ऋग्वेदः सूक्तं ८.६९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.६८ ऋग्वेदः - मण्डल ८
सूक्तं ८.६९
प्रियमेध आङ्गिरसः।
सूक्तं ८.७० →
दे. इन्द्रः, ११ (अर्धर्चस्य) विश्वे देवाः, ११(उत्तरार्धस्य)- १२ वरुणः। अनुष्टुप्, २ उष्णिक्, ४-६ गायत्री, ११, १६ पङ्क्तिः, १७-१८ बृहती


प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे ।
धिया वो मेधसातये पुरंध्या विवासति ॥१॥
नदं व ओदतीनां नदं योयुवतीनाम् ।
पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥२॥
ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः ।
जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः ॥३॥
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
सूनुं सत्यस्य सत्पतिम् ॥४॥
आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
यत्राभि संनवामहे ॥५॥
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
यत्सीमुपह्वरे विदत् ॥६॥
उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि ।
मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥७॥
अर्चत प्रार्चत प्रियमेधासो अर्चत ।
अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥८॥
अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥९॥
आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः ।
अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥१०॥
अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत ।
वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥११॥
सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥१२॥
यो व्यतीँरफाणयत्सुयुक्ताँ उप दाशुषे ।
तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥१३॥
अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥१४॥
अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम् ।
स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥१५॥
आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् ।
अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥१६॥
तं घेमित्था नमस्विन उप स्वराजमासते ।
अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने ॥१७॥
अनु प्रत्नस्यौकसः प्रियमेधास एषाम् ।
पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥१८॥


सायणभाष्यम्

‘प्रप्र वः' इत्यष्टादशर्चं दशमं सूक्तं प्रियमेधस्याङ्गिरसस्यार्षम् । द्वितीया ‘नदं वः' इत्येषा चतुःसप्तकोष्णिक् चतुर्थ्याद्यास्तिस्रो गायत्र्य एकादशीषोडश्यौ पङ्क्ती शिष्टा दशानुष्टुभः ।‘अपादिन्द्रः इत्यर्धर्चो वैश्वदेवो ‘वरुण इदिह' इत्याद्यास्त्रयोऽर्धर्चा वरुणदेवताकाः शिष्टा ऐन्द्र्यः । तथा चानुक्रान्तं—‘प्रप्र द्व्यूनानुष्टुभं द्विबृहत्यन्तं द्वितीयोष्णिक् चतुर्थ्याद्यास्तिस्रो गायत्र्यः षोळश्येकादश्यौ पङ्क्ती अपाद्वैश्वदेवोऽर्धर्चस्त्रयो वारुणाः' इति । आद्यस्तृचः षोडशिशस्त्र आनुष्टुभः । सूत्रितं 'च- ‘ प्रप्र वस्त्रिष्टुभमिषमर्चत प्रार्चत ' (आश्व. श्रौ. ६. २) इति ॥


प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं॑ म॒न्दद्वी॑रा॒येन्द॑वे ।

धि॒या वो॑ मे॒धसा॑तये॒ पुरं॒ध्या वि॑वासति ॥१

प्रऽप्र॑ । वः॒ । त्रि॒ऽस्तुभ॑म् । इष॑म् । म॒न्दत्ऽवी॑राय । इन्द॑वे ।

धि॒या । वः॒ । मे॒धऽसा॑तये । पुर॑म्ऽध्या । आ । वि॒वा॒स॒ति॒ ॥१

प्रऽप्र । वः । त्रिऽस्तुभम् । इषम् । मन्दत्ऽवीराय । इन्दवे ।

धिया । वः । मेधऽसातये । पुरम्ऽध्या । आ । विवासति ॥१

हे अध्वर्य्वादयः "वः यूयम् । प्रथमार्थे द्वितीया । "त्रिष्टुभं स्तोभत्रयोपेतम् "इषम् अन्नं “प्रप्र । अपरः प्रशब्दः पूरणः । प्रभरतेति शेषः । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । कस्मै । “मन्दद्वीराय । यो वीरान हर्षयति स मन्दद्वीरः । तस्मै “इन्दवे इन्द्राय । इन्दतेरैश्वर्यकर्मणः इदं रूपम् । अथवा फलैर्वृष्टिभिर्वोनत्तीतीन्दुरिन्द्रः । तस्मै । स चेन्द्रः "वः युष्मान “मेधसातये यज्ञसंभजनाय “पुरंध्या बहुप्रज्ञया “धिया कर्मणा “आ "विवासति । अभिमतफलयोजनेन सत्करोतीत्यर्थः ।।


