ऋग्वेदः सूक्तं ८.८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.७ ऋग्वेदः - मण्डल ८
सूक्तं ८.८
सध्वंसः काण्वः
सूक्तं ८.९ →
दे. अश्विनौ । अनुष्टुप्


आ नो विश्वाभिरूतिभिरश्विना गच्छतं युवम् ।
दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु ॥१॥
आ नूनं यातमश्विना रथेन सूर्यत्वचा ।
भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥२॥
आ यातं नहुषस्पर्यान्तरिक्षात्सुवृक्तिभिः ।
पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥३॥
आ नो यातं दिवस्पर्यान्तरिक्षादधप्रिया ।
पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु ॥४॥
आ नो यातमुपश्रुत्यश्विना सोमपीतये ।
स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर्नरा ॥५॥
यच्चिद्धि वां पुर ऋषयो जुहूरेऽवसे नरा ।
आ यातमश्विना गतमुपेमां सुष्टुतिं मम ॥६॥
दिवश्चिद्रोचनादध्या नो गन्तं स्वर्विदा ।
धीभिर्वत्सप्रचेतसा स्तोमेभिर्हवनश्रुता ॥७॥
किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना ।
पुत्रः कण्वस्य वामृषिर्गीर्भिर्वत्सो अवीवृधत् ॥८॥
आ वां विप्र इहावसेऽह्वत्स्तोमेभिरश्विना ।
अरिप्रा वृत्रहन्तमा ता नो भूतं मयोभुवा ॥९॥
आ यद्वां योषणा रथमतिष्ठद्वाजिनीवसू ।
विश्वान्यश्विना युवं प्र धीतान्यगच्छतम् ॥१०॥
अतः सहस्रनिर्णिजा रथेना यातमश्विना ।
वत्सो वां मधुमद्वचोऽशंसीत्काव्यः कविः ॥११॥
पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् ।
स्तोमं मे अश्विनाविममभि वह्नी अनूषाताम् ॥१२॥
आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया ।
कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥१३॥
यन्नासत्या परावति यद्वा स्थो अध्यम्बरे ।
अतः सहस्रनिर्णिजा रथेना यातमश्विना ॥१४॥
यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत् ।
तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम् ॥१५॥
प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवम् ।
यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती ॥१६॥
आ नो गन्तं रिशादसेमं स्तोमं पुरुभुजा ।
कृतं नः सुश्रियो नरेमा दातमभिष्टये ॥१७॥
आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।
राजन्तावध्वराणामश्विना यामहूतिषु ॥१८॥
आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम् ।
यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत् ॥१९॥
याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम् ।
याभिर्गोशर्यमावतं ताभिर्नोऽवतं नरा ॥२०॥
याभिर्नरा त्रसदस्युमावतं कृत्व्ये धने ।
ताभिः ष्वस्माँ अश्विना प्रावतं वाजसातये ॥२१॥
प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्वश्विना ।
पुरुत्रा वृत्रहन्तमा ता नो भूतं पुरुस्पृहा ॥२२॥
त्रीणि पदान्यश्विनोराविः सान्ति गुहा परः ।
कवी ऋतस्य पत्मभिरर्वाग्जीवेभ्यस्परि ॥२३॥

सायणभाष्यम्

‘आ नो विश्वाभिः' इति त्रयोविंशत्यृचं तृतीयं सूक्तं सध्वंसाख्यस्य काण्वस्यार्षमानुष्टुभम्। एतदादीनि त्रीणि सूक्तान्यश्विदेवत्यानि । तथा चानुक्रान्तम्-’आ नस्त्र्यधिका सध्वंस आश्विनं ह्यानुष्टुभं तु ' इति । प्रातरनुवाक आश्विने क्रतावानुष्टुभे छन्दस्याश्विनशस्त्रे चैतत्सूक्तम् । सूत्र्यते हि- आ नो विश्वाभिस्त्यं चिदत्रिमित्यानुष्टुभम्' (आश्व. श्रौ. ४. १५) इति । अप्तोर्यामे प्रशास्तुरतिरिक्तोक्थेऽप्येतत् । सूत्रितं च-’आ नो विश्वाभिः प्रातर्यावाणा' (आश्व. श्रौ. ९. ११) इति । चतुर्थेऽहनि प्रउगशस्त्रे ‘आ नो विश्वाभिः' इत्याश्विनस्तृचः । सूत्रितं च-’आ नो विश्वाभिरूतिभिस्त्यमु वो अप्रहणम्' (आश्व. श्रौ. ७. ११) इति ।


आ नो॒ विश्वा॑भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वं ।

दस्रा॒ हिर॑ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ॥१

आ । नः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।

दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । पिब॑तम् । सो॒म्यम् । मधु॑ ॥१

