ऋग्वेदः सूक्तं ८.९२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.९१ ऋग्वेदः - मण्डल ८
सूक्तं ८.९२
श्रुतकक्षः सुकक्षो वा आङ्गिरसः
सूक्तं ८.९३ →
दे. इन्द्रः। गायत्री, १ अनुष्टुप्


पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।
विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ॥१॥
पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम् ।
इन्द्र इति ब्रवीतन ॥२॥
इन्द्र इन्नो महानां दाता वाजानां नृतुः ।
महाँ अभिज्ञ्वा यमत् ॥३॥
अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः ।
इन्दोरिन्द्रो यवाशिरः ॥४॥
तम्वभि प्रार्चतेन्द्रं सोमस्य पीतये ।
तदिद्ध्यस्य वर्धनम् ॥५॥
अस्य पीत्वा मदानां देवो देवस्यौजसा ।
विश्वाभि भुवना भुवत् ॥६॥
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् ।
आ च्यावयस्यूतये ॥७॥
युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् ।
नरमवार्यक्रतुम् ॥८॥
शिक्षा ण इन्द्र राय आ पुरु विद्वाँ ऋचीषम ।
अवा नः पार्ये धने ॥९॥
अतश्चिदिन्द्र ण उपा याहि शतवाजया ।
इषा सहस्रवाजया ॥१०॥
अयाम धीवतो धियोऽर्वद्भिः शक्र गोदरे ।
जयेम पृत्सु वज्रिवः ॥११॥
वयमु त्वा शतक्रतो गावो न यवसेष्वा ।
उक्थेषु रणयामसि ॥१२॥
विश्वा हि मर्त्यत्वनानुकामा शतक्रतो ।
अगन्म वज्रिन्नाशसः ॥१३॥
त्वे सु पुत्र शवसोऽवृत्रन्कामकातयः ।
न त्वामिन्द्राति रिच्यते ॥१४॥
स नो वृषन्सनिष्ठया सं घोरया द्रवित्न्वा ।
धियाविड्ढि पुरंध्या ॥१५॥
यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः ।
तेन नूनं मदे मदेः ॥१६॥
यस्ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः ।
य ओजोदातमो मदः ॥१७॥
विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः ।
विश्वासु दस्म कृष्टिषु ॥१८॥
इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः ।
अर्कमर्चन्तु कारवः ॥१९॥
यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
इन्द्रं सुते हवामहे ॥२०॥
त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
तमिद्वर्धन्तु नो गिरः ॥२१॥
आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।
न त्वामिन्द्राति रिच्यते ॥२२॥
विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे ।
य इन्द्र जठरेषु ते ॥२३॥
अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।
अरं धामभ्य इन्दवः ॥२४॥
अरमश्वाय गायति श्रुतकक्षो अरं गवे ।
अरमिन्द्रस्य धाम्ने ॥२५॥
अरं हि ष्म सुतेषु णः सोमेष्विन्द्र भूषसि ।
अरं ते शक्र दावने ॥२६॥
पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः ।
अरं गमाम ते वयम् ॥२७॥
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।
एवा ते राध्यं मनः ॥२८॥
एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।
अधा चिदिन्द्र मे सचा ॥२९॥
मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते ।
मत्स्वा सुतस्य गोमतः ॥३०॥
मा न इन्द्राभ्यादिशः सूरो अक्तुष्वा यमन् ।
त्वा युजा वनेम तत् ॥३१॥
त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः ।
त्वमस्माकं तव स्मसि ॥३२॥
त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान् ।
सखाय इन्द्र कारवः ॥३३॥

सायणभाष्यम्

'पान्तमा वः' इति त्रयस्त्रिंशद्दचं द्वादशं सूक्तमाङ्गिरसस्य श्रुतकक्षस्य सुकक्षस्य वार्षमैन्द्रम् ।। आद्यानुष्टुप् शिष्टा गायत्र्यः । तथानुक्रम्यते- ‘ पान्तं त्रयस्त्रिशच्छ्रुतकक्षः सुकक्षो वाद्यानुष्टुप् ' इति । महाव्रते गायत्रतृचाशीतौ प्रथमावर्जमिदं सूक्तमुत्तरं च । पञ्चमारण्यके सूत्रितं च - पुरुहूतं पुरुष्टुतमिति शेषः' (ऐ. आ. ५. २. ३) इति । प्रथमे रात्रिपर्याये होतुः शस्त्र आद्यौ तृचौ स्तोत्रियानुरूपौ । सूत्रितं च - पान्तमा वो अन्धसोऽपादु शिप्र्यन्धसः' (आश्व. श्रौ. ६. ४) इति ।।


पान्त॒मा वो॒ अन्ध॑स॒ इन्द्र॑म॒भि प्र गा॑यत ।

वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम् ॥१

पान्त॑म् । आ । वः॒ । अन्ध॑सः । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।

वि॒श्व॒ऽसह॑म् । श॒तऽक्र॑तुम् । मंहि॑ष्ठम् । च॒र्ष॒णी॒नाम् ॥१

पान्तम् । आ । वः । अन्धसः । इन्द्रम् । अभि । प्र । गायत ।

विश्वऽसहम् । शतऽक्रतुम् । मंहिष्ठम् । चर्षणीनाम् ॥१

हे ऋत्विजः "वः युष्मदीयम् "अन्धसः सोमलक्षणमन्नम् “आ “पान्तम् आभिमुख्येन पिबन्तम्। “पा पाने '। छान्दसः शपो लुक् । 'सर्वे विधयश्छन्दसि विकल्पन्ते । इति न लोकाव्यय ' इति षष्ठीप्रतिषेधाभावः । ततोऽन्धसः इत्यस्य कर्तृकर्मणोः' इति षष्ठी'। सोममाभिमुख्येन पिबन्तमेतादृशम् "इन्द्रं “प्र “गायत प्रकर्षेणाभिष्टुत । कीदृशम् । "विश्वसहं सर्वेषां शत्रूणामभिभवितारं सर्वेषां भूतजातानां वा अत एव “शतक्रतुं बहुविधप्रज्ञानं बहुविधकर्माणं वा “चर्षणीनां मनुष्याणां "मंहिष्ठं धनस्य दातृतमम् । यद्वा । यजमानानां यष्टव्यत्वेन पूजनीयमिन्द्रं गायतेति समन्वयः ।।


पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् ।

इन्द्र॒ इति॑ ब्रवीतन ॥२

पु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् । गा॒था॒न्य॑म् । सन॑ऽश्रुतम् ।

इन्द्रः॑ । इति॑ । ब्र॒वी॒त॒न॒ ॥२

पुरुऽहूतम् । पुरुऽस्तुतम् । गाथान्यम् । सनऽश्रुतम् ।

इन्द्रः । इति । ब्रवीतन ॥२

हे ऋत्विग्यजमानाः "पुरुहूतं यज्ञेषु बहुभिराहूतं "पुरुष्टुतं बहुभिः स्तोत्रशस्त्रादिभिः स्तुतम् अत एव "गाथान्यं गानयोग्यं गातव्यं "सनश्रुतं सनातनतया प्रसिद्धमेवंविधं देवम् “इन्द्र “इति यूयं “ब्रवीतन ब्रूयात । ‘ब्रूञ् व्यक्तायां वाचि' इत्यस्य लोटि व्यत्ययेन ध्वमस्तनबादेशः । अत एव गुणः ॥


इन्द्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः ।

म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥३

इन्द्रः॑ । इत् । नः॒ । म॒हाना॑म् । द॒ता । वाजा॑नाम् । नृ॒तुः ।

म॒हान् । अ॒भि॒ऽज्ञु । आ । य॒म॒त् ॥३

इन्द्रः । इत् । नः । महानाम् । दता । वाजानाम् । नृतुः ।

महान् । अभिऽज्ञु । आ । यमत् ॥३

“इन्द्र "इत् पूर्वोक्तलक्षण इन्द्र एव "नः अस्मभ्यं "महानां महतां "वाजानाम् अन्नानाम् । यद्वा । महानाम् । वर्णव्यत्ययः । मघानां धनानां वाजानामन्नानां च “दाता भवतु । कीदृशः । नृतुः। ‘नृतिशृध्योः कूः' (उ. सू. १. ९१) इति कूप्रत्ययः । ह्रस्वछान्दसः । सर्वस्य नर्तयिता । यद्वा। ‘नॄ नये । औणादिकस्तुप्रत्ययः। धातोर्हस्वश्छान्दसः । स्तोतृभ्यो गवादिनेता। अत एव "महान् स इन्द्रः "अभिजु अभिगतजानुकमस्मभ्यम् "आ "यमत् आयच्छतु ददातु । यद्वा स इन्द्रोऽभिज्ञ्वस्मदभिमुखमागच्छद्धनं स्वहस्तयोः परिगृह्यास्मान्नयतु । धनं यत्वास्मभ्यं ददात्वित्यर्थः ॥


अपा॑दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिणः॑ ।

इन्दो॒रिन्द्रो॒ यवा॑शिरः ॥४

अपा॑त् । ऊं॒ इति॑ । शि॒प्री । अन्ध॑सः । सु॒ऽदक्ष॑स्य । प्र॒ऽहो॒षिणः॑ ।

इन्दोः॑ । इन्द्रः॑ । यव॑ऽआशिरः ॥४

अपात् । ऊं इति । शिप्री । अन्धसः । सुऽदक्षस्य । प्रऽहोषिणः ।

इन्दोः । इन्द्रः । यवऽआशिरः ॥४

शिप्री । शिप्रे हनू नासिके वा । शोभनहनुः । यद्वा । शिप्राः शीर्षण्याः । सुशिरस्त्राणः । सः “इन्द्रः एव “प्रहोषिणः प्रकर्षेण देवान् हविर्भिर्जुह्वतः "सुदक्षस्य एतन्नामकस्य ऋषेः संबन्धि “यवाशिरः। श्रीङ् पाके' । आङ्पूर्वस्य ‘ अपस्पृधेथामानृचुः' इत्यादिना धातोः शिरादेशः । यवैरामिश्रितं यवैः सह पक्वम् "इन्दोः सर्वतः पात्रेषु क्षरत् "अन्धसः सोमलक्षणमन्नम् "अपात् अपिबत् । यद्वा । अस्य सोमस्य भागमिन्द्रार्थं परिकल्पितं सोमांशमपिबत् । "उ इत्यवधारणे ।।


तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑ ।

तदिद्ध्य॑स्य॒ वर्ध॑नम् ॥५

तम् । ऊं॒ इति॑ । अ॒भि । प्र । अ॒र्च॒त॒ । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ।

तत् । इत् । हि । अ॒स्य॒ । वर्ध॑नम् ॥५

तम् । ऊं इति । अभि । प्र । अर्चत । इन्द्रम् । सोमस्य । पीतये ।

तत् । इत् । हि । अस्य । वर्धनम् ॥५

हे ऋत्विजः तमु तमेव “इन्द्रम् “अभि आभिमुख्येन “प्रार्चत प्रकर्षेण स्तुत । किमर्थम् । “सोमस्य “पीतये अत्रागत्य सोमपानाय । किमर्थं सोमपानायेति विशेष्यते तदाह । “तदित् तत्सोमपानमेव “अस्य इन्द्रस्य "वर्धनं वर्धकं भवति खलु । तस्मात्सोमपानजहर्षाय प्रार्चत ॥ ॥ १५ ॥


अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा ।

विश्वा॒भि भुव॑ना भुवत् ॥६

अ॒स्य । पी॒त्वा । मदा॑नाम् । दे॒वः । दे॒वस्य॑ । ओज॑सा ।

विश्वा॑ । अ॒भि । भुव॑ना । भु॒व॒त् ॥६

अस्य । पीत्वा । मदानाम् । देवः । देवस्य । ओजसा ।

विश्वा । अभि । भुवना । भुवत् ॥६

"देवः द्योतमान इन्द्रः “अस्य अस्माभिर्दीयमानस्य सोमस्य “मदानां मदकरान् रसान् “पीत्वा पानं कृत्वा । यद्वा । अस्यैतं सोमं पीत्वा तथा मदानां मदसाधनादीनि भक्षयित्वा । "देवस्य ग्रहेषु शोभमानस्य यद्वा देवनशीलस्य देवैः काम्यमानस्य सोमस्य पानजातेन “ओजसा बलेन “विश्वा “भुवना सर्वाणि भुवनानि भूतजातानि "अभि “भुवत् अभिभवति । सोमस्य ता मद इन्द्रश्चकार (ऋ. सं. २. १५. २) इत्यादिषु सोमपानमदे सर्वाणि वृत्रहननादिकर्माणि चकारेत्येवमत्रापि सर्वाणि भूताभिभवनादीनि कर्माण्यकार्षीदिति ॥


प्रथमे पर्याये होतुः शस्त्रे ‘ त्यमु वः सत्रासाहम्' इत्यादिसूक्तशेषः । सूत्रितं च - ‘ त्यमु वः सत्रासाहमिति सूक्तशेषोऽभि त्यं मेषम्' (आश्व. श्रौ. ६. ४ ) इति । अप्तोर्यामेऽच्छावाकातिरिक्तोक्थे ' त्यमु वः सत्रासाहम् ' इति तृचो वैकल्पिकः स्तोत्रियः । सूत्रितं च---' त्यमु वः सत्रासाहं सत्रा ते अनु कृष्टय इति वा स्तोत्रियानुरूपौ' (आश्व. श्रौ. ९. ११) इति । व्यूळ्हस्य दशरात्रस्य चतुर्थेऽहनि निष्केवल्य एष एव तृचो निविद्धानीयः । सूत्रितं च- ‘ इमं नु मायिनं हुवे त्यमु वः सत्रासाहम् ' (आश्व. श्रौ. ८. ८) इति ॥

त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तम् ।

आ च्या॑वयस्यू॒तये॑ ॥७

त्यम् । ऊं॒ इति॑ । वः॒ । स॒त्रा॒ऽसह॑म् । विश्वा॑सु । गी॒र्षु । आऽय॑तम् ।

आ । च्य॒व॒य॒सि॒ । ऊ॒तये॑ ॥७

त्यम् । ऊं इति । वः । सत्राऽसहम् । विश्वासु । गीर्षु । आऽयतम् ।

आ । च्यवयसि । ऊतये ॥७

यजमानः स्तोतारं संबोध्याह । हे स्तोतः “सत्रासाहम् । सत्राशब्दो बहुवाची । बहूनामभिभवितारम् । यद्वा । शत्रून् स्वबलेन संगत्य जेतारम् । “वः युष्मदीयेषु विश्वासु “गीर्षु सर्वेषु स्तोत्रेषु “आयतं विस्तृतम् । सर्वत्रेन्द्र एव स्तूयते । तस्मात्तेषु विततं “त्यम् । “उ इत्यवधारणे । तमेवेन्द्रम् “ऊतये अस्मद्रक्षणाय “आ “च्यावयसि । ‘ च्युङ प्लुङ गतौ । त्वदीयैः स्तोत्रैर्यज्ञं प्रत्याभिमुख्येनागमय ॥


यु॒ध्मं सन्त॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतम् ।

नर॑मवा॒र्यक्र॑तुम् ॥८

यु॒ध्मम् । सन्त॑म् । अ॒न॒र्वाण॑म् । सो॒म॒ऽपाम् । अन॑पऽच्युतम् ।

नर॑म् । अ॒वा॒र्यऽक्र॑तुम् ॥८

युध्मम् । सन्तम् । अनर्वाणम् । सोमऽपाम् । अनपऽच्युतम् ।

नरम् । अवार्यऽक्रतुम् ॥८

एवंगुणोपेतमिन्द्रमागमयेत्याह । "युध्मं शत्रूणां संप्रहारकं “सन्तम् अत एव "अनर्वाणम् अन्यैरप्रत्यृतमनभिगतं तस्मात् "अनपच्युतं संग्रामेषु शत्रुभिरहिंसितं “सोमपां सोमस्य पातारमस्य सोमस्य मदे सति “अवार्यक्रतुं भटैरनिवारणीयकर्माणं “नरं सर्वस्य नेतारम् । एतादृग्गुणोपेतमिन्द्रमागमयेति पूर्वेण सह संबन्धः ॥


शिक्षा॑ ण इन्द्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम ।

अवा॑ न॒ः पार्ये॒ धने॑ ॥९

शिक्ष॑ । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । पु॒रु । वि॒द्वान् । ऋ॒ची॒ष॒म॒ ।

अव॑ । नः॒ । पार्ये॑ । धने॑ ॥९

शिक्ष । नः । इन्द्र । रायः । आ । पुरु । विद्वान् । ऋचीषम ।

अव । नः । पार्ये । धने ॥९

हे “ऋचीषम स्तुत्या सम । यद्वा । 'ईष गतिहिंसादर्शनेषु' । अस्मादमप्रत्ययः । सर्वैर्गन्तव्य दर्शनीय वा । उक्तगुणोपेत हे “इन्द्र “विद्वान् सर्वविषयज्ञानवांस्त्वं शत्रुभ्य आहृत्य "रायः धनानि “नः अस्मभ्यं "पुरु बहुवारं "शिक्ष प्रयच्छ । यद्वा । पुर्विति रायो विशेषणम् । बहूनि धनानि प्रयच्छ । किंच "पार्ये । पाराः शत्रवः । तत्र भवे “धने आजिहीर्षिते शत्रुधने “नः अस्मान् "अव रक्ष । शत्रून् हत्वा तद्धनेनास्मान् पालयेत्यर्थः ॥


