ऋग्वेदः सूक्तं ८.७३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.७२ ऋग्वेदः - मण्डल ८
सूक्तं ८.७३
गोपवन आत्रेयः सप्तवध्रिर्वा।
सूक्तं ८.७४ →
दे. अश्विनौ। गायत्री।


उदीराथामृतायते युञ्जाथामश्विना रथम् ।
अन्ति षद्भूतु वामवः ॥१॥
निमिषश्चिज्जवीयसा रथेना यातमश्विना ।
अन्ति षद्भूतु वामवः ॥२॥
उप स्तृणीतमत्रये हिमेन घर्ममश्विना ।
अन्ति षद्भूतु वामवः ॥३॥
कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः ।
अन्ति षद्भूतु वामवः ॥४॥
यदद्य कर्हि कर्हि चिच्छुश्रूयातमिमं हवम् ।
अन्ति षद्भूतु वामवः ॥५॥
अश्विना यामहूतमा नेदिष्ठं याम्याप्यम् ।
अन्ति षद्भूतु वामवः ॥६॥
अवन्तमत्रये गृहं कृणुतं युवमश्विना ।
अन्ति षद्भूतु वामवः ॥७॥
वरेथे अग्निमातपो वदते वल्ग्वत्रये ।
अन्ति षद्भूतु वामवः ॥८॥
प्र सप्तवध्रिराशसा धारामग्नेरशायत ।
अन्ति षद्भूतु वामवः ॥९॥
इहा गतं वृषण्वसू शृणुतं म इमं हवम् ।
अन्ति षद्भूतु वामवः ॥१०॥
किमिदं वां पुराणवज्जरतोरिव शस्यते ।
अन्ति षद्भूतु वामवः ॥११॥
समानं वां सजात्यं समानो बन्धुरश्विना ।
अन्ति षद्भूतु वामवः ॥१२॥
यो वां रजांस्यश्विना रथो वियाति रोदसी ।
अन्ति षद्भूतु वामवः ॥१३॥
आ नो गव्येभिरश्व्यैः सहस्रैरुप गच्छतम् ।
अन्ति षद्भूतु वामवः ॥१४॥
मा नो गव्येभिरश्व्यैः सहस्रेभिरति ख्यतम् ।
अन्ति षद्भूतु वामवः ॥१५॥
अरुणप्सुरुषा अभूदकर्ज्योतिरृतावरी ।
अन्ति षद्भूतु वामवः ॥१६॥
अश्विना सु विचाकशद्वृक्षं परशुमाँ इव ।
अन्ति षद्भूतु वामवः ॥१७॥
पुरं न धृष्णवा रुज कृष्णया बाधितो विशा ।
अन्ति षद्भूतु वामवः ॥१८॥


सायणभाष्यम्

‘उदीराथाम्' इत्यष्टादशर्चं चतुर्थं सूक्तमात्रेयस्य गोपवनस्य सप्तवध्रेर्वार्ष गायत्रमाश्विनम्। तथा चानुक्रमणिका – उदीराथां गोपवन आत्रेयः सप्तवध्रिर्वाश्विनम्' इति । प्रातरनुवाक आश्विने क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् ।


उदी॑राथामृताय॒ते युं॒जाथा॑मश्विना॒ रथं॑ ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥१

उत् । ई॒रा॒था॒म् । ऋ॒त॒ऽय॒ते । यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म् ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१

उत् । ईराथाम् । ऋतऽयते । युञ्जाथाम् । अश्विना । रथम् ।

अन्ति । सत् । भूतु । वाम् । अवः ॥१

हे “अश्विना अश्विनौ “ऋतायते यज्ञमिच्छते मह्यं मदर्थम् “उदीराथाम् उद्गच्छतम् । तदर्थं हवमाह्वानं यज्ञं ता प्राप्तुं “युञ्जाथां योजयतमश्वैः “रथम् । “वां युवयोः “अवः रक्षणम् "अन्ति अस्मदन्तिके "सत् वर्तमानं “भूतु भवतु ॥


नि॒मिष॑श्चि॒ज्जवी॑यसा॒ रथे॒ना या॑तमश्विना ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥२

नि॒ऽमिषः॑ । चि॒त् । जवी॑यसा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥२

निऽमिषः । चित् । जवीयसा । रथेन । आ । यातम् । अश्विना ।

अन्ति । सत् । भूतु । वाम् । अवः ॥२

“निमिषश्चित् निमेषादपि “जवीयसा अतिशयवेगेन “रथेन “आ “यातम् आगच्छतमस्मद्यज्ञं हे “अश्विना । शिष्टमुक्तम् ॥


