ऋग्वेदः सूक्तं ८.१०
← सूक्तं ८.९ | ऋग्वेदः - मण्डल ८ सूक्तं ८.१० प्रगाथो (घौरः) काण्वः। |
सूक्तं ८.११ → |
दे. अश्विनौ । १ बृहती, २ मध्येज्योतिः (पिंगलमतेन – शंकुमती), ४ आस्तारपङ्क्तिः, ५-६ प्रगाथः (५ बृहती, ६ सतोबृहती) |
यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः ।
यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना ॥१॥
यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम् ।
बृहस्पतिं विश्वान्देवाँ अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ॥२॥
त्या न्वश्विना हुवे सुदंससा गृभे कृता ।
ययोरस्ति प्र णः सख्यं देवेष्वध्याप्यम् ॥३॥
ययोरधि प्र यज्ञा असूरे सन्ति सूरयः ।
ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु ॥४॥
यदद्याश्विनावपाग्यत्प्राक्स्थो वाजिनीवसू ।
यद्द्रुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम् ॥५॥
यदन्तरिक्षे पतथः पुरुभुजा यद्वेमे रोदसी अनु ।
यद्वा स्वधाभिरधितिष्ठथो रथमत आ यातमश्विना ॥६॥
सायणभाष्यम्
‘यत्स्थः' इति षडृचं पञ्चमं सूक्तं कण्वपुत्रस्य प्रगाथस्यार्षमाश्विनम् । आद्या बृहती । द्वितीया मध्येज्योतिस्त्रिष्टुप् ‘यतोऽष्टकस्ततो ज्योतिः' (अनु. ९. ८) इत्युक्तलक्षणसद्भावात् । तृतीयानुष्टुप चतुर्थी आस्तारपङ्क्तिः । ‘अन्त्यौ चेदास्तारपङ्क्तिः ' (अनु. ८. ७) इति हि तल्लक्षणम् । पञ्चमी बृहती षष्ठी सतोबृहती। तथा चानुक्रान्तं यत्स्थः षट् प्रगाथोऽपश्यद्बृहती मध्येज्योतिरनुष्टुबास्तारपङ्क्तिः प्रगाथः' इति । प्रातरनुवाकाश्विने क्रतो बार्हते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्र्यते हि- द्युम्नी वां यत्स्थ इति बार्हतम्' (आश्व. श्रौ. ४. १५) इति ॥
यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः ।
यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥१
यत् । स्थः । दी॒र्घऽप्र॑सद्मनि । यत् । वा॒ । अ॒दः । रो॒च॒ने । दि॒वः ।
यत् । वा॒ । स॒मु॒द्रे । अधि॑ । आऽकृ॑ते । गृ॒हे । अतः॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥१
यत् । स्थः । दीर्घऽप्रसद्मनि । यत् । वा । अदः । रोचने । दिवः ।
यत् । वा । समुद्रे । अधि । आऽकृते । गृहे । अतः । आ । यातम् । अश्विना ॥१
हे अश्विनौ "दीर्घप्रसद्मनि । प्रसीदन्ति एषु देवा इति प्रसद्मानो यज्ञगृहाः। दीर्घा आयताः प्रसद्मानो यस्मिन् तस्मिँल्लोके “यत् यदि “स्थः भवथः वर्तेथे । “यद्वा यदि वा "अदः अमुष्मिन् “दिवः द्युलोकस्य संबन्धिनि “रोचने रोचमाने स्थाने भवथः । “यद्वा यदि वा समुद्रे अन्तरिक्षे । समुद्द्रवन्त्यस्मादाप इति समुद्रमन्तरिक्षम् । तस्मिन् । “आकृते निर्मिते “गृहे अधिवसथः । “अतः त्रितयादपि स्थानात् हे अश्विनौ “आ "यातम् आगच्छतम् ॥
यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतं ।
बृह॒स्पतिं॒ विश्वां॑दे॒वाँ अ॒हं हु॑व॒ इंद्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥२
यत् । वा॒ । य॒ज्ञम् । मन॑वे । स॒म्ऽमि॒मि॒क्षथुः॑ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ।
बृह॒स्पति॑म् । विश्वा॑न् । दे॒वान् । अ॒हम् । हु॒वे॒ । इन्द्रा॒विष्णू॒ इति॑ । अ॒श्विनौ॑ । आ॒शु॒ऽहेष॑सा ॥२
यत् । वा । यज्ञम् । मनवे । सम्ऽमिमिक्षथुः । एव । इत् । काण्वस्य । बोधतम् ।
बृहस्पतिम् । विश्वान् । देवान् । अहम् । हुवे । इन्द्राविष्णू इति । अश्विनौ । आशुऽहेषसा ॥२
हे अश्विनौ “यद्वा यथा वा येन वा प्रकारेण "मनवे प्रजापतये यजमानाय "यज्ञं "संमिमिक्षथुः संसिक्तवन्तौ युवां कृतवन्तौ "एवेत् एवमेव “काण्वस्य कण्वगोत्रस्य मम यज्ञं कर्तुं “बोधतम् अवगच्छतम् । अपि च "बृहस्पतिं बृहतां देवानां पतिं देवपुरोहितं “विश्वान् सर्वान् मित्रादीन् “देवान् च “इन्द्राविष्णू च "आशुहेषसा शीघ्राश्वौ । यद्वा । ‘हेषृ शब्दे'। शीघ्रं सर्वत्र शब्द्यमानौ स्तूयमानौ “अश्विनौ च "अहं “हुवे आह्वये ॥
त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता ।
ययो॒रस्ति॒ प्र णः॑ स॒ख्यं दे॒वेष्वध्याप्यं॑ ॥३
त्या । नु । अ॒श्विना॑ । हु॒वे॒ । सु॒ऽदंस॑सा । गृ॒भे । कृ॒ता ।
ययोः॑ । अस्ति॑ । प्र । नः॒ । स॒ख्यम् । दे॒वेषु॑ । अधि॑ । आप्य॑म् ॥३
त्या । नु । अश्विना । हुवे । सुऽदंससा । गृभे । कृता ।
ययोः । अस्ति । प्र । नः । सख्यम् । देवेषु । अधि । आप्यम् ॥३
"त्या त्यौ पूर्वोक्तगुणावश्विनौ “नु क्षिप्रम् अहम् “हुवे आह्वयामि । कीदृशौ । “सुदंससा शोभनकर्माणौ “गृभे ग्रहे ग्रहणायास्माभिर्दत्तानां हविषां स्वीकरणायास्मभ्यं धनदानाय वा “कृता कृतौ प्रादुर्भूतौ “देवेषु मध्ये । अधिः सप्तम्यर्थानुवादी । "ययोः अश्विनोः "आप्यम् आप्तव्यं “नः अस्माकं “सख्यं सखित्वं “प्र “अस्ति प्रभवति उत्कर्षेण वर्तते तौ हुव इत्यन्वयः ।।
ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे संति॑ सू॒रयः॑ ।
ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥४
ययोः॑ । अधि॑ । प्र । य॒ज्ञाः । अ॒सू॒रे । सन्ति॑ । सू॒रयः॑ ।
ता । य॒ज्ञस्य॑ । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसा । स्व॒धाभिः॑ । या । पिब॑तः । सो॒म्यम् । मधु॑ ॥४
ययोः । अधि । प्र । यज्ञाः । असूरे । सन्ति । सूरयः ।
ता । यज्ञस्य । अध्वरस्य । प्रऽचेतसा । स्वधाभिः । या । पिबतः । सोम्यम् । मधु ॥४