आ । नः । विश्वाभिः । ऊतिऽभिः । अश्विना । गच्छतम् । युवम् ।

दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । पिबतम् । सोम्यम् । मधु ॥१

हे “अश्विना अश्विनौ अश्नुवानौ सर्वं जगद्व्याप्नुवन्तौ यद्वा अश्वैर्युक्तौ "युवं युवां “विश्वाभिः सर्वाभिर्व्याप्ताभिर्वा “ऊतिभिः रक्षाभिः दातव्याभिः सार्धं “नः अस्मान् “आ “गच्छतम् । आगत्य च हे "दस्रा दस्रौ दर्शनीयौ शत्रूणामुपक्षपयितारौ वा हे हिरण्यवर्तनी हिरण्मयरथौ हितरमणीयाचरणौ म ईदृशौ हे अश्विनौ “सोम्यं सोममयं “मधु “पिबतम् ॥


आ नू॒नं या॑तमश्विना॒ रथे॑न॒ सूर्य॑त्वचा ।

भुजी॒ हिर॑ण्यपेशसा॒ कवी॒ गंभी॑रचेतसा ॥२

आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । रथे॑न । सूर्य॑ऽत्वचा ।

भुजी॒ इति॑ । हिर॑ण्यऽपेशसा । कवी॒ इति॑ । गम्भी॑रऽचेतसा ॥२

आ । नूनम् । यातम् । अश्विना । रथेन । सूर्यऽत्वचा ।

भुजी इति । हिरण्यऽपेशसा । कवी इति । गम्भीरऽचेतसा ॥२

हे "भुजी हविषां भोक्तारौ यद्वा स्तोतृभिरन्नानां भोजयितारौ सर्वस्य जगतः पालकौ वा हे “हिरण्यपेशसा हिरण्मयालंकारौ हिरण्मयावयवौ वा हे “कवी क्रान्तदर्शिनौ स्तोतव्यौ वा हे “गम्भीरचेतसा प्रशस्तज्ञानौ ईदृशौ हे “अश्विना अश्विनौ सूर्यत्वचा सूर्यवद्भासमानेन “रथेन “नूनम् अवश्यमस्मान् “आ “यातम् आगच्छतम् ॥


आ या॑तं॒ नहु॑ष॒स्पर्यांतरि॑क्षात्सुवृ॒क्तिभिः॑ ।

पिबा॑थो अश्विना॒ मधु॒ कण्वा॑नां॒ सव॑ने सु॒तं ॥३

आ । या॒त॒म् । नहु॑षः । परि॑ । आ । अ॒न्तरि॑क्षात् । सु॒वृ॒क्तिऽभिः॑ ।

पिबा॑थः । अ॒श्वि॒ना॒ । मधु॑ । कण्वा॑नाम् । सव॑ने । सु॒तम् ॥३

आ । यातम् । नहुषः । परि । आ । अन्तरिक्षात् । सुवृक्तिऽभिः ।

पिबाथः । अश्विना । मधु । कण्वानाम् । सवने । सुतम् ॥३

हे अश्विनौ “नहुषस्परि। नहुष इति मनुष्यनाम। सामर्थ्याच्चात्र तत्संबद्धो लोको लक्ष्यते । मानुषात्तस्माल्लोकात् । परि पञ्चम्यर्थानुवादी। "सुवृक्तिभिः सुष्ठु दोषवर्जिताभिः सुप्रवृत्ताभिर्वा स्तुतिभिर्हेतुभूताभिः “आ “यातम् आगच्छतम् । तथा “अन्तरिक्षात् अन्तरा क्षान्तान्मध्यमाल्लोकादप्यागच्छतम् । आगत्य च “कण्वानां कण्वगोत्राणामस्माकं “सवने यज्ञे प्रातःसवनादौ “सुतम् अभिषुतं “मधु मधुरं सोमं हे अश्विनौ “पिबाथः पिबतम् ॥


आ नो॑ यातं दि॒वस्पर्यांतरि॑क्षादधप्रिया ।

पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ॥४

आ । नः॒ । या॒त॒म् । दि॒वः । परि॑ । आ । अ॒न्तरि॑क्षात् । अ॒ध॒ऽप्रि॒या॒ ।

पु॒त्रः । कण्व॑स्य । वा॒म् । इ॒ह । सु॒साव॑ । सो॒म्यम् । मधु॑ ॥४

आ । नः । यातम् । दिवः । परि । आ । अन्तरिक्षात् । अधऽप्रिया ।

पुत्रः । कण्वस्य । वाम् । इह । सुसाव । सोम्यम् । मधु ॥४

हे अश्विनौ “दिवस्परि दिवोऽधि द्युलोकात् “नः अस्मान् आ "यातम् आगच्छतम् । ‘पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् । हे “अधप्रिया अधोऽधस्तादस्मिँल्लोके विद्यमानेन सोमेन प्रीयमाणौ । यद्वा । कधप्रिया । छान्दसो वर्णलोपः । कथया स्तुत्या प्रीयमाणौ। हे ईदृशावश्विनौ “अन्तरिक्षात् अप्यागच्छतम् । “इह अस्मिन्यज्ञे “कण्वस्य ऋषेः “पुत्रः “सोम्यं सोममयं “मधु “वां युवाभ्यां युवयोरर्थं “सुषाव अभिषुणोति । अत आ यातमित्यन्वयः ।।


