ऋग्वेदः मण्डल ८

विकिस्रोतः तः
Jump to navigation Jump to search
ऋग्वेदः — ऋग्वेदः मण्डल ८
















[सम्पाद्यताम्]

टिप्पणी

कण्वोपरि पौराणिकाः संदर्भाः

कण्वोपरि टिप्पणी

काशकृत्स्नधातुपाठे (१.२०६) कण, क्वणादि धातवः शब्दे भवन्ति। अस्याः चन्नवीरकृतटीकायां कणः – लघुद्रव्यम्, कणिमा गिरिपर्व(घाटी), कणुः – चक्षुः इत्याद्यर्थेषु भवति। क्वण धातु प्रतिध्वनि अर्थे अस्ति। उणादिसूत्राणि १.१५१ (१.१४९) अनुसारेण अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन् । अशू- व्याप्तौ, प्रुष – प्रोक्षणे, .....। अत्र क्वन् प्रत्ययः महत्वपूर्णमस्ति। किं अयं क्वन्, क्वण आधुनिकविज्ञानस्य क्वाण्टा(quantum) अस्ति, अयं विचारणीयः। आधुनिकविज्ञानुसारेण क्वाण्टा कणः अपि अस्ति, तरंगः अपि। तस्य स्वरूपस्य निर्धारणं शक्यं नास्ति। उणादिसूत्रे क्वनशब्दस्य ये विशेषणाः अशू, प्रुषादि सन्ति, किं ते सर्वाणि क्वणशब्दस्य गुणाः सन्ति, अयं अन्वेषणीयः।

पौराणिक एवं लौकिकसाहित्ये कण्वाश्रमे शकुन्तला – दुष्यन्त मेलनम् एवं भरतस्य जन्मकथा प्रसिद्धा अस्ति। पुराणेषु अस्याः कथायाः रूपान्तराः अपि सन्ति – यथा – कथासरित्सागरे १२.३४.३६ एका अतिरूपसम्पन्ना मन्दारवती युवती अस्ति यस्याः निवासं हंसद्वीपे अस्ति। तस्याः मेलनम् सर्वेषां विघ्नानां मध्ये राजसुतेन सुन्दरसेनेन सह भवति। एते कथानकाः पुराणेषु गंगासागरविषयकाः ये कथानकाः सन्ति, तेभ्यः तुलनीयाः सन्ति। गङ्गासागरकथानकेषु हंसद्वीपे या युवती निवसति, तस्याः विवाहे विघ्नाः उपद्रवन्ति। तदा विघ्नानि पारयितुं सा कन्या पुरुषवेशं धारयति इत्यादि। अत्र संकेतमस्ति यत् विशिष्टतमा स्थितिः सा भवति यत्र पुरुष – प्रकृतिमध्ये श्रेष्ठतायाः भेदः समाप्तः भवति। प्रकृतिरेव पुरुषं भवितुं शक्यते।

स्कन्दपुराणे २.७.१९.७३ गुरुघातिना कण्वऋषिणा शापप्राप्तेः कथनमस्ति। तदनन्तरं कण्वः सूर्यतः शिक्षां गृह्णाति। गुरुघातस्य कथनं याज्ञवल्क्य - गुरु वैशम्पायन कथायाः संदर्भे अपि कथितमस्ति। याज्ञवल्क्य एवं कण्वमध्ये कः अन्तरं अस्ति, अयं अन्वेषणीयः।


ऐतरेयारण्यके २.२.२ अष्टममण्डलस्य विषये यत्किंचित् कथितमस्ति, तत् अयमस्ति - स इदं सर्वमभिप्रागाद्यदिदं किंच स यदिदं सर्वमभिप्रागाद्यदिदं किंच तस्मात्प्रगाथास्तस्मात्प्रगाथा इत्याचक्षत एतमेव सन्तम्, इति । अतएव, अष्टममण्डलस्य रहस्यं प्रगाथे निहितमस्ति। प्रगाथस्य विषये कथनमस्ति यत् - सो ऽस्याऽदिरिति च्छन्दसः प्रगाथेषु (पाणिनी सूत्रं ४.२.५५ । ऋग्द्वयप्रग्रथनात् साम्नः तृचस्य सर्जनं भवति, अयं कथनं उपलभ्यते एवं आद्या ऋचा यस्मिन् छन्दे अस्ति, तस्यानुसारेण प्रगाथस्य नामकरणं भविष्यति स इति समर्थविभक्तिः। अस्य इति प्रत्ययार्थः। आदिः इति प्रकृतिविशेषनम्। इतिकरणो विवक्षार्थः। छन्दसः इति प्रकृतिनिर्देशः। प्रगाथेषु इति प्रत्ययार्थविशेषणम्। स इति प्रथमासमर्थादस्य ति षष्ट्यार्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं छन्दश्चेत् तदादिर् भवति, यत् तदस्य इति निर्दिष्टं प्रगाथाश्चेत् ते भवन्ति, इतिकरणस् ततश्चेद् विवक्षा। पङ्क्तिरादिरस्य पाङ्कतः प्रगाथः। आनुष्टुभः। जागतः। आदिः इति किम्? अनुष्टुब्ः मध्यम् अस्य प्रगाथस्य। छन्दसः इति किम्? उदुत्यशब्द आदिरस्य प्रगाथस्य। प्रगाथेषु इति किम्? पङ्क्तिरादिरस्य अनुवाकस्य। प्रगाथशब्दः क्रियानिमित्तकः क्वचिदेव मन्त्रविशेषे वर्तते। यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते, स प्रग्रथनात् प्रकर्षगानाद् वा प्रगाथः इत्युच्यते। (अष्टाध्यायी ४.२.५५)। अयं कथनं संकेतमस्ति यत् प्रगाथः प्रकृति - पुरुषयोः रूपान्तरणं अस्ति।

प्रगाथशब्दोपरि चिन्तनात् पूर्वं गाथा शब्दोपरि चिन्तनः अपेक्षितमस्ति। कथनमस्ति यत् गाथा वाक् अनृतं भवति (मैत्रायणीसंहिता १.११.५, काठकसंहिता १४.५)। (महाभारते वनपर्व ८५.३० कथनमस्ति यत् ऋचा स्वर-छन्दनियमबद्धा भवति किन्तु गाथा स्वरनियमहीना गद्यवत् मुखान्निस्सरति। ऋग्वेदस्य तृतीयमण्डलस्य ऋषिः गाथी विश्वामित्रः अस्ति। पुराणेषु वैश्वामित्री सृष्टिः विकृतियुक्ता कथ्यन्ते। प्रगाथविषये का स्थितिरस्ति, अयं विचारणीयः।

गाथावाकयोः अनृतं भवनस्य किं तात्पर्यमस्ति। मैत्रायणीसंहिता ३.११.६ अनुसारेण अनृते अश्रद्धायाः वासः अस्ति, सत्ये श्रद्धायाः।

गाथा/प्रगाथोपरि टिप्पणी

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_मण्डल_८&oldid=191468" इत्यस्माद् पुनः प्राप्तिः