ऋग्वेदः सूक्तं ८.३८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.३७ ऋग्वेदः - मण्डल ८
सूक्तं ८.३८
श्यावाश्व आत्रेयः
सूक्तं ८.३९ →
दे. इन्द्राग्नी। गायत्री


यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु ।
इन्द्राग्नी तस्य बोधतम् ॥१॥
तोशासा रथयावाना वृत्रहणापराजिता ।
इन्द्राग्नी तस्य बोधतम् ॥२॥
इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः ।
इन्द्राग्नी तस्य बोधतम् ॥३॥
जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती ।
इन्द्राग्नी आ गतं नरा ॥४॥
इमा जुषेथां सवना येभिर्हव्यान्यूहथुः ।
इन्द्राग्नी आ गतं नरा ॥५॥
इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम ।
इन्द्राग्नी आ गतं नरा ॥६॥
प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू ।
इन्द्राग्नी सोमपीतये ॥७॥
श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम् ।
इन्द्राग्नी सोमपीतये ॥८॥
एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
इन्द्राग्नी सोमपीतये ॥९॥
आहं सरस्वतीवतोरिन्द्राग्न्योरवो वृणे ।
याभ्यां गायत्रमृच्यते ॥१०॥


सायणभाष्यम्

'यज्ञस्य हि' इति दशर्चमष्टमं सूक्तं श्यावाश्वस्यार्षं प्राग्वत्सप्रपरिभाषया गायत्रमिन्द्राग्निदेवताकम् । तथा चानुक्रान्तं - यज्ञस्य दशैन्द्राग्नम् ' इति । पृष्ठ्याभिप्लवषडहयोः प्रातःसवनेऽच्छावाकशस्त्र आवापार्थमेतत्सूक्तम् । सूत्रितं च -- यज्ञस्य हि स्थ इत्यच्छावाकस्य ' ( आश्व. श्रौ. ७.५) इति । चातुर्विंशिकेऽहनि प्रातःसवने यज्ञस्य हि स्थः' इति षळहस्तोत्रियसंज्ञकस्तृचः । सूत्रितं च - ' इन्द्राग्नी युवामिमे यज्ञस्य हि ऋत्विजेत्यच्छावाकस्य ' ( आश्व. श्रौ. ७. २ ) इति । अग्निष्टोमे प्रातःसवनेऽच्छावाकस्य ‘प्रातर्यावभिः' इति प्रातःसवनीयस्य प्रस्थितयाज्या । सूत्रितं च – प्रातर्यावभिरिति यजति ' ( आश्व. श्रौ. ५. ७) इति । चातुर्विंशिके प्रातःसवनेऽच्छावाकशस्त्रे ‘ श्यावाश्वस्य ' इत्ययं पर्यासस्तृचः । अन्यत्राप्यहर्गणेषु द्वितीयादिष्वहःसु । सूत्र्यते हि - श्यावाश्वस्य सुन्वत इति तृचाः पर्यासाः ' ( आश्व. श्रौ. ७. २ ) इति ॥


य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु ।

इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥१

य॒ज्ञस्य॑ । हि । स्थः । ऋ॒त्विजा॑ । सस्नी॒ इति॑ । वाजे॑षु । कर्म॑ऽसु ।

इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥१

यज्ञस्य । हि । स्थः । ऋत्विजा । सस्नी इति । वाजेषु । कर्मऽसु ।

इन्द्राग्नी इति । तस्य । बोधतम् ॥१

हे “इन्द्राग्नी “सस्नी शुद्धौ युवां “यज्ञस्य “ऋत्विजा ऋत्विजौ “स्थः भवथः “हि। “वाजेषु युद्धेषु “कर्मसु चोपतिष्ठन्ताविन्द्राग्नी “तस्य तं मां तस्य मम स्तुतिं वा “बोधतं जानीतम् ॥


तो॒शासा॑ रथ॒यावा॑ना वृत्र॒हणाप॑राजिता ।

इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥२

तो॒शासा॑ । र॒थ॒ऽयावा॑ना । वृ॒त्र॒ऽहना॑ । अप॑राऽजिता ।

इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥२

तोशासा । रथऽयावाना । वृत्रऽहना । अपराऽजिता ।

इन्द्राग्नी इति । तस्य । बोधतम् ॥२

हे "इन्द्राग्नी “तोशासा शत्रून् हिंसन्तौ “रथयावाना रथेन गच्छन्तौ “वृत्रहणा वृत्रस्य हन्तारौ “अपराजिता केनाप्यपराजितौ “तस्य तं मां “बोधतम् ।।


इ॒दं वां॑ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नर॑ः ।

इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥३

इ॒दम् । वा॒म् । म॒दि॒रम् । मधु॑ । अधु॑क्षन् । अद्रि॑ऽभिः । नरः॑ ।

इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥३

इदम् । वाम् । मदिरम् । मधु । अधुक्षन् । अद्रिऽभिः । नरः ।

इन्द्राग्नी इति । तस्य । बोधतम् ॥३

हे "इन्द्राग्नी “वां युवामुद्दिश्य “नरः यज्ञस्य नेतारः “अद्रिभिः ग्रावभिः “मदिरं मदकरं "मधु सोमात्मकममृतम् "अधुक्षन् अपूरयन् । सिद्धमन्यत् ॥


जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ सु॒तं सोमं॑ सधस्तुती ।

इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥४

जु॒षेथा॑म् । य॒ज्ञम् । इ॒ष्टये॑ । सु॒तम् । सोम॑म् । स॒ध॒स्तु॒ती॒ इति॑ सधऽस्तुती ।

इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥४

जुषेथाम् । यज्ञम् । इष्टये । सुतम् । सोमम् । सधस्तुती इति सधऽस्तुती ।

इन्द्राग्नी इति । आ । गतम् । नरा ॥४

हे “सधस्तुती सहभूतस्तुती “नरा नेतारौ "इन्द्राग्नी "यज्ञं “जुषेथां सेवेथाम् । “इष्टये यागाय “सुतम् अभिषुतं “सोमं च "आ “गतम् आगच्छतम् ॥


इ॒मा जु॑षेथां॒ सव॑ना॒ येभि॑र्ह॒व्यान्यू॒हथु॑ः ।

इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥५

इ॒मा । जु॒षे॒था॒म् । सव॑ना । येभिः॑ । ह॒व्यानि॑ । ऊ॒हथुः॑ ।

इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥५

इमा । जुषेथाम् । सवना । येभिः । हव्यानि । ऊहथुः ।

इन्द्राग्नी इति । आ । गतम् । नरा ॥५

हे "इन्द्राग्नी “नरा नेतारौ युवा "येभिः यैः सवनैः “हव्यानि “ऊहथुः वहथः तानि “इमा इमानि “सवना सवनानि “जुषेथा सेवेथाम् । "आ “गतं च ॥


इ॒मां गा॑य॒त्रव॑र्तनिं जु॒षेथां॑ सुष्टु॒तिं मम॑ ।

इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥६

इ॒माम् । गा॒य॒त्रऽव॑र्तनिम् । जु॒षेथा॑म् । सु॒ऽस्तु॒तिम् । मम॑ ।

इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥६

इमाम् । गायत्रऽवर्तनिम् । जुषेथाम् । सुऽस्तुतिम् । मम ।

इन्द्राग्नी इति । आ । गतम् । नरा ॥६

हे “इन्द्राग्नी नरौ युवां “मम "गायत्रवर्तनिं गायत्रमार्गाम् “इमां “सुष्टुतिं शोभनां स्तुतिं “जुषेथां सेवेथाम् । “आ “गतं च ॥ ॥ २० ॥


प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू ।

इन्द्रा॑ग्नी॒ सोम॑पीतये ॥७

प्रा॒त॒र्याव॑ऽभिः । आ । ग॒त॒म् । दे॒वेभिः॑ । जे॒न्या॒व॒सू॒ इति॑ ।

इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥७

प्रातर्यावऽभिः । आ । गतम् । देवेभिः । जेन्यावसू इति ।

इन्द्राग्नी इति । सोमऽपीतये ॥७

हे "जेन्यावसू जेतव्यशत्रुधनौ “इन्द्राग्नी “प्रातर्यावभिः देवैः सह "सोमपीतये सोमस्य पानाय “आ “गतम् आगच्छतम् ॥


श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हव॑म् ।

इन्द्रा॑ग्नी॒ सोम॑पीतये ॥८

श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । अत्री॑णाम् । शृ॒णु॒त॒म् । हव॑म् ।

इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥८

श्यावऽअश्वस्य । सुन्वतः । अत्रीणाम् । शृणुतम् । हवम् ।

इन्द्राग्नी इति । सोमऽपीतये ॥८

हे "इन्द्राग्नी युवां “सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य “श्यावाश्वस्य मम “अत्रीणाम् ऋत्विजां “हवम् आह्वानं सोमस्य पानाय “शृणुतम् ॥


ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः ।

इन्द्रा॑ग्नी॒ सोम॑पीतये ॥९

ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः ।

इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥९

एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः ।

इन्द्राग्नी इति । सोमऽपीतये ॥९

हे "इन्द्राग्नी "वां युवां “यथा "मेधिराः प्राज्ञाः "अहुवन्त आहूतवन्तः एवमहम् “ऊतये रक्षणाय सोमस्य पीतये च "अह्वे ह्वयामि ।।


आहं सर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो॑ वृणे ।

याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥१०

आ । अ॒हम् । सर॑स्वतीऽवतोः । इ॒न्द्रा॒ग्न्योः । अवः॑ । वृ॒णे॒ ।

याभ्या॑म् । गा॒य॒त्रम् । ऋ॒च्यते॑ ॥१०

आ । अहम् । सरस्वतीऽवतोः । इन्द्राग्न्योः । अवः । वृणे ।

याभ्याम् । गायत्रम् । ऋच्यते ॥१०

“याभ्यां ययोरिन्द्राग्न्योरर्थं "गायत्रं साम “ऋच्यते स्तूयते तयोः “सरस्वतीवतोः स्तुतिमतोः “इन्द्राग्न्योः संबन्धि “अवः रक्षणम् “अहम् “आ “वृणे ॥ ॥ २१ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३८&oldid=201825" इत्यस्माद् प्रतिप्राप्तम्