ऋग्वेदः सूक्तं ८.६८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.६७ ऋग्वेदः - मण्डल ८
सूक्तं ८.६८
प्रियमेध आङ्गिरसः
सूक्तं ८.६९ →
दे. इन्द्रः, १४-१९ ऋक्षाश्वमेधौ। गायत्री, अनुष्टुम्मुखः प्रगाथः - (अनुष्टुप् + गायत्रयौ) १,४,७,१० अनुष्टुप्, १६ शंकुमती।


आ त्वा रथं यथोतये सुम्नाय वर्तयामसि ।
तुविकूर्मिमृतीषहमिन्द्र शविष्ठ सत्पते ॥१॥
तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
आ पप्राथ महित्वना ॥२॥
यस्य ते महिना महः परि ज्मायन्तमीयतुः ।
हस्ता वज्रं हिरण्ययम् ॥३॥
विश्वानरस्य वस्पतिमनानतस्य शवसः ।
एवैश्च चर्षणीनामूती हुवे रथानाम् ॥४॥
अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः ।
नाना हवन्त ऊतये ॥५॥
परोमात्रमृचीषममिन्द्रमुग्रं सुराधसम् ।
ईशानं चिद्वसूनाम् ॥६॥
तंतमिद्राधसे मह इन्द्रं चोदामि पीतये ।
यः पूर्व्यामनुष्टुतिमीशे कृष्टीनां नृतुः ॥७॥
न यस्य ते शवसान सख्यमानंश मर्त्यः ।
नकिः शवांसि ते नशत् ॥८॥
त्वोतासस्त्वा युजाप्सु सूर्ये महद्धनम् ।
जयेम पृत्सु वज्रिवः ॥९॥
तं त्वा यज्ञेभिरीमहे तं गीर्भिर्गिर्वणस्तम ।
इन्द्र यथा चिदाविथ वाजेषु पुरुमाय्यम् ॥१०॥
यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिरद्रिवः ।
यज्ञो वितन्तसाय्यः ॥११॥
उरु णस्तन्वे तन उरु क्षयाय नस्कृधि ।
उरु णो यन्धि जीवसे ॥१२॥
उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् ।
देववीतिं मनामहे ॥१३॥
उप मा षड्द्वाद्वा नरः सोमस्य हर्ष्या ।
तिष्ठन्ति स्वादुरातयः ॥१४॥
ऋज्राविन्द्रोत आ ददे हरी ऋक्षस्य सूनवि ।
आश्वमेधस्य रोहिता ॥१५॥
सुरथाँ आतिथिग्वे स्वभीशूँरार्क्षे ।
आश्वमेधे सुपेशसः ॥१६॥
षळश्वाँ आतिथिग्व इन्द्रोते वधूमतः ।
सचा पूतक्रतौ सनम् ॥१७॥
ऐषु चेतद्वृषण्वत्यन्तरृज्रेष्वरुषी ।
स्वभीशुः कशावती ॥१८॥
न युष्मे वाजबन्धवो निनित्सुश्चन मर्त्यः ।
अवद्यमधि दीधरत् ॥१९॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