महाव्रते निष्केवल्ये ‘नदं वः' इत्येषा विहरणीया । तथैव पञ्चमारण्यके सूत्रितं च -- नदं व ओदतीनामित्येतयैतानि व्यतिषजति ' ( ऐ. आ. ५. १. ६ ) इति ।।

न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम् ।

पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि ॥२

न॒दम् । वः॒ । ओद॑तीनाम् । न॒दम् । योयु॑वतीनाम् ।

पति॑म् । वः॒ । अघ्न्या॑नाम् । धे॒नू॒नाम् । इ॒षु॒ध्य॒सि॒ ॥२

नदम् । वः । ओदतीनाम् । नदम् । योयुवतीनाम् ।

पतिम् । वः । अघ्न्यानाम् । धेनूनाम् । इषुध्यसि ॥२

“ओदतीनाम् । ओदत्य उषसः ‘ ओदती भास्वती' इति तन्नामसु पाठात् । तासां “नदम् । उत्पादकमित्यर्थः । इन्द्रेण ह्युषस उत्पद्यन्त इन्द्रस्यैव सूर्यत्वात् । ' विवस्वदिन्द्र सुग्म्य' इति द्वादशादित्यमध्य इन्द्रः पठितः । तादृशमिन्द्रं हे यजमानाः "वः युष्मदर्थम् । आह्वयतेत्यर्थः । तथा “योयुवतीनां सर्वत्र मिश्रयन्तीनां नदीनां “नदं' शब्दयितारं "वः युष्मदर्थमाह्वयामि । "अघ्न्यानाम् अहन्तव्यानां गवां “पतिम् आह्वये । अथ प्रत्यक्षकृता । हे यजमान त्वं “धेनूनां क्षीरादिना प्रीणयित्रीणां गवाम् "इषुध्यसि अन्नमिच्छसि ।।


अग्निहोत्रे पूर्वाहुतौ हुतायां ‘ता अस्य' इत्यनयोत्तरामाहुतिं काङ्क्षमाणस्तिष्ठेत् । तथा च सूत्रितं -- ता अस्य सूददोहस इति पूर्वामाहुतिमुपोत्थायोत्तरां काङ्क्षेत ' ( आश्व. श्रौ. २. ३ ) इति । महाव्रते निष्केवल्येऽप्येषा । तथैव पञ्चमारण्यके सूत्रितं- ता अस्य सूददोहस इत्येतदादिः सूददोहाः सूददोहाः ' ( ऐ. आ. ५. १. ६ ) इति ॥

ता अ॑स्य॒ सूद॑दोहस॒ः सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।

जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥३

ताः । अ॒स्य॒ । सूद॑ऽदोहसः । सोम॑म् । श्री॒ण॒न्ति॒ । पृश्न॑यः ।

जन्म॑न् । दे॒वाना॑म् । विशः॑ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ॥३

ताः । अस्य । सूदऽदोहसः । सोमम् । श्रीणन्ति । पृश्नयः ।

जन्मन् । देवानाम् । विशः । त्रिषु । आ । रोचने । दिवः ॥३

“ताः प्रसिद्धाः "सूददोहसः । सूद इति कूपनाम । तत्सदृशदोहनाः "पृश्नयः पृश्निवर्णा गावः “अस्य इन्द्रस्य "सोमं “श्रीणन्ति मिश्रयन्त्याशिरेण । कदा । "त्रिषु त्रिष्वपि सवनेषु । गावो विशेष्यन्ते । "देवानां "जन्मन् जन्मस्थाने । दिवीत्यर्थः । “दिवः आदित्यस्य “आ “रोचने आरोचमाने । अनेन द्यौर्विशेष्यते । तस्मिन् स्थाने “विशः निविशन्त्यः । यज्ञार्थोपयुक्तानां गवां द्युप्राप्तिः प्रसिद्धा ।।


द्वितीये पर्याये मैत्रावरुणशस्त्रे ‘ अभि प्र गोपतिम् ' इति तृचोऽनुरूपः ।. सूत्रितं च-- ‘ अभि त्वा वृषभा सुतेऽभि प्र गोपतिं गिरा ' ( आश्व. श्रौ. ६. ४ ) इति ।।

