ऋग्वेदः सूक्तं ८.१

विकिस्रोतः तः
Jump to navigation Jump to search
ऋग्वेदः - मण्डल ८
सूक्तं ८.१
[[लेखकः :|]]
सूक्तं ८.२ →
ऋ. १-२ प्रगाथो (घौरः) काण्वः, ३-२९ मेधातिथि-मेध्यातिथी काण्वौ, ३०-३३ प्लायोगिरासङ्गः, ३४ आङ्गिरसी शाश्वती ऋषिका ।
               दे. इन्द्रः, ३०-३४ आसङ्गः । १-४ प्रगाथः ( ), ५-३२ बृहती, ३३-३४ त्रिष्टुप्


मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।
इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥१॥
अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।
विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम् ॥२॥
यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये ।
अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥३॥
वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम् ।
उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥४॥
महे चन त्वामद्रिवः परा शुल्काय देयाम् ।
न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥५॥
वस्याँ इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः ।
माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥६॥
क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः ।
अलर्षि युध्म खजकृत्पुरंदर प्र गायत्रा अगासिषुः ॥७॥
प्रास्मै गायत्रमर्चत वावातुर्यः पुरंदरः ।
याभिः काण्वस्योप बर्हिरासदं यासद्वज्री भिनत्पुरः ॥८॥
ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः ।
अश्वासो ये ते वृषणो रघुद्रुवस्तेभिर्नस्तूयमा गहि ॥९॥
आ त्वद्य सबर्दुघां हुवे गायत्रवेपसम् ।
इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरंकृतम् ॥१०॥
यत्तुदत्सूर एतशं वङ्कू वातस्य पर्णिना ।
वहत्कुत्समार्जुनेयं शतक्रतुः त्सरद्गन्धर्वमस्तृतम् ॥११॥
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः ॥१२॥
मा भूम निष्ट्या इवेन्द्र त्वदरणा इव ।
वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥१३॥
अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् ।
सकृत्सु ते महता शूर राधसा अनु स्तोमं मुदीमहि ॥१४॥
यदि स्तोमं मम श्रवदस्माकमिन्द्रमिन्दवः ।
तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ॥१५॥
आ त्वद्य सधस्तुतिं वावातुः सख्युरा गहि ।
उपस्तुतिर्मघोनां प्र त्वावत्वधा ते वश्मि सुष्टुतिम् ॥१६॥
सोता हि सोममद्रिभिरेमेनमप्सु धावत ।
गव्या वस्त्रेव वासयन्त इन्नरो निर्धुक्षन्वक्षणाभ्यः ॥१७॥
अध ज्मो अध वा दिवो बृहतो रोचनादधि ।
अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥१८॥
इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् ।
शक्र एणं पीपयद्विश्वया धिया हिन्वानं न वाजयुम् ॥१९॥
मा त्वा सोमस्य गल्दया सदा याचन्नहं गिरा ।
भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥२०॥
मदेनेषितं मदमुग्रमुग्रेण शवसा ।
विश्वेषां तरुतारं मदच्युतं मदे हि ष्मा ददाति नः ॥२१॥
शेवारे वार्या पुरु देवो मर्ताय दाशुषे ।
स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥२२॥
एन्द्र याहि मत्स्व चित्रेण देव राधसा ।
सरो न प्रास्युदरं सपीतिभिरा सोमेभिरुरु स्फिरम् ॥२३॥
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ।
ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥२४॥
आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।
शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥२५॥
पिबा त्वस्य गिर्वणः सुतस्य पूर्वपा इव ।
परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥२६॥
य एको अस्ति दंसना महाँ उग्रो अभि व्रतैः ।
गमत्स शिप्री न स योषदा गमद्धवं न परि वर्जति ॥२७॥
त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक् ।
त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः ॥२८॥
मम त्वा सूर उदिते मम मध्यंदिने दिवः ।
मम प्रपित्वे अपिशर्वरे वसवा स्तोमासो अवृत्सत ॥२९॥
स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम् ।
निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥३०॥
आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम् ।
उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ॥३१॥
य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया ।
एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः ॥३२॥
अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभिः सहस्रैः ।
अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन् ॥३३॥
अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः ।
शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ॥३४॥

