ऋग्वेदः सूक्तं ८.२९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.२८ ऋग्वेदः - मण्डल ८
सूक्तं ८.२९
मनुर्वैवस्वतः, कश्यपो वा मारीचः।
सूक्तं ८.३० →
दे. विश्वे देवाः। द्विपदा विराट्


बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम् ॥१॥
योनिमेक आ ससाद द्योतनोऽन्तर्देवेषु मेधिरः ॥२॥
वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः ॥३॥
वज्रमेको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते ॥४॥
तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः ॥५॥
पथ एकः पीपाय तस्करो यथाँ एष वेद निधीनाम् ॥६॥
त्रीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ॥७॥
विभिर्द्वा चरत एकया सह प्र प्रवासेव वसतः ॥८॥
सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥९॥
अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन् ॥१०॥


सायणभाष्यम्

‘बभ्रुरेकः' इति दशर्चं नवमं सूक्तम् । मरीचिपुत्रः कश्यपो वैवस्वतो मनुर्वा ऋषिः । तथा चानुक्रम्यते--- बभ्रुर्दश कश्यपो वा मारीचो द्वैपदम् ' इति । दशापि द्विपदा विंशत्यक्षरा विराजः । पूर्ववद्विश्वे देवा देवता । तृतीये छन्दोमे वैश्वदेवशस्त्रे वैश्वदेवसूक्तात् पूर्वमेव द्वैपदं सूक्तं शंसनीयम्। सूत्र्यते हि -- बभ्रुरेक इति द्विपदासूक्तानि पुरस्ताद्वैश्वदेवसूक्तानाम् ' (आश्व. श्रौ. ८. ७) इति ॥


ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म् ॥१

ब॒भ्रुः । एकः॑ । विषु॑णः । सू॒नरः॑ । युवा॑ । अ॒ञ्जि । अ॒ङ्क्ते॒ । हि॒र॒ण्यय॑म् ॥१

बभ्रुः । एकः । विषुणः । सूनरः । युवा । अञ्जि । अङ्क्ते । हिरण्ययम् ॥१

अत्र दशानामृचां किंचित्पदलिङ्गात् पृथग्देवताः । अत्र प्रथमायां बभ्रुरित्यनेन सोमोऽभिधीयते। सौम्यं बभ्रुमा लभेत' (तै. सं. २. १. ३. ३) इत्यादिषु दृष्टत्वात् । "बभ्रुः बभ्रुवर्णः शबलतादिषु परिपक्वः । यद्वा। ‘डुभृञ् धारणपोषणयोः'। ' कुर्भ्रश्च ' (उ. सू. १. २२) इति कुप्रत्ययः । सर्वस्य सुधामयैः किरणैस्तावदुद्गते चन्द्रमसि दुःखोपशमनानि पुष्टानि खलु । तादृशः “विषुणः विश्वगञ्चनः "सूनरः सुष्ठु रात्रीणां नेता । रात्रयश्चन्द्रनेतृकाः खलु । एतादृशः "युवा प्रतिदिवसमाविर्भूतत्वात्तरुणः "एकः देवः सोमः “हिरण्ययं हिरण्मयम् "अञ्जि । अभिव्यज्यते प्रकाश्यते अनेन इत्यञ्जि आभरणम् । अभिव्यक्तिसाधनं कुण्डलमुकुटमदिकं स्वशरीरम् "अङ्क्ते अभिव्यञ्जयति ।


योनि॒मेक॒ आ स॑साद॒ द्योत॑नो॒ऽन्तर्दे॒वेषु॒ मेधि॑रः ॥२

योनि॑म् । एकः॑ । आ । स॒सा॒द॒ । द्योत॑नः । अ॒न्तः । दे॒वेषु॑ । मेधि॑रः ॥२

योनिम् । एकः । आ । ससाद । द्योतनः । अन्तः । देवेषु । मेधिरः ॥२

अत्र योनिमिति लिङ्गादग्निरुच्यते । अग्नये गृहपतये ' इत्यादिषु दृष्टत्वात् । “देवेषु देवानाम् “अन्तः मध्ये "द्योतनः स्वतेजसा दीप्यमानः “मेधिरः मेधावी । अथवा मेधाकाङ्क्षिणां स्तोतॄणां मेधादातृत्वेन मेधायुक्तः । एवंविधः "एकः अग्निः "योनिं स्थानभूतमाहवनीयादिकम् "आ "ससाद हविःस्वीकारणार्थमासीदति ॥


वाशी॒मेको॑ बिभर्ति॒ हस्त॑ आय॒सीम॒न्तर्दे॒वेषु॒ निध्रु॑विः ॥३

वाशी॑म् । एकः॑ । बि॒भ॒र्ति॒ । हस्ते॑ । आ॒य॒सीम् । अ॒न्तः । दे॒वेषु॑ । निऽध्रु॑विः ॥३

