ऋग्वेदः सूक्तं ८.५७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.५६ ऋग्वेदः - मण्डल ८
सूक्तं ८.५७
मेध्यः काण्वः
सूक्तं ८.५८ →
दे. अश्विनौ । त्रिष्टुप्


युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा ।
आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः ॥१॥
युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् ।
अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी ॥२॥
पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।
सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उप याता पिबध्यै ॥३॥
अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम् ।
पिबतं सोमं मधुमन्तमस्मे प्र दाश्वांसमवतं शचीभिः ॥४॥


भाष्यम्

'युवं देवा' इति चतूऋचं नवमं सूक्तं काण्वस्य मेध्यस्यार्षमाश्विनं त्रैष्टुभम् । अनुक्रम्यते-- 'युवं देवा चतुष्कं मेध्य आश्विनं त्रैष्टुभम्' इति । विनियोगः सूत्रादवगन्तव्यः । ।


यु॒वं दे॑वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा ।

आग॑च्छतं नासत्या॒ शची॑भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ॥

यु॒वम् । दे॒वा॒ । क्रतु॑ना । पू॒र्व्येण॑ । यु॒क्ता । रथे॑न । त॒वि॒षम् । य॒ज॒त्रा॒ ।

आ । अ॒ग॒च्छ॒त॒म् । ना॒स॒त्या॒ । शची॑भिः । इ॒दम् । तृ॒तीय॑म् । सव॑नम् । पि॒बा॒थः॒ ॥

युवम् । देवा । क्रतुना । पूर्व्येण । युक्ताः । रथेन । तविषम् । यजत्रा ।

आ। अगच्छतम् । नासत्या । शचीभिः । इदम् । तृतीयम् । सवनम् । पिबाथः ॥ १ ॥

हे यजत्रा यजनीयौ पूज्यौ देवौ द्योतमानावश्विनौ पूर्व्येण पुरा भवेन क्रतुना कर्मणा अनुग्रहबुद्ध्या वा उपेतौ युवं युवां प्रति रथेन रंहणस्वभावेन स्यन्दनेन युक्ताः संयुक्ता अश्वाः तविषं बलं यथा भवति तथा वहन्तीति शेषः । तस्मात् हे नासत्या नासत्यौ सत्यभूतौ युवां शचीभिः अनुग्रहलक्षणैः कर्मभिः सह इदं तृतीयं सवनमुद्दिश्य आगच्छतमागच्छतम् । आगत्य च पिबाथः पिबतं सोममिति शेषः ।।


यु॒वां दे॒वास्त्रय॑ एकाद॒शासः॑ स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता॑त् ।

अ॒स्माकं॑ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ॥

यु॒वाम् । दे॒वाः । त्रयः॑ । ए॒का॒द॒शासः॑ । स॒त्याः । स॒त्यस्य॑ । द॒दृ॒शे॒ । पु॒रस्ता॑त् ।

अ॒स्माक॑म् । य॒ज्ञम् । सव॑नम् । जु॒षा॒णा । पा॒तम् । सोम॑म् । अ॒श्वि॒ना॒ । दीद्य॑ग्नी॒ इति॒ दीदि॑ऽअग्नी ॥

युवाम् । देवाः । त्रयः । एकादशासः । सत्याः । सत्यस्य । ददृशे । पुरस्तात् ।

अस्माकम् । यज्ञम् । सवनम् । जुषाणा । पातम्। सोमम् । अश्विना । दीद्यग्नी इति दीदिऽअग्नी॥२॥

हे आश्वनाश्विनौ युवां द्वौ अपरे च त्रय एकादशासः त्रयस्त्रिंशद्देवाः । ते च ‘अष्टौ वसवः एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च' इति श्रुतिप्रसिद्धाः । सर्वे यूयं सत्याः यथार्थभूताः सन्तः सत्यस्यावितथस्य यज्ञस्य पुरस्तात् पुरोदेशे ददृशे दृश्यमाना भवथ । अतोऽस्माकं संबन्धिनं सवनम् । सूयतेऽभिषूयते सोमो यत्रेति सवनः । तं तादृशं यज्ञं यजनीयमध्वरं जुषाणा जुषमाणौ सेवमानौ युवां सोमम् अभिषुतसोमरसं पातं पिबतम् । कीदृशौ युवाम् । दीद्यग्नी । दीदिः अतिशयेन दीप्यमानः अग्निः जठरानलो ययोस्तौ तादृशौ । भिषजोः भवतोर्दीप्ताग्नित्वमप्युचितमिति भावः ।।


