सामग्री पर जाएँ

ऋग्वेदः सूक्तं ८.६६

विकिस्रोतः तः
← सूक्तं ८.६५ ऋग्वेदः - मण्डल ८
सूक्तं ८.६६
कलिः प्रागाथः
सूक्तं ८.६७ →
दे. इन्द्रः। प्रगाथः - (विषमा बृहती, समा सतोबृहती), १५ अनुष्टुप्।
तालफलः


तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।
बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥१॥
न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रमन्धसः ।
य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥२॥
यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः ।
स ऊर्वस्य रेजयत्यपावृतिमिन्द्रो गव्यस्य वृत्रहा ॥३॥
निखातं चिद्यः पुरुसम्भृतं वसूदिद्वपति दाशुषे ।
वज्री सुशिप्रो हर्यश्व इत्करदिन्द्रः क्रत्वा यथा वशत् ॥४॥
यद्वावन्थ पुरुष्टुत पुरा चिच्छूर नृणाम् ।
वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः ॥५॥
सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः ।
त्वमिद्धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥६॥
वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् ।
तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥७॥
वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।
सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥८॥
कदू न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् ।
केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥९॥
कदू महीरधृष्टा अस्य तविषीः कदु वृत्रघ्नो अस्तृतम् ।
इन्द्रो विश्वान्बेकनाटाँ अहर्दृश उत क्रत्वा पणीँरभि ॥१०॥
वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् ।
पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥११॥
पूर्वीश्चिद्धि त्वे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः ।
तिरश्चिदर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ॥१२॥
वयं घा ते त्वे इद्विन्द्र विप्रा अपि ष्मसि ।
नहि त्वदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता ॥१३॥
त्वं नो अस्या अमतेरुत क्षुधोऽभिशस्तेरव स्पृधि ।
त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥१४॥
सोम इद्वः सुतो अस्तु कलयो मा बिभीतन ।
अपेदेष ध्वस्मायति स्वयं घैषो अपायति ॥१५॥


सायणभाष्यम्

' तरोभिर्वः' इति पञ्चदशर्चं सप्तमं सूक्तं प्रगाथपुत्रस्य कलेरार्षम् । प्रथमातृतीयाद्ययुजो बृहत्यो द्वितीयाचतुर्थ्यादियुजः सतोबृहत्यः पञ्चदशी त्वनुष्टुप् । तथा चानुक्रमणिका--- तरोभिः पञ्चोना कलिः प्रागाथः प्रागाथमन्त्यानुष्टुप् इति । महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । तथा च पञ्चमारण्यके सूत्रितं-तरोभिर्वो विदद्वसुमित्युत्तमामुद्धरति ( ऐ. आ. ५, २. ४) इति । अग्निष्टोमेऽच्छावाकशस्त्रेऽयं प्रगाथः स्तोत्रियः । तथा च सूत्रितं--- तरोभिर्वो विदद्वसुं तरणिरित्सिषासतीति प्रगाथौ स्तोत्रियानुरूपौ' ( आश्व. श्रौ. ५, १६ ) इति । चातुर्विंशिकेऽहन्ययमेव प्रगाथः स्तोत्रियः । सूत्रितं च--- तरोभिर्वो विदद्वसुं तरणिरित्सिषासति' ( आश्व. श्रौ. ७. ४ ) इति ॥