षष्ठे चतुर्थमध्यायं श्रीमायणसुतः सुधीः ।।

व्याख्याय सायणाचार्यः पञ्चमं व्याकरोत्यथ ।।

तत्र ‘आ त्वा रथम्' इत्येकोनविंशत्यृचं नवमं सूक्तम् । अत्रेयमनुक्रमणिका-' आ त्वैकोना प्रियमेध आदावनुष्टुम्मुखास्तृचाश्चत्वारोऽन्त्याः षळृक्षाश्वमेधयोर्दानस्तुतिः' इति । आङ्गिरसः प्रियमेध ऋषिः। प्रथमाचतुर्थीसप्तमीदशम्योऽनुष्टुभः शिष्टाः परं गायत्रम्' इति परिभाषया गायत्र्यः । अन्ततः षट्स्वृक्षु ऋक्षाश्वमेधयोर्दानं स्तूयते । अतस्तास्तद्देवताकाः । शिष्टा अनुक्तपरिभाषयैन्द्र्यः । सूक्तविनियोगो लैङ्गिकः। अद्यस्तृचो मरुत्वतीयस्य प्रतिपत्। तथा च सूत्रितम्--- ‘ आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ' (आश्व. श्रौ. ५. १४) इति । महाव्रतादिष्वपि यत्र तृचान्तरं न विधीयते तत्र सर्वत्रायमेव प्रतिपद्भवति ।।


आ त्वा॒ रथं॒ यथो॒तये॑ सु॒म्नाय॑ वर्तयामसि ।

तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒ शवि॑ष्ठ॒ सत्प॑ते ॥१

आ । त्वा॒ । रथ॑म् । यथा॑ । ऊ॒तये॑ । सु॒म्नाय॑ । व॒र्त॒या॒म॒सि॒ ।

तु॒वि॒ऽकू॒र्मिम् । ऋ॒ति॒ऽसह॑म् । इन्द्र॑ । शवि॑ष्ठ । सत्ऽप॑ते ॥१

आ । त्वा । रथम् । यथा । ऊतये । सुम्नाय । वर्तयामसि ।

तुविऽकूर्मिम् । ऋतिऽसहम् । इन्द्र । शविष्ठ । सत्ऽपते ॥१

हे इन्द्र “त्वा त्वाम् आ "वर्तयामसि आवर्तयामः । किमर्थम् । “ऊतये अस्माकं रक्षणाय “सुम्नाय सुखाय च । किमिव । "रथं यथा । रथं यथोतये सुखाय चावर्तयन्ति तद्वत् । कीदृशं त्वाम् । "तुविकूर्मिं बहुकर्माणम् "ऋतीषहं हिंसकानामभिभवितारम् । हे "इन्द्र "शविष्ठ अतिशयेन बलवन् हे "सत्पते सतां पालक त्वामिति समन्वयः ।।


तुवि॑शुष्म॒ तुवि॑क्रतो॒ शची॑वो॒ विश्व॑या मते ।

आ प॑प्राथ महित्व॒ना ॥२

तुवि॑ऽशुष्म । तुवि॑क्रतो॒ इति॒ तुवि॑ऽक्रतो । शची॑ऽवः । विश्व॑या । म॒ते॒ ।

आ । प॒प्रा॒थ॒ । म॒हि॒ऽत्व॒ना ॥२

तुविऽशुष्म । तुविक्रतो इति तुविऽक्रतो । शचीऽवः । विश्वया । मते ।

आ । पप्राथ । महिऽत्वना ॥२

हे "तुविशुष्म प्रभूतबल हे "तुविक्रतो बहुकर्मन् । अथवा बहुप्रज्ञ कर्मणः पृथगभिधानात् । हे “शचीवः बहुकर्मोपेत "मते पूजनीयेन्द्र "विश्वया विश्वव्याप्तेन "महित्वना महत्त्वेन “आ "पप्राथ आपूरितवानसि । अविशेषाद्विश्वमित्यर्थः ॥


यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यन्त॑मी॒यतु॑ः ।

हस्ता॒ वज्रं॑ हिर॒ण्यय॑म् ॥३

यस्य॑ । ते॒ । म॒हि॒ना । म॒हः । परि॑ । ज्मा॒यन्त॑म् । ई॒यतुः॑ ।

हस्ता॑ । वज्र॑म् । हि॒र॒ण्यय॑म् ॥३

यस्य । ते । महिना । महः । परि । ज्मायन्तम् । ईयतुः ।

हस्ता । वज्रम् । हिरण्ययम् ॥३

“महः महतः "यस्य “ते तव । यच्छब्दः प्रकृतपरामर्शकः । प्रकृतं तूक्तमृग्द्वयम् । तत्रत्यतुविकूर्मिमृतीषहमित्याद्युक्तलक्षणस्य तवेत्यर्थः । “महिना महत्त्वेन “हस्ता तव हस्ता हस्तौ “ज्मायन्तं पृथिव्यां सर्वतो व्याप्नुवन्तं "हिरण्ययं हिरण्मयं "वज्रम् "ईयतुः परिगृह्णीतः । सर्वदास्माकं भयनिवारणायेति भावः ।।


