ऋग्वेदः सूक्तं ८.५२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.५१ ऋग्वेदः - मण्डल ८
सूक्तं ८.५२
आयुः काण्वः ।
सूक्तं ८.५३ →
दे. इन्द्रः । प्रगाथः - (विषमा बृहती, समा सतोबृहती)।


यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् ।
यथा त्रिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा ॥१॥
पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः ।
यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि ॥२॥
य उक्था केवला दधे यः सोमं धृषितापिबत् ।
यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥३॥
यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो ।
तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः ॥४॥
यो नो दाता स नः पिता महाँ उग्र ईशानकृत् ।
अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः ॥५॥
यस्मै त्वं वसो दानाय मंहसे स रायस्पोषमिन्वति ।
वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥६॥
कदा चन प्र युच्छस्युभे नि पासि जन्मनी ।
तुरीयादित्य हवनं त इन्द्रियमा तस्थावमृतं दिवि ॥७॥
यस्मै त्वं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे ।
अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छृणुधी हवम् ॥८॥
अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥९॥
समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् ।
सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥१०॥

भाष्यम्

'यथा मनौ विवस्वति' इति दशर्चं चतुर्थं सूक्तम् आयवमैन्द्रम्। अनुक्रान्तं च- 'यथा मनावायुः' इति । काण्व आयुर्ऋषिः इन्द्रो देवता । अयुज बृहती छन्दः युजां सतोबृहती छन्दः । विनियोगः सूत्रादवगन्तव्यः ॥


यथा॒ मनौ॒ विव॑स्वति॒ सोमं॑ श॒क्रापि॑बः सु॒तम् ।

यथा॑ त्रि॒ते छन्द॑ इन्द्र॒ जुजो॑षस्या॒यौ मा॑दयसे॒ सचा॑ ॥१

यथा॑ । मनौ॑ । विव॑स्वति । सोम॑म् । श॒क्र॒ । अपि॑बः । सु॒तम् ।

यथा॑ । त्रि॒ते । छन्दः॑ । इ॒न्द्र॒ । जुजो॑षसि । आ॒यौ । मा॒द॒य॒से॒ । सचा॑ ॥१

यथा । मनौ। विवस्वति । सोमम् । शक्र । अपिबः । सुतम् ।

यथा । त्रिते । छन्दः । इन्द्र । जुजोषसि । आयौ । मादयसे । सचा ॥ १ ॥

हे शक्र समर्थेन्द्र यथा येन प्रकारेण विवस्वति विवस्वतः पुत्रे वैवस्वते मनौ वर्तमानं सुतमभिषुतं सोमम् अपिबः पीतवानसि । हे इन्द्र परमेश्वर यथा च त्रिते एतन्नामके ऋषौ वर्तमानं छन्दः वेदजातं जुजोषसि भृशं सेवसे । तथा आयौ एतन्नामके मयि सचा सह वर्तमानं सोमं छन्दोलक्षणं तदुभयं संसेव्य मादयसे आनन्दयसि मामात्मानं च ।।