तरो॑भिर्वो वि॒दद्व॑सु॒मिन्द्रं॑ स॒बाध॑ ऊ॒तये॑ ।

बृ॒हद्गाय॑न्तः सु॒तसो॑मे अध्व॒रे हु॒वे भरं॒ न का॒रिण॑म् ॥१

तरः॑ऽभिः । वः॒ । वि॒दत्ऽव॑सुम् । इन्द्र॑म् । स॒ऽबाधः॑ । ऊ॒तये॑ ।

बृ॒हत् । गाय॑न्तः । सु॒तऽसो॑मे । अ॒ध्व॒रे । हु॒वे । भर॑म् । न । का॒रिण॑म् ॥१

तर:ऽभिः । वः । विदत्ऽव॑सुम् । इन्द्रम् । सऽबाधः । ऊतये ।

बृहत् । गायन्तः । सुतऽसोमे । अध्वरे । हुवे । भरम् । न । कारिणम् ॥ १ ॥

हे ऋत्विजः वः यूयं तरोभिः वेगैरश्वैरुपेतं वेगैरेव वा विदद्वसु वेदयद्वसुं धनावेदकम् इन्द्रं सबाधः बाधासहिताः ऊतये रक्षणाय बृहत् साम एतत्संज्ञं गायन्तः सन्तः परिचरतेति शेषः । कुत्रेति तदुच्यते । सुतसोमे सुतसोमके अध्वरे यज्ञे सोमयागे । अहं च तमिन्द्रं हुवे आह्वयामि । कमिव । भरं भर्तारं कुटुम्बपोषकं कारिणं हितकरणशीलं यथा स्वस्तिकरणायाह्वयन्ति पुत्रादयस्तद्वत्तथाभूतमिन्द्रं हुव इति ॥


न यं दु॒ध्रा वर॑न्ते॒ न स्थि॒रा मुरो॒ मदे॑ सुशि॒प्रमन्ध॑सः ।

य आ॒दृत्या॑ शशमा॒नाय॑ सुन्व॒ते दाता॑ जरि॒त्र उ॒क्थ्य॑म् ॥२

न । यम् । दु॒ध्राः । वर॑न्ते । न । स्थि॒राः । मुरः॑ । मदे॑ । सु॒ऽशि॒प्रम् । अन्ध॑सः ।

यः । आ॒ऽदृत्य॑ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । दाता॑ । ज॒रि॒त्रे । उ॒क्थ्य॑म् ॥२

न । यम् । दुध्राः । वरन्ते । न । स्थिराः । मुरः । मदे। सुऽशिप्रम् । अन्धसः ।

यः । आऽदृत्य । शशमानाय । सुन्वते । दाता । जरित्रे । उक्थ्यम् ॥ २ ॥

यं सुशिप्रम् इन्द्रं दुध्राः दुर्धरा असुरादयो न वरन्ते न वारयन्ति संग्रामे । तथा स्थिराः देवाः न वरन्ते । किंच मुरः मरणस्वभावा मनुष्या न वरन्ते । अन्धसः अन्नस्य सोमस्य मदे मदाय सोमपानजनिताय आदृत्य यः शशमानाय शंसमानाय सुन्वते अभिषवं कुर्वते जरित्रे स्तोत्रे च दाता भवति । किम् । उक्थ्यं स्तुत्यं धनम् । स रेजयतीत्युत्तरत्र संबन्धः ॥


यः श॒क्रो मृ॒क्षो अश्व्यो॒ यो वा॒ कीजो॑ हिर॒ण्ययः॑ ।

स ऊ॒र्वस्य॑ रेजय॒त्यपा॑वृति॒मिन्द्रो॒ गव्य॑स्य वृत्र॒हा ॥३

यः । श॒क्रः । मृ॒क्षः । अश्व्यः॑ । यः । वा॒ । कीजः॑ । हि॒र॒ण्ययः॑ ।

सः । ऊ॒र्वस्य॑ । रे॒ज॒य॒ति॒ । अप॑ऽवृतिम् । इन्द्रः॑ । गव्य॑स्य । वृ॒त्र॒ऽहा ॥३

यः । शक्रः । मृक्षः । अश्व्यः । यः । वा । कीजः । हिरण्ययः ।

सः । ऊर्वस्य । रेजयति । अपऽवृतिम् । इन्द्रः । गव्य॑स्य । वृत्रऽहा ॥ ३ ॥

यः शक्रः इन्द्रः स्तोतॄणां मृक्षः शोधकः परिचरणीयो वा। यश्च अश्व्यः । अश्वकुशलोऽश्व्यः । अथवाश्व्य इति स्वार्थिको यत् । मृक्षोऽश्वः प्रक्षालितोऽश्व इव वर्तते । यो वा कीजः । कीज इत्यद्भुतमाह। किमस्य कथं जात इति व---। यश्च हिरण्ययः हिरण्मयशरीरः सः एवमाश्चर्यभूतः इन्द्रः वृत्रहा गव्यस्य गोसमूहस्य । कीदृशस्य । ऊर्वस्य बहुलस्य अपावृतिम् अपवरणीयं रेजयति । कम्पयतीत्यर्थः ॥