अ॒भि प्र गोप॑तिं गि॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे ।

सू॒नुं स॒त्यस्य॒ सत्प॑तिम् ॥४

अ॒भि । प्र । गोऽप॑तिम् । गि॒रा । इन्द्र॑म् । अ॒र्च॒ । यथा॑ । वि॒दे ।

सू॒नुम् । स॒त्यस्य॑ । सत्ऽप॑तिम् ॥४

अभि । प्र । गोऽपतिम् । गिरा । इन्द्रम् । अर्च । यथा । विदे ।

सूनुम् । सत्यस्य । सत्ऽपतिम् ॥४

“गोपतिं गवां स्वामिनम् "इन्द्रम् "अभि “प्र “अर्च । प्रकर्षेण पूजय स्तुत्या । "यथा "विदे स यथा स्वात्मानं स्तुतप्रकारं जानाति यथा वा यागं प्रति गन्तव्यमिति जानाति तथार्चेति । कीदृशमिन्द्रम् । "सत्यस्य यज्ञस्य सत्यस्य वा "सूनुं पुत्रम् । तत्रानुरक्तत्वात् सूनुरित्युपचर्यते । “सत्पतिं सतां यजमानानां पालकम् ॥


आ हर॑यः ससृज्रि॒रेऽरु॑षी॒रधि॑ ब॒र्हिषि॑ ।

यत्रा॒भि सं॒नवा॑महे ॥५

आ । हर॑यः । स॒सृ॒ज्रि॒रे॒ । अरु॑षीः । अधि॑ । ब॒र्हिषि॑ ।

यत्र॑ । अ॒भि । स॒म्ऽनवा॑महे ॥५

आ । हरयः । ससृज्रिरे । अरुषीः । अधि । बर्हिषि ।

यत्र । अभि । सम्ऽनवामहे ॥५

"हरयः हरितवर्णा अश्वाः "अरुषीः आरोचमानाः "अधि "बर्हिषि । अधीति सप्तम्यर्थानुवादी । बर्हिष्यास्तृते "आ ससृज्रिरे आसृजन्तु । "यत्र यस्मिन् बर्हिषि स्थितमिन्द्रम् "अभि संनवामहे अभिसंस्तुमः ॥ ॥ ५ ॥


इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।

यत्सी॑मुपह्व॒रे वि॒दत् ॥६

इन्द्रा॑य । गावः॑ । आ॒ऽशिर॑म् । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ ।

यत् । सी॒म् । उ॒प॒ऽह्व॒रे । वि॒दत् ॥६

इन्द्राय । गावः । आऽशिरम् । दुदुह्रे । वज्रिणे । मधु ।

यत् । सीम् । उपऽह्वरे । विदत् ॥६

“इन्द्राय “गावः "आशिरम् आश्रयणसाधनं पयआदिकं "मधु मदकरं "दुदुहे दुहते । कीदृशाय । "वज्रिणे वज्रयुक्तायेन्द्राय । "यत् यदा “उपह्वरे समीपे वर्तमानं मधु सोमरसं “सीं सर्वतः “विदत् लभते तदा ।।


षोडशिशस्त्रस्य 'उद्यद्ब्रध्नस्य' इत्येषान्त्या। सूत्रितं च -- उद्यद्ब्रध्नस्य विष्टपमित्येषा परिधानीया' (आश्व. श्रौ. ६. २) इति ।

उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिन्द्र॑श्च॒ गन्व॑हि ।

मध्व॑ः पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्यु॑ः प॒दे ॥७

उत् । यत् । ब्र॒ध्नस्य॑ । वि॒ष्टप॑म् । गृ॒हम् । इन्द्रः॑ । च॒ । गन्व॑हि ।

मध्वः॑ । पी॒त्वा । स॒चे॒व॒हि॒ । त्रिः । स॒प्त । सख्युः॑ । प॒दे ॥७

उत् । यत् । ब्रध्नस्य । विष्टपम् । गृहम् । इन्द्रः । च । गन्वहि ।

मध्वः । पीत्वा । सचेवहि । त्रिः । सप्त । सख्युः । पदे ॥७

"यत् यदा “ब्रध्नस्य “विष्टपं सूर्यस्य स्थानं "गृहमिन्द्रश्च अहं चोभौ "उत् "गन्वहि उद्गच्छावः तदानीं "मध्वः मधुरं सोमरसं “पीत्वा “सचेवहि संसृष्टौ भवेव । कुत्र । “सख्युः सर्वेषां सखिभूतस्यादित्यस्य । "त्रिः "सप्त इत्यनेन देवलोकानामुत्तममेकविंशं स्थानमुच्यते आदित्यस्यैकविंशत्वात् । तथा च ब्राह्मणं- द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ' (ऐ. ब्रा. १. ३०) इति । तादृश एकविंशस्थाने सचेवहीति ॥