पृष॑ध्रे॒ मेध्ये॑ मात॒रिश्व॒नीन्द्र॑ सुवा॒ने अम॑न्दथाः ।

यथा॒ सोमं॒ दश॑शिप्रे॒ दशो॑ण्ये॒ स्यूम॑रश्मा॒वृजू॑नसि ॥२

पृष॑ध्रे । मेध्ये॑ । मा॒त॒रिश्व॑नि । इन्द्र॑ । सु॒वा॒ने । अम॑न्दथाः ।

यथा॑ । सोम॑म् । दश॑ऽशिप्रे । दश॑ऽओण्ये । स्यूम॑ऽरश्मौ । ऋजू॑नसि ॥२

पृषध्रे । मेध्ये। मातरिश्वनि । इन्द्र । सुवाने । अमन्दथाः ।।

यथा । सोमम् । दशऽशिप्रे । दशऽओण्ये । स्यूमेऽरश्मौ । ऋजूनसि ॥ २ ॥

हे इन्द्र सुवाने सोमाभिषवं कुर्वाणे पृषध्रे एतन्नामके ऋषौ वर्तमानं सोमं पीत्वा यथा अमन्दथः हृष्टवानसि । यथा च मेध्ये मातरिश्वनि दशशिप्रे दशोण्ये स्यूमरश्मौ ऋजूनसि च एतेषु सर्वेष्वृषिषु वर्तमानं सोमं पीत्वा अमन्दथः । तथा मां मादयसे इति पूर्वेण संबन्धः ॥


य उ॒क्था केव॑ला द॒धे यः सोमं॑ धृषि॒तापि॑बत् ।

यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ॥३

यः । उ॒क्था । केव॑ला । द॒धे । यः । सोम॑म् । धृ॒षि॒ता । अपि॑बत् ।

यस्मै॑ । विष्णुः॑ । त्रीणि॑ । प॒दा । वि॒ऽच॒क्र॒मे । उप॑ । मि॒त्रस्य॑ । धर्म॑ऽभिः ॥३

यः । उक्था। केवला । दधे । यः । सोमम् । धृषिता । अपिबत् ।

यस्मै । विष्णुः । त्रीणि । पदा । विऽचक्रमे । उप । मित्रस्य । धर्मऽभिः ।। ३ ।।

य इन्द्रः केवलो केवलानि आत्मस्वामिकानि उक्था उक्थानि शस्त्राणि दधे अवधारयति । 'शृण्वतीत्यर्थः ( शृणोती° )। यश्चेन्द्रः धृषितः । शत्रूणां धर्षकः अभिभविता सन् सोममपिबत् पीतवान् । यस्मै इन्द्रीय तदर्थं विष्णुर्व्यापक उपेन्द्रः मित्रस्य । मित्रोऽहरभिमानी देवः । अहर्वै मित्रो रात्रिर्वरुणः ( ऐ, ब्रा, ४, १०) इति श्रुतेः । तस्य धर्मभिः धर्मैः उदयास्तमयैर्व्यापारैरुपलक्षितः सन् त्रीणि पदा त्रिभिः पादैः विचक्रमे विशेषेण आक्रान्तवान् त्रिलोकीम् । स इन्द्रोऽस्मान् मादयत्विति आशीः ।।


यस्य॒ त्वमि॑न्द्र॒ स्तोमे॑षु चा॒कनो॒ वाजे॑ वाजिञ्छतक्रतो ।

तं त्वा॑ व॒यं सु॒दुघा॑मिव गो॒दुहो॑ जुहू॒मसि॑ श्रव॒स्यवः॑ ॥४

यस्य॑ । त्वम् । इ॒न्द्र॒ । स्तोमे॑षु । चा॒कनः॑ । वाजे॑ । वा॒जि॒न् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

तम् । त्वा॒ । व॒यम् । सु॒दुघा॑म्ऽइव । गो॒ऽदुहः॑ । जु॒हू॒मसि॑ । श्र॒व॒स्यवः॑ ॥४

यस्य । त्वम् । इन्द्र । स्तोमेषु । चाकनः । वाजे । वाजिन् । शतक्रतो इति शतक्रतो ।

तम् । त्वा । वयम् । सुदुघाम्ऽइव । गोऽदुहः । जुहूमसि । श्रवस्यवः ॥ ४ ॥

हे वाजिन् अन्नवन् हे शतक्रतो बहुकर्मवन्निन्द्र त्वं यस्य यजमानस्य स्तोमेषु स्तोत्रेषु निमित्तेषु वाजे हविर्लक्षणे अन्ने च निमित्तभूते सति चाकनः तृप्यसि तं तादृशं त्वा त्वामिन्द्रं श्रवस्यवः । श्रव इत्यन्ननाम । अन्नकामा वयं यजमानाः जुहुमः हविर्दद्मः । तत्र दृष्टान्तः । सुदुघामिव गोदुहः । गोदोग्धारः सुदोग्ध्रीं गां प्रति यथा हरिततृणादिकं ददति तद्वत् ।।


