ऋग्वेदः सूक्तं ८.९६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.९५ ऋग्वेदः - मण्डल ८
सूक्तं ८.९६
तिरश्चीराङ्गिरसो, द्युतानो वा मारुतः।
सूक्तं ८.९७ →
दे. इन्द्रः, १४ इन्द्रामरुतः, १५ इन्द्राबृहस्पती। त्रिष्टुप्, ४ विराट्, २१ पुरस्ताज्ज्योतिः।


अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः ।
अस्मा आपो मातरः सप्त तस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः ॥१॥
अतिविद्धा विथुरेणा चिदस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् ।
न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ॥२॥
इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः ।
शीर्षन्निन्द्रस्य क्रतवो निरेक आसन्नेषन्त श्रुत्या उपाके ॥३॥
मन्ये त्वा यज्ञियं यज्ञियानां मन्ये त्वा च्यवनमच्युतानाम् ।
मन्ये त्वा सत्वनामिन्द्र केतुं मन्ये त्वा वृषभं चर्षणीनाम् ॥४॥
आ यद्वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवा उ ।
प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ॥५॥
तमु ष्टवाम य इमा जजान विश्वा जातान्यवराण्यस्मात् ।
इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्वृषभं विशेम ॥६॥
वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः ।
मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥७॥
त्रिः षष्टिस्त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः ।
उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥८॥
तिग्ममायुधं मरुतामनीकं कस्त इन्द्र प्रति वज्रं दधर्ष ।
अनायुधासो असुरा अदेवाश्चक्रेण ताँ अप वप ऋजीषिन् ॥९॥
मह उग्राय तवसे सुवृक्तिं प्रेरय शिवतमाय पश्वः ।
गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङ्ग वेदत् ॥१०॥
उक्थवाहसे विभ्वे मनीषां द्रुणा न पारमीरया नदीनाम् ।
नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविदङ्ग वेदत् ॥११॥
तद्विविड्ढि यत्त इन्द्रो जुजोषत्स्तुहि सुष्टुतिं नमसा विवास ।
उप भूष जरितर्मा रुवण्यः श्रावया वाचं कुविदङ्ग वेदत् ॥१२॥
अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥१३॥
द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥१४॥
अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥१५॥
त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१६॥
त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ ।
त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥१७॥
त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ ।
त्वं सिन्धूँरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः ॥१८॥
स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान् ।
य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः ॥१९॥
स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम ।
स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥२०॥
स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव ।
कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥२१॥


सायणभाष्यम्

‘ अस्मै ' इत्येकविंशत्यृचं तृतीयं सूक्तम् । अत्रानुक्रम्यते- अस्मै सैका द्युतानो वा मारुतस्त्रैष्टुभं चतुर्थी विराळिष्यामीति मारुतः पादः परैन्द्राबार्हस्पत्या' इति । द्युतानाख्यो मरुतां पुत्र ऋषिस्तिरश्चीर्नामाङ्गिरसो वा । चतुर्थी विराट् । शिष्टास्त्रिष्टुभः । इन्द्रो देवता । इष्यामि वो मरुतः' इति पादो मरुद्देवत्यः। ‘अध द्रप्सः' इत्येषा त्विन्द्राबृहस्पतिदेवताका । सूक्तविनियोगो लिङ्गादवगन्तव्यः ॥


अ॒स्मा उ॒षास॒ आति॑रन्त॒ याम॒मिन्द्रा॑य॒ नक्त॒मूर्म्या॑ः सु॒वाच॑ः ।

अ॒स्मा आपो॑ मा॒तर॑ः स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा॑य॒ सिन्ध॑वः सुपा॒राः ॥१

अ॒स्मै । उ॒षसः॑ । आ । अ॒ति॒र॒न्त॒ । याम॑म् । इन्द्रा॑य । नक्त॑म् । ऊर्म्याः॑ । सु॒ऽवाचः॑ ।

अ॒स्मै । आपः॑ । मा॒तरः॑ । स॒प्त । त॒स्थुः॒ । नृऽभ्यः॑ । तरा॑य । सिन्ध॑वः । सु॒ऽपा॒राः ॥१

अस्मै । उषसः । आ । अतिरन्त । यामम् । इन्द्राय । नक्तम् । ऊर्म्याः । सुऽवाचः ।

अस्मै । आपः । मातरः । सप्त । तस्थुः । नृऽभ्यः । तराय । सिन्धवः । सुऽपाराः ॥१

इन्द्रसामर्थ्याद्भीताः “उषसः उषःकालाः “अस्मै पूर्वोक्तगुणोपेताय “इन्द्राय "यामं स्वस्वगमनम्। “आतिरन्त । तिरतिर्वर्धनकम । समन्तादवर्धयन्त । यथा पूर्वमुद्यन्ति तथेदानीमप्यस्मा उद्गता अभवन् । तथा “ऊर्म्याः । रात्रिनामैतत् । 'ऋ गतिप्रापणयोः'। “अर्तेरू च' (उ. सू. ४. ४८४) इति मिप्रत्ययः । भवे छन्दसि ' इति यत् । सर्वैरभिगन्तव्याः । रात्रौ हि सर्वे स्वनिवासं गच्छन्ति । स्वनिलयप्राप्तिहेतुभूता रात्रयः। “नक्तम् अपररात्रिकाले “सुवाचः शोभनवाचो भवन्ति । तस्मिन् काले हि सर्वे वेदाध्ययनादीनि कुर्वन्ति । तस्मात् कल्याणवाचोऽभवन् । इन्द्रेऽनुशासति वेदाद्यनुमाने निरता अभवन् । तथा “आपः । ‘ अप्लृ व्याप्तौ । सर्वतो व्याप्ताः “मातरः जगतां निर्मात्र्यः “सप्त सप्तसंख्याकाः “सिन्धवः स्यन्दमाना गङ्गाद्या नद्यः । यद्वा । सप्त सर्पणशीलाः सिन्धवः सरितः । तासामावरकस्याहेर्हननोत्पादकत्वात् “अस्मै इन्द्राय “नृभ्यस्तराय मनुष्याणां सुखेन तरणार्थं "सुपाराः शोभनपाराः सुखेन तर्तुं योग्या अभवन्नित्यर्थः ॥


अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णाम् ।

न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥२

अति॑ऽविद्धा । वि॒थु॒रेण॑ । चि॒त् । अस्त्रा॑ । त्रिः । स॒प्त । सानु॑ । सम्ऽहि॑ता । गि॒री॒णाम् ।

न । तत् । दे॒वः । न । मर्त्यः॑ । तु॒तु॒र्या॒त् । यानि॑ । प्रऽवृ॑द्धः । वृ॒ष॒भः । च॒कार॑ ॥२

