ऋग्वेदः सूक्तं ८.९५
← सूक्तं ८.९४ | ऋग्वेदः - मण्डल ८ सूक्तं ८.९५ तिरश्चिराङ्गिरसः। |
सूक्तं ८.९६ → |
दे. इन्द्रः। अनुष्टुप्। |
आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः ।
अभि त्वा समनूषतेन्द्र वत्सं न मातरः ॥१॥
आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः ।
पिबा त्वस्यान्धस इन्द्र विश्वासु ते हितम् ॥२॥
पिबा सोमं मदाय कमिन्द्र श्येनाभृतं सुतम् ।
त्वं हि शश्वतीनां पती राजा विशामसि ॥३॥
श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति ।
सुवीर्यस्य गोमतो रायस्पूर्धि महाँ असि ॥४॥
इन्द्र यस्ते नवीयसीं गिरं मन्द्रामजीजनत् ।
चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् ॥५॥
तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः ।
पुरूण्यस्य पौंस्या सिषासन्तो वनामहे ॥६॥
एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना ।
शुद्धैरुक्थैर्वावृध्वांसं शुद्ध आशीर्वान्ममत्तु ॥७॥
इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः ।
शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥८॥
इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे ।
शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥९॥
सायणभाष्यम्
‘आ त्वा' इति नवर्चं द्वितीयं सूक्तमानुष्टुभमैन्द्रम् । तिरश्चीर्नामाङ्गिरस ऋषिः । तथा चानुक्रम्यते- ‘ आ त्वा नव तिरश्चीरानुष्टुभम्' इति । आभिप्लविकेषूक्थ्येषु तृतीयसवनेऽच्छावाकस्य ‘ आ त्वा गिरः' इति तृचो वैकल्पिकोऽनुरूपः । सूत्र्यते हि -- गायन्ति त्वा गायत्रिण आ त्वा गिरो रथीरिव' (आश्व. श्रौ. ७. ८) इति ॥
आ त्वा॒ गिरो॑ र॒थीरि॒वास्थु॑ः सु॒तेषु॑ गिर्वणः ।
अ॒भि त्वा॒ सम॑नूष॒तेन्द्र॑ व॒त्सं न मा॒तर॑ः ॥१
आ । त्वा॒ । गिरः॑ । र॒थीःऽइ॑व । अस्थुः॑ । सु॒तेषु॑ । गि॒र्व॒णः॒ ।
अ॒भि । त्वा॒ । सम् । अ॒नू॒ष॒त॒ । इन्द्र॑ । व॒त्सम् । न । मा॒तरः॑ ॥१
आ । त्वा । गिरः । रथीःऽइव । अस्थुः । सुतेषु । गिर्वणः ।
अभि । त्वा । सम् । अनूषत । इन्द्र । वत्सम् । न । मातरः ॥१
हे "गिर्वणः गीर्भिर्वननीयेन्द्र "सुतेषु सोमेष्वभिषुतेषु सत्सु "गिरः अस्माकं स्तुतिलक्षणा वाचः “त्वा त्वाम् "आ “अस्थुः आभिमुख्येन शीघ्रं तिष्ठन्ति । तत्र दृष्टान्तः । "रथीरिव । यथा रथवान् रथेन गच्छन् वीरः प्राप्यं देशं क्षिप्रं गच्छति तद्वदस्माभिरभिगन्तव्यं त्वां स्तुतयोऽभिगच्छन्ति । किंच हे "इन्द्र अस्मदीया गिरः “त्वा त्वामभिलक्ष्य "समनूषत सम्यक् शब्दायन्ते । स्तुवन्तीत्यर्थः । ‘नू स्तवने' । कुटादिः । तस्य लुङि रूपम् । तत्र दृष्टान्तः । "वत्सं "न “मातरः । यथा मातरो गावो वत्समभिलक्ष्य हम्भारवादिशब्दं कुर्वन्ति तद्वत् ॥
आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इन्द्र गिर्वणः ।
पिबा॒ त्व१॒॑स्यान्ध॑स॒ इन्द्र॒ विश्वा॑सु ते हि॒तम् ॥२
