ऋग्वेदः सूक्तं ८.९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ८.९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ८.८ ऋग्वेदः - मण्डल ८
सूक्तं ८.९
शशकर्णः काण्वः।
सूक्तं ८.१० →
दे. अश्विनौ। अनुष्टुप्, १,४,६,१४-१५ बृहती, २,३,२०,२१ गायत्री, ५ ककुप्, १० त्रिष्टुप्, ११ विराट्, १२ जगती।


आ नूनमश्विना युवं वत्सस्य गन्तमवसे ।
प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः ॥१॥
यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषाँ अनु ।
नृम्णं तद्धत्तमश्विना ॥२॥
ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।
एवेत्काण्वस्य बोधतम् ॥३॥
अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।
अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥४॥
यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् ।
तेन माविष्टमश्विना ॥५॥
यन्नासत्या भुरण्यथो यद्वा देव भिषज्यथः ।
अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥६॥
आ नूनमश्विनोरृषि स्तोमं चिकेत वामया ।
आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥७॥
आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।
आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥८॥
यदद्य वां नासत्योक्थैराचुच्युवीमहि ।
यद्वा वाणीभिरश्विनेवेत्काण्वस्य बोधतम् ॥९॥
यद्वां कक्षीवाँ उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव ।
पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥१०॥
यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा ।
वर्तिस्तोकाय तनयाय यातम् ॥११॥
यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।
यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥१२॥
यदद्याश्विनावहं हुवेय वाजसातये ।
यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ॥१३॥
आ नूनं यातमश्विनेमा हव्यानि वां हिता ।
इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥१४॥
यन्नासत्या पराके अर्वाके अस्ति भेषजम् ।
तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥१५॥
अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः ।
व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥१६॥
प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।
प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत् ॥१७॥
यदुषो यासि भानुना सं सूर्येण रोचसे ।
आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥१८॥
यदापीतासो अंशवो गावो न दुह्र ऊधभिः ।
यद्वा वाणीरनूषत प्र देवयन्तो अश्विना ॥१९॥
प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।
प्र दक्षाय प्रचेतसा ॥२०॥
यन्नूनं धीभिरश्विना पितुर्योना निषीदथः ।
यद्वा सुम्नेभिरुक्थ्या ॥२१॥

सायणभाष्यम्

‘आ नूनम्' इत्येकविंशत्यृचं चतुर्थं सूक्तं शशकर्णस्यार्षमश्विदेवत्यम् । विंश्येकविंश्यौ द्वितीयातृतीये चेति चतस्रो गायत्र्यः प्रथमा चतुर्थी षष्टी चतुर्दशी पञ्चदशी चेति पञ्च बृहत्यः पञ्चमी ककुप् ‘मध्यमश्चेत्कुप्' (अनु. ५. ३) इत्युक्तलक्षणसद्भावात् । दशमी त्रिष्टुबेकादशी विराड्द्वादशी जगती शिष्टा अनुष्टुभः । तथा चानुक्रान्तम् -‘आ नूनं सैका शशकर्णोऽन्त्ये गायत्र्यावुपाद्ये चाद्या चतुर्थी षष्टी चतुर्दश्याद्ये च बृहत्यः पञ्चमी ककुब्दशम्याद्यास्त्रिष्टुब्विराड्जगत्यः' इति । अप्तोर्यामे ब्राह्मणाच्छंसिनोऽतिरिक्तोक्थ इदं सूक्तम् । सूत्र्यते हि - ’आ नूनमश्विना तं वां रथम्' (आश्व. श्रौ. ९. ११ ) इति ॥


आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गंत॒मव॑से ।

प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ॥१

आ । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वम् । व॒त्सस्य॑ । ग॒न्त॒म् । अव॑से ।

प्र । अ॒स्मै॒ । य॒च्छ॒त॒म् । अ॒वृ॒कम् । पृ॒थु । छ॒र्दिः । यु॒यु॒तम् । याः । अरा॑तयः ॥१