अतिऽविद्धा । विथुरेण । चित् । अस्त्रा । त्रिः । सप्त । सानु । सम्ऽहिता । गिरीणाम् ।

न । तत् । देवः । न । मर्त्यः । तुतुर्यात् । यानि । प्रऽवृद्धः । वृषभः । चकार ॥२

"विथुरेण । वर्णव्यत्ययः । "चित् अप्यर्थे । विधुरेणासहायेनापि “अस्त्रा। असु क्षेपणे ' । ताच्छीलिकस्तृन् । शत्रुक्षेपणशीलेनेन्द्रेण । यद्वा । अस्त्रास्त्रेण वज्रेण । “त्रिः “सप्त एकविंशतिसंख्यानि "संहिता संहितान्येकत्र संघीभूतानि “गिरीणां सप्तानां पर्वतानां “सानु सानूनि “अतिविद्धा अतिविद्धानि । अतीत्य ताडितानि । तेन मुक्तो वज्रपातस्तानि भित्त्वागमदित्यर्थः । अत्र तैत्तिरीयकं ब्राह्मणं - दर्भपिञ्जूलमुद्धत्य सप्त गिरीन् भित्वा तमहन्' (तै. सं. ६. २. ४. ३) इत्यादि । तस्येन्द्रस्य “तत् तानि सानुभेदनादीनि कर्माणि “देवः इन्द्राद्व्यतिरिक्तो देवः “मर्त्यः मनुष्यो वा “न "तुतुर्यात् न तरेत्। तथा कर्तुं न शक्नोतीत्यर्थः ॥ ‘तॄ प्लवनतरणयोः । लिङि छान्दसः शपः श्लुः। ‘बहुलं छन्दसि' इत्युत्वम् । यद्वा ।' तुर त्वरणे'। जौहोत्यादिकः । “प्रवृद्धः सोमपानेन बलेन व प्रवृद्धः “वृषभः कामानामुदकानां वा वर्षक इन्द्रः “यानि कर्माणि “चकार कृतवान् तानि देवो मनुष्यो वा न तथा कर्तुं शक्नोतीत्यर्थः ॥


इन्द्र॑स्य॒ वज्र॑ आय॒सो निमि॑श्ल॒ इन्द्र॑स्य बा॒ह्वोर्भूयि॑ष्ठ॒मोज॑ः ।

शी॒र्षन्निन्द्र॑स्य॒ क्रत॑वो निरे॒क आ॒सन्नेष॑न्त॒ श्रुत्या॑ उपा॒के ॥३

इन्द्र॑स्य । वज्रः॑ । आ॒य॒सः । निऽमि॑श्लः । इन्द्र॑स्य । बा॒ह्वोः । भूयि॑ष्ठम् । ओजः॑ ।

शी॒र्षन् । इन्द्र॑स्य । क्रत॑वः । नि॒रे॒के । आ॒सन् । आ । ई॒ष॒न्त॒ । श्रुत्यै॑ । उ॒पा॒के ॥३

इन्द्रस्य । वज्रः । आयसः । निऽमिश्लः । इन्द्रस्य । बाह्वोः । भूयिष्ठम् । ओजः ।

शीर्षन् । इन्द्रस्य । क्रतवः । निरेके । आसन् । आ । ईषन्त । श्रुत्यै । उपाके ॥३

उक्तगुणस्य “इन्द्रस्य “वज्र “आयसः अयसा निर्मितः । अयोमय इत्यर्थः। स वज्रः इन्द्रेण स्वहस्ते “निमिश्लः संमिश्रः अत्यन्तं संबद्धः कृतः । अत एव “इन्द्रस्य “बाह्वोः भुजयोः “भूयिष्ठं बहुतमम् "ओजः वीर्यमस्ति । तथा “निरेके। निपूर्वाद्रिच्यतेर्वा निस्पूर्वादेतेर्वेति संदेहादनवग्रहः । निर्गमने यदा युद्धार्थमिन्द्रो निर्गच्छति तदानीम् “इन्द्रस्य “शीर्षन् शिरसि “क्रतवः कर्माणि शिरस्त्राणनिधानादीनि । यद्वा । शिर इति गलप्रभृत्यूर्ध्वमङ्गमुच्यते । तत्रत्याभ्यामक्षिभ्यां दर्शनप्रेरणादीनि कर्माणि भवन्ति । तथा “आसन् । आस्यस्यासन्नादेशः । आस्ये च यानि कर्माणि युद्धार्थं वाजिनो गजान् संनाहयतेत्यादीनि भवन्ति । किंच “श्रुत्यै संग्रामाय निर्गच्छतोऽनुशासित इन्द्रस्य वाक्यश्रवणार्थं सर्वं उपजीविनो भृत्याः “उपाके अन्तिके “एषन्त । अयमिन्द्रोऽस्मान् कुत्र कुत्र कार्ये नियोक्ष्यतीत्येतेन मनसा तदन्तिके समन्तादागच्छन्ति । ईष गतिहिंसादर्शनेषु' । भौवादिकः ॥


मन्ये॑ त्वा य॒ज्ञियं॑ य॒ज्ञिया॑नां॒ मन्ये॑ त्वा॒ च्यव॑न॒मच्यु॑तानाम् ।

मन्ये॑ त्वा॒ सत्व॑नामिन्द्र के॒तुं मन्ये॑ त्वा वृष॒भं च॑र्षणी॒नाम् ॥४

मन्ये॑ । त्वा॒ । य॒ज्ञिय॑म् । य॒ज्ञिया॑नाम् । मन्ये॑ । त्वा॒ । च्यव॑नम् । अच्यु॑तानाम् ।

मन्ये॑ । त्वा॒ । सत्व॑नाम् । इ॒न्द्र॒ । के॒तुम् । मन्ये॑ । त्वा॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥४

मन्ये । त्वा । यज्ञियम् । यज्ञियानाम् । मन्ये । त्वा । च्यवनम् । अच्युतानाम् ।

मन्ये । त्वा । सत्वनाम् । इन्द्र । केतुम् । मन्ये । त्वा । वृषभम् । चर्षणीनाम् ॥४

एतदादयः प्रत्यक्षाः । हे इन्द्र “त्वा त्वां “यज्ञियानां यज्ञार्हाणां देवानामपि “यज्ञियं पुरस्तादेव यज्ञार्हमिति “मन्ये अवबुध्ये। तथा “त्वा त्वाम् “अच्युतानां च्युतिरहितानामपि पर्वतानां “च्यवनं च्यावयितारं वज्रेण विभेदकमिति “मन्ये जानामि । यद्वा । अच्युतानां बलेन च्यावयितुमशक्यानां बलिनां वीराणामपि स्वबलेन विद्रावयितारमिति' जाने । किंच हे "इन्द्र “सत्वनाम्। 'षण संभक्तौ'। क्वनिप् । संभजमानानां भटानां “केतुम् उच्छ्रितमिति “मन्ये । यद्वा । सत्वनां स्तुतिभिः हविर्भिर्वा संभक्तॄणां यष्टॄणां केतुमात्मनः प्रज्ञापकं तेषां पूजनीयमिति वा मन्ये । तथा “त्वा त्वां “चर्षणीनां मनुष्याणां “वृषभम् अभिमतफलवर्षकमिति “मन्ये जानामि ॥


