ऋग्वेदः सूक्तं ८.१०३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.१०२ ऋग्वेदः - मण्डल ८
सूक्तं ८.१०३
सौभरिः काण्वः।
सूक्तं ९.१ →
दे. अग्निः, १४ अग्नामरुतः। बृहती, ५ विराड्रूपा, ७, ९,११, १३ सतोबृहती, ८, १२ ककुप्, १० ह्रसीयसी, १४ अनुष्टुप्।


अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः ॥१॥
प्र दैवोदासो अग्निर्देवाँ अच्छा न मज्मना ।
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥२॥
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
सहस्रसां मेधसाताविव त्मनाग्निं धीभिः सपर्यत ॥३॥
प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत् ।
स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥४॥
स दृळ्हे चिदभि तृणत्ति वाजमर्वता स धत्ते अक्षिति श्रवः ।
त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥५॥
यो विश्वा दयते वसु होता मन्द्रो जनानाम् ।
मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्यग्नये ॥६॥
अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः ।
उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥७॥
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
उपस्तुतासो अग्नये ॥८॥
आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः ।
कुविन्नो अस्य सुमतिर्नवीयस्यच्छा वाजेभिरागमत् ॥९॥
प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिम् ।
अग्निं रथानां यमम् ॥१०॥
उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति ।
दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥११॥
मा नो हृणीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः ।
यः सुहोता स्वध्वरः ॥१२॥
मो ते रिषन्ये अच्छोक्तिभिर्वसोऽग्ने केभिश्चिदेवैः ।
कीरिश्चिद्धि त्वामीट्टे दूत्याय रातहव्यः स्वध्वरः ॥१३॥
आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये ।
सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे ॥१४॥


सायणभाष्यम्

‘ अदर्शि' इति चतुर्दशर्च दशमं सूक्तं काण्वस्य सोभरेरार्षम् । अत्रानुक्रम्यते--’ अदर्शि षळूना सोभरिर्बार्हतं पञ्चम्याद्ययुजः सतोबृहत्योऽष्टम्यादियुजः ककुब्गायत्री ककुबनुष्टुबन्त्याग्निमारुती इति । पञ्चमीसप्तमीनवम्येकादशीत्रयोदश्यः पञ्च सतोबृहत्यः । अष्टमीद्वादश्यौ ककुभौ दशमी गायत्री चतुर्दश्यनुष्टुप् । शिष्टा बृहत्यः । ‘आग्नेयं तु ' इत्युक्तत्वादग्निर्देवता । अन्त्यायास्त्वग्निर्मरुतश्च । प्रातरनुवाकस्याग्नेये क्रतौ बार्हते छन्दस्यादितः सप्तर्चः । सूत्रितं च -- अदर्शि गातुवित्तम इति सप्तेति बार्हतम्' (आश्व. श्रौ. ४. १३)। आभिप्लविकेषूक्थ्येषु मैत्रावरुणस्य ‘प्र मंहिष्ठाय' इति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं च--- प्र मंहिष्ठाय गायत प्र सो अग्ने तवोतिभिः ' ( आश्व. श्रौ. ७. ८) इति । अध्यायोपाकरणोत्सर्जनयोर्मण्डलान्त्यहोमे ‘ आग्ने याहि' इत्येषा । सूत्रितं च---' मा चिदाग्ने याहि मरुत्सखा यत्ते राजन्नग्ने' ( आश्व. गृ. ३. ५, ७) इति ॥


अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः ।

उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षंत नो॒ गिरः॑ ॥१

अद॑र्शि । गा॒तु॒वित्ऽत॑मः । यस्मि॑न् । व्र॒तानि॑ । आ॒ऽद॒धुः ।

उपो॒ इति॑ । सु । जा॒तम् । आर्य॑स्य । वर्ध॑नम् । अ॒ग्निम् । न॒क्ष॒न्त॒ । नः॒ । गिरः॑ ॥१

अदर्शि । गातुवित्ऽतमः । यस्मिन् । व्रतानि । आऽदधुः ।

उपो इति । सु । जातम् । आर्यस्य । वर्धनम् । अग्निम् । नक्षन्त । नः । गिरः ॥१

"यस्मिन् अग्नौ "व्रतानि कर्माणि “आदधुः यजमाना आदधन् "गातुवित्तमः अतिशयेन मार्गाणां ज्ञाता सोऽग्निः "अदर्शि प्रादुरभूत् । किंच "सु "जातं सम्यक् प्रादुर्भूतम् अस्य “आर्यस्य उत्तमवर्णस्य “वर्धनं वर्धयितारम् "अग्निं "नः अस्माकं "गिरः स्तुतिरूपा वाचः "उपो “नक्षन्त उपगच्छन्त्येव ।। " नक्ष गतौ ' इति धातुः ॥


