ऋग्वेदः सूक्तं ८.२६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.२५ ऋग्वेदः - मण्डल ८
सूक्तं ८.२६
विश्वमना वैयश्वः, व्यश्वो वाङ्गिरसः।
सूक्तं ८.२७ →
दे. अश्विनौ, २०-२५ वायुः। उष्णिक्, १६-१९, २१, २५ गायत्री, २० अनुष्टुप् ।


युवोरु षू रथं हुवे सधस्तुत्याय सूरिषु ।
अतूर्तदक्षा वृषणा वृषण्वसू ॥१॥
युवं वरो सुषाम्णे महे तने नासत्या ।
अवोभिर्याथो वृषणा वृषण्वसू ॥२॥
ता वामद्य हवामहे हव्येभिर्वाजिनीवसू ।
पूर्वीरिष इषयन्तावति क्षपः ॥३॥
आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा ।
उप स्तोमान्तुरस्य दर्शथः श्रिये ॥४॥
जुहुराणा चिदश्विना मन्येथां वृषण्वसू ।
युवं हि रुद्रा पर्षथो अति द्विषः ॥५॥
दस्रा हि विश्वमानुषङ्मक्षूभिः परिदीयथः ।
धियंजिन्वा मधुवर्णा शुभस्पती ॥६॥
उप नो यातमश्विना राया विश्वपुषा सह ।
मघवाना सुवीरावनपच्युता ॥७॥
आ मे अस्य प्रतीव्यमिन्द्रनासत्या गतम् ।
देवा देवेभिरद्य सचनस्तमा ॥८॥
वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् ।
सुमतिभिरुप विप्राविहा गतम् ॥९॥
अश्विना स्वृषे स्तुहि कुवित्ते श्रवतो हवम् ।
नेदीयसः कूळयातः पणीँरुत ॥१०॥
वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः ।
सजोषसा वरुणो मित्रो अर्यमा ॥११॥
युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः ।
अहरहर्वृषण मह्यं शिक्षतम् ॥१२॥
यो वां यज्ञेभिरावृतोऽधिवस्त्रा वधूरिव ।
सपर्यन्ता शुभे चक्राते अश्विना ॥१३॥
यो वामुरुव्यचस्तमं चिकेतति नृपाय्यम् ।
वर्तिरश्विना परि यातमस्मयू ॥१४॥
अस्मभ्यं सु वृषण्वसू यातं वर्तिर्नृपाय्यम् ।
विषुद्रुहेव यज्ञमूहथुर्गिरा ॥१५॥
वाहिष्ठो वां हवानां स्तोमो दूतो हुवन्नरा ।
युवाभ्यां भूत्वश्विना ॥१६॥
यददो दिवो अर्णव इषो वा मदथो गृहे ।
श्रुतमिन्मे अमर्त्या ॥१७॥
उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् ।
सिन्धुर्हिरण्यवर्तनिः ॥१८॥
स्मदेतया सुकीर्त्याश्विना श्वेतया धिया ।
वहेथे शुभ्रयावाना ॥१९॥
युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो ।
आन्नो वायो मधु पिबास्माकं सवना गहि ॥२०॥
तव वायवृतस्पते त्वष्टुर्जामातरद्भुत ।
अवांस्या वृणीमहे ॥२१॥
त्वष्टुर्जामातरं वयमीशानं राय ईमहे ।
सुतावन्तो वायुं द्युम्ना जनासः ॥२२॥
वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् ।
वहस्व महः पृथुपक्षसा रथे ॥२३॥
त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे ।
ग्रावाणं नाश्वपृष्ठं मंहना ॥२४॥
स त्वं नो देव मनसा वायो मन्दानो अग्रियः ।
कृधि वाजाँ अपो धियः ॥२५॥

सायणभाष्यम्

‘युवोरु षू' इति पञ्चविंशत्यृचं षष्ठं सूक्तम् । अत्रानुक्रमणिका – 'युवोः पञ्चाधिका व्यश्वो वाङ्गिरस आश्विनं विंश्याद्या वायव्यास्तत्पूर्वाश्चतस्रो गायत्र्योऽन्यैकविंश्यौ च विंश्यनुष्टुप्' इति । आङ्गिरसो व्यश्वो वैयश्वो विश्वमना वा ऋषिः । षोडश्याद्याश्चतस्रो गायत्र्यो विंश्यनुष्टुबेकविंशी पञ्चविंशी च गायत्र्यौ शिष्टाः पूर्ववदुष्णिहः । अश्विनौ देवता। विंश्याद्याः पञ्चर्चो वायुदेवताकाः । प्रातरनुवाक आश्विने क्रतौ औष्णिहे छन्दस्याश्विनशस्त्रे चादितः पञ्चदशर्चः । सूत्रितं च -- युवोरु षू रथं हुव इति पञ्चदशेत्यौष्णिहम् ' (आश्व. श्रौ. ४. १५) इति ॥