पृष्ठ्याभिप्लवषडहयोर्द्वितीयेऽहनि ‘विश्वानरस्य' इति प्रतिपत्तृचः । सूत्रितं च- ‘ विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ' (आश्व. श्रौ. ७. ६ ) इति ।।

वि॒श्वान॑रस्य व॒स्पति॒मना॑नतस्य॒ शव॑सः ।

एवै॑श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा॑नाम् ॥४

वि॒श्वान॑रस्य । वः॒ । पति॑म् । अना॑नतस्य । शव॑सः ।

एवैः॑ । च॒ । च॒र्ष॒णी॒नाम् । ऊ॒ती । हु॒वे॒ । रथा॑नाम् ॥४

विश्वानरस्य । वः । पतिम् । अनानतस्य । शवसः ।

एवैः । च । चर्षणीनाम् । ऊती । हुवे । रथानाम् ॥४

“विश्वानरस्य विश्वान् शत्रून् प्रत्यृतस्य "अनानतस्य शत्रूणामप्रह्वस्य “शवसः बलस्य “पतिं स्वामिनमिन्द्रं वा । अत्रेन्द्रसंबन्धिनो मरुतोऽपि संकीर्त्यन्ते । हे मरुतः "वः। युष्माकमित्यर्थः । यद्यपि मरुत्संशब्दनं नास्ति तथापि व इति सामर्थ्याल्लभ्यते । युष्माकं "चर्षणीनां सैनिकानाम् “एवैः गमनैः सह । यद्वा चर्षणीनाम् इन्द्रस्य सेनारूपाणां वो युष्माकं गमनैरिति सामानाधिकरण्यम् । युष्माकं “रथानां च “ऊती ऊतिभिर्गमनैश्च सह “हुवे आह्वयामि । गन्तृभी रथैर्गन्तृभिर्मरुद्भिश्च सहेन्द्रं हुव इत्यर्थः । यद्वा । हे यजमानाः युष्मदीयाः सैनिकाः सरथा यदा प्रविशन्ति युद्धाय संग्रामं तदानीं तेषां साहाय्यायेन्द्रं हुव इत्यर्थः ॥


अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व॑र्मीळ्हेषु॒ यं नर॑ः ।

नाना॒ हव॑न्त ऊ॒तये॑ ॥५

अ॒भिष्ट॑ये । स॒दाऽवृ॑धम् । स्वः॑ऽमीळ्हेषु । यम् । नरः॑ ।

नाना॑ । हव॑न्ते । ऊ॒तये॑ ॥५

अभिष्टये । सदाऽवृधम् । स्वःऽमीळ्हेषु । यम् । नरः ।

नाना । हवन्ते । ऊतये ॥५

हे यजमानाः युष्माकम् "अभिष्टये साहाय्यार्थमभिगमनायाभिष्टये वा "सदावृधं सर्वदा वर्धयन्तं सेवकान् स्वयं सर्वदा वर्धमानं वा हुव इति शेषः । "यं "स्वर्मीळ्हेषु संग्रामेषु "नरः नेतारो मनुष्याः "नाना बहुप्रकारं "हवन्ते आह्वयन्ति "ऊतये रक्षार्थं तं हुव इति शेषः ॥ ॥ १ ॥