अत॑श्चिदिन्द्र ण॒ उपा या॑हि श॒तवा॑जया ।

इ॒षा स॒हस्र॑वाजया ॥१०

अतः॑ । चि॒त् । इ॒न्द्र॒ । नः॒ । उप॑ । आ । या॒हि॒ । श॒तऽवा॑जया ।

इ॒षा । स॒हस्र॑ऽवाजया ॥१०

अतः । चित् । इन्द्र । नः । उप । आ । याहि । शतऽवाजया ।

इषा । सहस्रऽवाजया ॥१०

हे "इन्द्र “अतश्चित् अस्मात् द्युलोकादेव यद्वास्मात् शत्रुस्थानात् “शतवाजया शतसंख्याकबलयुक्तेन तथा “सहस्रवाजया । वाजोऽन्नम् । सहस्रसंख्यान्नवता बहुबलान्नेन "इषा अन्नरसेन युक्तः सन् "नः अस्मान् "उपा "याहि अधिकमाभिमुख्येनागच्छ ॥ ॥ १६ ॥


अया॑म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे ।

जये॑म पृ॒त्सु व॑ज्रिवः ॥११

अया॑म । धीऽव॑तः । धियः॑ । अर्व॑त्ऽभिः । श॒क्र॒ । गो॒ऽद॒रे॒ ।

जये॑म । पृ॒त्ऽसु । व॒ज्रि॒ऽवः॒ ॥११

अयाम । धीऽवतः । धियः । अर्वत्ऽभिः । शक्र । गोऽदरे ।

जयेम । पृत्ऽसु । वज्रिऽवः ॥११

हे "शक्र समर्थेन्द्र “धीवतः । ‘छन्दसीरः' इति मतुपो वत्वम् । कर्मकरणात्कर्मवन्तो वयं “धियः युद्धजयार्थं कर्माणि "अयाम गच्छाम । ततः “गोदरे । 'दॄ विदारणे । “अच इः' इति इप्रत्ययः । गवां पर्वतानां दारयितर्हे "वज्रिवः वज्रवन् । यद्वा । वजनं गमनं वज्रः । तद्वान् कुलिशः । तद्वन्निन्द्र "पृत्सु संग्रामेषु अर्वद्भिः सर्वतो गन्तृभिः त्वया दत्तैरश्वैः "जयेम वयं तवादातॄञ्जेष्यामः ॥


व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा ।

उ॒क्थेषु॑ रणयामसि ॥१२

व॒यम् । ऊं॒ इति॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । गावः॑ । न । यव॑सेषु । आ ।

उ॒क्थेषु॑ । र॒ण॒या॒म॒सि॒ ॥१२

वयम् । ऊं इति । त्वा । शतक्रतो इति शतऽक्रतो । गावः । न । यवसेषु । आ ।

उक्थेषु । रणयामसि ॥१२

हे "शतक्रतो बहुप्रज्ञान बहुकर्मन् वेन्द्र “त्वा सर्वतः । उ इत्यवधारणे । त्वामेव “उक्थेषु स्तोत्रशस्त्रादिकेषु वयं "रणयामसि । 'इदन्तो मसिः' । आरणयामः शब्दयामः । रमयाम इत्यर्थः । तत्र दृष्टान्तः। "गावो "न । यथा गोपालः "यवसेषु तृणविशेषेषु गावो गाः पशून् “आ समन्ताद्रमयति तद्वत् । गाव इति सर्वविधीनां छन्दसि विकल्पितत्वात् ‘औतोऽम्' (पा. सू. ६. १. ९३) इत्यात्वाभावः ॥


विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो ।

अग॑न्म वज्रिन्ना॒शसः॑ ॥१३

विश्वा॑ । हि । म॒र्त्य॒ऽत्व॒ना । अ॒नु॒ऽका॒मा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

अग॑न्म । व॒ज्रि॒न् । आ॒ऽशसः॑ ॥१३

विश्वा । हि । मर्त्यऽत्वना । अनुऽकामा । शतक्रतो इति शतऽक्रतो ।

अगन्म । वज्रिन् । आऽशसः ॥१३

हे शतक्रतो बहुप्रज्ञेन्द्र “मर्यत्वना मर्त्यत्वानि । सुपां सुलुक्' इति विभक्तेराजादेशः । संज्ञापूर्वकस्य विधेरनित्यत्वाद्दीर्घाभावः । "विश्वा "हि विश्वान्येव मर्त्यत्वानि “अनुकामा कामानभिलाषाननुगतानि । कामोपेतानीत्यर्थः । मनुष्याश्चैतानि कामयन्त इत्यर्थः । तथा सति हे "वज्रिन् वज्रवन्निन्द्र वयमपि “आशसः आशंसनानि धनादिकामान् “अगन्म अवगच्छाम । गमेर्लेटि ‘ बहुलं छन्दसि ' इति शपो लुक् । ‘म्वोश्च' इति मकारस्य नकारः ॥


त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः ।

न त्वामि॒न्द्राति॑ रिच्यते ॥१४

त्वे इति॑ । सु । पु॒त्र॒ । श॒व॒सः॒ । अवृ॑त्रन् । काम॑ऽकातयः ।

न । त्वाम् । इ॒न्द्र॒ । अति॑ । रि॒च्य॒ते॒ ॥१४

त्वे इति । सु । पुत्र । शवसः । अवृत्रन् । कामऽकातयः ।

न । त्वाम् । इन्द्र । अति । रिच्यते ॥१४

हे "शवसः। “पुत्र बलनिमित्तमुत्पन्नत्वाद्वलस्य पुत्रेन्द्र "कामकातयः । ‘कै गै रै शब्दे'। कामपराः कातयः शब्दाः येषां भवन्ति ते तथोक्ताः । तादृशा मनुष्याः “त्वे त्वयि “सु “अवृत्रन् स्वस्वकामाभिपूरणार्थं सुष्ठु वर्तन्ते । तस्मान्मर्त्यत्वानि कामोपेतानि इत्युत्पन्नम्। ‘वृतु वर्तने'। लङि छान्दसो विकरणस्य लुक् । ‘बहुलं छन्दसि' इति रुडागमः । यत एवं ततो हे "इन्द्र “त्वां कश्चिदपि देवः "न "अति “रिच्यते । बलेन धनेन वातिरिक्तः समर्थो नास्ति ।