प्र दैवो॑दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना॑ ।

अनु॑ मा॒तरं॑ पृथि॒वीं वि वा॑वृते त॒स्थौ नाक॑स्य॒ सान॑वि ॥२

प्र । दैवः॑ऽदासः । अ॒ग्निः । दे॒वान् । अच्छ॑ । न । म॒ज्मना॑ ।

अनु॑ । मा॒तर॑म् । पृ॒थि॒वीम् । वि । व॒वृ॒ते॒ । त॒स्थौ । नाक॑स्य । सान॑वि ॥२

प्र । दैवःऽदासः । अग्निः । देवान् । अच्छ । न । मज्मना ।

अनु । मातरम् । पृथिवीम् । वि । ववृते । तस्थौ । नाकस्य । सानवि ॥२

“दैवोदासः दिवोदासेनाहूयमानः "अग्निः "मातरम् । सर्वस्य लोकस्य धारणवत्त्वात् पृथिवी माता । तां "पृथिवीम् “अच्छ प्रति “देवान् तस्य दिवोदासस्य यज्ञे देवान् “अनु प्रति हविर्वोढुं "न “प्र “वि “वावृते । यस्मादेनमग्निं दिवोदासः “मज्मना बलेन आजुहाव तस्मादयमग्निः “नाकस्य स्वर्गस्य "सानवि समुच्छ्रिते देशे स्वायतन एव "तस्थौ अतिष्ठत् ॥


यस्मा॒द्रेजं॑त कृ॒ष्टय॑श्च॒र्कृत्या॑नि कृण्व॒तः ।

स॒ह॒स्र॒सां मे॒धसा॑ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ॥३

यस्मा॑त् । रेज॑न्त । कृ॒ष्टयः॑ । च॒र्कृत्या॑नि । कृ॒ण्व॒तः ।

स॒ह॒स्र॒ऽसाम् । मे॒धसा॑तौऽइव । त्मना॑ । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥३

यस्मात् । रेजन्त । कृष्टयः । चर्कृत्यानि । कृण्वतः ।

सहस्रऽसाम् । मेधसातौऽइव । त्मना । अग्निम् । धीभिः । सपर्यत ॥३

"यस्मात् कारणात् "चर्कृत्यानि कर्तव्यानि कर्माणि "कृण्वतः कुर्वाणात् मनुष्यात् "कृष्टयः इतरे मनुष्याः “रेजन्ते कम्पन्ते तस्मादिदानीं हे जनाः यूयं "सहस्रसां गवां धनानां च सहस्रस्य दातारम् "अग्निं "मेधसातौ यज्ञे “धीभिः कर्तव्यैः कर्मभिः “त्मना आत्मनैव "सपर्यत परिचरत ॥


प्र यं रा॒ये निनी॑षसि॒ मर्तो॒ यस्ते॑ वसो॒ दाश॑त् ।

स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना॑ सहस्रपो॒षिणं॑ ॥४

प्र । यम् । रा॒ये । निनी॑षसि । मर्तः॑ । यः । ते॒ । व॒सो॒ इति॑ । दाश॑त् ।

सः । वी॒रम् । ध॒त्ते॒ । अ॒ग्ने॒ । उ॒क्थ॒ऽशं॒सिन॑म् । त्मना॑ । स॒ह॒स्र॒ऽपो॒षिण॑म् ॥४

प्र । यम् । राये । निनीषसि । मर्तः । यः । ते । वसो इति । दाशत् ।

सः । वीरम् । धत्ते । अग्ने । उक्थऽशंसिनम् । त्मना । सहस्रऽपोषिणम् ॥४

हे "वसो वासक "अग्ने त्वं “यं तव स्तोतारं "राये धनार्थं “प्र “निनीषसि प्रणेतुमिच्छसि “यः च “मर्तः मनुष्यः “ते तुभ्यं "दाशत् हवींषि प्रयच्छति "सः मनुष्यः "उक्थशंसिनम् उक्थानां शंसितारं "त्मना आत्मनैव सहस्रपोषिर्ण बहुधनं "वीरं पुत्रं “धत्ते धारयति ॥