प॒रोमा॑त्र॒मृची॑षम॒मिन्द्र॑मु॒ग्रं सु॒राध॑सम् ।

ईशा॑नं चि॒द्वसू॑नाम् ॥६

प॒रःऽमा॑त्रम् । ऋची॑षमम् । इन्द्र॑म् । उ॒ग्रम् । सु॒ऽराध॑सम् ।

ईशा॑नम् । चि॒त् । वसू॑नाम् ॥६

परःऽमात्रम् । ऋचीषमम् । इन्द्रम् । उग्रम् । सुऽराधसम् ।

ईशानम् । चित् । वसूनाम् ॥६

"परोमात्रम् । परा मात्रा यस्य तादृशम् । अथवा मीयत इति मात्रं दूरदेशः । ततः परस्ताद्वर्तमानमपरिमितस्वरूपम् । तथापि “ऋचीषमम् ऋचा स्तुत्या समम् । यद्यप्यपरिच्छिन्नः तथापि स्तुतिर्यावन्मात्रं विषयीकरोति तत्सम इत्यर्थः । तदेवाह। “इन्द्रं परमैश्वर्ययोगादिच्छानुकुलस्वरूपम् “उग्रम् उद्गूर्णबलं "सुराधसम् । राध इति धननाम । शोभनधनं शोभनान्नं वा “ईशानं “चित् ईश्वरं च । केषाम् । "वसूनाम् अस्मभ्यं प्रदेयानां गवादिधनानाम् । एवंमहानुभावमिन्द्रं हुव इति शेषः ॥


तृतीयेऽहनि मरुत्वतीये ‘तंतमित्' इति प्रतिपत्तृचः । सूत्रितं च- ‘ तंतमिद्राधसे महे त्रय इन्द्रस्य सोमाः' (आश्व. श्रौ. ७. १०) इति ॥

तंत॒मिद्राध॑से म॒ह इन्द्रं॑ चोदामि पी॒तये॑ ।

यः पू॒र्व्यामनु॑ष्टुति॒मीशे॑ कृष्टी॒नां नृ॒तुः ॥७

तम्ऽत॑म् । इत् । राध॑से । म॒हे । इन्द्र॑म् । चो॒दा॒मि॒ । पी॒तये॑ ।

यः । पू॒र्व्याम् । अनु॑ऽस्तुतिम् । ईशे॑ । कृ॒ष्टी॒नाम् । नृ॒तुः ॥७

तम्ऽतम् । इत् । राधसे । महे । इन्द्रम् । चोदामि । पीतये ।

यः । पूर्व्याम् । अनुऽस्तुतिम् । ईशे । कृष्टीनाम् । नृतुः ॥७

“तंतमित् तमेव इन्द्रम् । सर्वेष्वपि यागकालेषु तमेवेन्द्रमित्यर्थः। तं प्रति “चोदामि प्रेरयामि स्तुतिं “पीतये सोमपानाय । ततः को लाभ इति उच्यते । “महे महते "राधसे धनाय प्रभूतधनलाभार्थम् । "यः "नृतुः फलस्य नेता देवः "पूर्व्यां पूर्वे भवां यज्ञमुखस्थाम् "अनुष्टुतिम् अनुक्रमेण क्रियमाणां स्तुतिं "कृष्टीनां मनुष्याणामृत्विजां संबन्धिनीम् "ईशे ईष्टे श्रोतुं तं चोदामीति संबन्धः ॥


न यस्य॑ ते शवसान स॒ख्यमा॒नंश॒ मर्त्य॑ः ।

नकि॒ः शवां॑सि ते नशत् ॥८

न । यस्य॑ । ते॒ । श॒व॒सा॒न॒ । स॒ख्यम् । आ॒नंश॑ । मर्त्यः॑ ।

नकिः॑ । शवां॑सि । ते॒ । न॒श॒त् ॥८

न । यस्य । ते । शवसान । सख्यम् । आनंश । मर्त्यः ।

नकिः । शवांसि । ते । नशत् ॥८

हे "शवसान बलवन्निन्द्र “यस्य “ते तव "सख्यं "मर्त्यः मरणधर्मा मनुष्यः "न "आनंश न व्याप्नोति "ते "शवांसि बलान्यपि “नकिः नैव "नशत् व्याप्नोति ॥