यो नो॑ दा॒ता स नः॑ पि॒ता म॒हाँ उ॒ग्र ई॑शान॒कृत् ।

अया॑मन्नु॒ग्रो म॒घवा॑ पुरू॒वसु॒र्गोरश्व॑स्य॒ प्र दा॑तु नः ॥५

यः । नः॒ । दा॒ता । सः । नः॒ । पि॒ता । म॒हान् । उ॒ग्रः । ई॒शा॒न॒ऽकृत् ।

अया॑मन् । उ॒ग्रः । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । गोः । अश्व॑स्य । प्र । दा॒तु॒ । नः॒ ॥५

यः । नः । दाता । सः । नः । पिता। महान् । उग्रः । ईशान्ऽकृत् ।

अयामन् । उग्रः । मघऽवा । पुरुऽवसुः । गोः । अश्वस्य । प्र । दातु । नः ॥५॥ ॥२०॥

य इन्द्रः नोऽस्मभ्यं दाता धनादेर्ददति( ०र्ददाति ) स इन्द्रः नोऽस्माकं पिता पालको भवतु । कीदृशः सः । महान् प्रौढः उग्रः उशूर्णबलः ईशानकृत् । दीनमीशानं प्रभुं करोतीति तथा । दीनदयालुरित्यर्थः । तादृशः स मघवा धनवानिन्द्रः नोऽस्मभ्यं गोः गामश्वस्य अश्वं च । उभयत्र कर्मणि षष्ठी । प्रदातु प्रकर्षेण ददातु । कीदृशो मघवा । अयामन् । यान्त्यनेनेति यामा मार्गः। स न विद्यते यस्यासावयामा । तस्मिन्नयामनि । 'सुपां सुलुक्' इति सप्तम्या लुक् । मार्गरहिते पापिनि पुंसि उग्रः उद्गूर्णबलः तस्मिन् आविष्कृतप्रभुशक्तिरित्यर्थः । पुरुवसुश्च प्रभूतगवाश्वादिधनोपेतः।। ।।२०॥


यस्मै॒ त्वं व॑सो दा॒नाय॒ मंह॑से॒ स रा॒यस्पोष॑मिन्वति ।

व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं॑ हवामहे ॥६

यस्मै॑ । त्वम् । व॒सो॒ इति॑ । दा॒नाय॑ । मंह॑से । सः । रा॒यः । पोष॑म् । इ॒न्व॒ति॒ ।

व॒सु॒ऽयवः॑ । वसु॑ऽपतिम् । श॒तऽक्र॑तुम् । स्तोमैः॑ । इन्द्र॑म् । ह॒वा॒म॒हे॒ ॥६

यस्मै । त्वम् । वसो इति । दानाय । मंहसे । सः । रायः । पोषम् । इन्वति ।

वसुऽयवः । वसुऽपतिम् । शतऽक्रतुम् । स्तोमैः । इन्द्रम् । हवामहे ।। ६ ।।

हे वसो वासयितरिन्द्र त्वं यस्मै यजमानाय दातव्यं धनादिकं मंहसे ददासि स तादृशो यजमानः रायः धनस्य पोषं पुष्टिम् इन्वति व्याप्नोति । धनसमृद्धिं प्राप्नोतीत्यर्थः । अतो हे इन्द्र वसूयवः धनकामा वयं यजमानाः वसुपतिं धनपालकं शतक्रतुं बहुकर्माणम् इन्द्र परमेश्वर ( इन्द्रं परमेश्वरं ) त्वां स्तोत्रैः हवामहे आह्वयामः ॥