निखा॑तं चि॒द्यः पु॑रुसम्भृ॒तं वसूदिद्वप॑ति दा॒शुषे॑ ।

व॒ज्री सु॑शि॒प्रो हर्य॑श्व॒ इत्क॑र॒दिन्द्र॒ः क्रत्वा॒ यथा॒ वश॑त् ॥४

निऽखा॑तम् । चि॒त् । यः । पु॒रु॒ऽस॒म्भृ॒तम् । वसु॑ । उत् । इत् । वप॑ति । दा॒शुषे॑ ।

व॒ज्री । सु॒ऽशि॒प्रः । हरि॑ऽअश्वः । इत् । क॒र॒त् । इन्द्रः॑ । क्रत्वा॑ । यथा॑ । वश॑त् ॥४

निऽखतम् । चित् । यः । पुरुऽसंभूतम् । वसु । उत् । इत् । वपति । दाशुषे ।।

वज्री । सुऽशिप्रः । हरिऽअश्वः । इत् । करत् । इन्द्रः । क्रत्वा । यथा । वशत् ॥ ४ ॥

निखातं चित् भूमौ खात्वा स्थापितमपि संभृतं संगृहीतं यागदानादिकं कृत्वेदृशं पुरु बहु वसु धनम् उदिद्वपति उद्वपत्येव दाशुषे यजमानाय । एवं यो देवः करोति सः वज्री सुशिप्रः सुहनुः हर्यश्व इत् हरितवर्णाश्वयुक्तः इन्द्रः एव करोति । केनोपाधिना । क्रत्वा कर्मणा यागेनोपाधिना। यथा वशत् येन प्रकारेण प्रकामयते तथा स एव करोति ॥


यद्वा॒वन्थ॑ पुरुष्टुत पु॒रा चि॑च्छूर नृ॒णाम् ।

व॒यं तत्त॑ इन्द्र॒ सं भ॑रामसि य॒ज्ञमु॒क्थं तु॒रं वचः॑ ॥५

यत् । व॒वन्थ॑ । पु॒रु॒ऽस्तु॒त॒ । पु॒रा । चि॒त् । शू॒र॒ । नृ॒णाम् ।

व॒यम् । तत् । ते॒ । इ॒न्द्र॒ । सम् । भ॒रा॒म॒सि॒ । य॒ज्ञम् । उ॒क्थम् । तु॒रम् । वचः॑ ॥५

यत् । ववन्थ । पुरुऽस्तुत । पुरा । चित् । शूर। नृणाम् ।

वयम् । तत् । ते । इन्द्र । सम् । भरामसि । यज्ञम् । उक्थम् । तुरम् । वचः ॥ ५ ॥

हे पुरुष्टुत बहुभिः स्तुतेन्द्र शूर विक्रान्त नृणां नेतॄणां स्तोतॄणां सकाशात् पुरा । चित् इत्युपमार्थे । तथेदानीमपि यद्ववन्थ अचीकमथाः तत् एव वयं तुरं तूर्णं ते तुभ्यम् इन्द्र सं भरामसि संभरामः । किं तदिति उच्यते । यज्ञं यागयोग्यं हविः उक्थं शस्त्रं वचः वाच्यम् । तव प्रियतमं हविः स्तोत्रं च संभराम इत्यर्थः ॥ ॥ ४८ ॥


सचा॒ सोमे॑षु पुरुहूत वज्रिवो॒ मदा॑य द्युक्ष सोमपाः ।

त्वमिद्धि ब्र॑ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठः॑ सुन्व॒ते भुवः॑ ॥६

सचा॑ । सोमे॑षु । पु॒रु॒ऽहू॒त॒ । व॒ज्रि॒ऽवः॒ । मदा॑य । द्यु॒क्ष॒ । सो॒म॒ऽपाः॒ ।

त्वम् । इत् । हि । ब्र॒ह्म॒ऽकृते॑ । काम्य॑म् । वसु॑ । देष्ठः॑ । सु॒न्व॒ते । भुवः॑ ॥६

सचा। सोमेषु । पुरुऽहूत । वज्रिऽवः । मदाय । द्युक्ष । सोमऽपाः ।।

त्वम् । इत् । हि । ब्रह्मऽकृते । काम्यम् । वसु । देष्ठः । सुन्व॒ते । भुवः ॥ ६ ॥

हे पुरुहूत बहुभिराहूत हे वज्रिवः वज्रवन् द्युक्ष घुमन् सोमपाः सोमस्य पातः त्वं सोमेषु अभिषुतेषु मदाय सचा सह भवेति शेषः । त्वमित् त्वमेव ब्रह्मकृते स्तोत्रकर्त्रे सुन्वते च काम्यं कमनीयं वसु धनं देष्ठः दातृतमः भुवः भवसि ।।