त्वोता॑स॒स्त्वा यु॒जाप्सु सूर्ये॑ म॒हद्धन॑म् ।

जये॑म पृ॒त्सु व॑ज्रिवः ॥९

त्वाऽऊ॑तासः । त्वा । यु॒जा । अ॒प्ऽसु । सूर्ये॑ । म॒हत् । धन॑म् ।

जये॑म । पृ॒त्ऽसु । व॒ज्रि॒ऽवः॒ ॥९

त्वाऽऊतासः । त्वा । युजा । अप्ऽसु । सूर्ये । महत् । धनम् ।

जयेम । पृत्ऽसु । वज्रिऽवः ॥९

हे इन्द्र “त्वोतासः त्वया रक्षिताः “त्वा त्वया "युजा सहायेन "अप्सु स्नातुं सूर्यं द्रष्टुं च । स्नानादिव्यवहारं कर्तुं "सूर्ये उदिते सति गमनादिव्यवहारं कर्तुमित्यर्थः। तदर्थ "पृत्सु संग्रामेषु हे “वज्रिवः वज्रवन्निन्द्र "महद्धनं "जयेम । शत्रून् संग्रामे जित्वा तेषां धनं लभेमेत्यर्थः ।।


चतुर्थेऽहनि मरुत्वतीये ‘तं त्वा यज्ञेभिः' इति तृचः प्रतिपत् । सूत्रितं च -- तं त्वा यज्ञेभिरीमह इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ' ( आश्व. श्रौ. ७. ११) इति ।

तं त्वा॑ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि॑र्वणस्तम ।

इन्द्र॒ यथा॑ चि॒दावि॑थ॒ वाजे॑षु पुरु॒माय्य॑म् ॥१०

तम् । त्वा॒ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । तम् । गीः॒ऽभिः । गि॒र्व॒णः॒ऽत॒म॒ ।

इन्द्र॑ । यथा॑ । चि॒त् । आवि॑थ । वाजे॑षु । पु॒रु॒ऽमाय्य॑म् ॥१०

तम् । त्वा । यज्ञेभिः । ईमहे । तम् । गीःऽभिः । गिर्वणःऽतम ।

इन्द्र । यथा । चित् । आविथ । वाजेषु । पुरुऽमाय्यम् ॥१०

"तं स्तुत्यत्वेन प्रसिद्धं "त्वा त्वां "यज्ञेभिः यागसाधनैः सोमादिभिः “ईमहे याचामहे । "तम् एवेन्द्रं "गीर्भिः स्तुतिभिरीमहे । हे "गिर्वणस्तम गीर्भिः स्तुतिभिर्वननीयतम इन्द्र तं त्वामिति समन्वयः । हे “इन्द्र त्वं "यथा "चिदाविथ येन प्रकारेण ररक्षिथ माम् । चिदिति पूरणः । कुत्रेति उच्यते । “वाजेषु संग्रामेषु । कीदृशं माम् । पुरुमाय्यं बहुप्रज्ञम् । बहुस्तुतिमित्यर्थः ॥ ॥ २ ॥