स नो॑ वृष॒न्सनि॑ष्ठया॒ सं घो॒रया॑ द्रवि॒त्न्वा ।

धि॒यावि॑ड्ढि॒ पुरं॑ध्या ॥१५

सः । नः॒ । वृ॒ष॒न् । सनि॑ष्ठया । सम् । घो॒रया॑ । द्र॒वि॒त्न्वा ।

धि॒या । अ॒वि॒ड्ढि॒ । पुर॑म्ऽध्या ॥१५

सः । नः । वृषन् । सनिष्ठया । सम् । घोरया । द्रवित्न्वा ।

धिया । अविड्ढि । पुरम्ऽध्या ॥१५

हे वृषन् कामानां वर्षितरिन्द्र "सः पूर्वोक्तलक्षणस्त्वं "सनिष्ठया। ‘षणु दाने'। धनादेर्दातृतमया “घोरया सपत्नानां भयकारिण्या अत एव "द्रवित्न्वा द्रावयित्र्या शत्रूणां पलायित्र्या। द्रवतेरित्नुच्प्रत्ययः । "पुरंध्या बहूनां धारयित्र्या पोषयित्र्या “धिया तादृशेन कर्मणा “नः अस्मान् “सम् "अविड्ढि समन्तात्पालय। अवतेर्लोटि ‘बहुलं छन्दसि' इति शपो लुक् । बहुलवचनात्सिप इडागमः । अस्मान् धनदानादिना रक्षेत्यर्थः ॥ ॥ १७ ॥


यस्ते॑ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मदः॑ ।

तेन॑ नू॒नं मदे॑ मदेः ॥१६

यः । ते॒ । नू॒नम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । द्यु॒म्निऽत॑मः । मदः॑ ।

तेन॑ । नू॒नम् । मदे॑ । म॒दे॒रिति॑ मदेः ॥१६

यः । ते । नूनम् । शतक्रतो इति शतऽक्रतो । इन्द्र । द्युम्निऽतमः । मदः ।

तेन । नूनम् । मदे । मदेरिति मदेः ॥१६

अत्र सोमः स्तूयते । हे "शतक्रतो शतविधप्रज्ञान हे “इन्द्र "द्युम्नितमः यशस्वितमः “यः “मदः । माद्यन्त्यनेनेति मदः सोमः । यः सोमः "नूनं पुरा “ते त्वदर्थमस्माभिरभिषुतोऽस्ति "तेन अस्माभिः प्रदीयमानेन सोमेन "नूनम् इदानीं “मदे तत्पानेन मदे तव संजाते सत्यस्मानपि “मदेः धनादिदानेन त्वं मादय । ‘मदी हर्षे' । अत्रान्तर्णीतण्यर्थः । ‘बहुलम्' इति शप् ॥


यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इ॑न्द्र वृत्र॒हन्त॑मः ।

य ओ॑जो॒दात॑मो॒ मदः॑ ॥१७

यः । ते॒ । चि॒त्रश्र॑वःऽतमः । यः । इ॒न्द्र॒ । वृ॒त्र॒हन्ऽत॑मः ।

यः । ओ॒जः॒ऽदात॑मः । मदः॑ ॥१७

यः । ते । चित्रश्रवःऽतमः । यः । इन्द्र । वृत्रहन्ऽतमः ।

यः । ओजःऽदातमः । मदः ॥१७

हे "इन्द्र चित्रश्रवस्तमः अतिशयेन नानाविधकीर्तिः "यः "मदः सोमः "ते त्वदर्थमस्माभिरभिषुतः । "यः सोमः “वृत्रहन्तमः अतिशयेन पापानां हन्ता । किंच “यः सोमः "ओजोदातमः अतिशयेन बलस्य दाता । तेनास्माभिर्दीयमानेन सोमेन त्वं माद्येरिति पूर्वेण संबन्धः ॥


वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः ।

विश्वा॑सु दस्म कृ॒ष्टिषु॑ ॥१८

वि॒द्म । हि । यः । ते॒ । अ॒द्रि॒ऽवः॒ । त्वाऽद॑त्तः । स॒त्य॒ । सो॒म॒ऽपाः॒ ।

विश्वा॑सु । द॒स्म॒ । कृ॒ष्टिषु॑ ॥१८

विद्म । हि । यः । ते । अद्रिऽवः । त्वाऽदत्तः । सत्य । सोमऽपाः ।

विश्वासु । दस्म । कृष्टिषु ॥१८

हे "अद्रिवः । अद्रिर्वज्रः । तद्वन् हे "सत्य यथार्थकर्मन् "सोमपाः सोमस्य पातः "दस्म दर्शनीय यद्वा शत्रूणामुपक्षपयितरिन्द्र "विश्वासु "कृष्टिषु सर्वेषु सोमस्य दातृषु यजमानेषु “त्वादत्तः त्वया दत्तः "ते त्वदीयः "यः रयिरस्ति तं "विद्म “हि । यष्टारो वयमपि जानीम एव । यद्वा । हे इन्द्र सर्वेषु यष्टृषु मध्ये वयं ते त्वदीयमेव नान्यदीयमिति तं सोमं जानीम एव यः सोमस्त्वादत्तोऽस्माभिस्त्वदर्थं दीयते । अत्र त्वादेशश्छान्दसः ॥


प्रथमे पर्यायेऽच्छावाकस्य ‘इन्द्राय मद्वने सुतम्' इति स्तोत्रियः । सूत्रितं च -- इन्द्राय मद्ने सुतमिन्द्रमिद्गाथिनो बृहत्' (आश्व. श्रौ. ६. ४) इति ॥

इन्द्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिरः॑ ।

अ॒र्कम॑र्चन्तु का॒रवः॑ ॥१९

इन्द्रा॑य । मद्व॑ने । सु॒तम् । परि॑ । स्तो॒भ॒न्तु॒ । नः॒ । गिरः॑ ।

अ॒र्कम् । अ॒र्च॒न्तु॒ । का॒रवः॑ ॥१९

इन्द्राय । मद्वने । सुतम् । परि । स्तोभन्तु । नः । गिरः ।

अर्कम् । अर्चन्तु । कारवः ॥१९

"मद्वने । माद्यतेः क्वनिप् । मदनशीलाय "इन्द्राय तदर्थं सुतम् अभिषुतं सोमं “नः अस्मदीयाः "गिरः स्तुतिलक्षणा वाचः "परि “ष्टोभन्त । स्तोभतिः स्तुतिकर्मा। परितः सोमं स्तुवन्तु । ततः "कारवः स्तुतिकारिणः स्तोतारश्च "अर्कं सर्वैरर्चनीयं सोमम् "अर्चन्तु पूजयन्तु ।।


यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रण॑न्ति स॒प्त सं॒सदः॑ ।

इन्द्रं॑ सु॒ते ह॑वामहे ॥२०

यस्मि॑न् । विश्वाः॑ । अधि॑ । श्रियः॑ । रण॑न्ति । स॒प्त । स॒म्ऽसदः॑ ।

इन्द्र॑म् । सु॒ते । ह॒वा॒म॒हे॒ ॥२०

यस्मिन् । विश्वाः । अधि । श्रियः । रणन्ति । सप्त । सम्ऽसदः ।

इन्द्रम् । सुते । हवामहे ॥२०

"यस्मिन् इन्द्रे "विश्वाः सर्वाः "श्रियः कान्तयः "अधि अधिकं भवन्ति । अतिशयेन तेजस्वीत्यर्थः । किंच "सप्त सप्तसंख्याकाः "संसदः । सम्यक् यज्ञेषु कर्मकरणार्थं सीदन्तीति संसदः होत्रकाः । यस्मिन् "रणन्ति सोमप्रदानार्थं रमन्ते । यद्वा । यं शब्दयन्ति स्तुवन्ति । तं पूर्वोक्तलक्षणम् "इन्द्रं "सुते सोमेऽभिषुते सति "हवामहे वयं सोमपानायाह्वयामः ॥ ॥ १८ ॥


त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।

तमिद्व॑र्धन्तु नो॒ गिरः॑ ॥२१

त्रिऽक॑द्रुकेषु । चेत॑नम् । दे॒वासः॑ । य॒ज्ञम् । अ॒त्न॒त॒ ।

तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥२१

त्रिऽकद्रुकेषु । चेतनम् । देवासः । यज्ञम् । अत्नत ।

तम् । इत् । वर्धन्तु । नः । गिरः ॥२१

हे देवासः देवा इन्द्रादयः "त्रिकद्रुकेषु आभिप्लविकेष्वहःसु । ज्योतिर्गौरायुरिति त्रिकद्रुकाः । तेषु "चेतनम् । 'चिती संज्ञाने'। चेतन्ति जानन्त्यनेन स्वर्गादिकमिति चेतनः । ज्ञानसाधनं "यज्ञम् "अत्नत अतन्वत स्वैः स्वैः कर्मभिः पालनैश्च विस्तारितवन्तः । ‘ तनु विस्तारे'। लङि ‘बहुलं छन्दसि' इति विकरणस्य लुक्। तनिपत्योश्छन्दसि' इत्युपधालोपः। "तमित् तमेवास्मदीयं यज्ञं नः अस्माकं "गिरः स्तुतिलक्षणा वाचः "वर्धन्तु वर्धयन्तु ॥


आ त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः ।

न त्वामि॒न्द्राति॑ रिच्यते ॥२२

आ । त्वा॒ । वि॒श॒न्तु॒ । इन्द॑वः । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः ।

न । त्वाम् । इ॒न्द्र॒ । अति॑ । रि॒च्य॒ते॒ ॥२२

आ । त्वा । विशन्तु । इन्दवः । समुद्रम्ऽइव । सिन्धवः ।

न । त्वाम् । इन्द्र । अति । रिच्यते ॥२२

हे इन्द्र "इन्दवः स्रवन्तोऽस्माभिर्दीयमानाः सोमाः “त्वा त्वाम् "आ "विशन्तु । सर्वतः प्रविशन्तु । तत्र दृष्टान्तः । "समुद्रमिव “सिन्धवः । स्यन्दमाना नद्यः यथा समुद्रं जलाशयं सर्वतः प्रविशन्ति तद्वत् । यत एवं तस्मात् हे “इन्द्र “त्वां कश्चिदपि देवो बलेन धनेन वा "न “अति "रिच्यते नातिरिक्तोऽस्ति । सामर्थ्यवांस्त्वत्तोऽधिको नास्तीत्यर्थः ॥


वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे ।

य इ॑न्द्र ज॒ठरे॑षु ते ॥२३

वि॒व्यक्थ॑ । म॒हि॒ना । वृ॒ष॒न् । भ॒क्षम् । सोम॑स्य । जा॒गृ॒वे॒ ।

यः । इ॒न्द्र॒ । ज॒ठरे॑षु । ते॒ ॥२३

विव्यक्थ । महिना । वृषन् । भक्षम् । सोमस्य । जागृवे ।

यः । इन्द्र । जठरेषु । ते ॥२३

हे "वृषन् कामानां वर्षितर्हे "जागृवे जागरणशीलेन्द्र त्वं तस्य "सोमस्य “भक्षं पानं प्रति “महिना स्वमहिम्ना “विव्यक्थ सर्वतो व्याप्तवानसि । व्यचेर्लिटि थलि ‘ °अभ्यासस्योभयेषाम् । (पा. सू. ६. १. १७) इति संप्रसारणम् । हे “इन्द्र "यः सोमः “ते "जठरेषु उदरेषु प्रविशति तस्य पानं व्याप्तवानसीति शेषः ॥