व॒यमे॑नमि॒दा ह्योऽपी॑पेमे॒ह व॒ज्रिण॑म् ।

तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ॥७

व॒यम् । ए॒न॒म् । इ॒दा । ह्यः । अपी॑पेम । इ॒ह । व॒ज्रिण॑म् ।

तस्मै॑ । ऊं॒ इति॑ । अ॒द्य । स॒म॒ना । सु॒तम् । भ॒र॒ । आ । नू॒नम् । भू॒ष॒त॒ । श्रु॒ते ॥७

वयम् । एनम् । इदा । ह्यः । अपीपेम । इह । वज्रिणम् ।।

तस्मै । ऊँ इति । अद्य । समना । सुतम् । भर । आ । नूनम् । भूषत । श्रुते ॥ ७ ॥

वयं यजमानाः एनम् इन्द्रं वज्रिणम् इदा इदानीं ह्यः च इह अत्र अपीपेम आप्याययाम सोमेन । तस्मा उ तस्मा एव अद्य अत्र समना संग्रामार्थं सुतम् अभिषुतं सोमं भर हरत हे अध्वर्य्वादयः । नूनम् इदानीं श्रुते स्तोत्रे श्रुते सति आ भूषत आभवतु आगच्छतु ।।


वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति ।

सेमं न॒ः स्तोमं॑ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया॑ धि॒या ॥८

वृकः॑ । चि॒त् । अ॒स्य॒ । वा॒र॒णः । उ॒रा॒ऽमथिः॑ । आ । व॒युने॑षु । भू॒ष॒ति॒ ।

सः । इ॒मम् । नः॒ । स्तोम॑म् । जु॒जु॒षा॒णः । आ । ग॒हि॒ । इन्द्र॑ । प्र । चि॒त्रया॑ । धि॒या ॥८

वृकः । चित् । अस्य । वारणः । उराऽमथिः । आ । वयुनेषु । भूषति ।

सः । इमम् । नः । स्तोम॑म् । जुजुषाणः । आ । गहि । इन्द्र । प्र । चित्रया । धिया ॥८॥

वृकश्चित् स्तेनोऽपि वारणः वारयिता सर्वस्य सन्नपि उरामथिः शत्रूणां मार्गे गच्छतां मथिता सन्नपि अस्य इन्द्रस्य वयुनेषु मार्गेषु प्रज्ञानेषु वा आ भूषति आनुकूल्यमेव भजते । अतीव हिंस्रोऽपीन्द्रस्यानुकूलो भवतीत्यर्थः । यद्वा । अस्येति कर्मणि षष्ठी । अमुमिन्द्रमुक्तरूपो वृकोऽपि वयुनेषु स्तोत्रेष्वा भूषति । सः त्वम् इमं नः स्तोमं जुजुषाणः प्रीयमाणः आ गहि आगच्छ। हे इन्द्र चित्रया धिया कर्मणा स्तुतिलक्षणेन निमित्तेन प्र प्रकर्षण आ गहि शीघ्रमागच्छ ।


चातुर्विंशिकेऽहनि माध्यंदिनसवनेऽच्छावाकशस्त्र एव कदू नु' इति कद्वत्प्रगाथः । कदू न्वस्याकृतमिति कद्वन्तः प्रगाथाः' (आश्व. श्रौ. ७. ४) इति हि सूत्रितम् ॥

कदू॒ न्व१॒॑स्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म् ।

केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुष॒ः परि॑ वृत्र॒हा ॥९

कत् । ऊं॒ इति॑ । नु । अ॒स्य॒ । अकृ॑तम् । इन्द्र॑स्य । अ॒स्ति॒ । पौंस्य॑म् ।

केनो॒ इति॑ । नु । क॒म् । श्रोम॑तेन । न । शु॒श्रु॒वे॒ । ज॒नुषः॑ । परि॑ । वृ॒त्र॒ऽहा ॥९