आ नो॑ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये ।

स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि॑र्नरा ॥५

आ । नः॒ । या॒त॒म् । उप॑ऽश्रुति । अश्वि॑ना । सोम॑ऽपीतये ।

स्वाहा॑ । स्तोम॑स्य । व॒र्ध॒ना॒ । प्र । क॒वी॒ इति॑ । धी॒तिऽभिः॑ । न॒रा॒ ॥५

आ । नः । यातम् । उपऽश्रुति । अश्विना । सोमऽपीतये ।

स्वाहा । स्तोमस्य । वर्धना । प्र । कवी इति । धीतिऽभिः । नरा ॥५

हे “अश्विना अश्विनौ “नः अस्माकम् “उपश्रुति । श्रूयत इति श्रुत् स्तुतिः । उपगता श्रुद्यस्मिन् तस्मिन् यज्ञे “सोमपीतये सोमपानाय “आ “यातम् आगच्छतम् । हे “वर्धना वर्धनौ “कवी क्रान्तदर्शिनावश्विनौ “स्वाहा स्वाहाकृतौ स्वाहाकारेण सम्यगिष्टौ सन्तौ । यद्वा । स्वाहेति वाङ्नाम । स्तुतिरूपया वाचा स्तुतौ वाचा “स्तोमस्य स्तोतुः प्रवर्धकौ भवतम् । तथा हे “नरा नेतारावश्विनौ “धीतिभिः कर्मभिः यष्टुश्च प्रवर्धकौ भवतम् । यद्वा। स्वाहेत्यादीन्यामन्त्रितानि । हे स्वाहा स्वाहाकृतौ स्तोमस्य स्तोत्रस्य स्तोतुर्वा हे प्रवर्धना प्रवर्धयितारौ हे कवी क्रान्तदर्शिनौ धीतिभिर्बुद्धिभिरात्मीयैः कर्मभिर्वा हे नरा सर्वेषां नेतारावश्विनौ सोमपानाय आ यातमित्येकमेव वाक्यम्। अस्मिन् पक्षे धीतिभिरित्यपराङ्गवत्त्वाभावश्छान्दसः। यद्वा । धीतिभिर्ध्यातव्याभिर्युष्मदीयाभिरूतिभिः सार्धम् आ यातमिति क्रियया संबन्धः ॥ ॥ २५ ॥


यच्चि॒द्धि वां॑ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा ।

आ या॑तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ॥६

यत् । चि॒त् । हि । वा॒म् । पु॒रा । ऋष॑यः । जु॒हू॒रे । अव॑से । न॒रा॒ ।

आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । उप॑ । इ॒माम् । सु॒ऽस्तु॒तिम् । मम॑ ॥६

यत् । चित् । हि । वाम् । पुरा । ऋषयः । जुहूरे । अवसे । नरा ।

आ । यातम् । अश्विना । आ । गतम् । उप । इमाम् । सुऽस्तुतिम् । मम ॥६

हे “नरा नेतारावश्विनौ "यच्चिद्धि यदा खलु "वां युवां “पुरा पूर्वस्मिन् काले “ऋषयः अतीन्द्रियार्थदर्शिनः स्तोतारः “अवसे रक्षणाय “जुहूरे जुहुविरे स्तुतिभिराह्वयन् । ह्वयतेर्लिटि ‘अभ्यस्तस्य च ' इति संप्रसारणम् । ‘हलः' इति दीर्घः । ‘इरयो रे' इति रेभावः । तदानीं हे अश्विनौ “आ “यातम् आगच्छतम् आगतवन्तौ स्थः । अतः “मम मदीयाम् “इमां “सुष्टुतिं शोभनां स्तुतिमपि “उप “आ “गतम् उपागच्छतम् ॥


दि॒वश्चि॑द्रोच॒नादध्या नो॑ गंतं स्वर्विदा ।

धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे॑भिर्हवनश्रुता ॥७

दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ । आ । नः॒ । ग॒न्त॒म् । स्वः॒ऽवि॒दा॒ ।