अरं॑ त इन्द्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन् ।

अरं॒ धाम॑भ्य॒ इन्द॑वः ॥२४

अर॑म् । ते॒ । इ॒न्द्र॒ । कु॒क्षये॑ । सोमः॑ । भ॒व॒तु॒ । वृ॒त्र॒ऽह॒न् ।

अर॑म् । धाम॑ऽभ्यः । इन्द॑वः ॥२४

अरम् । ते । इन्द्र । कुक्षये । सोमः । भवतु । वृत्रऽहन् ।

अरम् । धामऽभ्यः । इन्दवः ॥२४

हे "वृत्रहन् वृत्रस्यापामावरकस्यासुरस्य पापस्य वा हन्तर्हे “इन्द्र "सोमः अस्माभिर्दीयमानः “ते तव "कुक्षये "अरम् अलं पर्याप्तः "भवतु। किंच “इन्दवः सर्वतः क्षरणशीलाः सोमास्तव “धामभ्यः नानाविधेभ्यः शरीरेभ्यस्तव तेजोभ्यो वा "अरम् अलं पर्याप्ता भवन्तु । अनेन तेजसां हविर्भाक्त्वमस्तीति सूचितम् । अस्मदीयाः सोमा एव तव कुक्षये देहेभ्योऽपि पर्याप्ता भवन्तु नान्यदीया इति भावः ॥


अर॒मश्वा॑य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे॑ ।

अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥२५

अर॑म् । अश्वा॑य । गा॒य॒ति॒ । श्रु॒तऽक॑क्षः । अर॑म् । गवे॑ ।

अर॑म् । इन्द्र॑स्य । धाम्ने॑ ॥२५

अरम् । अश्वाय । गायति । श्रुतऽकक्षः । अरम् । गवे ।

अरम् । इन्द्रस्य । धाम्ने ॥२५

श्रुतकक्षो नामर्षिः गवाश्वादिन्द्रं स्तौति । अयं “श्रुतकक्षः एतन्नामक ऋषिः "अश्वाय इन्द्रेण दीयमानायाश्वायैतदर्थम् "अरम् अलं "गायति इन्द्रविषयं स्तोत्रं करोति । तथा “गवे “अरम् अलं गायति । "इन्द्रस्य इन्द्रकर्तृकाय “धाम्ने गृहाय तदर्थं च "अरं पर्याप्तं स्तौति । यदश्वादिकमिन्द्रः प्रयच्छति तस्मै गायतीति । यद्वा । इन्द्रस्येति कर्मणि षष्ठी । गवादिलाभार्थमिन्द्रं स्तौति ॥


अरं॒ हि ष्म॑ सु॒तेषु॑ ण॒ः सोमे॑ष्विन्द्र॒ भूष॑सि ।

अरं॑ ते शक्र दा॒वने॑ ॥२६

अर॑म् । हि । स्म॒ । सु॒तेषु॑ । नः॒ । सोमे॑षु । इ॒न्द्र॒ । भूष॑सि ।

अर॑म् । ते॒ । श॒क्र॒ । दा॒वने॑ ॥२६

अरम् । हि । स्म । सुतेषु । नः । सोमेषु । इन्द्र । भूषसि ।

अरम् । ते । शक्र । दावने ॥२६

हे "इन्द्र "सुतेषु अभिषुतेषु "नः अस्मदीयेषु "सोमेषु । “हि “ष्म इत्यवधारणे । त्वमेव तेषां पाने अलं पर्याप्तः “भूषसि भवसि । यद्वा। सोमेष्वभिषुतेषु सत्सु नोऽस्माकं पर्याप्तं धनं भूषसि । ‘भू प्राप्तौ । त्वं प्रापय । तथा भवति हे "शक्र समर्थेन्द्र "दावने धनादिकस्य दात्रे "ते तुभ्यमस्माभिर्दीयमानाः सोमाः "अरम् अलं पर्याप्ता भवन्तु ॥ ॥ १९ ॥


प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षन्त नो॒ गिरः॑ ।

अरं॑ गमाम ते व॒यम् ॥२७

प॒रा॒कात्ता॑त् । चि॒त् । अ॒द्रि॒ऽवः॒ । त्वाम् । न॒क्ष॒न्त॒ । नः॒ । गिरः॑ ।

अर॑म् । ग॒मा॒म॒ । ते॒ । व॒यम् ॥२७

पराकात्तात् । चित् । अद्रिऽवः । त्वाम् । नक्षन्त । नः । गिरः ।

अरम् । गमाम । ते । वयम् ॥२७

हे “अद्रिवः वज्रवन्निन्द्र "नः अस्मदीयाः “गिरः इतो निर्गताः स्तुतयः "पराकात्तात् । “चित् अप्यर्थः । अतिदूरादपि “त्वां "नक्षन्त व्याप्नुवन्तु । किमुत समीपात्त्वामश्नुवतामिति । नक्षतेर्व्याप्तिकर्मणो नशतेर्वा' लेटि सिपि रूपम् । एवं सति स्तोतारः "वयं "ते त्वदीयं धनम् "अरम् अलं पर्याप्तं “गमाम त्वत्तो गच्छाम ।।


आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिनः ‘एवा ह्यसि वीरयुः' इति वैकल्पिकः स्तोत्रियः। सूत्रितं च -- एवा ह्यसि वीरयुरेवा ह्यस्य सूनृता' (आश्व. श्रौ. ७. ८) इति ॥

ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः ।

ए॒वा ते॒ राध्यं॒ मनः॑ ॥२८

ए॒व । हि । असि॑ । वी॒र॒ऽयुः । ए॒व । शूरः॑ । उ॒त । स्थि॒रः ।

ए॒व । ते॒ । राध्य॑म् । मनः॑ ॥२८

एव । हि । असि । वीरऽयुः । एव । शूरः । उत । स्थिरः ।

एव । ते । राध्यम् । मनः ॥२८

आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिनः ‘एवा ह्यसि वीरयुः' इति वैकल्पिकः स्तोत्रियः। सूत्रितं च -- एवा ह्यसि वीरयुरेवा ह्यस्य सूनृता' (आश्व. श्रौ. ७. ८) इति ॥


ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभिः॑ ।

अधा॑ चिदिन्द्र मे॒ सचा॑ ॥२९

ए॒व । रा॒तिः । तु॒वि॒ऽम॒घ॒ । विश्वे॑भिः । धा॒यि॒ । धा॒तृऽभिः॑ ।

अध॑ । चि॒त् । इ॒न्द्र॒ । मे॒ । सचा॑ ॥२९

एव । रातिः । तुविऽमघ । विश्वेभिः । धायि । धातृऽभिः ।

अध । चित् । इन्द्र । मे । सचा ॥२९

हे “तुविमघ । तुविरिति बहुनाम । बहुधनवन्निन्द्र "विश्वेभिः विश्वैः “धातृभिः कर्माधारकैः । यद्वा । देवानां हविर्दानेन पोषयितृभिः । सर्वैर्यजमानैस्तव "रातिः गवाश्वधनादिदानं “धायि तैर्धार्यते "एव । दधातेर्लुङि कर्मणि रूपम् । चिदेवार्थे । "अध अत एव हे "इन्द्र एवंविध त्वं "मे यष्टुर्ममापि "सचा धनादिदानेन कर्मसहायो भव ॥


मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते ।

मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥३०

मो इति॑ । सु । ब्र॒ह्माऽइ॑व । त॒न्द्र॒युः । भुवः॑ । वा॒जा॒ना॒म् । प॒ते॒ ।

मत्स्व॑ । सु॒तस्य॑ । गोऽम॑तः ॥३०

मो इति । सु । ब्रह्माऽइव । तन्द्रयुः । भुवः । वाजानाम् । पते ।

मत्स्व । सुतस्य । गोऽमतः ॥३०

हे "वाजानां "पते अन्नानां पते बलानां वा हे इन्द्र "तन्द्रयुः निष्कारणं निवृत्तकर्मवत्त्वादालस्ययुक्तः "ब्रह्मेव ब्राह्मण इव । ‘ अथापि तद्वदर्थे भाष्यते' (निरु. ६. ३१ ) इति यास्कोक्तमनुसृत्य तन्द्रयुक्त इत्युक्तम् । अथवा यागादिकर्मपरित्यागेनालस्यमिच्छन्नास्तिको ब्राह्मण इव त्वं “मो “षु “भुवः सुष्ठु मा भवः । सर्वदास्मत्कर्मान्वितो भवेत्याशासनम् । तदेवाह । "सुतस्य अभिषुतस्य ततः “गोमतः गव्येन क्षीरेण दध्ना वा मिश्रणवतः सोमस्य पानेन "मत्स्व माद्य हृष्टो भव ॥


मा न॑ इन्द्रा॒भ्या॒३॒॑दिश॒ः सूरो॑ अ॒क्तुष्वा य॑मन् ।

त्वा यु॒जा व॑नेम॒ तत् ॥३१

मा । नः॒ । इ॒न्द्र॒ । अ॒भि । आ॒ऽदिशः॑ । सूरः॑ । अ॒क्तुषु॑ । आ । य॒म॒न् ।

त्वा । यु॒जा । व॒ने॒म॒ । तत् ॥३१

मा । नः । इन्द्र । अभि । आऽदिशः । सूरः । अक्तुषु । आ । यमन् ।

त्वा । युजा । वनेम । तत् ॥३१

हे "इन्द्र आदिशः आदेष्टारः समन्तादायुधान्यतिविसृजन्तः "सूरः । ‘सृ गतौ'। सर्वत्र सरणशीला राक्षसाः “अक्तुषु रात्रिषु दिवापि "नः अस्माकं "मा “अभि “आ “यमन् आभिमुख्येन मा नियन्तारो भवन्तु । यद्यागताश्चेत्तदा "तत् रक्षःकुलं "त्वा त्वया "युजा सहायेन वयं “वनेम हिंसाम ।' श्नथ क्नथ क्रथ क्लथ हिंसार्था वन च' इत्यत्र पठितत्वाद्धिंसार्थः ॥


त्वयेदि॑न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृधः॑ ।

त्वम॒स्माकं॒ तव॑ स्मसि ॥३२

त्वया॑ । इत् । इ॒न्द्र॒ । यु॒जा । व॒यम् । प्रति॑ । ब्रु॒वी॒म॒हि॒ । स्पृधः॑ ।

त्वम् । अ॒स्माक॑म् । तव॑ । स्म॒सि॒ ॥३२

त्वया । इत् । इन्द्र । युजा । वयम् । प्रति । ब्रुवीमहि । स्पृधः ।

त्वम् । अस्माकम् । तव । स्मसि ॥३२

हे “इन्द्र “त्वयेत् । इदवधारणे । त्वयैव "युजा सहायेन "स्पृधः स्पर्धमानाञ्छत्रून् "वयं “प्रति “ब्रुवीमहि निराकुर्वीमहि । प्रतिवचनं निराकरणम् । उत्तरार्धेनेन्द्रसाहाय्यमेव प्रतिपादयति । हे इन्द्र “त्वमस्माकं भवसि स्तुत्यस्तोतृयष्टृयष्टव्यतया त्वमस्माकं भवसि वयं "तव "स्मसि भवामः । तथारण्यकं- ‘ त्वमिदं सर्वं भवसि तव वयं स्मः त्वमस्माकमसि' इति । तस्मात्त्वया सहायेन शत्रून् हन्यामेति ॥


त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् ।

सखा॑य इन्द्र का॒रवः॑ ॥३३

त्वाम् । इत् । हि । त्वा॒ऽयवः॑ । अ॒नु॒ऽनोनु॑वतः । चरा॑न् ।

सखा॑यः । इ॒न्द्र॒ । का॒रवः॑ ॥३३

त्वाम् । इत् । हि । त्वाऽयवः । अनुऽनोनुवतः । चरान् ।

सखायः । इन्द्र । कारवः ॥३३

हे इन्द्र कर्मोपद्रवपरिहारादनन्तरं "त्वायवः त्वां धनादिदानार्थं कामयमानाः अत एव “अनुनोनुवतः । नौतेर्यङ्लुगन्तस्य शतरि रूपम् । अनुक्रमेण पुनःपुनः स्तुतिं कुर्वन्तः तस्मात्तव “सखायः सखिभूताः "कारवः स्तोतारः “त्वामित् । इदवधारणे । त्वामेव “चरान् स्तुतिभिः परिचरन्तु खलु। “हि इति प्रसिद्ध्यर्थः । चरतेर्लेट्याडागमः । हियोगादनिघातः ॥ ॥ २० ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.९२&oldid=193155" इत्यस्माद् पुनः प्राप्तिः