आ । त्वा॒ । शु॒क्राः । अ॒चु॒च्य॒वुः॒ । सु॒तासः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
पिब॑ । तु । अ॒स्य । अन्ध॑सः । इन्द्र॑ । विश्वा॑सु । ते॒ । हि॒तम् ॥२
आ । त्वा । शुक्राः । अचुच्यवुः । सुतासः । इन्द्र । गिर्वणः ।
पिब । तु । अस्य । अन्धसः । इन्द्र । विश्वासु । ते । हितम् ॥२
हे “गिर्वणः गीर्भिर्वननीय हे “इन्द्र “शुक्राः ग्रहेषु पात्रेषु च दीप्यमानाः "सुतासः अस्माभिः अभिषुताः सोमाः “त्वा त्वाम् “आ “अचुच्यवुः आगच्छन्तु । ' च्युङ् प्लुङ् गती'। लङि ‘बहुलं छन्दसि ' इति शपः श्लुः । ततस्त्वमस्माभिर्दीयमानस्य "अन्धसः सोमस्य भवदीयं भाग "तु क्षिप्रं “पिब । तदेवोपपादयति । हे "इन्द्र "विश्वासु सर्वासु दिक्षु "ते त्वदर्थं सोमपुरोडाशादिहविः “हितं निहितं भवति ॥
पिबा॒ सोमं॒ मदा॑य॒ कमिन्द्र॑ श्ये॒नाभृ॑तं सु॒तम् ।
त्वं हि शश्व॑तीनां॒ पती॒ राजा॑ वि॒शामसि॑ ॥३
पिब॑ । सोम॑म् । मदा॑य । कम् । इन्द्र॑ । श्ये॒नऽआ॑भृतम् । सु॒तम् ।
त्वम् । हि । शश्व॑तीनाम् । पतिः॑ । राजा॑ । वि॒शाम् । असि॑ ॥३
पिब । सोमम् । मदाय । कम् । इन्द्र । श्येनऽआभृतम् । सुतम् ।
त्वम् । हि । शश्वतीनाम् । पतिः । राजा । विशाम् । असि ॥३
हे “इन्द्र त्वं "श्येनाभृतम् । 'हृग्रहोर्भश्छन्दसि ' इति हकारस्य भकारः । द्युलोकात् श्येनरूपया गायत्र्याहृतं "सुतम् अभिषुतं "सोमं "मदाय हर्षाय “पिब । "कम् इति पूरणः सुखार्थो वा । सुखेन सोमं पिब । हिशब्दो हेतौ । “हि यस्मात् "त्वं "शश्वतीनां बह्वीनां "विशां मरुद्गणानां सर्वेषां देवगणानां च “पतिः पालयिता स्वामी "असि भवसि तथा "राजा स्वतेजसा दीप्यमानश्चासि । अतस्त्वं पूर्वं सोमं पिबेति ॥
आभिप्लविकेषूक्थ्येषु तृतीयसवनेऽच्छावाकस्य ‘श्रुधी हवं तिरश्च्या' इति वैकल्पिकः स्तोत्रियः । सूत्रितं च -- श्रुधी हवं तिरश्च्या आश्रुत्कर्ण श्रुधी हवम् ' ( आश्व. श्रौ. ७. ८) इति ।।
श्रु॒धी हवं॑ तिर॒श्च्या इन्द्र॒ यस्त्वा॑ सप॒र्यति॑ ।
सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू॑र्धि म॒हाँ अ॑सि ॥४
श्रु॒धि । हव॑म् । ति॒र॒श्च्याः । इन्द्र॑ । यः । त्वा॒ । स॒प॒र्यति॑ ।
सु॒ऽवीर्य॑स्य । गोऽम॑तः । रा॒यः । पू॒र्धि॒ । म॒हान् । अ॒सि॒ ॥४
श्रुधि । हवम् । तिरश्च्याः । इन्द्र । यः । त्वा । सपर्यति ।
सुऽवीर्यस्य । गोऽमतः । रायः । पूर्धि । महान् । असि ॥४
हे “इन्द्र “यस्त्वा त्वां “सपर्यति । सपरशब्दः कण्ड्वादिः । हविर्भिः परिचरति तादृशस्य “तिरश्च्याः एतन्नामकस्यर्षेः मम "हवं स्तुतिभिस्त्वद्विषयमाह्वानं “श्रुधि शृणु । श्रुत्वा च हे इन्द्र त्वं “सुवीर्यस्य शोभनवीर्योपेतस्य । यद्वा । वीरे पुत्रे भवं वीर्यम् । सुपुत्रवतः । “गोमतः गवादिपशुमतः “रायः धनस्य दानेन “पूर्धि अस्मान् पूरय । एतत्सामर्थ्यं कुत इत्यत आह । त्वं “महान् गुणाधिको देवानां श्रेष्ठश्च “असि भवसि खलु ॥
इन्द्र॒ यस्ते॒ नवी॑यसीं॒ गिरं॑ म॒न्द्रामजी॑जनत् ।