यस्य॑ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी॑तिरद्रिवः ।

य॒ज्ञो वि॑तन्त॒साय्य॑ः ॥११

यस्य॑ । ते॒ । स्वा॒दु । स॒ख्यम् । स्वा॒द्वी । प्रऽनी॑तिः । अ॒द्रि॒ऽवः॒ ।

य॒ज्ञः । वि॒त॒न्त॒साय्यः॑ ॥११

यस्य । ते । स्वादु । सख्यम् । स्वाद्वी । प्रऽनीतिः । अद्रिऽवः ।

यज्ञः । वितन्तसाय्यः ॥११

हे "अद्रिवः वज्रवन्निन्द्र “यस्य स्तुत्यत्वेन प्रसिद्धस्य “ते तव "सख्यं "स्वादु अतीवानुभवार्हम् । किंच ते “प्रणीतिः प्रणयनं धनादीनां "स्वाद्वी स्वादु सुहर्षकम् । तथोभे त्वद्विषयो "यज्ञः च "वितन्तसाय्यः विशेषेण तननीयः ॥


उ॒रु ण॑स्त॒न्वे॒३॒॑ तन॑ उ॒रु क्षया॑य नस्कृधि ।

उ॒रु णो॑ यन्धि जी॒वसे॑ ॥१२

उ॒रु । नः॒ । त॒न्वे॑ । तने॑ । उ॒रु । क्षया॑य । नः॒ । कृ॒धि॒ ।

उ॒रु । नः॒ । य॒न्धि॒ । जी॒वसे॑ ॥१२

उरु । नः । तन्वे । तने । उरु । क्षयाय । नः । कृधि ।

उरु । नः । यन्धि । जीवसे ॥१२

हे इन्द्र त्वं “नः अस्माकं "तन्वे आत्मजाय "उरु प्रभूतं “कृधि कुरु । सामर्थ्याद्धनं सुखं वेति गम्यते । तथा “तने तत्पुत्राय "उरु कृधि । तथा “क्षयाय निवासाय “उरु कृधि । “नः अस्माकं “जीवसे जीवनाय “यन्धि प्रयच्छाभिमतम् ॥


उ॒रुं नृभ्य॑ उ॒रुं गव॑ उ॒रुं रथा॑य॒ पन्था॑म् ।

दे॒ववी॑तिं मनामहे ॥१३

उ॒रुम् । नृऽभ्यः॑ । उ॒रुम् । गवे॑ । उ॒रुम् । रथा॑य । पन्था॑म् ।

दे॒वऽवी॑तिम् । म॒ना॒म॒हे॒ ॥१३

उरुम् । नृऽभ्यः । उरुम् । गवे । उरुम् । रथाय । पन्थाम् ।

देवऽवीतिम् । मनामहे ॥१३

हे इन्द्र "नृभ्यः अस्मदीयेभ्यो भृत्येभ्यः “उरुं हितं "मनामहे याचामहे । तथा “गवे । एतदुपलक्षणम् । गवाश्वादिकाय तथा “रथाय "पन्थां पन्थानं मार्गम् । अथवा नृप्रभृतीनां संचाराय शोभनं मार्गं मनामहे । तथा “देववीतिं यज्ञं मनामहे ॥