कत् । ऊँ इति । नु । अस्य । अकृतम् । इन्द्रस्य । अस्ति । पौंस्यम् ।

केनो इति । नु। कम् । श्रोमतेन । न । शुश्रुवे । जनुषः । परि । वृत्रऽहा ॥ ९ ॥

अस्य इन्द्रस्य कदू नु किं नु खलु पौंस्यं पौरुषम् अकृतम् अनाचरितम् अस्ति । सर्वमपि वृत्रवधादिकमनेन कृतमेव इतः परं न किंच पौंस्यं कृत्यमस्तीत्यर्थः । लोके स्वल्पमपि यः पुंस्त्वं कुर्यात् स तेन स्तूयतेऽयं तु न स्तुत एतदुच्यते। केनो नु कं केन खलु श्रोमतेन श्रवणीयेन पुंस्त्वेन न शुश्रुवे न श्रूयते। किं कतिपयैरेवाहोभिः कृतेन नेत्याह । अयं वृत्रहा वृत्रस्यातिप्रबलस्य हन्तायं जनुषः परि जन्मप्रभृति क्रियमाणैः सामर्थ्यैः श्रूयते । वृत्रहत्येतत्पुंस्त्वप्रदर्शनद्योतनाय । यथा वृत्रहननं सर्वैः श्रूयते तद्वदन्यान्यपीति भावः ।।


कदू॑ म॒हीरधृ॑ष्टा अस्य॒ तवि॑षी॒ः कदु॑ वृत्र॒घ्नो अस्तृ॑तम् ।

इन्द्रो॒ विश्वा॑न्बेक॒नाटाँ॑ अह॒र्दृश॑ उ॒त क्रत्वा॑ प॒णीँर॒भि ॥१०

कत् । ऊं॒ इति॑ । म॒हीः । अधृ॑ष्टाः । अ॒स्य॒ । तवि॑षीः । कत् । ऊं॒ इति॑ । वृ॒त्र॒ऽघ्नः । अस्तृ॑तम् ।

इन्द्रः॑ । विश्वा॑न् । बे॒क॒ऽनाटा॑न् । अ॒हः॒ऽदृशः॑ । उ॒त । क्रत्वा॑ । प॒णीन् । अ॒भि ॥१०

कत् । ऊँ इति । महीः । अधृष्टाः । अस्य । तविषीः । कत् । ॐ इति । वृत्रऽघ्नः। अस्तृतम् ।

इन्द्रः । विश्वान्। बेकऽनाटान् । अहःऽदृशः । उत । क्रत्वा । पणीन् । अभि ॥ १० ॥

कदू कदाः खलु अस्य इन्द्रस्य तविषीः बलानि महीः महान्ति अधृष्टाः अधृष्टान्यधर्षकाणि आसन् । कदु कदा नु खलु वृत्रघ्नः वृत्रहन्तुरिन्द्रस्य हन्तव्यम् अस्तृतम् अहिंसितमभवत् । न कदाचिदित्य ------ त्र्यहं अभवदित्यर्थः । अथवास्य महान्ति बलानि सेनालक्षणानि कदाप्यधृष्टान्यन्यबलैरहिंसितानि तथा वृत्रघ्नः शारीरं बलमस्तृतमन्यैरहिंस्यम् । ईदृशेन द्विविधेन बलेन इन्द्रः विश्वान् सर्वान् बेकनाटान् । अनेन कुसीदिनो वृद्धिजीविनो वार्धुषिको उच्यन्ते । कथं तद्व्युत्पत्तिः । वे इत्यपभ्रंशो द्विशब्दार्थे । एकं कार्षापणमृणिकाय प्रयच्छन् द्वौ मह्यं दातव्य - -- नयेन दर्शयन्ति ततो द्विशब्देनैकशब्देन च नाटयन्तीति बेकनाटाः । तान् अहर्दृशः। अहःशब्देन तदुत्पादक आदित्योऽभिधेयो भवति । तं पश्यन्तीत्यहर्दृशः । ननु सर्वे सूर्यं पश्यन्ति कोऽत्रातिशय इति उच्यते । इहैव जन्मनि सूर्यं पश्यन्ति न जन्मान्तरे । लुब्धका अयष्टारोऽन्धे तमसि मज्जन्ति । अथवा लौकिकान्येवाहानि पश्यन्ति न पारलौकिकान्यदृष्टानि । दृष्टप्रधाना हि नास्तिकाः । ईदृशान् पणीन् पणिसदृशान् शूद्रकल्पान् । उतशब्द एवार्थे । क्रत्वा उत कर्मणैव ताडनादिव्यापारेणैव अभि भवतीति शेषः । यद्वा । पणीनुत पणीनेवाभिभवति न यष्टारम् । पणीनां निन्दा स्मर्यते-गोरक्षकानापणिकांस्तथा कारुकुशीलवान् । प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् । (मनु. ८. १०२ ) इति ॥ ॥ ४९ ॥