आ यद्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ धत्से॑ मद॒च्युत॒मह॑ये॒ हन्त॒वा उ॑ ।

प्र पर्व॑ता॒ अन॑वन्त॒ प्र गाव॒ः प्र ब्र॒ह्माणो॑ अभि॒नक्ष॑न्त॒ इन्द्र॑म् ॥५

आ । यत् । वज्र॑म् । बा॒ह्वोः । इ॒न्द्र॒ । धत्से॑ । म॒द॒ऽच्युत॑म् । अह॑ये । हन्त॒वै । ऊं॒ इति॑ ।

प्र । पर्व॑ताः । अन॑वन्त । प्र । गावः॑ । प्र । ब्र॒ह्माणः॑ । अ॒भि॒ऽनक्ष॑न्तः । इन्द्र॑म् ॥५

आ । यत् । वज्रम् । बाह्वोः । इन्द्र । धत्से । मदऽच्युतम् । अहये । हन्तवै । ऊं इति ।

प्र । पर्वताः । अनवन्त । प्र । गावः । प्र । ब्रह्माणः । अभिऽनक्षन्तः । इन्द्रम् ॥५

हे “इन्द्र “बाह्वोः “वज्रम् आयुधम् । कीदृशम् । “मदच्युतं शत्रूणां मदस्य च्यावयितारं “यत् यदा “आ “धत्से आदधासि । किमर्थम् । “अहये अहिनामानमसुरं मेघं वा “हन्तवै । "उ इत्यवधारणे । हन्तुमेव । किंच यदा वेन्द्रेणाहिनामकेऽसुरे हते सति “पर्वताः जगदापूरका मेघाः “प्र “अनवन्त । ‘नु शब्दे । प्रकर्षेणाशब्दयन् । यदा वा “गावः तत्स्थान्युदकानि च प्रकर्षेण ध्वनिमकुर्वन् । उदकान्यध्वनयन्नित्यत्र याजुषो निगमः- ‘ यददः संप्रयतीरहावनदता हते तस्मादा नद्यो नाम स्थ' (तै. सं. ५. ६. १. २; अ. सं. ३. १३. १ ) इति । तुरीयः पादः परोक्षः । तदानीम् “अभिनक्षन्तः अभित इन्द्रं स्तुतिभिर्हविर्भिर्गच्छन्तः “ब्रह्माणः ब्राह्मणाः “इन्द्रं पर्यचरन् । यद्वा । ब्रह्माणः । ‘ बृह वृद्धौ'। प्रवृद्धाः पर्वतादय इन्द्रमस्तुवन्निति ॥ ॥ ३२ ॥


तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा॑ जा॒तान्यव॑राण्यस्मात् ।

इन्द्रे॑ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो॑भिर्वृष॒भं वि॑शेम ॥६

तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । यः । इ॒मा । ज॒जान॑ । विश्वा॑ । जा॒तानि॑ । अव॑राणि । अ॒स्मा॒त् ।

इन्द्रे॑ण । मि॒त्रम् । दि॒धि॒षे॒म॒ । गीः॒ऽभिः । उपो॒ इति॑ । नमः॑ऽभिः । वृ॒ष॒भम् । वि॒शे॒म॒ ॥६

तम् । ऊं इति । स्तवाम । यः । इमा । जजान । विश्वा । जातानि । अवराणि । अस्मात् ।

इन्द्रेण । मित्रम् । दिधिषेम । गीःऽभिः । उपो इति । नमःऽभिः । वृषभम् । विशेम ॥६

परस्परं स्तोतार आहुः । “तमु तमेवेन्द्रं वयं संहत्य "स्तवाम स्तोत्रं करवाम । “यः इन्द्रः “इमा इमानि भूतानि “जजान जनयामास । तस्मात् “अस्मात् इन्द्रादेव “विश्वा विश्वानि सर्वाणि वस्तुजातानि सर्वाणि जगन्ति वा “अवराणि अवरकालीनानि पश्चाद्भवानि भवन्ति । तेनानेन “इन्द्रेण वयं “गीर्भिः स्तुतिभिः “मित्रम् । लुप्तभावप्रत्ययेन निर्देशः । मैत्रीं “दिधिषेम धारयेम । ‘धिष धारणे इति धातुं केचिद्वदन्ति । यद्वा । मित्रम् । छान्दसमेकवचनम् । वयमिन्द्रेण सह मित्राणि सुहृदो भवामेति गीर्भिरिन्द्रं शब्दयेम । ‘ धिष शब्दे । जौहोत्यादिकः । अत्र व्यत्ययेन द्विविकरणता श्लुश्च शश्च। ततः “नमोभिः क्रियमाणैर्नमस्कारैर्दीयमानैर्हविर्भिर्वा “वृषभं कामानां वर्षकमिन्द्रम् “उपो "विशेम अस्मदभिमुखमेव कुर्याम ॥


वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः ।

म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वा॒ः पृत॑ना जयासि ॥७

वृ॒त्रस्य॑ । त्वा॒ । श्व॒सथा॑त् । ईष॑माणाः । विश्वे॑ । दे॒वाः । अ॒ज॒हुः॒ । ये । सखा॑यः ।

म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । स॒ख्यम् । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒सि॒ ॥७

वृत्रस्य । त्वा । श्वसथात् । ईषमाणाः । विश्वे । देवाः । अजहुः । ये । सखायः ।

मरुत्ऽभिः । इन्द्र । सख्यम् । ते । अस्तु । अथ । इमाः । विश्वाः । पृतनाः । जयासि ॥७

हे इन्द्र तव "ये "विश्वे “देवाः प्राक् “सखायः संग्रामे सखित्वं कुर्यामेति' मित्राण्यभवन ते सर्वे देवाः "वृत्रस्य वृत्रासुरस्य “श्वसथात् । श्वसेरौणादिकोऽथप्रत्ययः । सर्वानागच्छतो दृष्ट्वा तेषां भीत्युत्पादनाय वृत्रासुरः श्वासमकार्षीत् । श्वासाद्भीताः सन्तः अत एव “ईषमाणाः सर्वतः पलायमानाः “त्वा त्वाम् “अजहुः संग्रामे त्यक्तवन्तः । एवं सति हे “इन्द्र “मरुद्भिः सह "सख्यं सखिभावः “ते तव “अस्तु । ये मरुतस्त्वां न परित्यजन्ति तैः सहेति । “अथ अनन्तरम् “इमाः “विश्वाः “पृतनाः शत्रुसेनाः "जयासि स्वबलेनाभिभवसि । अनेन वृत्रं घ्नन्तमिन्द्रमाह । अत्र ‘इन्द्रो वै वृत्रं हनिष्यन्' (ऐ. ब्रा. ३. २०) इत्यादि ब्राह्मणमनुसंधेयम् ॥