उप॑ स्तृणीत॒मत्र॑ये हि॒मेन॑ घ॒र्मम॑श्विना ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥३

उप॑ । स्तृ॒णी॒त॒म् । अत्र॑ये । हि॒मेन॑ । घ॒र्मम् । अ॒श्वि॒ना॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥३

उप । स्तृणीतम् । अत्रये । हिमेन । घर्मम् । अश्विना ।

अन्ति । सत् । भूतु । वाम् । अवः ॥३

“अत्रये महर्षयेऽसुरैरग्नौ प्रक्षिप्ताय तस्य हितार्थं “घर्मम् अग्निदाहकं “हिमेन उदकेन “उप “स्तृणीतम् उपस्तीर्णवन्तौ । ‘हिमेनाग्निं घ्रंसमवारयेथाम्' (ऋ. सं. १. ११६. ८) इति निगमः ॥


कुह॑ स्थः॒ कुह॑ जग्मथुः॒ कुह॑ श्ये॒नेव॑ पेतथुः ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥४

कुह॑ । स्थः॒ । कुह॑ । ज॒ग्म॒थुः॒ । कुह॑ । श्ये॒नाऽइ॑व । पे॒त॒थुः॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥४

कुह । स्थः । कुह । जग्मथुः । कुह । श्येनाऽइव । पेतथुः ।

अन्ति । सत् । भूतु । वाम् । अवः ॥४

हे अश्विनौ युवां “कुह क्व “स्थः भवथः । इदानीं “कुह क्व कुत्र “जग्मथुः गच्छथः स्वेच्छया । “कुह क्व वा “श्येनेव श्येनाविव शीघ्रपतनौ सन्तौ “पेतथुः पतथः । एवमचिन्त्यस्वभावौ कृपया संनिहितौ भवतमिति शेषः । तादृशयोः “अवः अन्तिके भवतु ॥


यद॒द्य कर्हि॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हवं॑ ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥५

यत् । अ॒द्य । कर्हि॑ । कर्हि॑ । चि॒त् । शु॒श्रु॒यात॑म् । इ॒मम् । हव॑म् ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥५

यत् । अद्य । कर्हि । कर्हि । चित् । शुश्रुयातम् । इमम् । हवम् ।

अन्ति । सत् । भूतु । वाम् । अवः ॥५

"यत् यस्मान्न निर्धार्यतेऽतः “अद्य अस्मिन् काले “कहिँ कस्मिन्नपि देशे “कर्हि कस्मिन्नपि काले "इमं हवम् अस्मदीयमाह्वानं "शुश्रूयातं शृणुयातम् ॥ ॥ १८ ॥


अ॒श्विना॑ याम॒हूत॑मा॒ नेदि॑ष्ठं या॒म्याप्यं॑ ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥६

अ॒श्विना॑ । या॒म॒ऽहूत॑मा । नेदि॑ष्ठम् । या॒मि॒ । आप्य॑म् ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥६

अश्विना । यामऽहूतमा । नेदिष्ठम् । यामि । आप्यम् ।

अन्ति । सत् । भूतु । वाम् । अवः ॥६

“यामहूतमा अतिशयेन काले ह्वातव्यौ “अश्विना अश्विनौ "यामि । “नेदिष्ठम् अन्तिकतमम् “आप्यं बान्धवं च यामि तयोः ॥


अवं॑त॒मत्र॑ये गृ॒हं कृ॑णु॒तं यु॒वम॑श्विना ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥७

अव॑न्तम् । अत्र॑ये । गृ॒हम् । कृ॒णु॒तम् । यु॒वम् । अ॒श्वि॒ना॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥७

अवन्तम् । अत्रये । गृहम् । कृणुतम् । युवम् । अश्विना ।

अन्ति । सत् । भूतु । वाम् । अवः ॥७

हे “अश्विना “युवं युवाम् “अत्रये अग्न्यागारे दह्यमानाय “अवन्तं रक्षन्तं “गृहं “कृणुतं कृतवन्तौ । तादृशयोः “वामवः भवतु । अवन्तमिति व्यत्ययेन पुँल्लिङ्गता ॥


वरे॑थे अ॒ग्निमा॒तपो॒ वद॑ते व॒ल्ग्वत्र॑ये ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥८