आ । नूनम् । अश्विना । युवम् । वत्सस्य । गन्तम् । अवसे ।

प्र । अस्मै । यच्छतम् । अवृकम् । पृथु । छर्दिः । युयुतम् । याः । अरातयः ॥१

हे “अश्विना अश्विनौ “युवं युवां “वत्सस्य स्तोतुर्मम “अवसे रक्षणार्थं “नूनम् अवश्यम् “आ “गन्तम् आगच्छतम् । आगत्य च “अस्मै ऋषये “अवृकं बाधकरहितं “पृथु विस्तीर्णं “छर्दिः गृहं “प्र “यच्छतं प्रदत्तम् । तथा "याः “अरातयः अदानशीलाः शत्रुभूताः प्रजास्ताः "युयुतं स्तोतृभ्यः पृथक्कुरुतम् ॥


यदं॒तरि॑क्षे॒ यद्दि॒वि यत्पंच॒ मानु॑षाँ॒ अनु॑ ।

नृ॒म्णं तद्ध॑त्तमश्विना ॥२

यत् । अ॒न्तरि॑क्षे । यत् । दि॒वि । यत् । पञ्च॑ । मानु॑षान् । अनु॑ ।

नृ॒म्णम् । तत् । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥२

यत् । अन्तरिक्षे । यत् । दिवि । यत् । पञ्च । मानुषान् । अनु ।

नृम्णम् । तत् । धत्तम् । अश्विना ॥२

“अन्तरिक्षे गन्धर्वादिभिः सेविते मध्यमे लोके “यत् "नृम्णं धनमस्ति । “दिवि द्युलोके व “यत् अस्ति । “पञ्च पञ्चसंख्याकान् “मानुषान् मनुष्यान् “अनु । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । ‘कर्मप्रवचनीययुक्ते' इति द्वितीया । पञ्चविधा मनुष्या निषादपञ्चमाश्चत्वारो वणों यत्र वर्तन्ते तत्र चेह लोके “यत् नृम्णं धनमस्ति । हे अश्विनौ “तत् त्रिविधं नृम्णं धनं “धत्तम् अस्मभ्यं प्रयच्छतम् ॥


ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः ।

ए॒वेत्का॒ण्वस्य॑ बोधतं ॥३

ये । वा॒म् । दंसां॑सि । अ॒श्वि॒ना॒ । विप्रा॑सः । प॒रि॒ऽम॒मृ॒शुः ।

ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥३

ये । वाम् । दंसांसि । अश्विना । विप्रासः । परिऽममृशुः ।

एव । इत् । काण्वस्य । बोधतम् ॥३

हे अश्विनौ “वां युवयोः संबन्धीनि "दंसांसि कर्माणि परिचरणात्मकानि “ये “विप्रासः विप्रा मेधाविनो यजमानाः परिमामृशुः परिमृशन्ति पुनःपुनः स्पृशन्ति । अनुतिष्ठन्तीत्यर्थः । यथा तदीयानि परिचरणानि युवा जानीथः “एवेत् एवमेव काण्वस्य कृण्वपुत्रस्य मम परिचरणं "बोधतम् अगच्छतम् ।।


अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते ।

अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः ॥४

अ॒यम् । वा॒म् । घ॒र्मः । अ॒श्वि॒ना॒ । स्तोमे॑न । परि॑ । सि॒च्य॒ते॒ ।

अ॒यम् । सोमः॑ । मधु॑ऽमान् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । येन॑ । वृ॒त्रम् । चिके॑तथः ॥४

अयम् । वाम् । घर्मः । अश्विना । स्तोमेन । परि । सिच्यते ।

अयम् । सोमः । मधुऽमान् । वाजिनीवसू इति वाजिनीऽवसू । येन । वृत्रम् । चिकेतथः ॥४

हे अश्विनौ “वां युवयोः संबन्धी “अयं “घर्मः प्रवर्ग्यं “स्तोमेन स्तोत्रेण ऋक्सामरूपेण “परि “षिच्यते आर्द्रीक्रियते । यथा युवयोस्तृप्तिकरो भवति तथा क्रियत इत्यर्थः । यद्वा । घर्मस्य हविष आधारभूतो महावीरो घर्मः । स स्तोमेन स्तोतव्येन पयसा परि षिच्यते आसिच्यते वां युवयोरर्थम् । अपि च हे “वाजिनीवसू अन्नवद्धनौ “अयं “सोमः तार्तीयसवनिको “मधुमान् माधुर्यवान् युवाभ्यां दीयते । “येन युवां “वृत्रम् आवरकं शत्रुं “चिकेतथः हन्तव्यतया जानीथः । अयं घर्मः सोमश्चेत्युभयत्रान्वयः ।।


यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तं ।

तेन॑ माविष्टमश्विना ॥५

यत् । अ॒प्ऽसु । यत् । वन॒स्पतौ॑ । यत् । ओष॑धीषु । पु॒रु॒ऽदं॒स॒सा॒ । कृ॒तम् ।

तेन॑ । मा॒ । अ॒वि॒ष्ट॒म् । अ॒श्वि॒ना॒ ॥५

यत् । अप्ऽसु । यत् । वनस्पतौ । यत् । ओषधीषु । पुरुऽदंससा । कृतम् ।

तेन । मा । अविष्टम् । अश्विना ॥५

हे “पुरुदंससा बहुकर्माणावश्विनौ “अप्सु उदकेषु “यत् भेषजं “कृतं युवामकार्ष्टम् । करोतेलुङि “मन्त्रे घस' इत्यादिना च्लेर्लुक् । तथा “वनस्पतौ । वनानां पतिर्वनस्पतिः । पारस्करादित्वात् सुट् ।' उभे वनस्पत्यादिषु' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । जातौ चेदमेकवचनम् । वनस्पतिषु वृक्षेषु “यत् च भेषजं युवामकुरुतम्। “ओषधीषु । ओषः पाक आसु धीयते इत्योषधयो व्रीह्यादयः ॥ ‘कर्मण्यधिकरणे च ' इति दधातेरधिकरणे किप्रत्ययः। दासीभारादिषु पठितत्वात् पूर्वपदप्रकृतिस्वरत्वम् । ‘ओषधेश्च विभक्तावप्रथमायाम् ' (पा. सू. ६. ३. १३२) इति दीर्घः॥ व्रीह्यादिष्वोषधीषु च “यत् भेषजं कृतं युवामकार्ष्टम् । हे “अश्विना अश्विनौ "तेन सर्वेण भेषजेन “मा माम् “अविष्टं रक्षतम् । अवतेर्लोटि “ सिब्बहुलम्' इति बहुलग्रहणात् सिप् । तत इट् ॥ ॥३०॥


यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथः॑ ।

अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न विं॑धते ह॒विष्मं॑तं॒ हि गच्छ॑थः ॥६

यत् । ना॒स॒त्या॒ । भु॒र॒ण्यथः॑ । यत् । वा॒ । दे॒वा॒ । भि॒ष॒ज्यथः॑ ।

अ॒यम् । वा॒म् । व॒त्सः । म॒तिऽभिः॑ । न । वि॒न्ध॒ते॒ । ह॒विष्म॑न्तम् । हि । गच्छ॑थः ॥६

यत् । नासत्या । भुरण्यथः । यत् । वा । देवा । भिषज्यथः ।

अयम् । वाम् । वत्सः । मतिऽभिः । न । विन्धते । हविष्मन्तम् । हि । गच्छथः ॥६

हे “नासत्या सत्यस्वभावावश्विनौ “यत् यौ युवां “भुरण्यथः सर्वं जगत्पोषयथः। ‘भुरण् धारणपोषणयोः' । कण्ड्वादिः । हे “देवा दानादिगुणयुक्तावश्विनौ । छान्दसः सांहितिको ह्रस्वः । "यद्वा यौ च युवां “भिषज्यथः सर्वस्य प्राणिजातस्य भैषज्यं रोगोपशमनं कुरुथः । ‘भिषज् चिकित्सायाम् । अयमपि कण्ड्वादिः । तौ “वां युवाम् “अयं वत्सः स्तोता “मतिभिः मननीयैः केवलैः स्तोत्रैः “न “विन्धते न विन्दते न लभते । वर्णविकारश्छान्दसः। कुत इति चेत् उच्यते । "हविष्मन्तं हविर्भिर्युक्तं स्तोतारं “हि युवां “गच्छथः । तस्माद्युवां हविर्भिर्युक्तैः स्तोत्रैः प्रसीदथ इति भावः ॥


प्रवर्ग्ये महावीरे गोपयस्यासिच्यमाने ‘आ नूनम्' इत्येषानुवक्तव्या। सूत्र्यते हि -- आ नूनमश्विनोर्ऋषिरिति गव्य आ सुते सिञ्चत श्रियमित्याजे' (आश्व. श्रौ. ४. ७) इति ॥