पूर्वोक्त एव शस्त्रे ‘ अर्चत' इति द्वितीय आनुष्टुभस्तृचः । सूत्रितं च -- ‘ प्रप्र वस्त्रिष्टुभमिषमर्चत प्रार्चत ' ( आश्व. श्रौ. ६. २) इति ॥

अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त ।

अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत ॥८

अर्च॑त । प्र । अ॒र्च॒त॒ । प्रिय॑ऽमेधासः । अर्च॑त ।

अर्च॑न्तु । पु॒त्र॒काः । उ॒त । पुर॑म् । न । धृ॒ष्णु । अ॒र्च॒त॒ ॥८

अर्चत । प्र । अर्चत । प्रियऽमेधासः । अर्चत ।

अर्चन्तु । पुत्रकाः । उत । पुरम् । न । धृष्णु । अर्चत ॥८

हे अध्वर्य्वादयः यूयमिन्द्रम् "अर्चत पूजयत स्तुत्या। “प्रार्चत प्रकर्षेणार्चतेन्द्रमेव । हे "प्रियमेधासः प्रियमेधसंबन्धिनस्तद्गोत्रा यूयम् "अर्चत इन्द्रम् । "पुत्रकाः पुत्रा अपि “अर्चन्तु इन्द्रम् । “उत अपि च "पुरं "न “धृष्णु यथा पुरं धर्षणशीलमर्चन्ति तादृशमिन्द्रम् "अर्चत ।।


अव॑ स्वराति॒ गर्ग॑रो गो॒धा परि॑ सनिष्वणत् ।

पिङ्गा॒ परि॑ चनिष्कद॒दिन्द्रा॑य॒ ब्रह्मोद्य॑तम् ॥९

अव॑ । स्व॒रा॒ति॒ । गर्ग॑रः । गो॒धा । परि॑ । स॒नि॒स्व॒न॒त् ।

पिङ्गा॑ । परि॑ । च॒नि॒स्क॒द॒त् । इन्द्रा॑य । ब्रह्म॑ । उत्ऽय॑तम् ॥९

अव । स्वराति । गर्गरः । गोधा । परि । सनिस्वनत् ।

पिङ्गा । परि । चनिस्कदत् । इन्द्राय । ब्रह्म । उत्ऽयतम् ॥९

“गर्गरः गर्गरध्वनियुक्तो वाद्यविशेषो युद्धे “अव "स्वराति भयं शब्दयति । “गोधा हस्तघ्नः “परि परितः "सनिष्वणत् स्वनति भृशम् । "पिङ्गा पिङ्गवर्णा ज्यापि “परि “चनिष्कदत् परिस्कन्दते । यस्मादेवं युद्धः संनद्धोऽत “इन्द्राय “ब्रह्म परिवृढं कर्म स्तुतिलक्षणम् “उद्यतं भवत्विति शेषः ॥