वरे॑थे॒ इति॑ । अ॒ग्निम् । आ॒ऽतपः॑ । वद॑ते । व॒ल्गु । अत्र॑ये ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥८

वरेथे इति । अग्निम् । आऽतपः । वदते । वल्गु । अत्रये ।

अन्ति । सत् । भूतु । वाम् । अवः ॥८

हे अश्विनौ “वल्गु मनोहरं “वदते स्तुवते “अत्रये "आतपः आतपादौष्ण्यात् "अग्निं “वरेथे आवारयतम् ॥


प्र स॒प्तव॑ध्रिरा॒शसा॒ धारा॑म॒ग्नेर॑शायत ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥९

प्र । स॒प्तऽव॑ध्रिः । आ॒ऽशसा॑ । धारा॑म् । अ॒ग्नेः । अ॒शा॒य॒त॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥९

प्र । सप्तऽवध्रिः । आऽशसा । धाराम् । अग्नेः । अशायत ।

अन्ति । सत् । भूतु । वाम् । अवः ॥९

“सप्तवध्रिः महर्षिर्हे अश्विनौ युवयोः “आशसा आशंसनेन स्तुत्या मञ्जूषाया निर्गत्य “अग्नेः “धारां तस्यां मञ्जूषायां “प्र “अशायत आशाययत् । स्वनिरोधिकां तां दग्धवानित्यर्थः । सप्तवध्रेः पेटिकान्तःप्रवेशोऽश्विनोरनुग्रहान्निर्गमश्च ‘वि जिहीष्व वनस्पते' (ऋ. सं. ५. ७८.५) इत्यत्र स्पष्टमुक्तम् ॥


इ॒हा ग॑तं वृषण्वसू शृणु॒तं म॑ इ॒मं हवं॑ ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥१०

इ॒ह । आ । ग॒त॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । शृ॒णु॒तम् । मे॒ । इ॒मम् । हव॑म् ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१०

इह । आ । गतम् । वृषण्वसू इति वृषण्ऽवसू । शृणुतम् । मे । इमम् । हवम् ।

अन्ति । सत् । भूतु । वाम् । अवः ॥१०

हे "वृषण्वसू वर्षणधनावश्विनौ "इह अस्मिन् यज्ञे "आ “गतम् आगच्छतम् । तदर्थं "मे मम इमं हवं “शृणुतम् ॥ ॥ १९ ॥


किमि॒दं वां॑ पुराण॒वज्जर॑तोरिव शस्यते ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥११

किम् । इ॒दम् । वा॒म् । पु॒रा॒ण॒ऽवत् । जर॑तोःऽइव । श॒स्य॒ते॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥११

किम् । इदम् । वाम् । पुराणऽवत् । जरतोःऽइव । शस्यते ।

अन्ति । सत् । भूतु । वाम् । अवः ॥११

हे अश्विनौ “वां युवयोरर्थमागमनाय “पुराणवत् पुराणयोरतिवृद्धयोरिव । तदेवाह । "जरतोरिव “शस्यते । पुनःपुनरागच्छतमिति शस्यते । “किमिदम् । यथा लोके वृद्धो जीर्णो बहुवारमाहूतोऽपि नागच्छति तद्वद्युवामपीत्यर्थः । एवमनागमाद्ब्रवीति ॥


स॒मा॒नं वां॑ सजा॒त्यं॑ समा॒नो बंधु॑रश्विना ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥१२

स॒मा॒नम् । वा॒म् । स॒ऽजा॒त्य॑म् । स॒मा॒नः । बन्धुः॑ । अ॒श्वि॒ना॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१२

समानम् । वाम् । सऽजात्यम् । समानः । बन्धुः । अश्विना ।

अन्ति । सत् । भूतु । वाम् । अवः ॥१२

हे “अश्विना अश्विनौ “वां युवयोः परस्परं “सजात्यं समानजातित्वं “समानम् एकमेव । उभयोरप्यश्व1रूपायाः सूर्यपत्न्या उत्पत्तेः सजात्यम् । तथा युवयोः “बन्धुः बन्धकः स्रुवः “समानः एक एव । अथवर्षिरहं समान एक एव बन्धुः ॥


यो वां॒ रजां॑स्यश्विना॒ रथो॑ वि॒याति॒ रोद॑सी ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥१३

यः । वा॒म् । रजां॑सि । अ॒श्वि॒ना॒ । रथः॑ । वि॒ऽयाति॑ । रोद॑सी॒ इति॑ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१३