यु॒वोरु॒ षू रथं॑ हुवे स॒धस्तु॑त्याय सू॒रिषु॑ ।

अतू॑र्तदक्षा वृषणा वृषण्वसू ॥१

यु॒वोः । ऊं॒ इति॑ । सु । रथ॑म् । हु॒वे॒ । स॒धऽस्तु॑त्याय । सू॒रिषु॑ ।

अतू॑र्तऽदक्षा । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥१

युवोः । ऊं इति । सु । रथम् । हुवे । सधऽस्तुत्याय । सूरिषु ।

अतूर्तऽदक्षा । वृषणा । वृषण्वसू इति वृषण्ऽवसू ॥१

हे "अतूर्तदक्षा । ‘तॄ प्लवनतरणयोः' इत्यस्य निष्ठायां ‘नसत्त' इति सूत्रेण निपातितः । परैरहिंसितबलौ "वृषणा वृषणौ कामानां सेक्तारौ अत एव "वृषण्वसू वर्षणशीलधनवन्तावश्विनौ “युवोः युवयो रथं "सु "हुवे सुष्ठु स्तोत्रादिभिराह्वयामि । किमर्थम् । "सूरिषु प्राज्ञेषु स्तोतृषु मध्ये “सधस्तुत्याय । स्तौतेर्भावे क्यप् । सह भवन्तौ स्तोतुम् । तस्माद्युवयोः शीघ्रगत्यै युष्मद्गमनसाधनरथमेवाह्वयामि ।।


यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या ।

अवो॑भिर्याथो वृषणा वृषण्वसू ॥२

यु॒वम् । व॒रो॒ इति॑ । सु॒ऽसाम्ने॑ । म॒हे । तने॑ । ना॒स॒त्या॒ ।

अवः॑ऽभिः । या॒थः॒ । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥२

युवम् । वरो इति । सुऽसाम्ने । महे । तने । नासत्या ।

अवःऽभिः । याथः । वृषणा । वृषण्वसू इति वृषण्ऽवसू ॥२

ऋषिर्वरुं राजानं संबोध्याह । हे "नासत्या नासत्यौ । न विद्यतेऽसत्यमनयोरिति नासत्यौ । “वृषणा कामानां वर्षितारौ "वृषण्वसू वर्षणशीलवसुमन्तावश्विनौ "युवं युवां "सुषाम्णे सुषामाख्यराज्ञे मम पित्रेऽस्मै “महे महते “तने । तनोतीति तनं धनम् । धनाय । ‘क्रियार्थोपपदस्य' इति चतुर्थी । तस्मै धनं दातुं पुरा यथागच्छतं तद्वत् मह्यमपि धनं दातुम् "अवोभिः पालनैः सह "याथः युवामायातमिति हे "वरो वरुनामक राजन्नेवं ब्रूहीति ऋषिर्वदति ॥


ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू ।

पू॒र्वीरि॒ष इ॒षयं॑ता॒वति॑ क्ष॒पः ॥३

ता । वा॒म् । अ॒द्य । ह॒वा॒म॒हे॒ । ह॒व्येभिः॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।

पू॒र्वीः । इ॒षः । इ॒षय॑न्तौ । अति॑ । क्ष॒पः ॥३

ता । वाम् । अद्य । हवामहे । हव्येभिः । वाजिनीवसू इति वाजिनीऽवसू ।

पूर्वीः । इषः । इषयन्तौ । अति । क्षपः ॥३

हे “वाजिनीवसू अन्नयुक्तधनवन्तावश्विनौ “पूर्वीः बहूनि “इषः अन्नानि “इषयन्तौ । ‘इषु इच्छायाम् । इच्छन्तौ “ता तौ प्रसिद्धौ "वां युवाम् "अद्य अस्मिन् यागदिने "अति "क्षपः क्षपाया अतिक्रमे । उषःकाल इत्यर्थः । तस्मिन्नुषःकाले "हव्येभिः हविर्लक्षणैरन्नैः सह वयं "हवामहे आह्वयामः । आश्विनशस्त्रस्य तत्र शस्यमानत्वादुषःकाल एवाह । याग इत्यर्थः ॥


आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा ।

उप॒ स्तोमां॑तु॒रस्य॑ दर्शथः श्रि॒ये ॥४

आ । वा॒म् । वाहि॑ष्ठः । अ॒श्वि॒ना॒ । रथः॑ । या॒तु॒ । श्रु॒तः । न॒रा॒ ।

उप॑ । स्तोमा॑न् । तु॒रस्य॑ । द॒र्श॒थः॒ । श्रि॒ये ॥४

आ । वाम् । वाहिष्ठः । अश्विना । रथः । यातु । श्रुतः । नरा ।

उप । स्तोमान् । तुरस्य । दर्शथः । श्रिये ॥४

हे "नरा सर्वस्य नेतारौ "अश्विना अश्विनौ "वां युवयोः “वाहिष्ठः वोढृतमः "श्रुतः विश्रुतः सर्वत्र प्रसिद्धः “रथः “आ “यातु अस्मदीयं यज्ञं प्रत्यागच्छतु । तेन रथेन युवामागत्य “तुरस्य क्षिप्रं स्तोत्रं कुर्वतस्तस्य "स्तोमान् त्रिवृत्पञ्चदशादिस्तोमान् "श्रिये तस्यैश्वर्यप्रदानाय “उप "दर्शथः । पश्यतिर्ज्ञानकर्मा । जानीतम् । दृशेर्लटि व्यत्ययेनाङादेशः ।।


जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू ।

यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विषः॑ ॥५

जु॒हु॒रा॒णा । चि॒त् । अ॒श्वि॒ना॒ । आ । म॒न्ये॒था॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

यु॒वम् । हि । रु॒द्रा॒ । पर्ष॑थः । अति॑ । द्विषः॑ ॥५

जुहुराणा । चित् । अश्विना । आ । मन्येथाम् । वृषण्वसू इति वृषण्ऽवसू ।

युवम् । हि । रुद्रा । पर्षथः । अति । द्विषः ॥५

हे वृषण्वसू वर्षणशीलधनवन्तौ "अश्विना अश्विनौ "जुहुराणा "चित् । “हुर्छा कौटिल्ये'। ‘हुर्छेः सनो लुक् छलोपश्च' (उ. सू. २. २४८) इत्यानच्प्रत्ययः । कुटिलान् कर्मविघ्कारिणो मायाविनोऽपि शत्रून् "आ आभिमुख्येन “मन्येथां जानीतम् । ततो हे "रुद्रा संग्रामे रोदनशीलौ रुवन्तौ वा अश्विनौ “युवम् । हिरवधारणे । युवामेव "द्विषः द्वेषकारिणः तान् शत्रून् "अति “पर्षथः अतीत्य संक्लेशयतम् । हतमित्यर्थः । ‘पृषु हिंसासंक्लेशनयोः' इति भौवादिकः ॥ ॥ २६ ॥


द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभिः॑ परि॒दीय॑थः ।

धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती॑ ॥६

द॒स्रा । हि । विश्व॑म् । आ॒नु॒षक् । म॒क्षुऽभिः॑ । प॒रि॒ऽदीय॑थः ।

धि॒य॒म्ऽजि॒न्वा । मधु॑ऽवर्णा । शु॒भः । पती॒ इति॑ ॥६

दस्रा । हि । विश्वम् । आनुषक् । मक्षुऽभिः । परिऽदीयथः ।

धियम्ऽजिन्वा । मधुऽवर्णा । शुभः । पती इति ॥६

"दस्रा दस्रौ सर्वैदर्शनीयौ । यद्वा । ' दसु उपक्षये' । शत्रूणामुपक्षपयितारावश्विनौ । कीदृशौ । धियंजिन्वा धियंजिन्वौ । जिविः प्रीणनार्थः । कर्माणि प्रीणयन्तौ “मधुवर्णा मधुवर्णौ सर्वेषां मादनशीलशरीरकान्ती । ये युवयो रूपं पश्यन्ति ते तत्रैव हृष्टा भवन्तीत्यर्थः । तादृशौ “शुभस्पती उदकस्य पालयितारौ तादृशौ युवां “मक्षुभिः शीघ्रगमनैरश्चैः “आनुषक् अनुषक्तं यथा भवति तथा “विश्वम् ऋत्विग्भिर्हविर्भिश्च व्याप्तम् । हिरवधारणे । अस्मदीयं यज्ञमेव प्रति “परिदीयथः । दीयतिर्गतिकर्मा । परित आगच्छतम् ॥


उप॑ नो यातमश्विना रा॒या वि॑श्व॒पुषा॑ स॒ह ।

म॒घवा॑ना सु॒वीरा॒वन॑पच्युता ॥७

उप॑ । नः॒ । या॒त॒म् । अ॒श्वि॒ना॒ । रा॒या । वि॒श्व॒ऽपुषा॑ । स॒ह ।

म॒घऽवा॑ना । सु॒ऽवीरौ॑ । अन॑पऽच्युता ॥७

उप । नः । यातम् । अश्विना । राया । विश्वऽपुषा । सह ।

मघऽवाना । सुऽवीरौ । अनपऽच्युता ॥७

हे "अश्विना अश्विनौ “विश्वपुषा विश्वस्य सर्वस्य पोषकेण "राया धनेन "सह "नः अस्मदीयं यज्ञम् “उप “यातम् उपागच्छतम् । यज्ञमागत्य धनमस्यभ्यं प्रयच्छतमिति भावः । किमनयोर्धनमस्तीत्यत आह । "मघवाना मघवानौ मंहनीयधनवन्तौ "सुवीरौ शोभनसामर्थ्योपेतौ । यद्वा । वीराः समर्थाः शत्रवः । तद्वन्तौ । तथापि “अनपच्युता तैरपच्यावनीयौ न भवतः । तौ यज्ञं प्रत्यागच्छतम्