आ यत्पत॑न्त्ये॒न्य॑ः सु॒दुघा॒ अन॑पस्फुरः ।

अ॒प॒स्फुरं॑ गृभायत॒ सोम॒मिन्द्रा॑य॒ पात॑वे ॥१०

आ । यत् । पत॑न्ति । ए॒न्यः॑ । सु॒ऽदुघाः॑ । अन॑पऽस्फुरः ।

अ॒प॒ऽस्फुर॑म् । गृ॒भा॒य॒त॒ । सोम॑म् । इन्द्रा॑य । पात॑वे ॥१०

आ । यत् । पतन्ति । एन्यः । सुऽदुघाः । अनपऽस्फुरः ।

अपऽस्फुरम् । गृभायत । सोमम् । इन्द्राय । पातवे ॥१०

"यत् यदा “एन्यः एतवर्णाः शुभ्रवर्णा नद्यः “आ “पतन्ति आगच्छन्ति सर्वतः प्रवहन्ति । कीदृश्यः। "सुदुघाः सुदोहाः "अनपस्फुरः। अपस्फुरोऽपस्फुरा अप्रवृद्धाः। अतादृश्योऽनपस्फुरः । अत्यन्तं प्रवृद्धा इत्यर्थः । यद्वा । सुदुघाः प्रवृद्धा एतवर्णा गावो यदा पयआद्यर्थाय आ पतन्ति तदा “अपस्फुरम् । अत्रापशब्दो धात्वर्थानुवादी । अत्यन्तप्रवृद्धं "सोममिन्द्राय “पातवे पातुं “गृभायत ग्रहणं कुरुत । अथवानपस्फुर इत्यत्राप्यपशब्दोऽनुवादी धात्वर्थस्य । तथा सत्ययमर्थः । यदा एन्यो नद्योऽनपस्फुरोऽप्रवृद्धोदका पतन्ति वृष्टिरल्पा यदा भवति तदा सोममिन्द्रार्थं संपादयतेति ॥ ।।६।।


अपा॒दिन्द्रो॒ अपा॑द॒ग्निर्विश्वे॑ दे॒वा अ॑मत्सत ।

वरु॑ण॒ इदि॒ह क्ष॑य॒त्तमापो॑ अ॒भ्य॑नूषत व॒त्सं सं॒शिश्व॑रीरिव ॥११

अपा॑त् । इन्द्रः॑ । अपा॑त् । अ॒ग्निः । विश्वे॑ । दे॒वाः । अ॒म॒त्स॒त॒ ।

वरु॑णः । इत् । इ॒ह । क्ष॒य॒त् । तम् । आपः॑ । अ॒भि । अ॒नू॒ष॒त॒ । व॒त्सम् । सं॒शिश्व॑रीःऽइव ॥११

अपात् । इन्द्रः । अपात् । अग्निः । विश्वे । देवाः । अमत्सत ।

वरुणः । इत् । इह । क्षयत् । तम् । आपः । अभि । अनूषत । वत्सम् । संशिश्वरीःऽइव ॥११

“इन्द्रः “अपात् अपिबत् सोमम् । “अग्निः अप्यपिबत् । “विश्वे "देवाः अपि “अमत्सत तृप्ता अभवन् सोमपानेन । "वरुण “इत् वरुणोऽपि “इह अस्मिन् यागगृहे "क्षयत् निवसतु सोमपानार्थम् । निवसन्तं “तम् "आपः अपि “अभ्यनूषत । उदकान्यापनशीला स्तुतयो वाभ्यष्टुवन् । किमिव । “वत्सं स्वीयं संशिश्वरीः संशिश्वर्यः संगच्छमाना गावः "इव । ता यथा धावन्त्यो हम्भारवं कुर्वन्ति तद्वत् ॥


सु॒दे॒वो अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिन्ध॑वः ।

अ॒नु॒क्षर॑न्ति का॒कुदं॑ सू॒र्म्यं॑ सुषि॒रामि॑व ॥१२

सु॒ऽदे॒वः । अ॒सि॒ । व॒रु॒ण॒ । यस्य॑ । ते॒ । स॒प्त । सिन्ध॑वः ।

अ॒नु॒ऽक्षर॑न्ति । का॒कुद॑म् । सू॒र्म्य॑म् । सु॒षि॒राम्ऽइ॑व ॥१२

सुऽदेवः । असि । वरुण । यस्य । ते । सप्त । सिन्धवः ।

अनुऽक्षरन्ति । काकुदम् । सूर्म्यम् । सुषिराम्ऽइव ॥१२

हे वरुण जलाभिमानिन् देव त्वं "सुदेवोऽसि "यस्य सुदेवस्य "ते तव “काकुदं तालु समुद्राख्यं "सप्त "सिन्धवः गङ्गाद्याः सप्त नद्यः "अनुक्षरन्ति जिह्वायां सर्वदा स्रवन्ति ।।


षोडशिशस्त्रे ‘यो व्यतीन् ' इति तृतीय आनुष्टुभस्तृचः । सूत्रितं च -- यो व्यतीरफाणयदिति तृचा आनुष्टुभाः' (आश्व. श्रौ. ६. २) इति ।।