चि॒कि॒त्विन्म॑नसं॒ धियं॑ प्र॒त्नामृ॒तस्य॑ पि॒प्युषी॑म् ॥५
इन्द्र॑ । यः । ते॒ । नवी॑यसीम् । गिर॑म् । म॒न्द्राम् । अजी॑जनत् ।
चि॒कि॒त्वित्ऽम॑नसम् । धिय॑म् । प्र॒त्नाम् । ऋ॒तस्य॑ । पि॒प्युषी॑म् ॥५
इन्द्र । यः । ते । नवीयसीम् । गिरम् । मन्द्राम् । अजीजनत् ।
चिकित्वित्ऽमनसम् । धियम् । प्रत्नाम् । ऋतस्य । पिप्युषीम् ॥५
हे "इन्द्र “यः यजमानः "नवीयसीं नवतरां पुनःपुनः क्रियमाणतया “मन्द्रां मदकरीं “गिरं स्तुतिलक्षणां वाचं “ते त्वदर्थम् "अजीजनत् उदपीपदत् । अकार्षीदित्यर्थः। तस्मै स्तोत्रे त्वं "प्रत्नां पुरातनम् “ऋतस्य सत्यस्य संबन्धि । यद्वा । तृतीयार्थे षष्ठी । सत्येन "पिप्युषीं प्रवृद्धम् । लिड्यङोश्च' इति प्यायतेः पीभावः । तादृशं चिकित्विन्मनसम्। कित ज्ञाने' । क्वसौ रूपम् । अकारस्येकारश्छान्दसः । चिकित्वांसि ज्ञातानि सर्वेषां हृदयानि ययेति । अमायया क्रियमाणं यत्तव रक्षणं सर्वेषां हृदयं प्रज्ञापयतीति तदतीन्द्रियार्थदर्शकं “धियं त्वदीयं रक्षणाख्यं तस्मै कुरु ॥ ॥ ३० ॥
तमु॑ ष्टवाम॒ यं गिर॒ इन्द्र॑मु॒क्थानि॑ वावृ॒धुः ।
पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा॑सन्तो वनामहे ॥६
तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । यम् । गिरः॑ । इन्द्र॑म् । उ॒क्थानि॑ । व॒वृ॒धुः ।
पु॒रूणि॑ । अ॒स्य॒ । पौंस्या॑ । सिसा॑सन्तः । व॒ना॒म॒हे॒ ॥६
तम् । ऊं इति । स्तवाम । यम् । गिरः । इन्द्रम् । उक्थानि । ववृधुः ।
पुरूणि । अस्य । पौंस्या । सिसासन्तः । वनामहे ॥६
ऋषयः परस्परमाहुः । “तं पूर्वोक्तलक्षणम् । "उ इत्यवधारणे । तमेवेन्द्रं “स्तवाम स्तुतिभिः स्तुमः। “यम् “इन्द्रं “गिरः अस्माकं स्तुतयः “उक्थानि शस्त्राणि च “वावृधुः प्रावर्धयन् तं स्तुमः । ततो वयम् “अस्य इन्द्रस्य “पुरूणि बहूनि “पौंस्या वीर्याणि “सिषासन्तः । ‘षण संभक्तौ'। सनीडभावपक्ष आत्वे कृते ‘सनोतेरनः' इति सांहितिकं षत्वम् । तानि वीर्याणि संभक्तुमिच्छन्तः सन्तः “वनामहे । तमिन्द्रं स्तुतिभिः संभजामहे ॥
एतो॒ न्विन्द्रं॒ स्तवा॑म शु॒द्धं शु॒द्धेन॒ साम्ना॑ ।
शु॒द्धैरु॒क्थैर्वा॑वृ॒ध्वांसं॑ शु॒द्ध आ॒शीर्वा॑न्ममत्तु ॥७
एतो॒ इति॑ । नु । इन्द्र॑म् । स्त॒वा॒म॒ । शु॒द्धम् । शु॒द्धेन॑ । साम्ना॑ ।
शु॒द्धैः । उ॒क्थैः । व॒वृ॒ध्वांस॑म् । शु॒द्धः । आ॒शीःऽवा॑न् । म॒म॒त्तु॒ ॥७
एतो इति । नु । इन्द्रम् । स्तवाम । शुद्धम् । शुद्धेन । साम्ना ।
शुद्धैः । उक्थैः । ववृध्वांसम् । शुद्धः । आशीःऽवान् । ममत्तु ॥७