त्रिः ष॒ष्टिस्त्वा॑ म॒रुतो॑ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो॑ य॒ज्ञिया॑सः ।

उप॒ त्वेम॑ः कृ॒धि नो॑ भाग॒धेयं॒ शुष्मं॑ त ए॒ना ह॒विषा॑ विधेम ॥८

त्रिः । ष॒ष्टिः । त्वा॒ । म॒रुतः॑ । व॒वृ॒धा॒नाः । उ॒स्राःऽइ॑व । रा॒शयः॑ । य॒ज्ञिया॑सः ।

उप॑ । त्वा॒ । आ । इ॒मः॒ । कृ॒धि । नः॒ । भा॒ग॒ऽधेय॑म् । शुष्म॑म् । ते॒ । ए॒ना । ह॒विषा॑ । वि॒धे॒म॒ ॥८

त्रिः । षष्टिः । त्वा । मरुतः । ववृधानाः । उस्राःऽइव । राशयः । यज्ञियासः ।

उप । त्वा । आ । इमः । कृधि । नः । भागऽधेयम् । शुष्मम् । ते । एना । हविषा । विधेम ॥८

प्रसङ्गादेतावन्तो मरुतः सहाया अभवन्नित्याह। हे इन्द्र “त्रिः त्रयः । जसः ‘सुपां सुलुक्' इति सुः । षष्टित्र्युत्तरसंख्याका मरुतः । ते च तैत्तिरीयके 'ईदृङ्चान्यादृङ्च' (तै. सं. ४. ६.५. ५) इत्यादिना नवसु गणेषु सप्त सप्त प्रतिपादिताः। तत्रादितः पञ्च गणाः संहितायामाम्नायन्ते । स्वतवांश्च प्रघासी च सांतपनश्च गृहमेधी च क्रीडी च शाकी चोज्जेषी ' ( वा. सं. १७. ८५) इति खैलिकः षष्ठो गणः । ततो ‘धुनिश्च ध्वान्तश्च' (तै. आ. ४. २४) इत्याद्यास्त्रयोऽरण्येऽनुवाक्याः । इत्थं त्रयःषष्टिसंख्याकाः “उस्राइव “राशयः गाव इव संघीभूतास्ते त्वां “वावृधानाः स्वबलेन वर्धितवन्तः । ते “मरुतः “यज्ञियासः यज्ञार्हा अभवन् । तं मरुत्सहायमिन्द्रं “त्वा त्वां वयम् “एमः उपगच्छामः । ततस्त्वं “नः अस्मभ्यं “भागधेयं भजनीयं धनं “कृधि कुरु । पश्चाद्वयमपि “एना एनेन सोमलक्षणेन “हविषा “ते तुभ्यं “शुष्मं शत्रूणां शोषकं बलं “विधेम । ‘विध विधाने'। विदध्म । कुर्म इत्यर्थः ॥


ति॒ग्ममायु॑धं म॒रुता॒मनी॑कं॒ कस्त॑ इन्द्र॒ प्रति॒ वज्रं॑ दधर्ष ।

अ॒ना॒यु॒धासो॒ असु॑रा अदे॒वाश्च॒क्रेण॒ ताँ अप॑ वप ऋजीषिन् ॥९

ति॒ग्मम् । आयु॑धम् । म॒रुता॑म् । अनी॑कम् । कः । ते॒ । इ॒न्द्र॒ । प्रति॑ । वज्र॑म् । द॒ध॒र्ष॒ ।

अ॒ना॒यु॒धासः॑ । असु॑राः । अ॒दे॒वाः । च॒क्रेण॑ । तान् । अप॑ । व॒प॒ । ऋ॒जी॒षि॒न् ॥९

तिग्मम् । आयुधम् । मरुताम् । अनीकम् । कः । ते । इन्द्र । प्रति । वज्रम् । दधर्ष ।

अनायुधासः । असुराः । अदेवाः । चक्रेण । तान् । अप । वप । ऋजीषिन् ॥९

हे "इन्द्र “ते तव स्वभूतं “तिग्मं तीक्ष्णम् “आयुधम् । आयुध्यतेऽनेनेत्यायुधं धनुः । तत्र “मरुतां त्रयःषष्टिसंख्याकानां त्वत्सहायानाम् “अनीकं संघं च त्वदीयं “वज्रं च "कः को वा देवो मनुष्यो वा “प्रति “दधर्ष प्रतिकूलमभिभवति । अभिभावुको नास्तीत्यर्थः । ‘ धृष प्रसहने । आ धृषाद्वा' इति विभाषितणिच् । तदभावे लिटि रूपम् । अत एव “अनायुधासः धनुराद्यायुधवर्जिताः “अदेवाः देववर्जिता देवद्विषो ये “असुराः सन्ति हे “ऋजीषिन् । अपार्जितोऽभिषुतः सोम ऋजीषः । तद्वन्निन्द्र “तान् असुरान् “चक्रेण चक्रसमानवीर्येण चक्ररूपेण वज्रेण वा “अप “वप अपगतान् कुरु । अपनुदेत्यर्थः ॥


म॒ह उ॒ग्राय॑ त॒वसे॑ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः ।

गिर्वा॑हसे॒ गिर॒ इन्द्रा॑य पू॒र्वीर्धे॒हि त॒न्वे॑ कु॒विद॒ङ्ग वेद॑त् ॥१०

म॒हे । उ॒ग्राय॑ । त॒वसे॑ । सु॒ऽवृ॒क्तिम् । प्र । ई॒र॒य॒ । शि॒वऽत॑माय । प॒श्वः ।

गिर्वा॑हसे । गिरः॑ । इन्द्रा॑य । पू॒र्वीः । धे॒हि । त॒न्वे॑ । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥१०