उप॑ मा॒ षड्द्वाद्वा॒ नर॒ः सोम॑स्य॒ हर्ष्या॑ ।

तिष्ठ॑न्ति स्वादुरा॒तय॑ः ॥१४

उप॑ । मा॒ । षट् । द्वाऽद्वा॑ । नरः॑ । सोम॑स्य । हर्ष्या॑ ।

तिष्ठ॑न्ति । स्वा॒दु॒ऽरा॒तयः॑ ॥१४

उप । मा । षट् । द्वाऽद्वा । नरः । सोमस्य । हर्ष्या ।

तिष्ठन्ति । स्वादुऽरातयः ॥१४

एतदाद्याः षड़ृच ऋक्षाश्वमेधयोर्दानस्तुतिरूपाः । यद्यपि बृहद्देवतानुक्रमण्याम् ‘ऋक्षाश्वमेधयोरत्र पञ्च दानप्रशंसकाः' (बृहद्दे. ६. ९२ ) इत्युक्तं तथापि उप मा षट्' इत्यस्या राजदानस्तुतिशेषत्वादविरोधः । अनेनैवाशयेनानुक्रमण्याम् ' अन्त्याः षळृच ऋक्षाश्वमेधयोर्दानस्तुतिः' इत्युक्तम् । "मा मां प्रियमेधं यज्ञे प्रसर्पन्तः “षट् एतत्संख्याकाः "नरः नेतारो राजानः "सोमस्य पीतस्य “हर्ष्या हर्षेण “स्वादुरातयः सुष्ठूपभोगार्हदानाः सन्तः “द्वाद्वा द्वौ द्वौ पितृपुत्ररूपेण युग्मौ भूत्वा माम् "उप “तिष्ठन्ति । तेषां युग्मानां नाम तूत्तरत्र स्पष्टीक्रियते ॥


ऋ॒ज्रावि॑न्द्रो॒त आ द॑दे॒ हरी॒ ऋक्ष॑स्य सू॒नवि॑ ।

आ॒श्व॒मे॒धस्य॒ रोहि॑ता ॥१५

ऋ॒ज्रौ । इ॒न्द्रो॒ते । आ । द॒दे॒ । हरी॒ इति॑ । ऋक्ष॑स्य । सू॒नवि॑ ।

आ॒श्व॒ऽमे॒धस्य॑ । रोहि॑ता ॥१५

ऋज्रौ । इन्द्रोते । आ । ददे । हरी इति । ऋक्षस्य । सूनवि ।

आश्वऽमेधस्य । रोहिता ॥१५

“इन्द्रोते एतन्नामक आतिथिग्वेऽतिथिग्वनाम्नो राज्ञः पुत्रे । ' अतिथिग्वाय शम्बरम्' (ऋ. सं. १. ५१. ६) ‘ अतिथिग्वाय शंस्यम्' (ऋ. सं. ६. २६. ३) इत्यादिष्वतिथिग्वः प्रसिद्धः । तत्पुत्र इन्द्रोते “ऋज़ौ ऋजुगामिनावश्वौ “आ “ददे स्वीकृतवानस्मि । तथा “ऋक्षस्य “सूनवि ऋक्षनाम्नः पुत्रेऽन्यस्मिन् राजनि "हरी हरितवर्णावश्वौ आ ददे। तथा “आश्वमेधस्य अश्वमेधपुत्रे राजनि "रोहिता रोहितवर्णावश्वौ आ ददे। नन्वनुक्रमण्यामुभयोरेव दानप्रशंसारूपत्वमुक्तम् अत्र कथं त्रयाणां दानकीर्तनमिति । नैष दोषः । ऋक्षाश्वमेधपुत्रयोरेव यागेऽस्यर्षेः प्रवृत्तेस्तयोरेव दानं प्रस्तुतम्। इन्द्रोतस्तु स्वपित्रा सह तयोर्यज्ञदिदृक्षयागत्य तयोर्दानं दृष्ट्वा स्वपित्रा प्रेरितो दत्तवानश्वौ। अतस्तद्दानं प्रासङ्गिकमिति । एवमृक्षाश्वमेधयोर्दानस्तुतित्वं न व्याहन्यते । पितृपुत्रयोरभेदात्तयोः पक्षकर्तृत्वाच्च। इन्द्रोतदानस्थ प्रासङ्गिकत्वं ‘षळश्वान्' इत्यत्र विस्पष्टयिष्यते ॥


सु॒रथाँ॑ आतिथि॒ग्वे स्व॑भी॒शूँरा॒र्क्षे ।

आ॒श्व॒मे॒धे सु॒पेश॑सः ॥१६

सु॒ऽरथा॑न् । आ॒ति॒थि॒ऽग्वे । सु॒ऽअ॒भी॒शून् । आ॒र्क्षे ।

आ॒श्व॒ऽमे॒धे । सु॒ऽपेश॑सः ॥१६

सुऽरथान् । आतिथिऽग्वे । सुऽअभीशून् । आर्क्षे ।

आश्वऽमेधे । सुऽपेशसः ॥१६

"आतिथिग्वे इन्द्रोते "सुरथान् शोभनरथोपेतानश्वानाददे । "आर्क्षे ऋक्षपुत्रे "स्वभीशून् अश्वानाददे । "आश्वमेधे अश्वमेधपुत्रे 'सुपेशसः सुरूपानश्वान् शोभनालंकारानाददे ॥