क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी ।

तुरी॑यादित्य॒ हव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ॥७

क॒दा । च॒न । प्र । यु॒च्छ॒सि॒ । उ॒भे इति॑ । नि । पा॒सि॒ । जन्म॑नी॒ इति॑ ।

तुरी॑य । आ॒दि॒त्य॒ । हव॑नम् । ते॒ । इ॒न्द्रि॒यम् । आ । त॒स्थौ॒ । अ॒मृत॑म् । दि॒वि ॥७

कदा । चन । प्र । युच्छसि । उभे इति । नि। पासि । जन्मनी इति ।

तुरीय । आदित्य । हवनम् । ते। इन्द्रियम् । आ । तस्थौ । अमृतम्। दिवि ॥ ७ ॥

इदानीमृषिः सूर्यरूपेणेन्द्रं स्तौति । हे इन्द्र कदाचन कदापि त्वं प्र युच्छसि प्रमत्तो भवसि । नैव भवसीति कटाक्षः । अहोरात्रं जागरूक एवासीत्यर्थः । यतस्त्वमुमे जन्मनी । एकमदितेरिन्द्ररूपेण जन्म । द्वितीयं ब्रह्मविद्यातः जगदात्मरूपेणेति द्वे जनुषी । नि पासि नितरां पालयसि । न ह्यसावधानः प्रपञ्चं परमार्थं च उभयं कर्तुं शक्नुयात् कश्चिदिति भावः । हे तुरीय प्रत्यगात्मरूपेण अवस्थात्रयातीत हे आदित्य अदितिपुत्र इन्द्र ते तव स्वभूतमिन्द्रियमिन्द्रस्य तव लिङ्गं द्योतकं हवनम् । हूयतेऽस्मिन्निति हवनमादित्यमण्डलम् । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ' इति स्मृतेरादित्यमण्डलस्य होमाधिष्ठानत्वं प्रसिद्धम् । तादृशं मण्डलम् अमृतं मरणधर्मरहितं सत् दिवि द्युलोके आ तस्थौ आभिमुख्येनातिष्ठत् । यस्मात्त्वं जगदात्मासीत्यतस्त्वां हवामह इति पूर्वेणान्वयः ।।


यस्मै॒ त्वं म॑घवन्निन्द्र गिर्वण॒ः शिक्षो॒ शिक्ष॑सि दा॒शुषे॑ ।

अ॒स्माकं॒ गिर॑ उ॒त सु॑ष्टु॒तिं व॑सो कण्व॒वच्छृ॑णुधी॒ हव॑म् ॥८

यस्मै॑ । त्वम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । शिक्षो॒ इति॑ । शिक्ष॑सि । दा॒शुषे॑ ।

अ॒स्माक॑म् । गिरः॑ । उ॒त । सु॒ऽस्तु॒तिम् । व॒सो॒ इति॑ । क॒ण्व॒ऽवत् । शृ॒णु॒धि॒ । हव॑म् ॥८

यस्मै । त्वम् । मघवन् । इन्द्र । गिर्वणः । शिक्षो इति । शिक्षसि । दाशुषे ।

अस्माकम् । गिरः । उत। सुऽस्तुतिम् । वसो इति । कण्वऽवत् । शृणुधि । हवम् ॥ ८ ॥

हे मघवन् धनवन् हे गिर्वणः गीर्भिर्वननीय हे शिक्षो शिक्षकेन्द्र दाशुषे हविर्दत्तवते यस्मै यजमानाय शिक्षसि अपेक्षितं धनादि ददासि तत्संबन्धिनामस्माकं गिरः प्रार्थनावाचः शृणुधि शृणु । उतापि च हे वसो वासयितरिन्द्र सुष्टुतिं शोभनां स्तुतिं शृणुधि । किंच कण्ववत् यथा कण्वस्य हवमाह्वानमशृणोः एवमस्माकं हवं शृणु ।।