धी॒भिः । व॒त्स॒ऽप्र॒चे॒त॒सा॒ । स्तोमे॑भिः । ह॒व॒न॒ऽश्रु॒ता॒ ॥७

दिवः । चित् । रोचनात् । अधि । आ । नः । गन्तम् । स्वःऽविदा ।

धीभिः । वत्सऽप्रचेतसा । स्तोमेभिः । हवनऽश्रुता ॥७

हे “स्वर्विदा स्वः सूर्यस्य द्युलोकस्य वा लम्भयितारावश्विनौ “दिवश्चित् द्युलोकाच्च “रोचनादधि रोचमानादन्तरिक्षाच्च “नः अस्मान् "आ “गन्तम् आगच्छतम् । पूर्ववदधिः पञ्चम्यर्थानुवादकः । हे “वत्सप्रचेतसा वत्से स्तोतरि प्रकृष्टज्ञानौ । यद्वा । वत्सं निवासकं वेदितव्यं वा प्रकृष्टं चेतो ज्ञानं ययोस्तौ तथोक्तौ । तौ युवां “धीभिः आत्मीयाभिर्बुद्धिभिः सहागच्छतम् । हे “हवनश्रुता हवनस्यास्मदीयस्याह्वानस्य स्तोत्रस्य श्रोतारौ “स्तोमेभिः स्तोत्रैरस्मत्कृतैर्युज्यमानौ सन्तावागच्छतम् ।।


किम॒न्ये पर्या॑सते॒ऽस्मत्स्तोमे॑भिर॒श्विना॑ ।

पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो अ॑वीवृधत् ॥८

किम् । अ॒न्ये । परि॑ । आ॒स॒ते॒ । अ॒स्मत् । स्तोमे॑भिः । अ॒श्विना॑ ।

पु॒त्रः । कण्व॑स्य । वा॒म् । ऋषिः॑ । गीः॒ऽभिः । व॒त्सः । अ॒वी॒वृ॒ध॒त् ॥८

किम् । अन्ये । परि । आसते । अस्मत् । स्तोमेभिः । अश्विना ।

पुत्रः । कण्वस्य । वाम् । ऋषिः । गीःऽभिः । वत्सः । अवीवृधत् ॥८

“अस्मत् अस्मत्तः “अन्ये व्यतिरिक्ताः स्तोतारः “स्तोमेभिः स्तोत्रैः “अश्विना अश्विनौ देवौ “किं “पर्यासते । अस्मद्यतिरिक्ताः केऽप्यश्विनौ स्तोतुं न शक्नुवन्तीत्यर्थः । कण्वस्य ऋषेः “पुत्रः “ऋषिः मन्त्रद्रष्टा "वत्सः “गीर्भिः स्तुतिभिर्हे अश्विनौ “वां युवाम् अवीवृधत् अवर्धयत् ॥


आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्स्तोमे॑भिरश्विना ।

अरि॑प्रा॒ वृत्र॑हंतमा॒ ता नो॑ भूतं मयो॒भुवा॑ ॥९

आ । वा॒म् । विप्रः॑ । इ॒ह । अव॑से । अह्व॑त् । स्तोमे॑भिः । अ॒श्वि॒ना॒ ।

अरि॑प्रा । वृत्र॑हन्ऽतमा । ता । नः॒ । भू॒त॒म् । म॒यः॒ऽभुवा॑ ॥९

आ । वाम् । विप्रः । इह । अवसे । अह्वत् । स्तोमेभिः । अश्विना ।

अरिप्रा । वृत्रहन्ऽतमा । ता । नः । भूतम् । मयःऽभुवा ॥९

हे “अश्विना अश्विनौ “विप्रः मेधावी स्तोता “इह अस्मिन् यागे “अवसे रक्षणार्थं स्तोमेभिः स्तोत्रैः “वां युवाम् “आ "अह्वत् आहूतवान् । ह्वयतेर्लुङि ‘लिपिसिचिह्वश्च' इति च्लेरङादेशः । हे “अरिप्रा । रिप्रमिति पापनाम । अपापौ हे “वृत्रहन्तमा वृत्राणां शत्रूणां हन्तृतमौ “ता तौ तादृशौ युवां “नः अस्माकं “मयोभुवा सुखस्य भावयितारौ "भूतं भवतम् ॥


आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू ।

विश्वा॑न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतं ॥१०

आ । यत् । वा॒म् । योष॑णा । रथ॑म् । अति॑ष्ठत् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।