महे । उग्राय । तवसे । सुऽवृक्तिम् । प्र । ईरय । शिवऽतमाय । पश्वः ।

गिर्वाहसे । गिरः । इन्द्राय । पूर्वीः । धेहि । तन्वे । कुवित् । अङ्ग । वेदत् ॥१०

हे स्तोतः “महे महते गुणैः "उग्राय बलेनोद्गूर्णाय “तवसे । तु इति धातुर्वृद्ध्यर्थः । प्रवृद्धाय “शिवतमाय कल्याणतमायेन्द्राय "सुवृक्तिं शोभनां स्तुतिं "प्रेरय चोदय । कुरु। किमर्थम् ।"पश्वः पशोः। द्विपाच्चतुष्पाच्च । पशोर्ममास्मदीयाय गवे वा । यद्वा पशोरतीन्द्रियार्थं द्रष्टुर्मम धनादिकं दातुं गवे सुखादिकं प्रदातुमिन्द्राय स्तुतिं प्रेरय । एतदेवाह । हे स्तोतः “गिर्वाहसे गीर्भिः स्तुतिभिरुह्यमानाय “इन्द्राय "पूर्वीः बह्वीः “गिरः स्तुतीः “धेहि कुरु । ततः स इन्द्रः “तन्वे । तनोति कुलमिति तनूस्तनयः । तस्मै पुत्राय स्वशरीरयात्मने वा “कुवित् । बहुनामैतत् । बहु धनम् “अङ्ग क्षिप्रं “वेदत् लम्भयतु ददातु ।' विद्लृ लाभे ' । लेट्यडागमः । कुविच्छब्दयोगादनिघातः ॥ ॥ ३३ ॥


उ॒क्थवा॑हसे वि॒भ्वे॑ मनी॒षां द्रुणा॒ न पा॒रमी॑रया न॒दीना॑म् ।

नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विद॒ङ्ग वेद॑त् ॥११

उ॒क्थऽवा॑हसे । वि॒ऽभ्वे॑ । म॒नी॒षाम् । द्रुणा॑ । न । पा॒रम् । ई॒र॒य॒ । न॒दीना॑म् ।

नि । स्पृ॒श॒ । धि॒या । त॒न्वि॑ । श्रु॒तस्य॑ । जुष्ट॑ऽतरस्य । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥११

उक्थऽवाहसे । विऽभ्वे । मनीषाम् । द्रुणा । न । पारम् । ईरय । नदीनाम् ।

नि । स्पृश । धिया । तन्वि । श्रुतस्य । जुष्टऽतरस्य । कुवित् । अङ्ग । वेदत् ॥११

हे स्तोतः “उक्थवाहसे उक्थैः स्तोत्रशस्त्रादिभिरुह्यमानाय अत एव “विभ्वे महते यद्वा शत्रूणामभिभवित्र इन्द्रायेन्द्रार्थं “मनीषां मनस ईषां स्तुतिम् “ईरय प्रेरय । तत्र दृष्टान्तः । “द्रुणा “न यथा नाविकः “नदीनां नदमानानां सरितां “पारं तीरं प्रति पथिकं द्रुणा नावा प्रापयति तद्वदिन्द्रं प्रति स्तुतिं गमयेति । किंच “नि “स्पृश नितरां धनं स्पर्शय गमय “तन्वि आत्मनि पुत्रे वा । कीदृशम् । “श्रुतस्य सर्वत्र विश्रुतस्य प्रसिद्धस्य “जुष्टतरस्य अत्यर्थं प्रीणयितुरिन्द्रस्य स्वभूतम् । धनं “धिया त्वदीयया स्तुत्या कर्मणा वात्मानं गमय । ततस्त्वयाभिष्टुत इन्द्रः “कुवित् बहु धनं क्षिप्रं “वेदत् लम्भयतु ददातु ॥


तद्वि॑विड्ढि॒ यत्त॒ इन्द्रो॒ जुजो॑षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास ।

उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं॑ कु॒विद॒ङ्ग वेद॑त् ॥१२

तत् । वि॒वि॒ड्ढि॒ । यत् । ते॒ । इन्द्रः॑ । जुजो॑षत् । स्तु॒हि । सु॒ऽस्तु॒तिम् । नम॑सा । आ । वि॒वा॒स॒ ।

उप॑ । भू॒ष॒ । ज॒रि॒तः॒ । मा । रु॒व॒ण्यः॒ । श्र॒वय॑ । वाच॑म् । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥१२

तत् । विविड्ढि । यत् । ते । इन्द्रः । जुजोषत् । स्तुहि । सुऽस्तुतिम् । नमसा । आ । विवास ।

उप । भूष । जरितः । मा । रुवण्यः । श्रवय । वाचम् । कुवित् । अङ्ग । वेदत् ॥१२

हे ऋत्विक् “तत् सोमादिहविः स्तोत्रं वा “विविड्ढि व्यापय । तानीन्द्रार्थं कुर्वित्यर्थः । “ते तव स्वभूतं “यत् हविः स्तोत्रं वा "इन्द्रः "जुजोषत् स्वीकुर्यात् तस्कुरु । ‘जुषी प्रीतिसेवनयोः । लेटि शपः श्लुः । अडागमः । छान्दसत्वात् ' नाभ्यस्तस्य' इति गुणप्रतिषेधाभावः । हे स्तोतः “सुष्टुतिं सुस्तुतिम् । शोभना स्तुतिर्यस्य स तथोक्तः । तादृशमिन्द्रं “स्तुहि । तथा “नमसा स्तोत्रेण हविषा वा “आ “विवास इन्द्रमाभिमुख्येन परिचर । विवासतिः परिचरणकर्मा । लोटि रूपम् । हे “जरितः स्तोतः “उप “भूष।‘भूष अलंकारे'। अलंकृतो भव। “मा रुवण्यः धनाभावात् मा ध्वनयः । मा रोदीरित्यर्थः। धनागमने कारणमाह। हे स्तोतः “वाचं स्तुतिमिन्द्रं “श्रावय ज्ञापय । ततस्त्वया स्तुत इन्द्रस्तुभ्यं “कुवित् बहु धनं क्षिप्रं प्रयच्छतु ॥


पृष्ठ्यषडहगतेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे ‘अव द्रप्सः' इति तृचः । सूत्रितं च -- ‘ अव द्रप्सो अंशुमतीमतिष्ठदिति तिस्रोऽच्छा म इन्द्रमिति नित्यमैकाहिकम्' (आश्व. श्रौ. ८. ३ ) इति ॥

अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभि॑ः स॒हस्रै॑ः ।

आव॒त्तमिन्द्र॒ः शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥१३

अव॑ । द्र॒प्सः । अं॒शु॒ऽमती॑म् । अ॒ति॒ष्ठ॒त् । इ॒या॒नः । कृ॒ष्णः । द॒शऽभिः॑ । स॒हस्रैः॑ ।

आव॑त् । तम् । इन्द्रः॑ । शच्या॑ । धम॑न्तम् । अप॑ । स्नेहि॑तीः । नृ॒ऽमनाः॑ । अ॒ध॒त्त॒ ॥१३