आ मे॑ अ॒स्य प्र॑ती॒व्य१॒॑मिंद्र॑नासत्या गतं ।

दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ॥८

आ । मे॒ । अ॒स्य । प्र॒ती॒व्य॑म् । इन्द्र॑नासत्या । ग॒त॒म् ।

दे॒वा । दे॒वेभिः॑ । अ॒द्य । स॒चनः॑ऽतमा ॥८

आ । मे । अस्य । प्रतीव्यम् । इन्द्रनासत्या । गतम् ।

देवा । देवेभिः । अद्य । सचनःऽतमा ॥८

हे “इन्द्रनासत्या इन्द्राश्विनौ "सचनस्तमा । “षच समवाये । ‘कृत्यल्युटः ' इति कर्मणि ल्युट् । अतिशयेन सर्वैः समवेतव्यौ सेव्यमानौ युवां "प्रतीव्यम् । वी गत्यादिषु । अधिकरणे औणादिकः क्विप् । प्रतिशब्दस्य वीप्सार्थोऽस्ति । पुनःपुनर्वियन्ति भक्षयन्ति हवींषि देवा अत्रेति प्रतीवीर्यज्ञः । तम् "अस्य पुरोवर्तिनः "मे मम संबन्धिनं यज्ञम् "अद्य अस्मिन् दिने “देवेभिः देवैः सार्धम् आ "गतम् आगच्छतम् । यद्वा। मे मम अस्य क्रियमाणस्य स्तोत्रस्य प्रतीव्यं प्रतिगतं यथा भवति तथाभिमुख्येनायातम् ।।


व॒यं हि वां॒ हवा॑मह उक्ष॒ण्यंतो॑ व्यश्व॒वत् ।

सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तं ॥९

व॒यम् । हि । वा॒म् । हवा॑महे । उ॒क्ष॒ण्यन्तः॑ । व्य॒श्व॒ऽवत् ।

सु॒म॒तिऽभिः॑ । उप॑ । वि॒प्रौ॒ । इ॒ह । आ । ग॒त॒म् ॥९

वयम् । हि । वाम् । हवामहे । उक्षण्यन्तः । व्यश्वऽवत् ।

सुमतिऽभिः । उप । विप्रौ । इह । आ । गतम् ॥९

“उक्षण्यन्तः धनादिसेक्तारावात्मन इच्छन्तः "वयं वां “हि धनादीनां प्रत्तारौ युवामेव "हवामहे तल्लाभार्थमाह्वयामः । तत्र दृष्टान्तः । “व्यश्ववत् । यथास्माकं पिता युवामेव स्तुत्वा धनमलभत तद्वत् । हे “विप्रौ मेधाविनावश्विनौ "सुमतिभिः अस्माभिः क्रियमाणैः कल्याणैः स्तोत्रैः सह । यद्वा । सुमतिभिः शोभनाभिरनुग्रहबुद्धिभिः सह । "इह अस्मिन् यागदिने उप “आ “गतम् उपागच्छतम् ।।


अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हवं॑ ।

नेदी॑यसः कूळयातः प॒णीँरु॒त ॥१०

अ॒श्विना॑ । सु । ऋ॒षे॒ । स्तु॒हि॒ । कु॒वित् । ते॒ । श्रव॑तः । हव॑म् ।

नेदी॑यसः । कू॒ळ॒या॒तः॒ । प॒णीन् । उ॒त ॥१०

अश्विना । सु । ऋषे । स्तुहि । कुवित् । ते । श्रवतः । हवम् ।

नेदीयसः । कूळयातः । पणीन् । उत ॥१०

हे “ऋषे विश्वमनः "अश्विना अश्विनौ देवौ “सु “ष्टुहि शोभनं स्तुहि । ततस्तावश्विनौ “ते स्तोतुस्तव "हवम् आह्वानं "कुवित् । कुविदिति बहुनाम । बहुवारं “श्रवतः शृणुताम् । श्रु श्रवणे'। लेट्यडागमः । एवं त्वया स्तुतावश्विनौ "नेदीयसः अन्तिकतमान् शत्रून् कूळयातः हिंस्ताम् । "उत अपि च "पणीन् एतन्नामकान् अङ्गिरोगवामपनेतॄन असुरानपि हिंस्ताम् ॥ ‘कुडि दाहे । ण्यन्तस्य लेट्याडागमः ॥ ॥ २७ ॥


वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे॑ अ॒स्य वे॑दथः ।

स॒जोष॑सा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥११

वै॒य॒श्वस्य॑ । श्रु॒त॒म् । न॒रा॒ । उ॒तो इति॑ । मे॒ । अ॒स्य । वे॒द॒थः॒ ।

स॒ऽजोष॑सा । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ॥११

वैयश्वस्य । श्रुतम् । नरा । उतो इति । मे । अस्य । वेदथः ।

सऽजोषसा । वरुणः । मित्रः । अर्यमा ॥११

हे "नरा नेतारावश्विनौ “वैयश्वस्य व्यश्वपुत्रस्य विश्वमनसो ममाह्वानं “श्रुतं शृणुतम् । “उत अपि च "मे मदीयम् "अस्य तदाह्वानं "वेदथः आत्मीयतया जानीथः । अथ "वरुणः ”मित्रः मित्रावरुणौ च "सजोषसा संगतौ सन्तौ "अर्यमा एतन्नामको देवश्च मदीयमाह्वानं श्रुत्वा मह्यं धनादिकं प्रयच्छन्तु ॥


यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी॑तस्य सू॒रिभिः॑ ।

अह॑रहर्वृषण॒ मह्यं॑ शिक्षतं ॥१२

यु॒वाऽद॑त्तस्य । धि॒ष्ण्या॒ । यु॒वाऽनी॑तस्य । सू॒रिऽभिः॑ ।

अहः॑ऽअहः । वृ॒ष॒णा॒ । मह्य॑म् । शि॒क्ष॒त॒म् ॥१२

युवाऽदत्तस्य । धिष्ण्या । युवाऽनीतस्य । सूरिऽभिः ।

अहःऽअहः । वृषणा । मह्यम् । शिक्षतम् ॥१२

हे “धिष्ण्या धिष्ण्यौ धिषणार्हौ स्तुत्यौ वृषणौ कामानां सेक्तारावश्विनौ "सूरिभिः । ‘सुपां सुपो भवन्ति' इति चतुर्थ्यास्तृतीया । सूरिभ्यः स्तोतृभ्यः “युवादत्तस्य युवाभ्यां यत्स्तोतृभ्यो दीयते तत् तथा “युवानीतस्थ युवाभ्यां यत्स्तोतृभ्यो नीयते तञ्च धनादिकम् "अहरहः अहन्यहनि “मह्यं विश्वमनसे स्तोत्रं कुर्वाणाय युवां "शिक्षतं प्रयच्छतम् ।।


यो वां॑ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व ।

स॒प॒र्यंता॑ शु॒भे च॑क्राते अ॒श्विना॑ ॥१३

यः । वा॒म् । य॒ज्ञेभिः॑ । आऽवृ॑तः । अधि॑ऽवस्त्रा । व॒धूःऽइ॑व ।

स॒प॒र्यन्ता॑ । शु॒भे । च॒क्रा॒ते॒ इति॑ । अ॒श्विना॑ ॥१३

यः । वाम् । यज्ञेभिः । आऽवृतः । अधिऽवस्त्रा । वधूःऽइव ।

सपर्यन्ता । शुभे । चक्राते इति । अश्विना ॥१३

अथ पूर्वोऽर्धर्चः परोक्षकृतः । “यः मनुष्यः “वां युवयोः "यज्ञेभिः यजनैः पूजनैः यद्वा युष्मद्विषयैर्यागैः “आवृतः परिवृतो भवति । तत्र दृष्टान्तः । अधिवस्त्रा उपरिनिहितवस्त्रा “वधू: अन्येन वस्त्रेण यथाच्छादिता भवति तथावृतो यदा भवति तदा "सपर्यन्ता अभीष्टप्रदानेन तं परिचरन्तौ “अश्विना अश्विनौ भवन्तौ तं मनुष्यं “शुभे "चक्राते मङ्गले धने कृतवन्तौ । तं धनादियुक्तमकार्ष्टमित्यर्थः । यो युवाभ्यां हवींषि प्रयच्छति तं धनादियुक्तं कुरुतमित्यर्थः ॥


यो वा॑मुरु॒व्यच॑स्तमं॒ चिके॑तति नृ॒पाय्यं॑ ।

व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू ॥१४

यः । वा॒म् । उ॒रु॒व्यचः॑ऽतमम् । चिके॑तति । नृ॒ऽपाय्य॑म् ।

व॒र्तिः । अ॒श्वि॒ना॒ । परि॑ । या॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥१४

यः । वाम् । उरुव्यचःऽतमम् । चिकेतति । नृऽपाय्यम् ।

वर्तिः । अश्विना । परि । यातम् । अस्मयू इत्यस्मऽयू ॥१४

हे अश्विनौ "उरुव्यचस्तमम् अतिशयेन ग्रहेषु भूतं व्याप्तं नृपाय्यं नेतृभ्यां युवाभ्यां पातव्यं सोमं "यः मनुष्यः "वां युवाभ्यां तं सोमं दातुं “चिकेतति भृशं जानाति तस्य “वर्तिः। वर्ततेऽत्रेति वर्तिगृहम् । "अस्मयू अस्मान् । पूजार्थं बहुवचनम् । विश्वमनसं मां कामयमानौ युवां "परि "यातं सोमपानार्थं तस्य गृहं प्रत्यायातम् ॥ चिकेतति । ‘कित ज्ञाने' इत्यस्य यङ्लुगन्तस्य लेट्यडागमः ॥


अ॒स्मभ्यं॒ सु वृ॑षण्वसू या॒तं व॒र्तिर्नृ॒पाय्यं॑ ।

वि॒षु॒द्रुहे॑व य॒ज्ञमू॑हथुर्गि॒रा ॥१५

अ॒स्मभ्य॑म् । सु । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । या॒तम् । व॒र्तिः । नृ॒ऽपाय्य॑म् ।