वाशीम् । एकः । बिभर्ति । हस्ते । आयसीम् । अन्तः । देवेषु । निऽध्रुविः ॥३

“देवेषु "अन्तः देवानां मध्ये द्योतमानः “निध्रुविः निश्चले स्थाने वर्तमानः । यद्वा । नितरां गमनमस्यास्तीति निध्रुविः सर्वदा गच्छन् । अथवा संग्रामेषु शत्रूणां पुरतोऽतिशयेन स्थैर्यवान् । एतादृशः "एकः त्वष्टृनामको देवः "आयसीम् अयोमयधारां "वाशीम् । ‘ वाशृ शब्दे '। शब्दयत्याक्रन्दयति शत्रूननयेति वाशी तक्षणसाधनं कुठारः । तं स्वकीये “हस्ते बिभर्ति धारयति ॥


वज्र॒मेको॑ बिभर्ति॒ हस्त॒ आहि॑तं॒ तेन॑ वृ॒त्राणि॑ जिघ्नते ॥४

वज्र॑म् । एकः॑ । बि॒भ॒र्ति॒ । हस्ते॑ । आऽहि॑तम् । तेन॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥४

वज्रम् । एकः । बिभर्ति । हस्ते । आऽहितम् । तेन । वृत्राणि । जिघ्नते ॥४

अत्र वज्रलिङ्गादिन्द्रो देवता । “एकः इन्द्रः "आहितं स्वकीयहस्ते निहितं "वज्रम् एतन्नामकमायुधं “बिभर्ति धत्ते । स एवेन्द्रः "तेन निहितेन वज्रेण "वृत्राणि आवरकाणि रक्षांसि पापानि वा "जिघ्नते भृशं हन्ति ॥


ति॒ग्ममेको॑ बिभर्ति॒ हस्त॒ आयु॑धं॒ शुचि॑रु॒ग्रो जला॑षभेषजः ॥५

ति॒ग्मम् । एकः॑ । बि॒भ॒र्ति॒ । हस्ते॑ । आयु॑धम् । शुचिः॑ । उ॒ग्रः । जला॑षऽभेषजः ॥५

तिग्मम् । एकः । बिभर्ति । हस्ते । आयुधम् । शुचिः । उग्रः । जलाषऽभेषजः ॥५

अत्र जलाषभेषज इत्यनेन रुद्रोऽभिधीयते । "शुचिः । ‘शुच दीप्तौ । सर्वतः स्वतेजसा दीप्यमानः । यद्वा ।' शुच शोके ' । शत्रूणां शोचयिता दुःखयिता । अत एव “उग्रः उद्गूर्णबलः “जलाषभेषजः रोगापनयनेन सुखकरभैषज्यवान् । यद्वा । स्तोतॄणां दुःखरूपसंसारोच्छेदेन सुखकारिभिषग्रूपः । ‘ प्रथमो दैव्यो भिषक् ' इत्यादिश्रुतिभिरस्य भिषक्त्वं श्रूयते । तादृशः "एकः रुद्रः “तिग्मं तीक्ष्णधारम् "आयुधम् । आयुध्यति संप्रहरति शत्रूननेनेत्यायुधं पिनाकः । तं स्वकीये "हस्ते "बिभर्ति ।।


प॒थ एक॑ः पीपाय॒ तस्क॑रो यथाँ ए॒ष वे॑द निधी॒नाम् ॥६

प॒थः । एकः॑ । पी॒पा॒य॒ । तस्क॑रः । य॒था॒ । ए॒षः । वे॒द॒ । नि॒ऽधी॒नाम् ॥६

पथः । एकः । पीपाय । तस्करः । यथा । एषः । वेद । निऽधीनाम् ॥६

पथ इति लिङ्गेन पूषा निगद्यते । ‘सं पूषन्नध्वनस्तिर' (ऋ. सं. १. ४२. १) इत्यादिषु दृष्टत्वात् । "एकः पूषनामको देवः “पथः मार्गान् “पीपाय । प्यायतिर्वर्धनकर्माप्यत्र रक्षणार्थः । ये अग्निहोत्रादि कर्म कुर्वन्ति तेषां स्वर्गमार्गं ये दुष्कृतं कर्म कुर्वन्ति तेषां यातनामार्गं च रक्षति । उभयेषां मार्गविपर्ययो यथा न भवति तथा पालयतीत्यर्थः । "एषः सोऽयं पूषा “निधीनां पृथिव्यां निहितानि धनानि “वेद वेत्ति । ज्ञात्वा स्तोतॄणां तानि ददातीत्यर्थः। तत्र दृष्टान्तः । "तस्करो “यथा । यथा चोरः पथि गच्छतां पुरुषाणां धनहरणार्थंमार्गं रक्षति तथा च स चोरो गृहे निहितानि ज्ञात्वा तदाहृत्य स्वसहायेभ्यो यथा तानि ददाति तद्वत् ॥