अव । द्रप्सः । अंशुऽमतीम् । अतिष्ठत् । इयानः । कृष्णः । दशऽभिः । सहस्रैः ।

आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नेहितीः । नृऽमनाः । अधत्त ॥१३

अत्रेतिहासमाचक्षते किल । कृष्णो नामासुरो दशसहस्रसंख्यैरसुरैः परिवृतः सन्नंशुमतीनामधेयाया नद्यास्तीरेऽतिष्ठत् । तत्र तं कृष्णमुदकमध्ये स्थितमिन्द्रो बृहस्पतिना सहागच्छत् । आगत्य तं कृष्णं तस्यानुचरांश्च बृहस्पतिसहायो जघानेति । केचिदन्यथा वदन्ति । तेषां कथा हेतुः । द्रप्स इत्युदककणोऽभिधीयते स तु सोमो ‘द्रप्सश्चस्कन्द ' (ऋ. सं. १०. १७. ११ ) इत्यादिषु सोमपरत्वेनोक्तत्वात् । एतत्पदमाश्रित्याहुः- ‘ अपक्रय तु देवेभ्यः सोमो वृत्रभयार्दितः ॥ नदीमंशुमतीं नामाभ्यतिष्ठत् कुरून प्रति । तं बृहस्पतिनैकेन सोऽभ्ययाद्वृत्रहा सह ॥ योत्स्यमानः सुसंहृष्टैर्मरुद्भिर्विविधायुधैः। दृष्ट्वा तानायतः सोमः स्वबलेन व्यवस्थितः ॥ मन्वानो वृत्रमायान्तं जिघांसुमरिसेनया । व्यवस्थितं धनुष्मन्तं तमुवाच बृहस्पतिः ॥ मरुत्पतिरयं सोम प्रेहि देवान् पुनर्विभो । सोऽब्रवीन्नेति तं शक्रः स्वर्ग एव बलाद्बली । इयाय देवानादाय तं पपुर्विधिवत्सुराः ॥ जघ्नुः पीत्वा च दैत्यानां समरे नवतीर्नव । तदव द्रप्स इत्यस्मिन् तृचे सर्वं निगद्यते' (बृहद्दे. ६. १०९-११५ ) । एतदनार्षत्वेनानादरणीयं भवति । एषोऽर्थः क्रमेणर्क्षु वक्ष्यते । तथा चास्या ऋचोsयमर्थः । “द्रप्सः । द्रुतं सरति गच्छतीति द्रप्सः । पृषोदरादिः । द्रुतं गच्छन् "दशभिः “सहसैः दशसहस्रसंख्यैरसुरैः “इयानः “कृष्णः एतन्नामकोऽसुरः "अंशुमतीं नाम नदीम् “अव “अतिष्ठत् अवतिष्ठते । ततः “शच्या कर्मणा प्रज्ञानेन वा “धमन्तम् उदकस्यान्तरुच्छ्वसन्तं यद्वा जगद्भीतिकरं शब्दं कुर्वन्तं “तं कृष्णमसुरम् “इन्द्रः मरुद्भिः सह “आवत् प्राप्नोत् । पश्चात्तं कृष्णमसुरं तस्यानुचरांश्च हतवानिति वदति । “नृमणाः नृषु मनो यस्य सः । यद्वा । कर्मनेतृष्वृत्विक्ष्वेकविधं मनो यस्य स तथोक्तः । तादृशः सन् “स्नेहितीः । स्नेहतिर्वधकर्मसु पठितः । सर्वस्य हिंसित्रीस्तस्य सेनाः “अप “अधत्त । अपधानं हननम् । अवधीदित्यर्थः । ‘ अप स्नीहितिं नृमणा अधद्राः' (सा. सं. १. ४. १.४.१) इति छन्दोगाः पठन्ति । तस्यानुचरान् हत्वा तं द्रुतं गच्छन्तमसुरमपाधत्त । हतवान् ॥


द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्या॑ः ।

नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥१४

द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः॑ । अं॒शु॒ऽमत्याः॑ ।

नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ । वृ॒ष॒णः॒ । युध्य॑त । आ॒जौ ॥१४

द्रप्सम् । अपश्यम् । विषुणे । चरन्तम् । उपऽह्वरे । नद्यः । अंशुऽमत्याः ।

नभः । न । कृष्णम् । अवतस्थिऽवांसम् । इष्यामि । वः । वृषणः । युध्यत । आजौ ॥१४

तुरीयपादो मारुतः । मरुतः प्रति यद्वाक्यमिन्द्र उवाच तदत्र कीर्त्यते । हे मरुतः “द्रप्सं द्रुतगामिनं कृष्णमहम् “अपश्यम् अदर्शम् । कुत्र वर्तमानम् । “विषुणे विष्वगञ्चने सर्वतो विस्तृते देशे । यद्वा । विषुणो विषमः । विषमे परैरदृश्ये गुहारूपे देशे। “चरन्तं परितो गच्छन्तम् । किंच “अंशुमत्याः एतन्नामिकायाः “नद्यः नद्याः “उपह्वरे अत्यन्तं गूढे स्थाने “नभो “न नभसि यथादित्यो दीप्यते तद्वत्तत्र दीप्यमानम् “अवतस्थिवांसम् उदकस्यान्तरवस्थितं “कृष्णम् एतन्नामकमसुरमपश्यम् । तस्मिन् दृष्टे सति हे “वृषणः कामानामुदकानां वा सेक्तारो मरुतः “वः युष्मान् युद्धार्थम् “इष्यामि अहमिच्छामि । ततो यूयं तमिमं कृष्णम् "आजौ । अजन्ति गच्छन्त्यत्र योद्धार आयुधानि प्रक्षेपयन्तीति वाजिः संग्रामः । तस्मिन् "युध्यत संहरत । वाक्यभेदादनिघातः । केचित् इष्यामि वो मरुतः इति पठन्ति । तत्र हे मरुतः वो युष्मानिच्छामीत्यर्थो भवति ॥


अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः ।

विशो॒ अदे॑वीर॒भ्या॒३॒॑चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्र॑ः ससाहे ॥१५

अध॑ । द्र॒प्सः । अं॒शु॒ऽमत्याः॑ । उ॒पऽस्थे॑ । अधा॑रयत् । त॒न्व॑म् । ति॒त्वि॒षा॒णः ।

विशः॑ । अदे॑वीः । अ॒भि । आ॒ऽचर॑न्तीः । बृह॒स्पति॑ना । यु॒जा । इन्द्रः॑ । स॒स॒हे॒ ॥१५