प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः ।

स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥

प॒नाय्य॑म् । तत् । अ॒श्वि॒ना॒ । कृ॒तम् । वा॒म् । वृ॒ष॒भः । दि॒वः । रज॑सः । पृ॒थि॒व्याः ।

स॒हस्र॑म् । शंसाः॑ । उ॒त । ये । गोऽइ॑ष्टौ । सर्वा॑न् । इत् । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥

पनाय्यम् । तत् । अश्विना । कृतम् । वाम् । वृषभः । दिवः । रजसः । पृथिव्याः।

सहस्रम् । शंसाः । उत । ये । गोऽइष्टौ । सर्वान् । इत् । तान् । उप । यात । पिबध्यै ॥३॥

हे अश्विनाश्विनौ पृथिव्याः भूमेर्हेतोः दिवः द्युलोकात् सकाशात् रजसः उदकस्य वृषभः वर्षिता सूर्योऽस्तीति यत् तत्सर्वं वां युवयोः कृतं कर्म पनाय्यं स्तुत्यं भवति । भवदनुग्रहादेव युष्मत्पिता सूर्यः पृथिव्यां वर्षति । नो चेत् तेन तु स्वरश्मिनाडीभिः भूमेर्जलमाकृष्टमस्ति । स कथं वर्षेदाकर्षकः सन् । तस्मात् भवतोरेवैतत्कर्मेत्यभिप्रायः । यत एवमतः गविष्टौ गवामेषणे निमित्ते सति ते प्रसिद्धाः सहस्रसंख्याकाः शंसाः । शस्यन्ते स्तूयन्त इति शंसा यज्ञाः । आरब्धाः सन्तीति शेषः । तान् सर्वानित् सर्वानपि यज्ञान् युवामुपयातं समीपे गच्छतम् । वचनव्यत्ययश्छान्दसः । किमर्थम् । पिबध्यै सोमं पातुम् । उत इत्यनर्थकः ।।


अ॒यं वां॑ भा॒गो निहि॑तो यजत्रे॒मा गिरो॑ नास॒त्योप॑ यातम् ।

पिब॑तं॒ सोमं॒ मधु॑मन्तम॒स्मे प्र दा॒श्वांस॑मवतं॒ शची॑भिः ॥

अ॒यम् । वा॒म् । भा॒गः । निऽहि॑तः । य॒ज॒त्रा॒ । इ॒माः । गिरः॑ । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ।

पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒स्मे इति॑ । प्र । दा॒श्वांस॑म् । अ॒व॒त॒म् । शची॑भिः ॥

अयम् । वाम् । भागः । निऽहितः । यजत्रा । इमाः । गिरः । नासत्या । उप। यातम् ।

पिबतम् । सोमम् । मधुऽमन्तम् । अस्मे इति। प्र । दाश्वांसम् । अवतम् । शचीभिः ॥४॥ ॥२८॥

हे यजत्रा यजनीयावश्विनौ अयं पुरोवर्ती वां युवयोः भागः भजनीयोंऽशः सोमलक्षणः निहितः नियमेन स्थापितः । अतस्तं गृहीतुमागच्छतमिति (ग्रहीतु°) शेषः । किंच हे नासत्या नासत्यौ सत्यभूतावश्विनौ युवामिमाः संनिकृष्टाः गिरः स्तुतिलक्षणा वाचः उपयातं समीपे गच्छतं श्रोतुम् । अथ च मधुमन्तं माधुर्योपेतं सोमं पिबतम् । किंच अस्मे अस्माकं संबन्धिनं दाश्वांसं हविर्दत्तवन्तं यजमानं शचीभिः अभिमतफलप्रदानलक्षणैः कर्मभिः प्र अवतं प्रकर्षेण रक्षतम् ॥ ॥ २८ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.५७&oldid=209009" इत्यस्माद् पुनः प्राप्तिः