अस्ता॑वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेन्द्रा॑य वोचत ।

पू॒र्वीरृ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒धा अ॑सृक्षत ॥९

अस्ता॑वि । मन्म॑ । पू॒र्व्यम् । ब्रह्म॑ । इन्द्रा॑य । वो॒च॒त॒ ।

पू॒र्वीः । ऋ॒तस्य॑ । बृ॒ह॒तीः । अ॒नू॒ष॒त॒ । स्तो॒तुः । मे॒धाः । अ॒सृ॒क्ष॒त॒ ॥९

अस्तावि । मन्म । पूर्व्यम् । ब्रह्म । इन्द्राय । वोचत ।

पूर्वीः । ऋतस्य । बृहतीः । अनूषत । स्तोतुः। मेधाः । असक्षत ॥ ९॥

हे ऋत्विजः मन्म मननीयं पूर्व्यं पुरातनं यत् ब्रह्म स्तोत्रम् असावि(अस्तावि) स्तुतिविषयीकृतं भवद्भिस्तत् ब्रह्म स्तोत्रम् इन्द्राय परमेश्वराय तदर्थं वोचत ब्रूत । यतो भवन्तः ऋतस्य सत्यस्येन्द्रस्य संबन्धिनीः पूर्वीः बह्वीः बृहतीः महतीः । सामर्थ्यात् मूर्तीः इन्द्रस्य प्रचुरान् महतो गुणावतारानित्यर्थः । अनूषत स्तुतिविषयीकृतवन्तः । किंच स्तोतुर्मम आयोः मेधाः धोरणावतीः बुद्धीः असृक्षत सृष्टवन्तः । अतः प्रार्थये ब्रह्मेन्द्राय वोचतेति ॥


समिन्द्रो॒ रायो॑ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्य॑म् ।

सं शु॒क्रास॒ः शुच॑य॒ः सं गवा॑शिर॒ः सोमा॒ इन्द्र॑ममन्दिषुः ॥१०

सम् । इन्द्रः॑ । रायः॑ । बृ॒ह॒तीः । अ॒धू॒नु॒त॒ । सम् । क्षो॒णी इति॑ । सम् । ऊं॒ इति॑ । सूर्य॑म् ।

सम् । शु॒क्रासः॑ । शुच॑यः । सम् । गोऽआ॑शिरः । सोमाः॑ । इन्द्र॑म् । अ॒म॒न्दि॒षुः॒ ॥१०

सम् । इन्द्रः। रायः । बृहतीः । अधूनुत । सम् । क्षोणी इति । सम् । ॐ इति । सूर्यम् ।

सम् । शुक्रासः । शुच॑यः । सम् । गोऽआशिरः । सोमः । इन्द्रम् । अमन्दिषुः ॥१०॥ ॥२१॥

य इन्द्रः बृहतीः महान्ति रायः हिरण्यादिधनानि समधूनुत सम्यगकरोत् । यश्चेन्द्रः क्षोणी द्यावापृथिव्यौ समधूनुत सम्यक् रचयांचक्रे । क्षोणी इति द्यावापृथिव्योर्नामधेयम् । 'रोदसी क्षोणी अन्धसी' इति तन्नामसु पाठात् । किंच य इन्द्रः सूर्यं मङ्गलात्मानं समधूनुत समजनयत् । तमिन्द्रं शुक्रासः शुक्लाः दीप्ताः शुचयः पूताः आपः वसतीवर्येकधनलक्षणाः सममन्दिषुः सम्यगमादयन् । किंच गवाशिरः गोदुग्धं सोमाः तद्रसाश्च तमिन्द्रं सममन्दिषुः । इत्थं महानुभाव इन्द्रोऽसीति त्वदर्थं ब्रह्म वोचत इति पूर्वेण संबन्धः ॥ ॥ २१ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.५२&oldid=209000" इत्यस्माद् पुनः प्राप्तिः