ऋग्वेदः सूक्तं ८.५६
← सूक्तं ८.५५ | ऋग्वेदः - मण्डल ८ सूक्तं ८.५६ पृषध्रः काण्वः |
सूक्तं ८.५७ → |
दे. इन्द्रः, प्रस्कण्वश्च, ५ अग्निसूर्यौ। गायत्री, ५ पङ्क्तिः। |
प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम् ।
द्यौर्न प्रथिना शवः ॥१॥
दश मह्यं पौतक्रतः सहस्रा दस्यवे वृकः ।
नित्याद्रायो अमंहत ॥२॥
शतं मे गर्दभानां शतमूर्णावतीनाम् ।
शतं दासाँ अति स्रजः ॥३॥
तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता ।
अश्वानामिन्न यूथ्याम् ॥४॥
अचेत्यग्निश्चिकितुर्हव्यवाट् स सुमद्रथः ।
अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत ॥५॥
सायणभाष्यम्
प्रति ते ' इति पञ्चर्चमष्टमं सूक्तं काण्वस्य पृषध्रस्यार्षं गायत्रम् । अनुक्रान्तं च–प्रति ते पृषध्रोऽन्त्या अग्निसूर्यदेवत्या पङ्क्तिच्छन्दस्का । शेषा इन्द्रदेवत्या गायत्रीछन्दस्काः । विनियोगः सूत्रादवगन्तव्यः ।।
प्रति॑ ते दस्यवे वृक॒ राधो॑ अद॒र्श्यह्र॑यम् ।
द्यौर्न प्र॑थि॒ना शवः॑ ॥१
प्रति॑ । ते॒ । द॒स्य॒वे॒ । वृ॒क॒ । राधः॑ । अ॒द॒र्शि॒ । अह्र॑यम् ।
द्यौः । न । प्र॒थि॒ना । शवः॑ ॥१
प्रति । ते । दस्यवे । वृक। राधः । अदर्शि । अह्रयम् ।
द्यौः । न । प्रथिना। शवः ॥ १ ॥
हे वृक शत्रुविकर्तनेन्द्र ते तव स्वभूतं राधो धनं दस्यवे उपक्षयित्रे शत्रवे प्रति प्रतिकूलम् अदर्शि दृष्टम् । शत्रुनापहतं सन् ( शत्रुणापहृतं सत्) न तस्य उपकाराय भवति प्रत्युतापकारायैव जायत इत्यर्थः । कीदृशं राधः । अयं लज्जारहितम् । शत्रुहनने प्रगल्भमिति यावत् । किंच ते शवः बलं प्रथिना पृथुत्वेन द्यौर्न द्युलोक इवास्ति । अतः सर्वोत्कृष्टं त्वामहं स्तौमीत्यभिप्रायः ॥
दश॒ मह्यं॑ पौतक्र॒तः स॒हस्रा॒ दस्य॑वे॒ वृकः॑ ।
नित्या॑द्रा॒यो अ॑मंहत ॥२
दश॑ । मह्य॑म् । पौ॒त॒ऽक्र॒तः । स॒हस्रा॑ । दस्य॑वे । वृकः॑ ।
नित्या॑त् । रा॒यः । अ॒मं॒ह॒त॒ ॥२
दश । मह्यम् । पौतऽक्रतः । सहस्रा । दस्यवे । वृकः ।
नित्यात् । रायः। अमंहत ॥ २ ॥
हे पौतक्रतः पवित्रकर्मवन्निन्द्र मह्यं मदर्थं दश सहस्रा अयुतसंख्याकान् दस्यून उपक्षयितॄन् शत्रून् वृकः विवृत्तवान् छिन्नवानसि । अत एव नित्यात् शाश्वतात् त्वत्तः भीताः सन्तस्ते शत्रवः रायः धनानि अमंहत अदुः मह्यम् । मंहतिदानकर्मा तत्र तस्य पाठात् ।।
श॒तं मे॑ गर्द॒भानां॑ श॒तमूर्णा॑वतीनाम् ।
श॒तं दा॒साँ अति॒ स्रजः॑ ॥३
श॒तम् । मे॒ । ग॒र्द॒भाना॑म् । श॒तम् । ऊर्णा॑ऽवतीनाम् ।
श॒तम् । दा॒सान् । अति॑ । स्रजः॑ ॥३
शतम् । मे। गर्दभानाम् । शतम्। ऊर्णाऽवतीनाम् ।
शतम् । दासान् । अति । स्रजः ॥३॥