यः । वाम् । रजांसि । अश्विना । रथः । विऽयाति । रोदसी इति ।

अन्ति । सत् । भूतु । वाम् । अवः ॥१३

“वां युवयोः “यः “रथः अस्ति स रथः “रजांसि लोकान् “रोदसी द्यावापृथिव्यौ च “वियाति विशेषेण गच्छति । अतस्तेन रथेन शीघ्रमागच्छतमिति शेषः ॥


आ नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रै॒रुप॑ गच्छतं ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥१४

आ । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । स॒हस्रैः॑ । उप॑ । ग॒च्छ॒त॒म् ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१४

आ । नः । गव्येभिः । अश्व्यैः । सहस्रैः । उप । गच्छतम् ।

अन्ति । सत् । भूतु । वाम् । अवः ॥१४

हे अश्विनौ "नः अस्मान् "सहस्रैः अपरिमितैः "गव्येभिः गोसमूहैः “अश्व्यैः अश्वसमूहैश्च “उप "गच्छतम् ॥


मा नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रे॑भि॒रति॑ ख्यतं ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥१५

मा । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । स॒हस्रे॑भिः । अति॑ । ख्य॒त॒म् ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१५

मा । नः । गव्येभिः । अश्व्यैः । सहस्रेभिः । अति । ख्यतम् ।

अन्ति । सत् । भूतु । वाम् । अवः ॥१५

हे अश्विनौ “गव्येभिः गोसमूहैः “अश्व्यैः अश्वसमूहैः “सहस्रेभिः सहस्रसंख्याकैः "मा अस्मान् "अति “ख्यतम् । अतीति प्रतीत्यस्मिन्नर्थे । मा निवारयतमित्यर्थः ॥


अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑र्ऋ॒ताव॑री ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥१६

अ॒रु॒णऽप्सुः॑ । उ॒षाः । अ॒भू॒त् । अकः॑ । ज्योतिः॑ । ऋ॒तऽव॑री ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१६

अरुणऽप्सुः । उषाः । अभूत् । अकः । ज्योतिः । ऋतऽवरी ।

अन्ति । सत् । भूतु । वाम् । अवः ॥१६

हे अश्विनौ "उषाः "अरुणप्सुः शुभ्रवर्णा “अभूत् भवति । न केवलं स्वयम् । “ज्योतिः तेजः “अकः करोति "अन्ति सर्वतः “ऋतावरी ऋतवत्युषाः ॥


अ॒श्विना॒ सु वि॒चाक॑शद्वृ॒क्षं प॑रशु॒माँ इ॑व ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥१७

अ॒श्विना॑ । सु । वि॒ऽचाक॑शत् । वृ॒क्षम् । प॒र॒शु॒मान्ऽइ॑व ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१७

अश्विना । सु । विऽचाकशत् । वृक्षम् । परशुमान्ऽइव ।

अन्ति । सत् । भूतु । वाम् । अवः ॥१७

“सु “विचाकशत् अत्यन्तं दीप्यमानः सूर्योऽग्निर्वा “वृक्षं “परशुमानिव स यथा शकलयति तद्वत्तमो निशारयतीति शेषः । दृष्टान्तसामर्थ्यादेवं लभ्यते । यस्मादेवं तस्मात् "अश्विना अश्विनावाह्वय इति शेषः ॥


पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया॑ बाधि॒तो वि॒शा ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥१८

पुर॑म् । न । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ । कृ॒ष्णया॑ । बा॒धि॒तः । वि॒शा ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१८

पुरम् । न । धृष्णो इति । आ । रुज । कृष्णया । बाधितः । विशा ।

अन्ति । सत् । भूतु । वाम् । अवः ॥१८

हे “धृष्णो धर्षक सप्तवध्रे त्वं “कृष्णया आकर्षया “विशा प्रवेशयन्त्या पेटिकया “बाधितः त्वं ततो निर्गत्य तामेव “आ “रुज पीडय अश्विनोरनुग्रहात् । एवं स्वयं स्वात्मानं प्रेष्यति । अथवा गोपवनः सप्तवध्रिमेवं ब्रवीति । “वां युवयोः “अवः रक्षणं गमनं वा समीपे । तत्र त्रिषु वर्गेषु “ अन्ति षत्' इत्युत्तरोऽर्धर्चोऽन्वितपदाध्याहारेण योज्यः ॥ ॥ २० ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.७३&oldid=209014" इत्यस्माद् प्रतिप्राप्तम्