणनिरोधेन अग्निः समजनि यदा तदेत्यर्थः ।।


यस्या॒यं विश्व॒ आर्यो॒ दासः॑ शेवधि॒पा अ॒रिः ।

ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ॥९

यस्य॑ । अ॒यम् । विश्वः॑ । आर्यः॑ । दासः॑ । शे॒व॒धि॒ऽपाः । अ॒रिः ।

ति॒रः । चि॒त् । अ॒र्ये । रुश॑मे । पवी॑रवि । तुभ्य॑ । इत् । सः । अ॒ज्य॒ते॒ । र॒यिः ॥९

यस्य । अयम् । विश्वः । आर्यः । दासः । शेवधिऽपाः । अरिः ।

तिरः । चित् । अर्ये । रुशमे । पवीरवि । तुभ्य । इत् । सः । अज्यते । रयिः ॥ ९॥

विश्वः सर्वः अयं दृश्यमानः आर्यः असुरस्वामिको गणः यस्येन्द्रस्य अरिः शत्रुर्भवति । कीदृशः सः । दासः धनादेरुपक्षयिता शेवधिपाः । शेवधिर्निधिस्तं पाति रक्षतीति । तथा असुरादिधनस्यापहर्ता स्वधनस्य च रक्षितेत्यर्थः । तेनेन्द्रेण रुशमे अकल्याणे अर्ये अरिगणे तस्मिन् तिरश्चित् अन्तर्हितमेव पवीरवि । पवी रथनेमिस्तद्वन्तोऽराः पवीराः । तदुपेतं चक्रं पवीरवि। अत्र ‘पवी रथनेमिर्भवति' (निरु. ५. ५) इत्यादि निरुक्तं द्रष्टव्यम् । तादृशं चक्रमज्यते प्रक्षिप्यते । चतुर्थपादे प्रत्यक्षीकृत्य उच्यते । हे इन्द्र तुभ्यमेव त्वदर्थमेव सः असुरगणे विद्यमानः रयिः निधिलक्षणो धनराशिः अज्यते प्रक्षिप्यतेऽरिगणेन । असुरगणे गुप्तं चक्रदानमपि इन्द्राय निधिप्रदमभवत् तदा सत्पात्रे गुप्तं धनदानं महाफलदं स्यादिति किमु वक्तव्यमित्याशयः ॥


तु॒र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः ।

अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥१०

तु॒र॒ण्यवः॑ । मधु॑ऽमन्तम् । घृ॒त॒ऽश्चुत॑म् । विप्रा॑सः । अ॒र्कम् । आ॒नृ॒चुः॒ ।

अ॒स्मे इति॑ । र॒यिः । प॒प्र॒थे॒ । वृष्ण्य॑म् । शवः॑ । अ॒स्मे इति॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥१०

तुरण्यवः । मधुऽमन्तम् । घृतऽश्चुतम् । विप्रासः । अर्कम् । आनृचुः ।

अस्मे इति । रयिः । पप्रथे । वृष्ण्यम् । शवः । अस्मे इति । सुवानासः । इन्दवः ।।१०॥ ॥१९॥

तुरण्यवः त्वरमाणाः विप्रासो मेधाविनो यजमानाः अर्कमर्चनीयमिन्द्रम् आनृचुः अर्चन्ति । कीदृशम् । मधुमन्तं मधुरामृतरसोपेतं घृतश्चुतं जलस्राविणं मेघभेदनेन वृष्टिं कुर्वन्तमित्यर्थः । केनाभिप्रायेणार्चन्तीत्युच्यते । अस्मे अस्मासु रयिः धनराशिः पप्रथे प्रथितो भवतु । तथा वृष्ण्यम् अपत्योत्पादकं शवः बलमस्तु । किंचास्मे अस्मासु सुवानासः अभिषुता इन्दवः सोमाः सन्तु । इन्द्रानुग्रहेणैव तत्सर्वमस्मासु संपद्यतामित्याशयेनेत्यर्थः ॥ ॥ १९ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.५१&oldid=208999" इत्यस्माद् पुनः प्राप्तिः