षळश्वाँ॑ आतिथि॒ग्व इ॑न्द्रो॒ते व॒धूम॑तः ।

सचा॑ पू॒तक्र॑तौ सनम् ॥१७

षट् । अश्वा॑न् । आ॒ति॒थि॒ऽग्वे । इ॒न्द्रो॒ते । व॒धूऽम॑तः ।

सचा॑ । पू॒तऽक्र॑तौ । स॒न॒म् ॥१७

षट् । अश्वान् । आतिथिऽग्वे । इन्द्रोते । वधूऽमतः ।

सचा । पूतऽक्रतौ । सनम् ॥१७

“आतिथिग्व “इन्द्रोते "पूतक्रतौ शुद्धप्रज्ञे शुद्धकर्मोपेते वा तस्मिन् "वधूमतः वधूभिर्वडवाभिस्तद्वतः “षडश्वान् "सचा ऋक्षाश्वमेधयोः पुत्राभ्यां दत्तेनाश्वादिधनेन सचा सह “सनं लब्धवानस्मि । एतत्साहित्यवचनमिन्द्रोतदानस्य प्रासङ्गिकत्वे लिङ्गम् ।।


ऐषु॑ चेत॒द्वृष॑ण्वत्य॒न्तरृ॒ज्रेष्वरु॑षी ।

स्व॒भी॒शुः कशा॑वती ॥१८

आ । ए॒षु॒ । चे॒त॒त् । वृष॑ण्ऽवती । अ॒न्तः । ऋ॒ज्रेषु॑ । अरु॑षी ।

सु॒ऽअ॒भी॒शुः । कशा॑ऽवती ॥१८

आ । एषु । चेतत् । वृषण्ऽवती । अन्तः । ऋज्रेषु । अरुषी ।

सुऽअभीशुः । कशाऽवती ॥१८

“एषु “ऋज्रेषु ऋजुगामिष्वश्वेषु "अन्तः मध्ये “आ “चेतत् आज्ञायते । का। "वृषण्वती वर्षकैः पुमश्वैस्तद्वती "अरुषी आरोचमाना "स्वभीशुः शोभनप्रग्रहा "कशावती दृप्ता वडवा ज्ञायते ॥


न यु॒ष्मे वा॑जबन्धवो निनि॒त्सुश्च॒न मर्त्य॑ः ।

अ॒व॒द्यमधि॑ दीधरत् ॥१९

न । यु॒ष्मे इति॑ । वा॒ज॒ऽब॒न्ध॒वः॒ । नि॒नि॒त्सुः । च॒न । मर्त्यः॑ ।

अ॒व॒द्यम् । अधि॑ । दी॒ध॒र॒त् ॥१९

न । युष्मे इति । वाजऽबन्धवः । निनित्सुः । चन । मर्त्यः ।

अवद्यम् । अधि । दीधरत् ॥१९

हे “वाजबन्धवः अन्नबन्धवोऽन्नप्रदाः । एवं पुत्राणां पितृपुत्ररूपाणां षण्णां वा संबोधनम् । हे राजानः "युष्मे युष्मासु "निनित्सुश्चन निन्दकोऽपि “मर्त्यः मनुष्यः "अवद्यं निन्दा “न “अधि “दीधरत् नान्वधारयत्। नारोपयति युष्मासु । अतोऽनिन्द्या यूयमिति दातॄणां स्तुतिः ॥ ॥ ४ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.६८&oldid=192388" इत्यस्माद् पुनः प्राप्तिः