आ नू॒नम॒श्विनो॒र्ऋषिः॒ स्तोमं॑ चिकेत वा॒मया॑ ।

आ सोमं॒ मधु॑मत्तमं घ॒र्मं सिं॑चा॒दथ॑र्वणि ॥७

आ । नू॒नम् । अ॒श्विनोः॑ । ऋषिः॑ । स्तोम॑म् । चि॒के॒त॒ । वा॒मया॑ ।

आ । सोम॑म् । मधु॑मत्ऽतमम् । घ॒र्मम् । सि॒ञ्चा॒त् । अथ॑र्वणि ॥७

आ । नूनम् । अश्विनोः । ऋषिः । स्तोमम् । चिकेत । वामया ।

आ । सोमम् । मधुमत्ऽतमम् । घर्मम् । सिञ्चात् । अथर्वणि ॥७

हे अश्विनौ यदा युवामागच्छेयाथां तदानीं युवयोः “अश्विनोः “स्तोमं स्तोत्रम् “ऋषिः मन्त्रद्रष्टा “वामया वननीययोत्कृष्टया बुद्ध्या “नूनम् अवश्यम् “आ “चिकेत अभिजानीयात् । कित ज्ञाने'। छान्दसो लिट् । तथा “मधुमत्तमम् अतिशयेन मधुरं “सोमं “घर्मं प्रवर्ग्यसंबन्धि घर्माख्यं हविश्व “अथर्वणि अहिंसके अग्नौ । यद्वा । अथर्वा ऋषिः । तेन निर्मथितोऽग्निः उपचारादथर्वेत्युच्यते । अथर्वणा निर्मथनं च त्वामग्ने पुष्करादधि' (ऋ. सं. ६. १६. १३) इत्यादिनिगमान्तरेऽवगम्यते । तस्मिन्नग्नौ "आ "सिञ्चात् आसिञ्चेत् प्रक्षिपेत् । अतः शीघ्रमागच्छतमित्यर्थः ।।


आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना ।

आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ॥८

आ । नू॒नम् । र॒घुऽव॑र्तनिम् । रथ॑म् । ति॒ष्ठा॒थः॒ । अ॒श्वि॒ना॒ ।

आ । वा॒म् । स्तोमाः॑ । इ॒मे । मम॑ । नभः॑ । न । चु॒च्य॒वी॒र॒त॒ ॥८

आ । नूनम् । रघुऽवर्तनिम् । रथम् । तिष्ठाथः । अश्विना ।

आ । वाम् । स्तोमाः । इमे । मम । नभः । न । चुच्यवीरत ॥८

हे अश्विनौ “रघुवर्तनिं लघुवर्तनं शीघ्रगमनं “रथं "नूनम् अवश्यमिदानीमेव “आ “तिष्ठाथः आतिष्ठतम् अधिरोहतम् । वालमूललघ्वलम्' इति लघोर्लकारस्य रेफः । "मम मदीयाः “इमे “स्तोमाः स्तोत्राणि “नभो “न सूर्यमिव तेजस्विनौ “वां युवाम् “आ “चुच्यवीरत आच्यवन्ते अभिगच्छन्ति । यद्वा । च्यवतिरत्र अन्तर्भावितण्यर्थः । आच्यावयन्ति युवामभिप्रापयन्ति ।।


यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑ ।

यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतं ॥९

यत् । अ॒द्य । वा॒म् । ना॒स॒त्या॒ । उ॒क्थैः । आ॒ऽचु॒च्यु॒वी॒महि॑ ।

यत् । वा॒ । वाणी॑भिः । अ॒श्वि॒ना॒ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥९

यत् । अद्य । वाम् । नासत्या । उक्थैः । आऽचुच्युवीमहि ।

यत् । वा । वाणीभिः । अश्विना । एव । इत् । काण्वस्य । बोधतम् ॥९

हे नासत्यौ “अद्य इदानीम् “उक्थैः शस्त्रैः “यत् यथा येन प्रकारेण “वां युवाम् “आचुच्युवीमहि आगमयेम हे अश्विनौ "यद्वा यथा “वाणीभिः उक्थव्यतिरिक्ताभिरपि वाग्भिः स्तुतिभिः युवामागमयेम “एवेत् एवमेव तथैव “काण्वस्य मम तदुक्थादिकं “बोधतम् अवगच्छतम् ॥


यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑ ।

पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथां ॥१०

यत् । वा॒म् । क॒क्षीवा॑न् । उ॒त । यत् । विऽअ॑श्वः । ऋषिः॑ । यत् । वा॒म् । दी॒र्घऽत॑माः । जु॒हाव॑ ।

पृथी॑ । यत् । वा॒म् । वै॒न्यः । सद॑नेषु । ए॒व । इत् । अतः॑ । अ॒श्वि॒ना॒ । चे॒त॒ये॒था॒म् ॥१०

यत् । वाम् । कक्षीवान् । उत । यत् । विऽअश्वः । ऋषिः । यत् । वाम् । दीर्घऽतमाः । जुहाव ।

पृथी । यत् । वाम् । वैन्यः । सदनेषु । एव । इत् । अतः । अश्विना । चेतयेथाम् ॥१०

हे अश्विनौ “वां युवां "कक्षीवान् “ऋषिः “यत् यथा “जुहाव तुष्टाव। “उत अपि च “व्यश्वः तत्संज्ञः ऋषिश्च “यत् यथा जुहाव । “यत् यथा च "वां युवां “दीर्घतमाः ऋषिर्जुहाव । “सदनेषु यज्ञगृहे “वैन्यः वेनस्य पुत्रः “पृथी एतत्संज्ञो राजर्षिः “वां युवां “यत् यथा जुहाव तुष्टाव । “एवेत् एवमेव स्तुवतो मम “अतः इदं स्तोत्रम् । इदंशब्दात् द्वितीयार्थे तसिः । हे अश्विनौ “चेतयेथां जानीतम् ॥ ॥ ३१ ॥ ।


या॒तं छ॑र्दि॒ष्पा उ॒त नः॑ पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा ।

व॒र्तिस्तो॒काय॒ तन॑याय यातं ॥११

या॒तम् । छ॒र्दिः॒ऽपौ । उ॒त । नः॒ । प॒रः॒ऽपा । भू॒तम् । ज॒ग॒त्ऽपौ । उ॒त । नः॒ । त॒नू॒ऽपा ।

व॒र्तिः । तो॒काय॑ । तन॑याय । या॒त॒म् ॥११

यातम् । छर्दिःऽपौ । उत । नः । परःऽपा । भूतम् । जगत्ऽपौ । उत । नः । तनूऽपा ।

वर्तिः । तोकाय । तनयाय । यातम् ॥११

हे अश्विनौ “छर्दिष्पौ । छर्दिरिति गृहनाम । तस्यास्मदीयस्य पालको सन्तौ युवां "यातम् आगच्छतम् । "उत अपि च “नः अस्माकं “परस्पा परमतिशयेन पालकौ “भूतं भवतम् । पारस्करादित्वात्सुट् । तथा “जगत्पौ सर्वस्य जगतो जङ्गमस्य प्राणिजातस्यास्मदीयस्य पालकौ भवतम् । “उत अपि च “नः अस्माकं “तनूपा तनूनां शरीराणां तनयानां वा पालकौ भवतम् । एतत्सर्वार्थं “तोकाय तोकस्य पुत्रस्य “तनयाय तनयस्य पौत्रस्य चास्मदीयस्य “वर्तिः गृहं यातं गच्छतम् ॥


यदिंद्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थः॒ समो॑कसा ।

यदा॑दि॒त्येभि॑र्ऋ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥१२

यत् । इन्द्रे॑ण । स॒ऽरथ॑म् । या॒थः । अ॒श्वि॒ना॒ । यत् । वा॒ । वा॒युना॑ । भव॑थः । सम्ऽओ॑कसा ।

यत् । आ॒दि॒त्येभिः॑ । ऋ॒भुऽभिः॑ । स॒ऽजोष॑सा । यत् । वा॒ । विष्णोः॑ । वि॒ऽक्रम॑णेषु । तिष्ठ॑थः ॥१२