यो व्यतीँ॒रफा॑णय॒त्सुयु॑क्ताँ॒ उप॑ दा॒शुषे॑ ।

त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत ॥१३

यः । व्यती॑न् । अफा॑णयत् । सुऽयु॑क्तान् । उप॑ । दा॒शुषे॑ ।

त॒क्वः । ने॒ता । तत् । इत् । वपुः॑ । उ॒प॒ऽमा । यः । अमु॑च्यत ॥१३

यः । व्यतीन् । अफाणयत् । सुऽयुक्तान् । उप । दाशुषे ।

तक्वः । नेता । तत् । इत् । वपुः । उपऽमा । यः । अमुच्यत ॥१३

"यः इन्द्रः “व्यतीन् विविधगमनान् ‘सुयुक्तान् सुष्ठु रथे संबद्धानश्वान् "दाशुषे हविर्दात्रे यजमानाय गन्तुं प्राप्तुम् “उप “अफाणयत् उपगमयति । फणतिर्गतिकर्मा । यदैवं करोति "तदित् तदानीमेव “तक्वः । तकतिर्गतिकर्मा । यज्ञगमनशीलः "नेता उदकस्य फलस्य वा नायक इन्द्रः "वपुः उदकमुत्पादयतीति शेषः । "यः इन्द्रः “उपमा उपमानभूतः "अमुच्यत अन्यैर्वृष्टिनिवारकैरसुरादिभिर्मुक्तो भवति ॥


अतीदु॑ श॒क्र ओ॑हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विष॑ः ।

भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा ॥१४

अति॑ । इत् । ऊं॒ इति॑ । श॒क्रः । ओ॒ह॒ते॒ । इन्द्रः॑ । विश्वाः॑ । अति॑ । द्विषः॑ ।

भि॒नत् । क॒नीनः॑ । ओ॒द॒नम् । प॒च्यमा॑नम् । प॒रः । गि॒रा ॥१४

अति । इत् । ऊं इति । शक्रः । ओहते । इन्द्रः । विश्वाः । अति । द्विषः ।

भिनत् । कनीनः । ओदनम् । पच्यमानम् । परः । गिरा ॥१४

अयमिन्द्रः "शक्रः शक्तः सन् “अतीत् "ओहते । अतिक्रम्य गच्छत्येव संग्रामे निरोधकान् शत्रून् । तदेवाह । अयम् "इन्द्रः "विश्वाः "द्विषः द्वेष्टॄन् शत्रून् "अति अतिक्रम्य गच्छति । "कनीनः कमनीयः "परः मेघानां परस्ताद्वर्तमान इन्द्रः “ओदनम् । मेघनामैतत् । मेघं “भिनत् अभिनत् भिनत्ति वृष्ट्यर्थम् । कीदृशम् । "गिरा माध्यमिकया वाचा स्तनितलक्षणया “पच्यमानम्। वज्रनिर्घोषेण ताड्यमानमित्यर्थः ।।


अ॒र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथ॑म् ।

स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म् ॥१५

अ॒र्भ॒कः । न । कु॒मा॒र॒कः । अधि॑ । ति॒ष्ठ॒त् । नव॑म् । रथ॑म् ।

सः । प॒क्ष॒त् । म॒हि॒षम् । मृ॒गम् । पि॒त्रे । मा॒त्रे । वि॒भु॒ऽक्रतु॑म् ॥१५

अर्भकः । न । कुमारकः । अधि । तिष्ठत् । नवम् । रथम् ।

सः । पक्षत् । महिषम् । मृगम् । पित्रे । मात्रे । विभुऽक्रतुम् ॥१५

अयमिन्द्रः “अर्भको “न अल्पशरीरः “कुमारकः कुमारक इव “नवं स्तुत्यं "रथम् "अधि “तिष्ठत् अधितिष्ठति । "सः इन्द्रः "महिषं महान्तं "मृगं मृगवदितस्ततो धावन्तं सर्वैर्मृग्यं वा “विभुक्रतुं बहुकर्माणं मेघं “पक्षत् पचति । वृष्टयभिमुखं करोतीत्यर्थः ।।


आ तू सु॑शिप्र दम्पते॒ रथं॑ तिष्ठा हिर॒ण्यय॑म् ।

अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हस॑म् ॥१६

आ । तु । सु॒ऽशि॒प्र॒ । द॒म्ऽप॒ते॒ । रथ॑म् । ति॒ष्ठ॒ । हि॒र॒ण्यय॑म् ।

अध॑ । द्यु॒क्षम् । स॒चे॒व॒हि॒ । स॒हस्र॑ऽपादम् । अ॒रु॒षम् । स्व॒स्ति॒ऽगाम् । अ॒ने॒हस॑म् ॥१६