व॒यं घा॑ ते॒ अपू॒र्व्येन्द्र॒ ब्रह्मा॑णि वृत्रहन् ।

पु॒रू॒तमा॑सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ॥११

व॒यम् । घ॒ । ते॒ । अपू॑र्व्या । इन्द्र॑ । ब्रह्मा॑णि । वृ॒त्र॒ऽह॒न् ।

पु॒रु॒ऽतमा॑सः । पु॒रु॒ऽहू॒त॒ । व॒ज्रि॒ऽवः॒ । भृ॒तिम् । न । प्र । भ॒रा॒म॒सि॒ ॥११

वयम् । घ। ते । अपूर्व्या । इन्द्र । ब्रह्माणि । वृत्रऽहन्।

पुरुऽतमासः । पुरुऽहूत । वज्रिऽवः । भृतिम् । न । प्र । भरामसि ॥ ११ ॥

हे इन्द्र वयं घ खलु ते तव अपूर्व्या नूतनानि ब्रह्माणि परिवृढानि स्तोत्राणि प्र भरामसि संभरामः पुरूतमासः बहुतमा वयमृत्विग्यजमानरूपेण वृत्रहन् वृत्रस्य हन्तः पुरुहूत बहुभिराहूत हे वज्रिवः वज्रयुक्तेन्द्र । किमिव । भृतिं न भृतिमिव । तां यथा नियमेन प्रयच्छन्ति तद्वत् । नियमेन प्रदानतात्पर्यात् भृतिदृष्टान्तत्वमविरुद्धम् ॥


पू॒र्वीश्चि॒द्धि त्वे तु॑विकूर्मिन्ना॒शसो॒ हव॑न्त इन्द्रो॒तयः॑ ।

ति॒रश्चि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ श्रु॒धि मे॒ हव॑म् ॥१२

पू॒र्वीः । चि॒त् । हि । त्वे इति॑ । तु॒वि॒ऽकू॒र्मि॒न् । आ॒ऽशसः॑ । हव॑न्ते । इ॒न्द्र॒ । ऊ॒तयः॑ ।

ति॒रः । चि॒त् । अ॒र्यः । सव॑ना । आ । व॒सो॒ इति॑ । ग॒हि॒ । शवि॑ष्ठ । श्रु॒धि । मे॒ । हव॑म् ॥

पूर्वीः । चित् । हि। त्वे इति । तुविऽकूर्मिन् । आऽशसः । हवन्ते । इन्द्र । ऊतयः ।

तिरः । चित् । अर्यः । सवना । आ । वसो इति । गहि। शविष्ठ। श्रुधि । मे। हव॑म् ॥१२॥

हे तुविकूर्मिन् बहुकर्मन् इन्द्र त्वे त्वयि पूर्वीः बहूनि आशसः आशंसनानि स्थितानि तथा ऊतयः रक्षाश्च त्वय्यवस्थिता लब्धुं हवन्ते आह्वयन्ति स्तोतारोऽन्ये । अतः अर्थः अरेः सवना सवनानि तिरश्चित् तिरस्कृत्य अरीन् वा तिरस्कृत्य अस्मत्सवनान्यभिलक्ष्य हे वसो वासकेन्द्र आ गहि आगच्छ । अतो हे शविष्ठ अतिशयेन बलवन् मे हवं श्रुधि ऋणु ॥


व॒यं घा॑ ते॒ त्वे इद्विन्द्र॒ विप्रा॒ अपि॑ ष्मसि ।

न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मघ॑व॒न्नस्ति॑ मर्डि॒ता ॥१३

व॒यम् । घ॒ । ते॒ । त्वे इति॑ । इत् । ऊं॒ इति॑ । इन्द्र॑ । विप्राः॑ । अपि॑ । स्म॒सि॒ ।