अध । द्रप्सः । अंशुऽमत्याः । उपऽस्थे । अधारयत् । तन्वम् । तित्विषाणः ।

विशः । अदेवीः । अभि । आऽचरन्तीः । बृहस्पतिना । युजा । इन्द्रः । ससहे ॥१५

“अध अथ “द्रप्सः द्रुतगामी कृष्णः “अंशुमत्याः नद्याः “उपस्थे समीपे “तित्विषाणः दीप्यमानः सन् “तन्वम् आत्मीयं शरीरम् “अधारयत् । परैरहिंस्यत्वेन बिभर्ति । यद्वा । बलप्राप्त्यर्थं स्वशरीरमाहारादिभिरपोषयत् । तत्र “इन्द्रः गत्वा “बृहस्पतिना एतन्नामकेन देवेन “युजा सहायेन “अदेवीः अद्योतमानाः । कृष्णरूपा इत्यर्थः । यद्वा । पापयुक्तत्वादस्तुत्याः । “आचरन्तीः आगच्छन्तीः “विशः असुरसेनाः "अभि "ससहे जघान । तमवधीदित्यर्थः प्रसङ्गादवगम्यते ॥ ॥ ३४ ॥ ।।


त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभव॒ः शत्रु॑रिन्द्र ।

गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥१६

त्वम् । ह॒ । त्यत् । स॒प्तऽभ्यः॑ । जाय॑मानः । अ॒श॒त्रुऽभ्यः॑ । अ॒भ॒वः॒ । शत्रुः॑ । इ॒न्द्र॒ ।

गू॒ळ्हे इति॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । अ॒वि॒न्दः॒ । वि॒भु॒मत्ऽभ्यः॑ । भुव॑नेभ्यः । रण॑म् । धाः॒ ॥१६

त्वम् । ह । त्यत् । सप्तऽभ्यः । जायमानः । अशत्रुऽभ्यः । अभवः । शत्रुः । इन्द्र ।

गूळ्हे इति । द्यावापृथिवी इति । अनु । अविन्दः । विभुमत्ऽभ्यः । भुवनेभ्यः । रणम् । धाः ॥१६

हे “इन्द्र “त्वं खलु “त्यत् तत् कर्म कृतवानसि। किं तत् उच्यते । "जायमानः त्वं प्रादुर्भवन्नेव । “अशत्रुभ्यः स्तुरहितेभ्यः “सप्तभ्यः कृष्णवृत्रनमुचिशम्बरादिसप्तभ्यो बलवद्भ्यः शत्रुभ्यः तदर्थं “शत्रुः “अभवः । यद्वा । सप्तभ्यः । ससैवाङ्गिरसः । सप्तभ्योङ्गिरोभ्यो गवानयनार्थं प्रादुर्भवन्नेवाशत्रुभ्यो बलवद्भ्यः पणिभ्यः शत्रुरभवः । किंच हे इन्द्र त्वं “गूळ्हे तमसा गूढे संवृते “द्यावापृथिवी द्यावापृथिव्यौ सूर्यात्मना ते प्रकाश्यानुक्रमेण "अविन्दः अलभथाः । तथा “विभुमद्भ्यः महत्त्वयुक्तेभ्यः "भुवनेभ्यः लोकेभ्यः "रणं रमणं “धाः धारयसि । विदधासीत्यर्थः ॥


त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ ।

त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥१७

त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओजः॑ । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒तः । ज॒घ॒न्थ॒ ।

त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒रः॒ । वध॑त्रैः । त्वम् । गाः । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्दः॒ ॥१७

त्वम् । ह । त्यत् । अप्रतिऽमानम् । ओजः । वज्रेण । वज्रिन् । धृषितः । जघन्थ ।

त्वम् । शुष्णस्य । अव । अतिरः । वधत्रैः । त्वम् । गाः । इन्द्र । शच्या । इत् । अविन्दः ॥१७

हे इन्द्र त्वं “ह “त्वं खलु “त्यत् एतत् कर्माकार्षीः। किं तत् अभिधीयते । हे “वज्रिन् वज्रवन्निन्द्र “धृषितः धृष्टः संग्रामेषु शत्रुहनने कुशलः सन्। यद्वा। धृष्टो धीरः सन् "अप्रतिमानम् । प्रतिमानमुपमा। निरुपमम्। अस्य सदृशमन्यदीयं वीर्यं नास्तीत्यर्थः। तादृशं “शुष्णस्य “ओजः बलं “वज्रेण आयुधेन “जघन्थ हतवानसि। ‘अभ्यासाच्च' इति इन्तेर्घत्वम् । पूर्वं शुष्णस्य बलं विनाश्येदानीं शुष्णमपि हतवानित्याह । “त्वं “वधत्रैः हननसाधनैरायुधैः “शुष्णस्य । ‘क्रियाग्रहणं कर्तव्यम्' इति संप्रदानसंज्ञा। चतुर्थ्यर्थे बहुलम्' इति षष्ठी। शुष्णम् “अवातिरः । कुत्साय राजर्षयेऽवाङ्मुखं कृत्वावधीः । तथा च निगमः-- कुत्साय शुष्णमशुषं नि बर्हीः' (ऋ. सं. ४. १६. १२) इति । तथा हे “इन्द्र “त्वं “शच्या स्वकीयया प्रज्ञया कर्मणा वा “गाः शत्रून् हत्वा तेषां गाः “अविन्दः अलभथाः । यद्वा । अङ्गिरसां गाः पणीन् संप्रहृत्य लब्धवानसि ॥


त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां॑ तवि॒षो ब॑भूथ ।

त्वं सिन्धूँ॑रसृजस्तस्तभा॒नान्त्वम॒पो अ॑जयो दा॒सप॑त्नीः ॥१८

त्वम् । ह॒ । त्यत् । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् । घ॒नः । वृ॒त्राणा॑म् । त॒वि॒षः । ब॒भू॒थ॒ ।

त्वम् । सिन्धू॑न् । अ॒सृ॒जः॒ । त॒स्त॒भा॒नान् । त्वम् । अ॒पः । अ॒ज॒यः॒ । दा॒सऽप॑त्नीः ॥१८

त्वम् । ह । त्यत् । वृषभ । चर्षणीनाम् । घनः । वृत्राणाम् । तविषः । बभूथ ।

त्वम् । सिन्धून् । असृजः । तस्तभानान् । त्वम् । अपः । अजयः । दासऽपत्नीः ॥१८

“त्वं खलु तत् कर्म कृतवानसि । किं तत् । हे “वृषभ कामानां वर्षितरिन्द्र “चर्षणीनां यष्टॄणां मनुष्याणां भावितानां “वृत्राणाम् उपद्रवाणां “घनः हन्ता । अमूर्त्यर्थेऽपि छन्दोविषयत्वान्निपातनम् । तादृशस्त्वं “तविषः प्रवृद्धो बलवान् वा “बभूथ बभूविथ । बभूथा ततन्थ° ' इतीडभावो निपात्यते । ततः “त्वं “तस्तभानान् असुरैर्विरुध्यमानाः “सिन्धून् सप्त गङ्गाद्याः नदीः सरणाय “असृजः। पश्चात् “त्वं “दासपत्नीः । दासा उपक्षपयितारः शत्रवः । ते पतयः स्वामिनो यासां ताः । ‘ नित्यं सपत्न्यादिषु' (पा. सू. ४. १. ३५) इत्यत्र ‘दासाञ्च' इत्युपसंख्यानात् ङीप् । असुरस्वामिकाः “अपः “अजयः जितवानसि । तानसुराञ्जित्वोदकानि च प्रासृज इत्यर्थः ॥