वि॒षु॒द्रुहा॑ऽइव । य॒ज्ञम् । ऊ॒ह॒थुः॒ । गि॒रा ॥१५

अस्मभ्यम् । सु । वृषण्वसू इति वृषण्ऽवसू । यातम् । वर्तिः । नृऽपाय्यम् ।

विषुद्रुहाऽइव । यज्ञम् । ऊहथुः । गिरा ॥१५

हे "वृषण्वसू वर्षणशीलधनवन्ताश्विनौ “अस्मभ्यम् अस्मदर्थं "नृपाय्यं नेतृभ्यां पातव्यं सोमं प्रति "वर्तिः अस्मदीयं गृहं प्रति "सु "यातं युवां सुष्ठु आयातम् । "गिरा स्तुतिलक्षणया वाचा युवां “यज्ञमूहथुः मनुष्येषु यज्ञसमाप्तिं प्रापयथः । तत्र दृष्टान्तः। “विषुद्रुहेव । ‘द्रुह जिघांसायाम् । विश्वान् हिनस्ति शत्रूनिति विशुद्रुहः शरः । तेन यथा व्याधो मृगमभिलषितं देशं प्रापयति तद्वत् स्तुत्या यज्ञमवैकल्येन समाप्तिं प्रापयथ इत्यर्थः ॥ ॥ २८ ॥ ।


प्रातरनुवाक आश्विने क्रतौ गायत्रे छन्दसि वाहिष्ठो वां हवानाम् ' इति चतस्रः । सूत्रितं च---- ‘वाहिष्ठो वहां हवानामिति चतस्र उदीराथामा मे हवमिति गायत्रम्' ( आश्व. श्रौ. ४.१५) इति ।

वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू॒तो हु॑वन्नरा ।

यु॒वाभ्यां॑ भूत्वश्विना ॥१६

वाहि॑ष्ठः । वा॒म् । हवा॑नाम् । स्तोमः॑ । दू॒तः । हु॒व॒त् । न॒रा॒ ।

यु॒वाभ्या॑म् । भू॒तु॒ । अ॒श्वि॒ना॒ ॥१६

वाहिष्ठः । वाम् । हवानाम् । स्तोमः । दूतः । हुवत् । नरा ।

युवाभ्याम् । भूतु । अश्विना ॥१६

हे "नरा नरौ सर्वस्य नेतारावश्विनौ "हवानां स्तोतॄणां स्तोत्राणां मध्ये "स्तोमः “वाहिष्ठः युवामतिशयेन व्याप्नुवन् मदीयः स्तोमः "दूतः दूतभूतः सन् “हुवत् आह्वयतु । सोऽयं मदीयः स्तोमः "युवाभ्यां प्रियकरः "भूतु भवतु ॥


यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे ।

श्रु॒तमिन्मे॑ अमर्त्या ॥१७

यत् । अ॒दः । दि॒वः । अ॒र्ण॒वे । इ॒षः । वा॒ । मद॑थः । गृ॒हे ।

श्रु॒तम् । इत् । मे॒ । अ॒म॒र्त्या॒ ॥१७

यत् । अदः । दिवः । अर्णवे । इषः । वा । मदथः । गृहे ।

श्रुतम् । इत् । मे । अमर्त्या ॥१७

हे अश्विनौ “दिवः द्युलोकस्य “अदः । ‘सुपां सुलुक् इति सप्तम्याः सः । अमुष्मिन् “अर्णवे अपां स्थाने "यत् यदि "मदथः माद्यथः। “वा अपि च "इषः युवामिच्छतो यजमानस्य “गृहे यदि साद्यथः । एवं चेत् हे “अमर्त्या मरणधर्मरहितावमनुष्यौ वाश्विनौ “मे मदीयं स्तोत्रं “श्रुतमित् युवां ऋणुतमेव । ममैव स्तोत्रं श्रुत्वा युवां माद्यतमित्यर्थः । यद्वा । अदः स्तोत्रमिति संबध्यते ।।


उ॒त स्या श्वे॑त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीनां॑ ।

सिंधु॒र्हिर॑ण्यवर्तनिः ॥१८

उ॒त । स्या । श्वे॒त॒ऽयाव॑री । वाहि॑ष्ठा । वा॒म् । न॒दीना॑म् ।

सिन्धुः॑ । हिर॑ण्यऽवर्तनिः ॥१८

उत । स्या । श्वेतऽयावरी । वाहिष्ठा । वाम् । नदीनाम् ।

सिन्धुः । हिरण्यऽवर्तनिः ॥१८

विश्वमना ऋषिः श्वेतयावरीनाम्न्या नद्यास्तीरेऽश्विनावस्तौत् । अनया नद्यपि स्तुतवतीत्याह । “उत अपि च “श्वेतयावरी । श्वेतजला यातीति श्वेतयावरी । कीदृशी । "सिन्धुः स्यन्दमाना "हिरण्यवर्तनिः हिरण्मयस्वीयमार्गा हिरण्मयोभयकूला। “स्या एषा श्वेतयावरीनामिका "नदीनाम् अन्यासां नदीनां मध्ये “वां युवां "वाहिष्ठा स्तुत्यातिशयेनागन्त्री भवति । एषापि युवां स्तौतीत्यर्थः । यद्वा । एषा नदी युवयो रथस्य वाहिष्ठा वोढृतमा सती प्रियकरी भवति । यस्मादहमस्यास्तीरे युवामस्तुवमिति ॥