किंच हे इन्द्र त्वत्तो भीतास्ते मे मह्यमृषये पृषध्रिनाम्ने ( पृषध्र) गर्दभानां रासभाना शतम् । अमंहत अदुः इति पूर्वमन्त्रगतेनान्वयः सर्वत्र । अथ च ऊर्णावतीनां मेषीनां शतमदुः । तथा शतान् शतसंख्याकान् दासान् भृत्यान् अति अतिशयिताः सजो मालाश्च अदुः। एवंप्रभावस्त्वां (प्रभावं त्वां ) स्तौमीत्यर्थः । यद्वा उभयोर्मन्त्रयोरयमर्थः । पौतक्रतः । पूते पवित्रे स्थाने क्रतः पादविक्षेपो यस्याः सा पूतक्रता अदितिः । पवित्रदेशे पादन्यासः अदितेरुचित एव । ‘दृष्टिपूतं न्यसेत् पादम्' इति वचनात् । तस्या अपत्यं पौतक्रत इन्द्रः । दस्यवे। दस्युः कर्मोपक्षयिता ‘तमःसंघः । तं हन्तुं वृकश्चन्द्रमाः सन (सन् ) नित्यात् अनुपक्षीणात् स्वकोशात् सकाशात् दश सहसा अयुतसंख्याकानि रायः धनानि मह्यं पृषध्रनाम्ने अमंहत प्रादात् । किंच गर्दभमेषीदासमालाशतान्यपि मे मह्यं स एव प्रादात् इति । वृकश्चन्द्रमा भवति ' (निरु. ५. २०) इति यास्कः ॥
तत्रो॒ अपि॒ प्राणी॑यत पू॒तक्र॑तायै॒ व्य॑क्ता ।
अश्वा॑ना॒मिन्न यू॒थ्या॑म् ॥४
तत्रो॒ इति॑ । अपि॑ । प्र । अ॒नी॒य॒त॒ । पू॒तऽक्र॑तायै । विऽअ॑क्ता ।
अश्वा॑नाम् । इत् । न । यू॒थ्या॑म् ॥४
तत्र इति । अपि।प्र। अनीयत । पूतऽक्रतायै । विऽअक्ता।
अश्वानाम् । इत् । न । यूथ्याम् ॥४॥
किंच व्यक्ता विविधं गन्ता नानादेशेषु प्रचलन् इन्द्रः तत्र स्वर्गे वर्तमानैः ( वर्तमानायै ) पूतक्रतायै एतन्नामे (°न्नाम्न्यै ) समात्रेऽपि ( स्वमात्रेऽपि ) प्रानीयत प्रापितवान्। किमित्युच्यते । अश्वानां वडवानां यूथ्यां संहतिम् । न केवलं मह्यमेव प्रादादपि तु स्वजनन्या अपि वडवावृन्दं प्रापितवान् इतीयानिन्द्रः समर्थ इति भावः । इत् न इति निपातद्वयमनर्थकम् ॥
अचे॑त्य॒ग्निश्चि॑कि॒तुर्ह॑व्य॒वाट् स सु॒मद्र॑थः ।
अ॒ग्निः शु॒क्रेण॑ शो॒चिषा॑ बृ॒हत्सूरो॑ अरोचत दि॒वि सूर्यो॑ अरोचत ॥५
अचे॑ति । अ॒ग्निः । चि॒कि॒तुः । ह॒व्य॒ऽवाट् । सः । सु॒मत्ऽर॑थः ।
अ॒ग्निः । शु॒क्रेण॑ । शो॒चिषा॑ । बृ॒हत् । सूरः॑ । अ॒रो॒च॒त॒ । दि॒वि । सूर्यः॑ । अ॒रो॒च॒त॒ ॥५
अचेति । अग्निः । चिकितुः । हव्यऽवाट्। सः । सुमत्ऽरथः ।
अग्निः । शुक्रेण । शोचिषा। बृहत् । सूरः । अरोचत । दिवि। सूर्यः । अरोचत ॥५॥ ॥२७॥
अथानयाग्निसूर्यौ स्तूयेते । स प्रसिद्धोऽग्निः चिकितुः चेतनावतो यजमानस्य । कर्मणि षष्ठी । चेतनावन्तं यजमानम् अचेति जानाति । कीदृशः सः । हव्यवाट् हविषां वोढा सुमद्रथः स्वयमेव रंहणस्वभावः । ' सुमत् स्वयमित्यर्थः' (निरु. ६. २२) इति यास्कः । असहायगमनशील इत्यर्थः । किंच बृहत् महान् योऽग्निः शुक्रेण शुक्लेन शोचिषा तेजसा सूरः सुष्ठु ईरयिता प्रेरकः सन् रात्रौ भुवि अरोचत दीप्यते । अथ च दिवा दिवि () द्योतमाने स्वर्लोके सूर्यः सुष्ठु प्रेरयितादित्यः अरोचत दीप्यते । उभाभ्यामहोरात्रात्मकः सर्वः काल आक्रान्त इत्यभिप्रायः ॥ ॥ २७ ॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|