अत्रेतिहासमाचक्षते । पुरा किलेन्द्रो वृत्रादिकानसुरान् हत्वा ब्रह्महत्यादिदोषेणात्मानमपरिशुद्धमित्यमन्यत । ततस्तद्दोषपरिहारायेन्द्र ऋषीनवोचत् । अपूतं मां युष्मदीयेन साम्ना शुद्धं कुरुतेति । ततस्ते च शुद्धयुत्पादकेन साम्ना शस्त्रैश्च परिशुद्धमकार्षुः । पश्चात्पूतायेन्द्राय' यागादिकर्माणि सोमादीनि हवींषि प्रादुरिति । एषोऽर्थः शाट्यायनकब्राह्मणे प्रतिपादितः- ‘ इन्द्रो वासुरान्हत्वापूत इवामेध्योऽमन्यत । सोऽकामयत शुद्धमेव मा सन्तं शुद्धेन साम्ना स्तुयुरिति । स ऋषीनब्रवीत् स्तुत मेति । ततः ऋषयः सामापश्यन् । तेनास्तुवन्नेतो न्विन्द्रमिति । ततो वा इन्द्रः पूतः शुद्धो मेध्योऽभवत्' इति । तथा चास्या ऋचोऽयमर्थः । ऋषयः परस्परं ब्रुवन्ति । “नु क्षिप्रम् “एतो आगच्छतैव । आगत्य च “शुद्धेन शुद्ध्युत्पादकेन "साम्ना तथा “शुद्धैः शुद्धिहेतुभिः उक्थैः शस्त्रैश्च “इन्द्रं “शुद्धम् अपापिनं कृत्वा “स्तवाम स्तुयाम । ततः सामशस्त्रैश्च वावृध्वांसं पापरहित्येन वर्धमानं तमिममिन्द्रं “शुद्धः दशापवित्रेण “आशीर्वान् आश्रयणवान् गव्यादिभिः । ‘ छन्दसीरः ' इति मतुपो वत्वम् । तादृशः सोमः ममत्तु इन्द्रं मादयतु । माद्यतेश्छान्दसः श्लुः ॥
इन्द्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभि॑ः ।
शु॒द्धो र॒यिं नि धा॑रय शु॒द्धो म॑मद्धि सो॒म्यः ॥८
इन्द्र॑ । शु॒द्धः । नः॒ । आ । ग॒हि॒ । शु॒द्धः । शु॒द्धाभिः॑ । ऊ॒तिऽभिः॑ ।
शु॒द्धः । र॒यिम् । नि । धा॒र॒य॒ । शु॒द्धः । म॒म॒द्धि॒ । सो॒म्यः ॥८
इन्द्र । शुद्धः । नः । आ । गहि । शुद्धः । शुद्धाभिः । ऊतिऽभिः ।
शुद्धः । रयिम् । नि । धारय । शुद्धः । ममद्धि । सोम्यः ॥८
हे “इन्द्र “शुद्धः अस्मदीयैः सामभिः शस्त्रैश्च परिशुद्धस्त्वं “नः अस्मान् “आ “गहि आगच्छ । "शुद्धाभिरूतिभिः । ऊतयो मरुतः । अवन्ति सर्वत्र गच्छन्तीति वा । तेऽपि सामभिः शस्त्रैः परिपूताः । तैर्मरुद्भिः सह “शुद्धः पापरहितस्त्वमा गहि । आगत्य च “शुद्धः त्वं “रयिं धनमस्मासु “नि “धारय नितरां स्थापय । किंच “शुद्धः त्वं “सोम्यः सोमार्हो भूत्वा “ममद्धि सोमेन माद्य । ‘मदी हर्षे' । लोटि ‘बहुलं छन्दसि' इति शपः श्लुः ॥
इन्द्र॑ शु॒द्धो हि नो॑ र॒यिं शु॒द्धो रत्ना॑नि दा॒शुषे॑ ।
शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं॑ सिषाससि ॥९
इन्द्र॑ । शु॒द्धः । हि । नः॒ । र॒यिम् । शु॒द्धः । रत्ना॑नि । दा॒शुषे॑ ।
शु॒द्धः । वृ॒त्राणि॑ । जि॒घ्न॒से॒ । शु॒द्धः । वाज॑म् । सि॒सा॒स॒सि॒ ॥९
इन्द्र । शुद्धः । हि । नः । रयिम् । शुद्धः । रत्नानि । दाशुषे ।
शुद्धः । वृत्राणि । जिघ्नसे । शुद्धः । वाजम् । सिसाससि ॥९
हे “इन्द्र “शुद्धः । हिरवधारणे । शुद्ध एव त्वं “रयिं धनं "नः अस्मभ्यं प्रयच्छ । तथा “शुद्धः त्वं “दाशुषे हविर्दत्तवते यजमानाय "रत्नानि रमणीयानि धनादीनि च देहि । ततः “शुद्धः पापरहितस्त्वं “वृत्राणि अपामावरकान् कर्मविघ्कारिणः शत्रून् पापानि वा "जिघ्नसे हंसि । ततः “शुद्धः शत्रुहननदोषपरिहारायास्मदीयैः सामभिः शस्त्रैः परिशुद्धस्त्वं “वाजम् अन्नमस्मभ्यं “सिषाससि प्रदातुमिच्छसि । यदा यदा शत्रूनहं हन्यां तदा तदा शुद्ध्युत्पादकैः सामभिः शस्त्रैश्च यूयं मां परिशुद्धं कुरुतेत्यस्मभ्यमन्नं दातुमिच्छसीत्यर्थः ॥ ॥ ३१ ॥
टिप्पणी
मण्डल ८ | ||||||
---|---|---|---|---|---|---|