स्मदे॒तया॑ सुकी॒र्त्याश्वि॑ना श्वे॒तया॑ धि॒या ।

वहे॑थे शुभ्रयावाना ॥१९

स्मत् । ए॒तया॑ । सु॒ऽकी॒र्त्या । अश्वि॑ना । श्वे॒तया॑ । धि॒या ।

वहे॑थे॒ इति॑ । शु॒भ्र॒ऽया॒वा॒ना॒ ॥१९

स्मत् । एतया । सुऽकीर्त्या । अश्विना । श्वेतया । धिया ।

वहेथे इति । शुभ्रऽयावाना ॥१९

हे “शुभ्रयावाना शोभनशीलगमनवन्तौ हे "अश्विना अश्विनौ सुकीर्त्या शोभनस्तुत्या "श्वेतया श्वेतजलया “धिया धारयित्र्या हिरण्मयकूलवत्वादुभयकूलस्थितानां प्राणिनां घनदानेन पोषयित्र्या “एतया नद्या "स्मत् सुमत् शोभनं “वहेथे युवां स्तुतिं प्राप्नुथः । एषा युवामस्तौदित्यर्थः ।।


यु॒क्ष्वा हि त्वं र॑था॒सहा॑ यु॒वस्व॒ पोष्या॑ वसो ।

आन्नो॑ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि ॥२०

यु॒क्ष्व । हि । त्वम् । र॒थ॒ऽसहा॑ । यु॒वस्व॑ । पोष्या॑ । व॒सो॒ इति॑ ।

आत् । नः॒ । वा॒यो॒ इति॑ । मधु॑ । पि॒ब॒ । अ॒स्माक॑म् । सव॑ना । आ । ग॒हि॒ ॥२०

युक्ष्व । हि । त्वम् । रथऽसहा । युवस्व । पोष्या । वसो इति ।

आत् । नः । वायो इति । मधु । पिब । अस्माकम् । सवना । आ । गहि ॥२०

एतदाद्या वायव्यः । हे वायो "रथसहा रथसहौ रथवहनसमर्थावश्वौ । हिरवधारणे । "त्वम् एव “युक्ष्व संयोजय । हे “वसो वासयितः शत्रूणां “पोष्या पोष्यौ कण्ठेषु करतलास्फालनैराश्वास्य पोषणीयौ तावश्वौ "युवस्व संग्रामेषु शत्रुवधार्थं मिश्रय । यद्वा । अस्मद्यज्ञेषु संमिश्रय । ताभ्यां युक्तः सन् यज्ञं प्रत्यागच्छेत्यर्थः । हे “वायो “आत् अनन्तरं “नः अस्मदीयं "मधु मदकरं सोमं त्वं पिब । अत एव “अस्माकं यज्ञेषु "सवना त्रिषु सवनेषु “आ “गहि सोमपानार्थमागच्छ ॥ ॥ २९ ॥


वायव्ये पशौ वपायाः ‘तव वायो' इत्येषा वानुवाक्या । सूत्रितं च - प्र वायुमच्छा बृहती मनीषा तव वायवृतस्पते' ( आश्व. श्रौ, ३. ८) इति ॥

तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत ।

अवां॒स्या वृ॑णीमहे ॥२१

तव॑ । वा॒यो॒ इति॑ । ऋ॒तः॒ऽप॒ते॒ । त्वष्टुः॑ । जा॒मा॒तः॒ । अ॒द्भु॒त॒ ।

अवां॑सि । आ । वृ॒णी॒म॒हे॒ ॥२१

तव । वायो इति । ऋतःऽपते । त्वष्टुः । जामातः । अद्भुत ।

अवांसि । आ । वृणीमहे ॥२१

हे “ऋतस्पते ऋतपते यज्ञानां पते । “ सर्वप्रातिपदिकेभ्यो लालसायां सुक्' (का. ७.१.५१.४ ) इति सुगागमः। “त्वष्टुर्जामातः ब्रह्मणो जामातः । एषा कथेतिहासादिभिरवगन्तव्या । तादृश "अद्भुत महन् विचित्रकर्मन् हे "वायो "तव त्वदीयानि "अवांसि पालनानि “आ “वृणीमहे वयमस्मिन् पशुयागे संभजामहे ।।


त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे ।

सु॒तावं॑तो वा॒युं द्यु॒म्ना जना॑सः ॥२२

त्वष्टुः॑ । जामा॑तरम् । व॒यम् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ।

सु॒तऽव॑न्तः । वा॒युम् । द्यु॒म्ना । जना॑सः ॥२२

त्वष्टुः । जामातरम् । वयम् । ईशानम् । रायः । ईमहे ।

सुतऽवन्तः । वायुम् । द्युम्ना । जनासः ॥२२

इमे “जनासः जनाः “वयं “त्वष्टुः ब्रह्मणः “जामातरम् "ईशानं सर्वस्येश्वरमेतादृशं "वायुं "सुतवन्तः अभिषुतसोमाः “रायः धनम् "ईमहे याचामहे। तेन दत्तेन वयं "द्युम्ना धनवन्तः स्यामेति शेषः ।।