स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अहे॑व रे॒वान् ।

य एक॒ इन्नर्यपां॑सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा॑हुः ॥१९

सः । सु॒ऽक्रतुः॑ । रणि॑ता । यः । सु॒तेषु॑ । अनु॑त्तऽमन्युः । यः । अहा॑ऽइव । रे॒वान् ।

यः । एकः॑ । इत् । नरि॑ । अपां॑सि । कर्ता॑ । सः । वृ॒त्र॒ऽहा । प्रति॑ । इत् । अ॒न्यम् । आ॒हुः॒ ॥१९

सः । सुऽक्रतुः । रणिता । यः । सुतेषु । अनुत्तऽमन्युः । यः । अहाऽइव । रेवान् ।

यः । एकः । इत् । नरि । अपांसि । कर्ता । सः । वृत्रऽहा । प्रति । इत् । अन्यम् । आहुः ॥१९

अथ परोक्षकृताः । “सः इन्द्रः “सुक्रतुः शोभनप्रज्ञः शोभनकर्मा भवति “यः “सुतेषु अभिषुतेषु सोमेषु “रणिता तत्पानार्थं रमणशीलः किंच “अनुत्तमन्युः परैरनुन्नक्रोधः शत्रुभिर्नोत्तुमशक्यः तादृशः “यः इन्द्रः “रेवान धनवान् । तत्र दृष्टान्तः । “अहेव । यथा अहानि दिवसा धनवन्तः। दिवसेषु हि धनानि प्रादुर्भवन्ति न रात्रिषु । तद्वत् । तथा “यः इन्द्रः “एक “इत् असहाय एव “नरि कर्मनेतरि मनुष्ये "अपांसि कर्माणि “कर्ता कर्तुशीलो भवति । ताच्छीलिकस्तृन् । अत एव षष्ठीप्रतिषेधः । “सः पूर्वोक्तगुणोपेत इन्द्रः “वृत्रहा । अपामावरकस्यासुरस्य उपद्रवस्य वा हन्तृत्वाद्वृत्रहेति सर्वैः श्रूयते । तमेवेन्द्रम् “अन्यं “प्रति । “इत् अवधारणे । अन्यं प्रत्येव “आहुः । इन्द्रः सर्वमन्यं शत्रुसंघं प्रति भवति । अभिभवत्येवेति वदन्ति ॥


स वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम ।

स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥२०

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । च॒र्ष॒णि॒ऽधृत् । तम् । सु॒ऽस्तु॒त्या । हव्य॑म् । हु॒वे॒म॒ ।

सः । प्र॒ऽअ॒वि॒ता । म॒घऽवा॑ । नः॒ । अ॒धि॒ऽव॒क्ता । सः । वाज॑स्य । श्र॒व॒स्य॑स्य । दा॒ता ॥२०

सः । वृत्रऽहा । इन्द्रः । चर्षणिऽधृत् । तम् । सुऽस्तुत्या । हव्यम् । हुवेम ।

सः । प्रऽअविता । मघऽवा । नः । अधिऽवक्ता । सः । वाजस्य । श्रवस्यस्य । दाता ॥२०

"वृत्रहा वृत्रस्य हन्ता “सः “इन्द्रः “चर्षणीधृत् मनुष्याणां धनादिदानेन पोषको भवति । “तम् इन्द्रं वयं “सुष्टुत्या शोभनया स्तुत्या “हुवेम अस्मद्यज्ञेष्वाह्वयामः । किमर्थं यूयमाह्वयथेति चेत् कारणं ब्रूमः । “सः इन्द्रः “प्राविता प्रकर्षेणास्माकं रक्षिता भवति । किंच “मघवा धनवानिन्द्रः “नः अस्माकम् “अधिवक्ता अधिकं वक्ता बहुमानेन वक्ता भवति । यद्वा । धनदानेनास्मानधिकं वक्तुमर्हति । अर्हे कृत्यतृचश्च' (पा. सू. ३. ३. १६९ ) इति तृच् । किंच “सः एवेन्द्रः “श्रवस्यस्य श्रवसः कीर्तेर्निमित्तस्य “वाजस्य अन्नस्य । यद्वा । श्रवसोऽन्नस्य हिताय वाजस्य बलस्य । “दाता भवति खलु । तस्मादेवंगुणमिन्द्रं वयमाह्वयामः ॥


स वृ॑त्र॒हेन्द्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव ।

कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्य॒ः सखि॑भ्यः ॥२१

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । ऋ॒भु॒क्षाः । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भू॒व॒ ।

कृ॒ण्वन् । अपां॑सि । नर्या॑ । पु॒रूणि॑ । सोमः॑ । न । पी॒तः । हव्यः॑ । सखि॑ऽभ्यः ॥२१

सः । वृत्रऽहा । इन्द्रः । ऋभुक्षाः । सद्यः । जज्ञानः । हव्यः । बभूव ।

कृण्वन् । अपांसि । नर्या । पुरूणि । सोमः । न । पीतः । हव्यः । सखिऽभ्यः ॥२१

“ऋभुक्षाः महान् । यद्वा । ऋभुशब्देनर्भ्वादयस्त्रयो गृह्यन्ते । ऋभुभिः सह क्षियति निवसतीति तादृशः। “वृत्रहा "सः “इन्द्रः “सद्यः तदानीमेव “जज्ञानः प्रादुर्भवन् “हव्यः सर्वैः स्तोतृभिः यष्टॄभिराह्वातव्यो "बभूव । किंच “नर्या नर्याणि । नरा मनुष्याः कर्मनेतारः । तेभ्यो हितानि “पुरूणि बहूनि “अपांसि कर्माणि “कृण्वन् कुर्वन् “सखिभ्यः हविष्प्रदानेनोपकारकत्वान्मित्रेभ्य ऋत्विग्भ्यः “हव्यः आह्वातव्यो हवनयोग्यो वाभूत् । तत्र दृष्टान्तः। “सोमो “न यथा “पीतः सोमो यष्टृभ्यः स्वर्गादिफलानि कुर्वन् देवैराह्वातव्यो भवति तद्वत् ॥ ॥ ३५ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.९६&oldid=193557" इत्यस्माद् पुनः प्राप्तिः