त्रीण्येक॑ उरुगा॒यो वि च॑क्रमे॒ यत्र॑ दे॒वासो॒ मद॑न्ति ॥७

त्रीणि॑ । एकः॑ । उ॒रु॒ऽगा॒यः । वि । च॒क्र॒मे॒ । यत्र॑ । दे॒वासः॑ । मद॑न्ति ॥७

त्रीणि । एकः । उरुऽगायः । वि । चक्रमे । यत्र । देवासः । मदन्ति ॥७

उरुगायो वि चक्रमे इति पदलिङ्गाद्विष्णुरुच्यते । "उरुगायः उरुभिर्बहुभिर्गातव्यः । यद्वा । बहुषु देशेषु गन्ता बहुकीर्तिर्वा । सर्वान् शत्रून् स्वसामर्थ्येन शब्दयत्याक्रन्दयतीति वा उरुगायः । एतादृशः "एकः असहायो विष्णुः "त्रीणि पदानि भुवनानि “वि “चक्रमे साधु पादेन विक्रान्तवान् । ‘वेः पादविहरणे' (पा. सू. १. ३. ४१) इति क्रमतेरात्मनेपदम् । "यत्र येषु लोकेषु "देवासः इन्द्रादयो देवाः "मदन्ति यजमानदत्तैर्हविर्भिर्माद्यन्ति तानि वि चक्रम इत्यन्वयः ॥


विभि॒र्द्वा च॑रत॒ एक॑या स॒ह प्र प्र॑वा॒सेव॑ वसतः ॥८

विऽभिः॑ । द्वा । च॒र॒तः॒ । एक॑या । स॒ह । प्र । प्र॒वा॒साऽइ॑व । व॒स॒तः॒ ॥८

विऽभिः । द्वा । चरतः । एकया । सह । प्र । प्रवासाऽइव । वसतः ॥८

एकया सह इति लिङ्गादश्विनावभिधीयेते । "द्वा द्वौ द्वित्वसंख्योपेतावश्विनौ "विभिः । वी गत्यादिषु । क्विप् । छान्दसो ह्रस्वः । गमनसाधनैरश्वैः "चरतः संचरेते। किंच इमावश्विनौ “एकया सूर्याख्यया ताभ्यां स्वयंवृतया स्त्रिया “सह “प्र “वसतः प्रवासं सर्वत्र गमनं कुरुतः । प्रवासे दृष्टान्तः । "प्रवासेव । यथा प्रवासिनौ द्वौ पुरुषौ एकया स्त्रिया सह प्रवसतस्तद्वत् ॥


सदो॒ द्वा च॑क्राते उप॒मा दि॒वि स॒म्राजा॑ स॒र्पिरा॑सुती ॥९

सदः॑ । द्वा । च॒क्रा॒ते॒ इति॑ । उ॒प॒ऽमा । दि॒वि । स॒म्ऽराजा॑ । स॒र्पिरा॑सुती॒ इति॑ स॒र्पिःऽआ॑सुती ॥९

सदः । द्वा । चक्राते इति । उपऽमा । दिवि । सम्ऽराजा । सर्पिरासुती इति सर्पिःऽआसुती ॥९

सम्राजाविति लिङ्गेन मित्रावरुणावभिधीयेते । "उपमा उपमौ परस्परं स्वकान्त्योपमानभूतौ । यद्वा । उपमीयत आभ्यां सर्वमित्युपमौ सर्वस्य । एतावेव "सम्राजा सम्राजौ सम्यग्दीप्यमानौ "सर्पिरासुती । सर्पिर्घृतमाभ्यामासूयत इति सर्पिरासुती । घृतहविष्कौ "द्वा द्वौ मित्रावरुणौ "दिवि द्युलोके "सदः । सीदन्त्यत्रेति सदः स्थानम् । तत् "चक्राते अकार्ष्टाम् ॥


अर्च॑न्त॒ एके॒ महि॒ साम॑ मन्वत॒ तेन॒ सूर्य॑मरोचयन् ॥१०

अर्च॑न्तः । एके॑ । महि॑ । साम॑ । म॒न्व॒त॒ । तेन॑ । सूर्य॑म् । अ॒रो॒च॒य॒न् ॥१०

अर्चन्तः । एके । महि । साम । मन्वत । तेन । सूर्यम् । अरोचयन् ॥१०

“एके अत्रयः “महि महत् "साम त्रिवृत्पञ्चदशादि "मन्वत अमन्वत । तदेव “अर्चन्तः पूजयन्त एतादृशा अत्रयः "तेन उक्तेन साम्ना "सूर्यमरोचयन् अदीपयन् । त एवात्र देवता ॥ ॥३६॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.२९&oldid=201713" इत्यस्माद् पुनः प्राप्तिः