वायव्यतृचे ‘वायो याहि शिवा दिवः' इत्यादिके द्वे ऋचौ द्वितीयतृतीये। सूत्रितं च --वायो याहि शिवा दिव इति द्वे' ( आश्व. श्रौ. ७. १० ) इति ॥

वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्यं॑ ।

वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑ ॥२३

वायो॒ इति॑ । या॒हि । शि॒व॒ । आ । दि॒वः । वह॑स्व । सु । सु॒ऽअश्व्य॑म् ।

वह॑स्व । म॒हः । पृ॒थु॒ऽपक्ष॑सा । रथे॑ ॥२३

वायो इति । याहि । शिव । आ । दिवः । वहस्व । सु । सुऽअश्व्यम् ।

वहस्व । महः । पृथुऽपक्षसा । रथे ॥२३

हे "वायो "दिवः द्युलोकस्य "शिव। ' सुपां सुलुक्' इति द्वितीयाया लुक् । शिवं कल्याणम् “आ “याहि आप्रापय । सर्वज्योतिषां त्वदाधारत्वात् तेषामाधारो भूत्वा द्युलोके तानि स्थापयेति प्रार्थयते । ततस्त्वं “स्वश्व्यम् । अश्वानां संघोऽश्व्यः । शोभनाश्वसंघं रथं "सु सुष्ठु "वहस्व सर्वतो दिक्षु प्रापय । इदानीं तेभ्योऽपि समर्थावश्वावावह। "महः महांस्त्वं "पृथुपक्षसा पृथुपार्श्वद्वययुक्तावश्वौ "रथे स्वकीये “वहस्व शत्रुहननार्थं संयोजय ॥


वायव्ये पशौ पुरोडाशहविषः ‘त्वां हि सुप्सरस्तमम्' इति द्वे अनुवाक्ये । सूत्रितं च--- त्वां हि सुप्सरस्तममिति द्वे कुविदङ्ग नमसा ये वृधासः ' ( आश्व. श्रौ. ३. ८) इति ।।

त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑ ।

ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑ ॥२४

त्वाम् । हि । सु॒प्सरः॑ऽतमम् । नृ॒ऽसद॑नेषु । हू॒महे॑ ।

ग्रावा॑णम् । न । अश्व॑ऽपृष्ठम् । मं॒हना॑ ॥२४

त्वाम् । हि । सुप्सरःऽतमम् । नृऽसदनेषु । हूमहे ।

ग्रावाणम् । न । अश्वऽपृष्ठम् । मंहना ॥२४

हे वायो “सुप्सरस्तमम् । सुप्स इति रूपनाम । रो मत्वर्थीयः। अतिशयेन शोभनरूपवन्तं “मंहना स्वकीयेन महत्त्वेन “अश्वपृष्ठं सर्वतो व्याप्तपृष्टम् । पृष्ठशब्दः सर्वाङ्गं लक्षयति । व्याप्तकृत्स्नाङ्गमित्यर्थः । "त्वाम् । हिरवधारणे । त्वामेव “नृषदनेषु नृसदनेषु । नरोऽध्वरस्य नेतार ऋत्विजोऽत्र सीदन्तीति नृषदना यज्ञाः । तेषु "हूमहे वयमाह्वयामः । कथमिव । "ग्रावाणं “न । यथा सोमाभिषवार्थं ग्रावाणं स्तुतिभिराह्वयन्ति तद्वत्त्वां स्तुतिभिराह्वयामः ॥


शुनासीरीये ‘स त्वं नो देव' इत्येषा वायोरनुवाक्या । सूत्रितं च -- स त्वं नो देव मनसेशानाय प्रहुतिं यस्त आनट्' (आश्व. श्रौ. २. २० ) इति ।

स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मंदा॒नो अ॑ग्रि॒यः ।

कृ॒धि वाजाँ॑ अ॒पो धियः॑ ॥२५

सः । त्वम् । नः॒ । दे॒व॒ । मन॑सा । वायो॒ इति॑ । म॒न्दा॒नः । अ॒ग्रि॒यः ।

कृ॒धि । वाजा॑न् । अ॒पः । धियः॑ ॥२५

सः । त्वम् । नः । देव । मनसा । वायो इति । मन्दानः । अग्रियः ।

कृधि । वाजान् । अपः । धियः ॥२५

हे "देव द्योतमान यद्वा स्तोतव्य “वायो “अग्रियः देवानां मध्ये मुख्योऽग्रतो गन्तासि । तादृशः “त्वं "मनसा “मन्दानः मन्दमानः स्वयमेव मोदमानः सन् “नः अस्माकं “वाजान् अन्नानि “अपः मेघभेदनेनोदकानि च उभयस्मिंस्त्वया प्रदत्ते सति “धियः अग्निहोत्रादिकर्माणि च "कृधि कुरु । कारयेत्यर्थः ।। ॥ ३० ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.२६&oldid=208926" इत्यस्माद् पुनः प्राप्तिः