विश्वा॑नि । अ॒श्वि॒ना॒ । यु॒वम् । प्र । धी॒तानि॑ । अ॒ग॒च्छ॒त॒म् ॥१०

आ । यत् । वाम् । योषणा । रथम् । अतिष्ठत् । वाजिनीवसू इति वाजिनीऽवसू ।

विश्वानि । अश्विना । युवम् । प्र । धीतानि । अगच्छतम् ॥१०

हे “वाजिनीवसू । वाजिनी हविष्मती यागक्रिया । तस्यां विद्यमानस्वांशलक्षणधनावश्विनौ “योषणा योषित् सूर्या आजिधावनेन व्रियमाणा सती “वां युवयोः “रथं “यत् यादा “आ “अतिष्ठत् आस्थितवती आरूढवती तदा हे “अश्विना अश्विनौ “युवं युवां “धीतानि ध्यातान्यभिलषितानि “विश्वानि सर्वाणि प्रकर्षेण “अगच्छतं प्रापतम् ॥ ॥ २६ ॥


अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ।

व॒त्सो वां॒ मधु॑म॒द्वचोऽशं॑सीत्का॒व्यः क॒विः ॥११

अतः॑ । स॒हस्र॑ऽनिर्निजा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।

व॒त्सः । वा॒म् । मधु॑ऽमत् । वचः॑ । अशं॑सीत् । का॒व्यः । क॒विः ॥११

अतः । सहस्रऽनिर्निजा । रथेन । आ । यातम् । अश्विना ।

वत्सः । वाम् । मधुऽमत् । वचः । अशंसीत् । काव्यः । कविः ॥११

हे “अश्विना अश्विनौ येषु लोकेषु यत्र वर्तेथे “अतः अस्मात्स्थानात् “सहस्रनिर्णिजा । निर्णिगिति रूपनाम । स्वर्णमयतया बहुविधरूपयुक्तेन “रथेन “आ “यातम् आगच्छतम् । “काव्यः कवेः पुत्रः “कविः मेधावी "वत्सः ऋषिः “वां युवाभ्यां युवयोरर्थं “मधुमत् माधुर्योपेतं “वचः वचनमुक्थम् “अशंसीत् शंसितवान् । यत एवमत आगच्छतमित्यर्थः ॥


पु॒रु॒मं॒द्रा पु॑रू॒वसू॑ मनो॒तरा॑ रयी॒णां ।

स्तोमं॑ मे अ॒श्विना॑वि॒मम॒भि वह्नी॑ अनूषातां ॥१२

पु॒रु॒ऽम॒न्द्रा । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ । म॒नो॒तरा॑ । र॒यी॒णाम् ।

स्तोम॑म् । मे॒ । अ॒श्विनौ॑ । इ॒मम् । अ॒भि । वह्नी॒ इति॑ । अ॒नू॒षा॒ता॒म् ॥१२

पुरुऽमन्द्रा । पुरुवसू इति पुरुऽवसू । मनोतरा । रयीणाम् ।

स्तोमम् । मे । अश्विनौ । इमम् । अभि । वह्नी इति । अनूषाताम् ॥१२

“पुरुमन्द्रा बहुमदौ बहुभिः सोमैर्मादयितव्यौ वा “पुरूवसू बहुधनौ बहूनां निवासकौ वा “रयीणां धनानां “मनोतरा मन्तारौ दातारौ । मन्यतेस्तृचि पृषोदरादित्वाद्रूपसिद्धिः। नामन्यतरस्याम्' इति रैशब्दान्नाम उदात्तत्वम् । "वह्नी कृत्स्नस्य जगतो वोढारौ ईदृशौ “अश्विनौ “मे मम “इमं “स्तोमं स्तोत्रम् “अभि “अनूषातां सम्यक् स्तुतमिति प्राशंसिषाताम् ॥‘णु स्तुतौ'। यद्वा । नुवतिरत्र श्रवणार्थे वर्तते । अभिप्राप्तावश्रौष्टाम् ।।


आ नो॒ विश्वा॑न्यश्विना ध॒त्तं राधां॒स्यह्र॑या ।

कृ॒तं न॑ ऋ॒त्विया॑वतो॒ मा नो॑ रीरधतं नि॒दे ॥१३

आ । नः॒ । विश्वा॑नि । अ॒श्वि॒ना॒ । ध॒त्तम् । राधां॑सि । अह्र॑या ।

कृ॒तम् । नः॒ । ऋ॒त्विय॑ऽवतः । मा । नः॒ । री॒र॒ध॒त॒म् । नि॒दे ॥१३

आ । नः । विश्वानि । अश्विना । धत्तम् । राधांसि । अह्रया ।

कृतम् । नः । ऋत्वियऽवतः । मा । नः । रीरधतम् । निदे ॥१३

हे “अश्विना अश्विनौ “अह्रया अह्रयाणि अह्रीतिकरणान्यलज्जाहेतूनि प्रशस्तानि “विश्वानि सर्वाणि “राधांसि धनानि “नः अस्मभ्यम् “आ “धत्तं प्रयच्छतम् । अपि च “नः अस्मान् “ऋत्वियावतः । ऋतौ काले भवं प्रजोत्पादनरूपं कर्म ऋत्वियम् । तद्वतः कुरुतम् । तथा “निदे निन्दायै निन्दकाय वा “नः अस्मान् मा “रीरधतं मा वशं नैष्टम् ॥


यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अध्यंब॑रे ।

अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ॥१४

यत् । ना॒स॒त्या॒ । प॒रा॒ऽवति॑ । यत् । वा॒ । स्थः । अधि॑ । अम्ब॑रे ।

अतः॑ । स॒हस्र॑ऽनिर्निजा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥१४

यत् । नासत्या । पराऽवति । यत् । वा । स्थः । अधि । अम्बरे ।

अतः । सहस्रऽनिर्निजा । रथेन । आ । यातम् । अश्विना ॥१४

हे “नासत्या सत्यस्वभावौ सत्यस्य नेतारौ नासिकाप्रभवौ वाश्विनौ “यत् यदि “परावति दूरदेशे “स्थः । “यद्वा यदि च “अम्बरे। अन्तिनामैतत् । समीपे स्थः भवथः । अधिः सप्तम्यर्थानुवादी । “अतः अस्मात्सर्वस्मात् स्थानात् “सहस्रनिर्णिजा बहुविधरूपेण “रथेन हे अश्विनौ आगच्छतम् ॥


यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ।

तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुतं॑ ॥१५

यः । वा॒म् । ना॒स॒त्यौ॒ । ऋषिः॑ । गीः॒ऽभिः । व॒त्सः । अवी॑वृधत् ।

तस्मै॑ । स॒हस्र॑ऽनिर्निज॑म् । इष॑म् । ध॒त्त॒म् । घृ॒त॒ऽश्चुत॑म् ॥१५

यः । वाम् । नासत्यौ । ऋषिः । गीःऽभिः । वत्सः । अवीवृधत् ।

तस्मै । सहस्रऽनिर्निजम् । इषम् । धत्तम् । घृतऽश्चुतम् ॥१५

हे “नासत्यौ “यः वत्साख्यः “ऋषिः “वां युवां “गीर्भिः स्तुतिभिः “अवीवृधत् अवर्धयत् “तस्मै ऋषये "सहस्रनिर्णिजं बहुविधरूपं “घृतश्रुतं घृतं क्षरन्तीम् “इषम् अन्नं “धत्तं प्रयच्छतम् ॥ ॥ २७ ॥


प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वं ।

यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती ॥१६

प्र । अ॒स्मै॒ । ऊर्ज॑म् । घृ॒त॒ऽश्चुत॑म् । अश्वि॑ना । यच्छ॑तम् । यु॒वम् ।

यः । वा॒म् । सु॒म्नाय॑ । तु॒स्तव॑त् । व॒सु॒ऽयात् । दा॒नु॒नः॒ । प॒ती॒ इति॑ ॥१६

प्र । अस्मै । ऊर्जम् । घृतऽश्चुतम् । अश्विना । यच्छतम् । युवम् ।

यः । वाम् । सुम्नाय । तुस्तवत् । वसुऽयात् । दानुनः । पती इति ॥१६

हे “अश्विना अश्विनौ "अस्मै स्तोत्रे “घृतश्चुतं घृतधारया युक्ताम् “ऊर्जं बलकरमन्नरसं “युवं युवां “प्र “यच्छतं दत्तम् । हे “दानुनस्पती दानस्याधिपती “वां युवां "सुम्नाय सुखार्थं “यः "तुष्टवत् स्तुयात् । यश्च “वसूयात् वसु धनमात्मन इच्छेत् । अस्मा इत्यन्वयः ॥


आ नो॑ गंतं रिशादसे॒मं स्तोमं॑ पुरुभुजा ।

कृ॒तं नः॑ सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥१७

आ । नः॒ । ग॒न्त॒म् । रि॒शा॒द॒सा॒ । इ॒मम् । स्तोम॑म् । पु॒रु॒ऽभु॒जा॒ ।

कृ॒तम् । नः॒ । सु॒ऽश्रियः॑ । न॒रा॒ । इ॒मा । दा॒त॒म् । अ॒भिष्ट॑ये ॥१७

आ । नः । गन्तम् । रिशादसा । इमम् । स्तोमम् । पुरुऽभुजा ।

कृतम् । नः । सुऽश्रियः । नरा । इमा । दातम् । अभिष्टये ॥१७

हे "रिशादसा रिशतां हिंसतां निरसितारौ यद्वा रिशानां हिंसकानामत्तारौ भक्षयितारौ हे “पुरुभुजा बहुलस्य हविषो भोक्तारौ बहूनां पालकौ वा हे अश्विनौ "नः अस्माकम् “इमं “स्तोमं स्तोत्रम् “आ “गन्तम् अभिगच्छतम् । आगत्य च हे “नरा नेतारौ “नः अस्मान् “सुश्रियः सुश्रीकान् शोभनया संपदा युक्तान् “कृतं कुरुतम् । तदर्थम् “इमा इमानि पुरो वर्तमानानि पार्थिवानि “अभिष्टये अभिप्राप्तये “दातं दत्तम् । ददातेर्लोटि छान्दसः शपो लुक् ॥


आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत ।

राजं॑तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ॥१८

आ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽभिः॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।

राज॑न्तौ । अ॒ध्व॒राणा॑म् । अश्वि॑ना । याम॑ऽहूतिषु ॥१८

आ । वाम् । विश्वाभिः । ऊतिऽभिः । प्रियऽमेधाः । अहूषत ।

राजन्तौ । अध्वराणाम् । अश्विना । यामऽहूतिषु ॥१८

हे “अश्विना अश्विनौ “यामहूतिषु यामानां यातॄणां देवानां हूतिराह्वानं येषु यागेषु तेषु “प्रियमेधाः प्रिययज्ञा एतत्संज्ञा ऋषयः “अध्वराणां यज्ञानां “राजन्तौ ईश्वरौ । राजतिरैश्वर्यकर्मा । 'अश्विनौ हि देवानामध्वर्यू आस्ताम्' (तै. ब्रा. ३. २. २. १ ) इति हि ब्राह्मणम् । ईदृशौ “विश्वाभिः सर्वाभिः “ऊतिभिः रक्षाभिः सहितौ “वां युवाम् “आ "अहूषत आह्वयन अस्तुवन्नित्यर्थः ॥


आ नो॑ गंतं मयो॒भुवाश्वि॑ना शं॒भुवा॑ यु॒वं ।

यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ॥१९

आ । नः॒ । ग॒न्त॒म् । म॒यः॒ऽभुवा॑ । अश्वि॑ना । श॒म्ऽभुवा॑ । यु॒वम् ।

यः । वा॒म् । वि॒ऽप॒न्यू॒ इति॑ । धी॒तिऽभिः॑ । गीः॒ऽभिः । व॒त्सः । अवी॑वृधत् ॥१९

आ । नः । गन्तम् । मयःऽभुवा । अश्विना । शम्ऽभुवा । युवम् ।

यः । वाम् । विऽपन्यू इति । धीतिऽभिः । गीःऽभिः । वत्सः । अवीवृधत् ॥१९

हे “अश्विना अश्विनौ “मयोभुवा मयसः सुखस्य भावयितारौ “शंभुवा रोगाणां शमस्य भावयितारौ “युवं युवां “नः अस्मान् “आ “गन्तम् आगच्छतम्। हे "विपन्यू स्तुत्यावश्विनौ "यः “वत्सः स्तोता “वां युवां “धीतिभिः कर्मभिः परिचरणैः “गीर्भिः स्तुतिभिश्च अवीवृधत् अवर्धयत् तानस्मानिति पूर्वत्रान्वयः ॥


याभिः॒ कण्वं॒ मेधा॑तिथिं॒ याभि॒र्वशं॒ दश॑व्रजं ।

याभि॒र्गोश॑र्य॒माव॑तं॒ ताभि॑र्नोऽवतं नरा ॥२०

याभिः॑ । कण्व॑म् । मेध॑ऽअतिथिम् । याभिः॑ । वश॑म् । दश॑ऽव्रजम् ।

याभिः॑ । गोऽश॑र्यम् । आव॑तम् । ताभिः॑ । नः॒ । अ॒व॒त॒म् । न॒रा॒ ॥२०

याभिः । कण्वम् । मेधऽअतिथिम् । याभिः । वशम् । दशऽव्रजम् ।

याभिः । गोऽशर्यम् । आवतम् । ताभिः । नः । अवतम् । नरा ॥२०

हे अश्विनौ “याभिः ऊतिभिः “कण्वम् ऋषिं “मेधातिथिं च “आवतम् अरक्षतम् । “याभिः च “वशम् एतत्संज्ञं चावतम् । “याभिः च गोशर्यम् । शीर्णा गौर्यस्य स गोशर्यः शयुः । तथा चाम्नातं-- शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम्' (ऋ. सं. १. ११६. २२) इति । ईदृशं गोशर्यं शयुमावतमरक्षतम् । हे “नरा नेतारौ “ताभिः ऊतिभिः “नः अस्मान् “अवतं रक्षतम् ॥ ॥ २८ ॥