आ । तु । सुऽशिप्र । दम्ऽपते । रथम् । तिष्ठ । हिरण्ययम् ।

अध । द्युक्षम् । सचेवहि । सहस्रऽपादम् । अरुषम् । स्वस्तिऽगाम् । अनेहसम् ॥१६

हे "सुशिप्र सुहनो हे "दंपते गृहस्वामिन् । अत्र गृहो रथः। तस्य स्वामिन् । "तु त्वं तावत् "रथम् "आ “तिष्ठ। हविःस्वीकरणान्तरं पश्चादहमारोहामीति भावः । कीदृशम् । "हिरण्ययं हिरण्मयम्। "अध तवारोहणानन्तरमहमप्यारुह्योभौ "सचेवहि संगच्छेवहि । संगतौ भवेव। पुनः कीदृशम् । "द्युक्षं दीप्तं रथं "सहस्रपादं बहुपादम् "अरुषम् आरोचमानं “स्वस्तिगां कुशलगमनम् “अनेहसम् अपापम् ॥


पूर्वाह्णे प्रवर्ग्ये ‘तं घेमित्था ' इत्येषा । सूत्रितं च -- तं घेमित्था नमस्विन इति प्रागाथीं पूर्वाह्ने' (आश्व. श्रौ. ४. ७) इति ।।

तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते ।

अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय॑न्ति दा॒वने॑ ॥१७

तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः॑ । उप॑ । स्व॒ऽराज॑म् । आ॒स॒ते॒ ।

अर्थ॑म् । चि॒त् । अ॒स्य॒ । सुऽधि॑तम् । यत् । एत॑वे । आ॒ऽव॒र्तय॑न्ति । दा॒वने॑ ॥१७

तम् । घ । ईम् । इत्था । नमस्विनः । उप । स्वऽराजम् । आसते ।

अर्थम् । चित् । अस्य । सुऽधितम् । यत् । एतवे । आऽवर्तयन्ति । दावने ॥१७

“तं “घ तं खलु “ईम् एनमिन्द्रम् “इत्था इत्थमनेन प्रकारेण "नमस्विनः अन्नवन्तः स्तुतिवन्तो वाध्वर्य्वादयः "स्वराजं स्वयं राजमानं वा “उप "आसते सेवन्ते । तथा कृत्वा "अर्थं “चित् अरणीयं धनं "सुधितं सुष्ठु स्थापितम् "अस्य इन्द्रस्य संबन्धिनं प्राप्नुवन्तीति शेषः । कदेति आह । "यत् यदा “एतवे अस्येन्द्रस्य गमनाय स्वयं प्राप्तुं वा “दावने हविर्दानाय “आवर्तयन्ति स्तुतयः तदेत्यर्थः । अथवाश्वा वावर्तयन्ति तदेत्यर्थः ॥


अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे॑धास एषाम् ।

पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ॥१८

अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । प्रि॒यऽमे॑धासः । ए॒षा॒म् ।

पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । वृ॒क्तऽब॑र्हिषः । हि॒तऽप्र॑यसः । आ॒श॒त॒ ॥१८

अनु । प्रत्नस्य । ओकसः । प्रियऽमेधासः । एषाम् ।

पूर्वाम् । अनु । प्रऽयतिम् । वृक्तऽबर्हिषः । हितऽप्रयसः । आशत ॥१८

अनया स्तुतिमुपसंहरति । "एषां देवानामिन्द्रादीनां “प्रत्नस्य पुराणस्य “ओकसः स्थानस्य पुराणं स्थानं "प्रियमेधासः प्रियमेधाः “अनु "आशत अनुप्राप्ताः । कीदृशाः प्रियमेधाः । "पूर्वां मुख्यं “प्रयतिं प्रदानम् "अनु लक्षीकृत्य "वृक्तबर्हिषः स्तीर्णदर्भाः “हितप्रयसः आसादितसोमादिहविष्काः ॥ ॥ ७ ॥ ॥ ७ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.६९&oldid=217694" इत्यस्माद् पुनः प्राप्तिः