स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ ।

त्वे दे॑व॒त्रा सदा॑ पुरूवसो॒ विश्वा॑ वा॒मानि॑ धीमहि ॥५

सः । दृ॒ळ्हे । चि॒त् । अ॒भि । तृ॒ण॒त्ति॒ । वाज॑म् । अर्व॑ता । सः । ध॒त्ते॒ । अक्षि॑ति । श्रवः॑ ।

त्वे इति॑ । दे॒व॒ऽत्रा । सदा॑ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । विश्वा॑ । वा॒मानि॑ । धी॒म॒हि॒ ॥५

सः । दृळ्हे । चित् । अभि । तृणत्ति । वाजम् । अर्वता । सः । धत्ते । अक्षिति । श्रवः ।

त्वे इति । देवऽत्रा । सदा । पुरुवसो इति पुरुऽवसो । विश्वा । वामानि । धीमहि ॥५

हे “पुरूवसो बहुधनाग्ने यस्तुभ्यं हवींषि प्रयच्छति "सः यजमानः “दृळ्हे "चित् दृढेऽपि शत्रुपुरे स्थितं “वाजम् अन्नम् "अर्वता अश्वेन "अभि "तृणत्ति हिनस्ति । तथा "सः यजमानः "अक्षिति अक्षीणं “श्रवः अन्नं “धत्ते धारयति । तथा च सति तुभ्यं हविषां प्रदातारो वयमपि "देवत्रा देवे “त्वे त्वयि स्थिताः "विश्वा सर्वाणि "वामानि वननीयानि धनानि "सदा सर्वदा “धीमहि धारयाम ॥ ॥ १३ ॥


यो विश्वा॒ दय॑ते॒ वसु॒ होता॑ मं॒द्रो जना॑नां ।

मधो॒र्न पात्रा॑ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा॑ यंत्य॒ग्नये॑ ॥६

यः । विश्वा॑ । दय॑ते । वसु॑ । होता॑ । म॒न्द्रः । जना॑नाम् ।

मधोः॑ । न । पात्रा॑ । प्र॒थ॒मानि॑ । अ॒स्मै॒ । प्र । स्तोमाः॑ । य॒न्ति॒ । अ॒ग्नये॑ ॥६

यः । विश्वा । दयते । वसु । होता । मन्द्रः । जनानाम् ।

मधोः । न । पात्रा । प्रथमानि । अस्मै । प्र । स्तोमाः । यन्ति । अग्नये ॥६

“होता देवानामाह्वाता "मन्द्रः मोदमानः "यः अग्निः "विश्वा सर्वाणि "वसु वसूनि धनानि “जनानां जनेभ्यः "दयते प्रयच्छति तस्मै “अस्मै “अग्नये "मधोर्न मदकरस्य सोमस्येव "प्रथमानि मुख्यानि पात्राणि “स्तोमाः “प्र “यन्ति प्रगच्छन्ति ।।


अश्वं॒ न गी॒र्भी र॒थ्यं॑ सु॒दान॑वो मर्मृ॒ज्यंते॑ देव॒यवः॑ ।

उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो॑ म॒घोनां॑ ॥७

अश्व॑म् । न । गीः॒ऽभिः । र॒थ्य॑म् । सु॒ऽदान॑वः । म॒र्मृ॒ज्यन्ते॑ । दे॒व॒ऽयवः॑ ।

उ॒भे इति॑ । तो॒के इति॑ । तन॑ये । द॒स्म॒ । वि॒श्प॒ते॒ । पर्षि॑ । राधः॑ । म॒घोना॑म् ॥७

अश्वम् । न । गीःऽभिः । रथ्यम् । सुऽदानवः । मर्मृज्यन्ते । देवऽयवः ।

उभे इति । तोके इति । तनये । दस्म । विश्पते । पर्षि । राधः । मघोनाम् ॥७

हे "दस्म दर्शनीय विश्पते विशां पतेऽग्ने यं त्वां "सुदानवः शोभनदानाः "देवयवः देवानात्मन इच्छन्तो यजमानाः “रथ्यं रथस्य वोढारम् "अश्वं “न अश्वमिव “गीर्भिः स्तुतिभिः “मर्मृज्यन्ते परिचरन्ति स त्वमस्माकं यजमानानां “तोके पुत्रे "तनये पौत्रे च "उभे उभयस्मिन् "मघोनां धनवतां “रायः धनं "पर्षि प्रयच्छ ।