याभि॑र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने॑ ।

ताभिः॒ ष्व१॒॑स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ॥२१

याभिः॑ । न॒रा॒ । त्र॒सद॑स्युम् । आव॑तम् । कृत्व्ये॑ । धने॑ ।

ताभिः॑ । सु । अ॒स्मान् । अ॒श्वि॒ना॒ । प्र । अ॒व॒त॒म् । वाज॑ऽसातये ॥२१

याभिः । नरा । त्रसदस्युम् । आवतम् । कृत्व्ये । धने ।

ताभिः । सु । अस्मान् । अश्विना । प्र । अवतम् । वाजऽसातये ॥२१

हे “नरा नेतारावश्विनौ “धने “कृत्व्ये कर्तव्ये प्राप्तव्ये सति “त्रसदस्युम् एतत्संज्ञं पुरुकुत्सपुत्रमृषिं “याभिः ऊतिभिः “आवतम् अरक्षतं हे अश्विनौ “ताभिः ऊतिभिः “सु सुष्ठु "अस्मान् “प्रावतं प्ररक्षतम्। किमर्थम् । “वाजसातये वाजस्यान्नस्य बलस्य वा सातये संभजनार्थम् ॥


प्र वां॒ स्तोमाः॑ सुवृ॒क्तयो॒ गिरो॑ वर्धंत्वश्विना ।

पुरु॑त्रा॒ वृत्र॑हंतमा॒ ता नो॑ भूतं पुरु॒स्पृहा॑ ॥२२

प्र । वा॒म् । स्तोमाः॑ । सु॒ऽवृ॒क्तयः॑ । गिरः॑ । व॒र्ध॒न्तु॒ । अ॒श्वि॒ना॒ ।

पुरु॑ऽत्रा । वृत्र॑हन्ऽतमा । ता । नः॒ । भू॒त॒म् । पु॒रु॒ऽस्पृहा॑ ॥२२

प्र । वाम् । स्तोमाः । सुऽवृक्तयः । गिरः । वर्धन्तु । अश्विना ।

पुरुऽत्रा । वृत्रहन्ऽतमा । ता । नः । भूतम् । पुरुऽस्पृहा ॥२२

हे अश्विनौ "स्तोमाः प्रगीतमन्त्ररूपाः स्तुतयः “सुवृक्तयः सुप्रवृत्ताः सुष्ठु दोषवर्जिता वा गिरः शस्त्ररूपा वाचश्च “वां युवां “प्र “वर्धन्तु प्रवर्धयन्तु । अपि च हे “पुरुत्रा बहूनां त्रातारौ हे “वृत्रहन्तमा वृत्राणां शत्रूणां हन्तृतमौ ईदृशौ हे अश्विनौ "ता तौ युवां “नः अस्माकं “पुरुस्पृहा पुरु बहुलं स्पृहणीयावीप्सितव्यौ "भूतं भवतम् ॥


त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सांति॒ गुहा॑ प॒रः ।

क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ॥२३

त्रीणि॑ । प॒दानि॑ । अ॒श्विनोः॑ । आ॒विः । सन्ति॑ । गुहा॑ । प॒रः ।

क॒वी इति॑ । ऋ॒तस्य॑ । पत्म॑ऽभिः । अ॒र्वाक् । जी॒वेभ्यः॑ । परि॑ ॥२३

त्रीणि । पदानि । अश्विनोः । आविः । सन्ति । गुहा । परः ।

कवी इति । ऋतस्य । पत्मऽभिः । अर्वाक् । जीवेभ्यः । परि ॥२३

“त्रीणि त्रिसंख्याकानि अनयोः “अश्विनोः देवयो रथस्य संबन्धीनि “पदानि चक्राणि “गुहा गुहायां वर्तमानान्येतावन्तं कालमदृश्यमानानि “परः गुहायाः परस्ताद्दृष्टिगोचरे देशे “आविः “सन्ति आविर्भवन्ति ॥ सांहितिकश्छन्दसो दीर्घः। व्यत्ययेन निघाताभावः । यद्वा । सन्तीत्येतत् अस्तेः शतरि जसि रूपम् ।। आविर्भूतानि दृश्यन्ते । आश्विनस्य रथस्य चक्रत्रयोपेतत्वं च रथस्त्रिचक्रः परि वर्तते ' (ऋ. सं. ४. ३६. १ ) इत्यादिनिगमान्तरे प्रसिद्धम् । “कवी क्रान्तदर्शिनावश्विनौ “ऋतस्य सत्यस्योदकस्य यज्ञस्य वा हेतुभूतैः “पत्मभिः यैः पदैः "जीवेभ्यस्परि। परिरुपर्यर्थः । ‘पञ्चम्याः परावध्यर्थे ' इति सत्वम् । जीवानामुपरि जीवेष्वस्मासु “अर्वाक् अभिमुखम् । आगच्छतमिति शेषः । तानि पदानीदानीमुपलभ्यन्त इत्यन्वयः ॥ ॥ २९ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.८&oldid=208919" इत्यस्माद् पुनः प्राप्तिः