ऋग्वेदः सूक्तं ८.३०
← सूक्तं ८.२९ | ऋग्वेदः - मण्डल ८ सूक्तं ८.३० मनुर्वैवस्वतः। |
सूक्तं ८.३१ → |
दे. विश्वे देवाः । गायत्री, २ पुरउष्णिक्, ३ बृहती, ५ अनुष्टुप् |
नहि वो अस्त्यर्भको देवासो न कुमारकः ।
विश्वे सतोमहान्त इत् ॥१॥
इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च ।
मनोर्देवा यज्ञियासः ॥२॥
ते नस्त्राध्वं तेऽवत त उ नो अधि वोचत ।
मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः ॥३॥
ये देवास इह स्थन विश्वे वैश्वानरा उत ।
अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत ॥४॥
सायणभाष्यम्
'नहि वः' इति चतुर्ऋचं दशमं सूक्तम् । आद्या गायत्री द्वितीया पुरउष्णिक् तृतीया बृहती चतुर्थ्यनुष्टुप् । मनुर्वैवस्वत ऋषिः । पूर्ववद्विश्वे देवा देवता । तथा चानुक्रान्तं- नहि वश्चतुष्कं पुरउष्णिग्बृहत्यनुष्टुबन्तम्' इति । विनियोगस्तु लिङ्गाद्वगन्तव्यः ॥
न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः ।
विश्वे॑ स॒तोम॑हान्त॒ इत् ॥१
न॒हि । वः॒ । अस्ति॑ । अ॒र्भ॒कः । देवा॑सः । न । कु॒मा॒र॒कः ।
विश्वे॑ । स॒तःऽम॑हान्तः । इत् ॥१
नहि । वः । अस्ति । अर्भकः । देवासः । न । कुमारकः ।
विश्वे । सतःऽमहान्तः । इत् ॥१
हे "देवासः देवाः "वः युप्माकं मध्ये "अर्भकः "नहि "अस्ति शिशुर्नास्ति खलु । तथा “न “कुमारकः युष्माकं मध्ये कुमारोऽपि नास्ति । किंतु सर्वे यूयं सवयसो नित्यतरुणा भवथ । एतदेव प्रतिपादयति । "विश्वे सर्वे देवा यूयं "सतोमहान्त “इत् । सर्वस्माद्विद्यमानात् पृथिव्यामपि ये महान्तस्ते सतोमहान्त इत्युच्यन्ते । तस्माद्युष्माकमर्भकोऽपि कुमारोऽपि नास्तीत्यर्थः ॥
इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ ।
मनो॑र्देवा यज्ञियासः ॥२
इति॑ । स्तु॒तासः॑ । अ॒स॒थ॒ । रि॒शा॒द॒सः॒ । ये । स्थ । त्रयः॑ । च॒ । त्रिं॒शत् । च॒ ।
मनोः॑ । दे॒वाः॒ । य॒ज्ञि॒या॒सः॒ ॥२
इति । स्तुतासः । असथ । रिशादसः । ये । स्थ । त्रयः । च । त्रिंशत् । च ।
मनोः । देवाः । यज्ञियासः ॥२
हे "रिशादसः रिशतां हिंसतामसितारो हे "मनोः "यज्ञियासः मनुनामकस्य मम यज्ञार्हा हे देवाः “ये यूयं “त्रयश्च त्रिसंख्याकाः “त्रिंशच्च त्रिंशत्संख्याकास्त्रयस्त्रिंशद्देवताः “स्थ भवथ अभूत ते यूयम् इति इत्थमनेन प्रकारेण "स्तुतासः “असथ । मया मनुना स्तुता भवथ । अस्तेर्लेटि छान्दसो लुगभावः । यद्वा । असतिः कान्त्यर्थः । इत्थं स्तुता यूयं हवींषि कामयध्वम् ।