प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने॑ बृह॒ते शु॒क्रशो॑चिषे ।

उप॑स्तुतासो अ॒ग्नये॑ ॥८

प्र । मंहि॑ष्ठाय । गा॒य॒त॒ । ऋ॒तऽव्ने॑ । बृ॒ह॒ते । शु॒क्रऽशो॑चिषे ।

उप॑ऽस्तुतासः । अ॒ग्नये॑ ॥८

प्र । मंहिष्ठाय । गायत । ऋतऽव्ने । बृहते । शुक्रऽशोचिषे ।

उपऽस्तुतासः । अग्नये ॥८

हे यूयम् "उपस्तुतासः उपस्तोतारः "मंहिष्ठाय दातृतमाय “ऋताव्ने यज्ञवते सत्यवते वा “बृहते महते “शुक्रशोचिषे दीप्ततेजसे “अग्नये “प्र “गायत स्तोत्रं पठत ॥


आ वं॑सते म॒घवा॑ वी॒रव॒द्यशः॒ समि॑द्धो द्यु॒म्न्याहु॑तः ।

कु॒विन्नो॑ अस्य सुम॒तिर्नवी॑य॒स्यच्छा॒ वाजे॑भिरा॒गम॑त् ॥९

आ । वं॒स॒ते॒ । म॒घऽवा॑ । वी॒रऽव॑त् । यशः॑ । सम्ऽइ॑द्धः । द्यु॒म्नी । आऽहु॑तः ।

कु॒वित् । नः॒ । अ॒स्य॒ । सु॒ऽम॒तिः । नवी॑यसी । अच्छ॑ । वाजे॑भिः । आ॒ऽगम॑त् ॥९

आ । वंसते । मघऽवा । वीरऽवत् । यशः । सम्ऽइद्धः । द्युम्नी । आऽहुतः ।

कुवित् । नः । अस्य । सुऽमतिः । नवीयसी । अच्छ । वाजेभिः । आऽगमत् ॥९

मघवा धनवान् “द्युम्नी अन्नवान् यशस्वी वा । तथा च यास्कः---‘द्युम्नं द्योततेर्यशो वान्नं वा' (निरु. ५. ५) इति । “यशः यशस्करमन्नम् “आ “वंसते यजमानेभ्य आ प्रयच्छति। "अस्य अग्नेः "नवीयसी नवतरा "सुमतिः अनुग्रहबुद्धिः "नः अस्मान् “अच्छ' प्रति “वाजेभिः अन्नैः सह “कुवित् बहुवारम्'। 'सलिलं कुवित्' इति बहुनामसु पाठात् । "आगमत् आगच्छतु॥


प्रेष्ठ॑मु प्रि॒याणां॑ स्तु॒ह्या॑सा॒वाति॑थिं ।

अ॒ग्निं रथा॑नां॒ यमं॑ ॥१०

प्रेष्ठ॑म् । ऊं॒ इति॑ । प्रि॒याणा॑म् । स्तु॒हि । आ॒सा॒व॒ । अति॑थिम् ।

अ॒ग्निम् । रथा॑नाम् । यम॑म् ॥१०

प्रेष्ठम् । ऊं इति । प्रियाणाम् । स्तुहि । आसाव । अतिथिम् ।

अग्निम् । रथानाम् । यमम् ॥१०

हे "आसाव स्तोतः "प्रियाणां "प्रेष्ठं प्रियतमम् "अतिथिम् अभ्यागतं “रथानां “यमं यन्तारम् “अग्निम् एव "स्तुहि ॥ ॥ १४ ॥


उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो॑ व॒वर्त॑ति ।

दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो॑ धि॒या वाजं॒ सिषा॑सतः ॥११

उत्ऽइ॑ता । यः । निऽदि॑ता । वेदि॑ता । वसु॑ । आ । य॒ज्ञियः॑ । व॒वर्त॑ति ।

दु॒स्तराः॑ । यस्य॑ । प्र॒व॒णे । न । ऊ॒र्मयः॑ । धि॒या । वाज॑म् । सिसा॑सतः ॥११

उत्ऽइता । यः । निऽदिता । वेदिता । वसु । आ । यज्ञियः । ववर्तति ।

दुस्तराः । यस्य । प्रवणे । न । ऊर्मयः । धिया । वाजम् । सिसासतः ॥११

“वेदिता वेत्ता "यज्ञियः यज्ञार्हः “यः अग्निः "उदिता उदितान्युद्गतानि “निदिता निदितानि श्रुतानि च “वसु वसूनि धनानि “आ “ववर्तति आवर्तयति। “धिया कर्मणा “वाजं संग्राम "सिषासतः संभक्तुमिच्छतः "यस्य चाग्नेर्ज्वालाः “प्रवणे "नोर्मयः प्रवणाभिमुखाः समुद्रस्य तरङ्गा इव “दुष्टराः तर्तुमशक्याः । तमग्निं हे स्तोतः स्तुहीत्यर्थः ॥