न॒हि । त्वत् । अ॒न्यः । पु॒रु॒ऽहू॒त॒ । कः । च॒न । मघ॑ऽवन् । अस्ति॑ । म॒र्डि॒ता ॥१३

वयम् । घ। ते। त्वे इति । इत् । ॐ इति । इन्द्र । विप्राः । अपि । स्मसि ।।

नहि। त्वत् । अन्यः । पुरुहूत । कः । चन । मघवन् । अस्ति । मर्डिता ॥ १३ ॥

हे इन्द्र वयं घ वयं खलु ते तव स्वभूताः । अतः त्वे इत् त्वय्येव विप्राः मेधाविनः स्तोतारः अपि स्मसि । अपिः संभावनायाम्। त्वदधीनाः स्मेत्यर्थः । अन्यान् विहायेन्द्र एव वर्तामहे । तस्मिन् कोऽतिशय इत्याह । हे पुरुहूत त्वदन्यः कश्चन हे मघवन् मर्ड़िता सुखयिता न अस्ति ।


त्वं नो॑ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॒॑ऽभिश॑स्ते॒रव॑ स्पृधि ।

त्वं न॑ ऊ॒ती तव॑ चि॒त्रया॑ धि॒या शिक्षा॑ शचिष्ठ गातु॒वित् ॥१४

त्वम् । नः॒ । अ॒स्याः । अम॑तेः । उ॒त । क्षु॒धः । अ॒भिऽश॑स्तेः । अव॑ । स्पृ॒धि॒ ।

त्वम् । नः॒ । ऊ॒ती । तव॑ । चि॒त्रया॑ । धि॒या । शिक्ष॑ । श॒चि॒ष्ठ॒ । गा॒तु॒ऽवित् ॥१४

त्वम् । नः । अस्याः । अमतेः । उत। क्षुधः । अभिऽशस्तेः । अव । स्पृधि ।

त्वम् । नः । ऊती । तव । चित्रया । धिया । शिक्ष। शचिष्ठ । गातुऽवित् ॥ १४ ॥

हे इन्द्र त्वं नः अस्मान् अस्या अमतेः दारिद्यात्मिकायाः उत अपि च क्षुधः अभिशस्तेः निन्दाथाश्च सकाशात् अव स्पृधि अवमोचय। किंच त्वं नः अस्मभ्यं तव ऊती ऊत्या चित्रया धिया विचित्रेण कर्मणा शिक्ष देह्यभिमतम् । हे शविष्ठ गातुवित् मार्गज्ञ उपायज्ञस्त्वम् ॥


सोम॒ इद्वः॑ सु॒तो अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन ।

अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो अपा॑यति ॥१५

सोमः॑ । इत् । वः॒ । सु॒तः । अ॒स्तु॒ । कल॑यः । मा । बि॒भी॒त॒न॒ ।

अप॑ । इत् । ए॒षः । ध्व॒स्मा । अ॒य॒ति॒ । स्व॒यम् । घ॒ । ए॒षः । अप॑ । अ॒य॒ति॒ ॥१५

सोमः । इत् । वः । सुतः । अस्तु । कलयः । मा । बिभीतन ।

अप । इत् । एषः । ध्वस्मा । अयति । स्वयम् । घ। एषः । अप । अयति ॥ १५ ॥

सोमः सुतः अभिषुतः वः युष्माकं संबन्धी अस्तु इत् भवत्वेवेन्द्राय । हे कलयः । कलिमहर्षेर्ज्ञातयः पुत्राश्चात्र संबोध्यन्ते । यूयं मा बिभीतन भीता मा भवत । भीत्यभावे कारणमाह । एष ध्वस्मा ध्वंसको राक्षसादिः अप अयति अपगच्छत्येवेन्द्रसामर्थ्यात् । स्वयं घ स्वयमेव एषः अपायति । उ इति पूरणः । पुनरुक्तिर्दार्यायार्था ।।५०।। ॥ ५० ॥



टिप्पणी

कालेयम्

कलि-कालेय उपरि टिप्पणी

पुराणेषु सार्वत्रिकेण कृष्णबलरामाभ्यां तालवने खररूपस्य धेनुकासुरस्य उद्धारस्य कथा अस्ति। अस्य कथायाः मूलं अस्मिन् सूक्ते अवगन्तव्यः।

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.६६&oldid=300223" इत्यस्माद् प्रतिप्राप्तम्