"ययोः अश्विनोः “अधि उपरि "यज्ञाः ज्योतिष्टोमादयः सर्वे यागाः “प्र “सन्ति प्रभवन्ति । छिन्नस्य यज्ञशिरसोऽश्विभ्यां संधानात् । तथा च यज्ञस्य शिरोऽच्छिद्यत' इत्युपक्रम्य तैत्तिरीयकं -- ’तावेतद्यज्ञशिरः प्रत्यधत्तां यदाश्विनो गृह्यते यज्ञस्य निष्कृत्यै ' ( तै. सं. ६. ४. ९. १ ) इति । “असूरे स्तोतृरहितेऽपि देशे ययोश्च “सूरयः स्तोतारः सन्ति तावश्विनौ “अध्वरस्य हिंसाप्रत्यवायरहितस्य “यज्ञस्य ज्योतिष्टोमादेः “प्रचेतसा प्रकृष्टं ज्ञातारौ “स्वधाभिः बलहेतुभिः स्तुतिभिराह्वयामीति शेषः । “या यावश्विनौ “सोम्यं सोममयं “मधु मधुरं सोमरसं “पिबतः ।।
यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू ।
यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तं ॥५
यत् । अ॒द्य । अ॒श्वि॒नौ॒ । अपा॑क् । यत् । प्राक् । स्थः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
यत् । द्रु॒ह्यवि॑ । अन॑वि । तु॒र्वशे॑ । यदौ॑ । हु॒वे । वा॒म् । अथ॑ । मा॒ । आ । ग॒त॒म् ॥५
यत् । अद्य । अश्विनौ । अपाक् । यत् । प्राक् । स्थः । वाजिनीवसू इति वाजिनीऽवसू ।
यत् । द्रुह्यवि । अनवि । तुर्वशे । यदौ । हुवे । वाम् । अथ । मा । आ । गतम् ॥५
हे “अश्विनौ “अद्य इदानीं “यत् यदि “अपाक् प्रतीच्यां दिशि “स्थः भवथः वर्तेथे । हे “वाजिनीवसू अन्नवद्धनौ “यत् यदि “प्राक् प्राच्यां दिशि स्थः भवथः। “यत् यदि वा द्रुह्युप्रभृतिषु चतुर्षु स्तोतृषु संनिहितौ भवथः । एवं सर्वत्र संनिहितौ “वां युवां “हुवे अहमाह्वयामि । “अथ अनन्तरमेव “मा माम् “आ “गतम् आगच्छतम् ॥
यदं॒तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ ।
यद्वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या॑तमश्विना ॥६
यत् । अ॒न्तरि॑क्षे । पत॑थः । पु॒रु॒ऽभु॒जा॒ । यत् । वा॒ । इ॒मे इति॑ । रोद॑सी॒ इति॑ । अनु॑ ।
यत् । वा॒ । स्व॒धाभिः॑ । अ॒धि॒ऽतिष्ठ॑थः । रथ॑म् । अतः॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥६
यत् । अन्तरिक्षे । पतथः । पुरुऽभुजा । यत् । वा । इमे इति । रोदसी इति । अनु ।
यत् । वा । स्वधाभिः । अधिऽतिष्ठथः । रथम् । अतः । आ । यातम् । अश्विना ॥६
हे पुरुभुजा बहूनां पालयितारौ बहुलहविषो भोक्तारौ वा "यत् यदि “अन्तरिक्षे “पतथः गच्छथः । “यद्वा यदि वा “इमे “रोदसी द्यावापृथिव्यौ अनुलक्ष्य गच्छथः । “यद्वा यदि वा “स्वधाभिः आत्मीयैस्तेजोभिर्बलैर्वा सार्धं “रथम् “अधितिष्ठथः रथे उपविशथः। ‘अधिशीङ्स्थासाम्' इत्याधारस्य कर्मसंज्ञा । “अतः सर्वस्मात् स्थानात् हे अश्विनौ “आ "यातम् आगच्छतम् ॥ ॥३४॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|