ते न॑स्त्राध्वं॒ ते॑ऽवत॒ त उ॑ नो॒ अधि॑ वोचत ।
मा न॑ः प॒थः पित्र्या॑न्मान॒वादधि॑ दू॒रं नै॑ष्ट परा॒वत॑ः ॥३
ते । नः॒ । त्रा॒ध्व॒म् । ते॒ । अ॒व॒त॒ । ते । ऊं॒ इति॑ । नः॒ । अधि॑ । वो॒च॒त॒ ।
मा । नः॒ । प॒थः । पित्र्या॑त् । मा॒न॒वात् । अधि॑ । दू॒रम् । नै॒ष्ट॒ । प॒रा॒ऽवतः॑ ॥३
ते । नः । त्राध्वम् । ते । अवत । ते । ऊं इति । नः । अधि । वोचत ।
मा । नः । पथः । पित्र्यात् । मानवात् । अधि । दूरम् । नैष्ट । पराऽवतः ॥३
हे देवाः “ते यूयं "नः अस्मान् “त्राध्वं बाधकेभ्यो रक्षोभ्यस्त्रायध्वम् । "ते यूयम् "अवत धनादिप्रदानैरस्मान् रक्षत । "ते एव देवाः "नः अस्मान् "अधि "वोचत अधिकं भवन्तः कर्मकारिणो धनादिमन्तश्च भवन्त्विति यूयं ब्रूत । किंच हे देवाः "मानवात् । मनुः सर्वेषां पिता । तत आगतात् “पित्र्यात्' पिता मनुर्यं मार्गं चक्रे तस्मात् "पथः मार्गात् "नः अस्मान् "मा “नैष्ट मा नयत । अपनयनं मा कुरुतेत्यर्थः । सर्वदा ब्रह्मचर्याग्निहोत्रादिकर्माणि येन मार्गेण भवन्ति तमेवास्मान्नयत । किंतु “दूरं य एतद्व्यतिरिक्तो विप्रकृष्टमार्गोऽस्ति तस्मात् "अधि । अधिकमित्यर्थः । अस्मानपनयत ॥
ये दे॑वास इ॒ह स्थन॒ विश्वे॑ वैश्वान॒रा उ॒त ।
अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा॑य यच्छत ॥४
ये । दे॒वा॒सः॒ । इ॒ह । स्थन॑ । विश्वे॑ । वै॒श्वा॒न॒राः । उ॒त ।
अ॒स्मभ्य॑म् । शर्म॑ । स॒ऽप्रथः॑ । गवे॑ । अश्वा॑य । य॒च्छ॒त॒ ॥४
ये । देवासः । इह । स्थन । विश्वे । वैश्वानराः । उत ।
अस्मभ्यम् । शर्म । सऽप्रथः । गवे । अश्वाय । यच्छत ॥४
हे "देवासः देवाः "उत अपि च "वैश्वानराः । विश्व सर्वे नरः कर्मनेतारोऽध्वर्य्वादयो यस्य स विश्वानरो यज्ञः । तस्मिन् सोमादिहवींषि स्वीकर्तुं भवाः प्रादुर्भूताः । भवार्थेऽण्प्रत्ययः । यद्वा । विश्वानरोऽग्निः । देवानां तन्मुखत्वात् तस्य संबन्धिनः । "विश्वे सर्वे "ये देवा यूयम् "इह अस्मिन्नस्मदीये यज्ञे “स्थन हवींष्यादातुं भवथ ततः "सप्रथः । प्रथ प्रख्याने '। सर्वतः प्रसिद्धं सर्वत्र पृथुतमं वा “शर्म । सर्वं शृणाति हिनस्ति दुःखमिति शर्म सुखम् । तत् "अस्मभ्यं प्रयच्छत । तथा “गवे अस्मदीयेभ्यो यज्ञसाधनभूतेभ्यो गोभ्यः "अश्वाय शर्म सुखं प्रदत्त ॥ ॥ ३७॥ ॥ ४ ॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|