यत् । इन्द्रेण । सऽरथम् । याथः । अश्विना । यत् । वा । वायुना । भवथः । सम्ऽओकसा ।

यत् । आदित्येभिः । ऋभुऽभिः । सऽजोषसा । यत् । वा । विष्णोः । विऽक्रमणेषु । तिष्ठथः ॥१२

हे अश्विनौ “इन्द्रेण सह "सरथं समानमेकं रथमास्थाय “यत् यदि "याथः गच्छथः । “यद्वा यदि वा "वायुना सह "समोकसा समाननिवासौ “भवथः । “यत् यदि वा "आदित्येभिः अदितिपुत्रैर्मित्रादिभिः “ऋभुभिः च “सजोषसा सह प्रीयमाणौ वर्तेथे । यद्वा यदि वा “विष्णोर्विक्रमणेषु विष्णुना देवेन विक्रान्तेषु त्रिषु लोकेषु "तिष्ठथः । अतः सर्वस्मादपि स्थानादागच्छतमिति शेषः ॥


यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये ।

यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ॥१३

यत् । अ॒द्य । अ॒श्विनौ॑ । अ॒हम् । हु॒वेय॑ । वाज॑ऽसातये ।

यत् । पृ॒त्ऽसु । तु॒र्वणे॑ । सहः॑ । तत् । श्रेष्ठ॑म् । अ॒श्विनोः॑ । अवः॑ ॥१३

यत् । अद्य । अश्विनौ । अहम् । हुवेय । वाजऽसातये ।

यत् । पृत्ऽसु । तुर्वणे । सहः । तत् । श्रेष्ठम् । अश्विनोः । अवः ॥१३

“यत् यदा "अहम् “अश्विनौ “वाजसातये संग्रामार्थं “हुवेय आह्वयेय “अद्य इदानीं तावागच्छतमिति शेषः । “पृत्सु पृतनासु संग्रामेषु “तुर्वणे शत्रूणां हिंसने “यत् “सहः शत्रूणामभिभवितृ रक्षणम् “अश्विनोः “तत् “अवः रक्षणं "श्रेष्ठं प्रशस्यतमम् । अतस्तावाह्वयामीति भावः ॥


आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता ।

इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥१४

आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । इ॒मा । ह॒व्यानि॑ । वा॒म् । हि॒ता ।

इ॒मे । सोमा॑सः । अधि॑ । तु॒र्वशे॑ । यदौ॑ । इ॒मे । कण्वे॑षु । वा॒म् । अथ॑ ॥१४

आ । नूनम् । यातम् । अश्विना । इमा । हव्यानि । वाम् । हिता ।

इमे । सोमासः । अधि । तुर्वशे । यदौ । इमे । कण्वेषु । वाम् । अथ ॥१४

हे अश्विनौ “नूनम् अवश्यम् “आ "यातम् आगच्छतम् । “इमा इमानि पुरोवर्तीनि “हव्यानि हवींषि “वां युवाभ्यां “हिता हितानि । यद्वा । युवयोरर्थं विहितानि कृतानि । "इमे च “सोमासः सोमाः “तुर्वशे “यदौ च वर्तमानाः। वां युवाभ्यां युवयोरर्थे संस्कृता वा । अधिः सप्तम्यर्थानुवादकः । “अथ अपि च “कण्वेषु कण्वपुत्रेष्वस्मासु च "इमे सोमाः "वां युवाभ्यां दत्ताः । अत आयातमित्यर्थः ॥


यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जं ।

तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतं ॥१५

यत् । ना॒स॒त्या॒ । प॒रा॒के । अ॒र्वा॒के । अस्ति॑ । भे॒ष॒जम् ।

तेन॑ । नू॒नम् । वि॒ऽम॒दाय॑ । प्र॒ऽचे॒त॒सा॒ । छ॒र्दिः । व॒त्साय॑ । य॒च्छ॒त॒म् ॥१५

यत् । नासत्या । पराके । अर्वाके । अस्ति । भेषजम् ।

तेन । नूनम् । विऽमदाय । प्रऽचेतसा । छर्दिः । वत्साय । यच्छतम् ॥१५

हे नासत्यावश्विनौ “पराके दूरदेशे "अर्वाके समीपे च “यत् युवयोः संबन्धि “भेषजं रोगोपशमनकारणम् “अस्ति “तेन भेषजेन सहितं “छर्दिः गृहं हे “प्रचेतसा प्रकृष्टज्ञानावश्विनौ “विमदाय । लुप्तोपममेतत् । एतत्संज्ञायेवर्षये "वत्साय “नूनम् अवश्यं प्रयच्छतम् ॥ ॥ ३२ ॥


अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनोः॑ ।

व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ॥१६

अभु॑त्सि । ऊं॒ इति॑ । प्र । दे॒व्या । सा॒कम् । वा॒चा । अ॒हम् । अ॒श्विनोः॑ ।

वि । आ॒वः॒ । दे॒वि॒ । आ । म॒तिम् । वि । रा॒तिम् । मर्त्ये॑भ्यः ॥१६

अभुत्सि । ऊं इति । प्र । देव्या । साकम् । वाचा । अहम् । अश्विनोः ।

वि । आवः । देवि । आ । मतिम् । वि । रातिम् । मर्त्येभ्यः ॥१६

“अश्विनोः संबन्धिन्या “देव्या द्योतमानया “वाचा स्तुतिरूपया “साकं सह “अहं “प्र “अभुत्सि प्रबुद्धोऽस्मि । “उ इति पूरणः । हे “देवि द्योतमान उषः त्वं च “मतिं मया कृतां स्तुतिम् “आ अभिलक्ष्य “व्यावः तमांसि विवृणु अपगमय । प्रकाशयेत्यर्थः । वृणोतेश्छान्दसे लुङि ‘मन्त्रे घस इत्यादिना च्लेर्लुक् । 'छन्दस्यपि दृश्यते' इत्याडागमः । अपि च "मर्त्येभ्यः मनुष्येभ्यः स्तोतृभ्योऽस्मभ्यं “रातिं धनं “वि आवः प्रकाशय ॥


प्र बो॑धयोषो अ॒श्विना॒ प्र दे॑वि सूनृते महि ।

प्र य॑ज्ञहोतरानु॒षक्प्र मदा॑य॒ श्रवो॑ बृ॒हत् ॥१७

प्र । बो॒ध॒य॒ । उ॒षः॒ । अ॒श्विना॑ । प्र । दे॒वि॒ । सू॒नृ॒ते॒ । म॒हि॒ ।

प्र । य॒ज्ञ॒ऽहो॒तः॒ । आ॒नु॒षक् । प्र । मदा॑य । श्रवः॑ । बृ॒हत् ॥१७

प्र । बोधय । उषः । अश्विना । प्र । देवि । सूनृते । महि ।

प्र । यज्ञऽहोतः । आनुषक् । प्र । मदाय । श्रवः । बृहत् ॥१७

हे "उषः अश्विनौ देवौ “प्र “बोधय अस्मत्स्तोत्रस्य श्रवणार्थम् । हे “देवि दानादिगुणयुक्ते हे "सूनृते सुष्ठु नेत्रि हे "महि महति इत्थंमहाभागा त्वमश्विनौ "प्र बोधय । हे “यज्ञहोतः यज्ञानां यष्टव्यानां देवानामाह्वातर्होतर्वा “आनुषक् अनुषक्तं संततं यथा भवति तथाश्विनौ स्तुतिभिः "प्र बोधय। तथा “मदाय अश्विनोर्मदोत्पादनार्थं "बृहत् महत् “श्रवः श्रवणीयं सोमलक्षणमन्नमस्माभिः कल्पितम् ॥


यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे ।

आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्यं॑ ॥१८

यत् । उ॒षः॒ । यासि॑ । भा॒नुना॑ । सम् । सूर्ये॑ण । रो॒च॒से॒ ।

आ । ह॒ । अ॒यम् । अ॒श्विनोः॑ । रथः॑ । व॒र्तिः । या॒ति॒ । नृ॒ऽपाय्य॑म् ॥१८

यत् । उषः । यासि । भानुना । सम् । सूर्येण । रोचसे ।

आ । ह । अयम् । अश्विनोः । रथः । वर्तिः । याति । नृऽपाय्यम् ॥१८

हे "उषः “भानुना दीप्त्या सह “यत् यदा “यासि गच्छसि तदानीं “सूर्येण “सं “रोचसे सम्यग्दीप्यसे । अपि च तस्मिन् समये “अश्विनोः "अयं “रथः "नृपाय्यं यत् नृभिर्नेतृभिर्ऋत्विग्भिः पालनीयं "वर्तिः यज्ञगृहम् "आ “याति "ह आगच्छति खलु ॥


यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः ।

यद्वा॒ वाणी॒रनू॑षत॒ प्र दे॑व॒यंतो॑ अ॒श्विना॑ ॥१९

यत् । आऽपी॑तासः । अं॒शवः॑ । गावः॑ । न । दु॒ह्रे । ऊध॑ऽभिः ।

यत् । वा॒ । वाणीः॑ । अनू॑षत । प्र । दे॒व॒ऽयन्तः॑ । अ॒श्विना॑ ॥१९

यत् । आऽपीतासः । अंशवः । गावः । न । दुह्रे । ऊधऽभिः ।

यत् । वा । वाणीः । अनूषत । प्र । देवऽयन्तः । अश्विना ॥१९

“यत् यदा “आपीतासः आ समन्तात् पीतवर्णाः “अंशवः सोमलताः “ऊधभिः “गावो “न गाव इव “दुहे रसं दुहते । ‘लोपस्त आत्मनेपदेषु' इति तलोपः । ‘बहुलं छन्दसि' इति रुडागमः । “यद्वा यदा च "देवयन्तः देवान् कामयमाना ऋत्विजः “वाणीः वाचः स्तुतीः “अनूषत अस्तुवन् । अकुर्वन्नित्यर्थः । तदाश्विनौ देवौ प्रावतं प्ररक्षतम् ॥


प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या॑य॒ शर्म॑णे ।

प्र दक्षा॑य प्रचेतसा ॥२०

प्र । द्यु॒म्नाय॑ । प्र । शव॑से । प्र । नृ॒ऽसह्या॑य । शर्म॑णे ।

प्र । दक्षा॑य । प्र॒ऽचे॒त॒सा॒ ॥२०

प्र । द्युम्नाय । प्र । शवसे । प्र । नृऽसह्याय । शर्मणे ।

प्र । दक्षाय । प्रऽचेतसा ॥२०

“प्रचेतसा प्रकृष्टज्ञानावश्विनौ “द्युम्नाय द्योतमानायान्नाय यशसे वा। तादर्थ्ये चतुर्थी । द्युम्नार्थमस्मान् प्ररक्षतम् । “शवसे बलाय च प्ररक्षतम् । नृषह्याय नृभिः सोढव्याय “शर्मणे सुखाय च प्ररक्षतम् । “दक्षाय वृद्धयर्थं प्ररक्षतम् । यद्वा । द्युम्नायेत्यादौ ‘क्रियाग्रहणमपि कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी । द्युम्नादीन्यस्मभ्यं प्रयच्छतमित्यर्थः ॥


यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः ।

यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥२१

यत् । नू॒नम् । धी॒भिः । अ॒श्वि॒ना॒ । पि॒तुः । योना॑ । नि॒ऽसीद॑थः ।

यत् । वा॒ । सु॒म्नेभिः॑ । उ॒क्थ्या॒ ॥२१

यत् । नूनम् । धीभिः । अश्विना । पितुः । योना । निऽसीदथः ।

यत् । वा । सुम्नेभिः । उक्थ्या ॥२१

हे अश्विनौ "पितुः पालयितुर्द्युलोकस्य संबन्धिनि “योना योनौ स्थाने “यत् यदि “धीभिः कर्मभिः सह “निषीदथः निवसथः । “यद्वा यदि वा हे “उक्थ्या उक्थ्यौ प्रशस्यौ “सुम्नेभिः सुम्नैः सुखैः सह निवसथः । तदास्माभिः स्तुतौ सन्तावागच्छतमिति शेषः । अथवा । पितुः पालयितुर्यजमानस्य संबन्धिनि योनौ यज्ञगृहे धीभिः स्तुतिभिः सार्धं यदि निवसथः यदि च सुम्नैः सुखकरैर्हविर्भिश्च सह निवसथः तर्ह्यागच्छतम् । “नूनम् इति पदपूरणः । उक्तं च यास्केन- अथापि पदपूरणः । नूनं सा ते प्रति वरं जरित्रे' ( निरु. १. ७) इति ॥ ॥ ३३ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.९&oldid=208920" इत्यस्माद् पुनः प्राप्तिः