मा नो॑ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः ।

यः सु॒होता॑ स्वध्व॒रः ॥१२

मा । नः॒ । हृ॒णी॒ता॒म् । अति॑थिः । वसुः॑ । अ॒ग्निः । पु॒रु॒ऽप्र॒श॒स्तः । ए॒षः ।

यः । सु॒ऽहोता॑ । सु॒ऽअ॒ध्व॒रः ॥१२

मा । नः । हृणीताम् । अतिथिः । वसुः । अग्निः । पुरुऽप्रशस्तः । एषः ।

यः । सुऽहोता । सुऽअध्वरः ॥१२

“वसुः वासकः “अतिथिः अतिथिवत् प्रियः “पुरुप्रशस्तः बहुभिः स्तुतः "सुहोता सुष्ठु देवानामाह्वाता "स्वध्वरः सुयज्ञश्च "यः “अग्निः सः "एषः अग्निः "नः अस्मभ्यं "मा “हृणीतां केनापि न रुध्यताम् । केनाप्यनवरुद्धः सन् अग्निः अस्मभ्यमभीष्टं प्रयच्छत्वित्यर्थः ॥


मो ते रि॑ष॒न्ये अच्छो॑क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवैः॑ ।

की॒रिश्चि॒द्धि त्वामीट्टे॑ दू॒त्या॑य रा॒तह॑व्यः स्वध्व॒रः ॥१३

मो इति॑ । ते । रि॒ष॒न् । ये । अच्छो॑क्तिऽभिः । व॒सो॒ इति॑ । अग्ने॑ । केभिः॑ । चि॒त् । एवैः॑ ।

की॒रिः । चि॒त् । हि । त्वाम् । ईट्टे॑ । दू॒त्या॑य । रा॒तऽह॑व्यः । सु॒ऽअ॒ध्व॒रः ॥१३

मो इति । ते । रिषन् । ये । अच्छोक्तिऽभिः । वसो इति । अग्ने । केभिः । चित् । एवैः ।

कीरिः । चित् । हि । त्वाम् । ईट्टे । दूत्याय । रातऽहव्यः । सुऽअध्वरः ॥१३

हे वसो वासक “अग्ने त्वां ये मनुष्याः”अच्छोक्तिभिः अभिष्टुतिभिः "केभिः कैः सुखकरैः “एवैः "चित् अभिगमनैरपि ते स्तोतारः "मो “रिषन् मैव हिंसन्ताम् । रातहव्यः दत्तहविष्कः “कीरिश्चित् स्तोतापि “दूत्याय हविर्वहनादिलक्षणीय दूतकर्मणे “त्वामी “हि स्तौति खलु ॥


आग्ने॑ याहि म॒रुत्स॑खा रु॒द्रेभिः॒ सोम॑पीतये ।

सोभ॑र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व॑र्णरे ॥१४

आ । अ॒ग्ने॒ । या॒हि॒ । म॒रुत्ऽस॑खा । रु॒द्रेभिः॑ । सोम॑ऽपीतये ।

सोभ॑र्याः । उप॑ । सु॒ऽस्तु॒तिम् । मा॒दय॑स्व । स्वः॑ऽनरे ॥१४

आ । अग्ने । याहि । मरुत्ऽसखा । रुद्रेभिः । सोमऽपीतये ।

सोभर्याः । उप । सुऽस्तुतिम् । मादयस्व । स्वःऽनरे ॥१४

हे "अग्ने “मरुत्सखा मरुतां प्रियस्त्वं "स्वर्णरे अस्माकं यजनलक्षणे कर्मणि "सोमपीतये सोमपानाय "रुद्रेभिः रुदैर्मरुद्भिः सह “आ "याहि आगच्छ । "सोभर्याः सोभरेर्मम "सुष्टुतिं शोभनां स्तुतिं चोपागच्छ । "मादयस्व । स्तुतिं श्रुत्वा सोमं पीत्वात्मानं मादय च ॥ ॥ १५ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१०३&oldid=215147" इत्यस्माद् पुनः प्राप्तिः