सायणभाष्यम्

॥ अथाष्टमं मण्डलम् ॥

अष्टमे मण्डले दशानुवाकाः । तत्र प्रथमेऽनुवाके पञ्च सूक्तानि । तेषु ‘मा चिदन्यत्' इति चतुस्त्रिंशदृचं प्रथमं सूक्तम् । अत्रानुक्रम्यते–' मा चिच्चतुस्त्रिंशन्मेधातिथिमेध्यातिथी ऐन्द्रं बार्हतं द्विप्रगाथादि द्वित्रिष्टुबन्तमाद्यं द्वृचं प्रगाथोऽपश्यत्स घौरः सन्भ्रातुः कण्वस्य पुत्रतामगात् प्लायोगिश्चासङ्गो यः स्त्री भूत्वा पुमानभूत्स मेध्यातिथये दानं दत्त्वा स्तुहि स्तुहीति चतसृभिरात्मानं तुष्टाव पत्नी चास्याङ्गिरसी शश्वती पुंस्त्वमुपलभ्यैनं प्रीतान्त्यया तुष्टाव ' इति । अस्यायमर्थः । अस्य सूक्तस्य मेधातिथिमेध्यातिथिनामानौ द्वावृषी तौ च कण्वगोत्रौ । ऋषिश्चानुक्तगोत्रः प्राङ्मत्स्यात् काण्वः' इति परिभाषितत्वात् । आद्यस्य द्वृचस्य तु घोरस्य पुत्रः स्वकीयभ्रातुः कण्वस्य पुत्रतां प्राप्तत्वात् काण्वः प्रगाथाख्य ऋषिः । प्लयोगनाम्नो राज्ञः पुत्र आसङ्गाभिधानो राजा देवशापात् स्त्रीत्वमनुभूय पश्चात्तपोबलेन मेधातिथेः प्रसादात् पुमान् भूत्वा तस्मै बहु धनं दत्त्वा स्वकीयमन्तरात्मानं दत्तदानं स्तुहि स्तुहीत्यादिभिश्चतसृभिर्ऋग्भिरस्तौत् । अतस्तासामासङ्गाख्यो राजा ऋषिः । अस्यासङ्गस्य भार्याङ्गिरसः सुता शश्वत्याख्या भर्तुः पुंस्त्वमुपलभ्य प्रीता सती स्वभर्तारम् ‘अन्वस्य स्थूरम् ' इत्यनया स्तुतवती । अतस्तस्या ऋचः शश्वत्यृषिका । अन्त्ये द्वे त्रिष्टुभौ द्वितीयाचतुर्थ्यौ सतोबृहत्यौ शिष्टा बृहत्यः । कृत्स्नस्य सूक्तस्येन्द्रो देवता । ‘ स्तुहि स्तुहि' इत्याद्याश्चतस्र आत्मकृतस्य दानस्य स्तूयमानत्वात्तद्देवताकाः । ‘ अन्वस्य ' इत्यस्या आसङ्गाख्यो राजा देवता । ' या तेनोच्यते सा देवता ' इति न्यायात् । महाव्रते निष्केवल्ये बार्हततृचाशीतावादित एकोनत्रिंशद्विनियुक्ताः। तथैव पञ्चमारण्यके सूत्रितं--- ‘मा चिदन्यद्वि शंसतेत्येकया न त्रिंशत् ' (ऐ. आ. ५. २. ४) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने मैत्रावरुणस्य ‘मा चिदन्यत्' इति वैकल्पिकः स्तोत्रियः प्रगाथः । सूत्रितं च---' मा चिदन्यद्वि शंसत यच्चिद्धि त्वा जना इम इति स्तोत्रियानुरूपौ ' ( आश्व. श्रौ. ७.४ ) इति । ग्रावस्तोत्रेऽप्याद्या विनियुक्ता । सूत्रितं च- आ तू न इन्द्र क्षुमन्तं मा चिदन्यद्वि शंसत' (आश्व. श्रौ. ५.१२ ) इति । उपकरणोत्सर्जनयोः' मण्डलादिहोमेऽप्येषा। सूत्र्यते हि-' मा चिदन्यदाग्ने याहि स्वादिष्ठया ' इति ।


मा चि॑द॒न्यद्वि शं॑सत॒ सखा॑यो॒ मा रि॑षण्यत ।

इन्द्र॒मित्स्तो॑ता॒ वृष॑णं॒ सचा॑ सु॒ते मुहु॑रु॒क्था च॑ शंसत ॥१

मा । चि॒त् । अ॒न्यत् । वि । शं॒स॒त॒ । सखा॑यः । मा । रि॒ष॒ण्य॒त॒ ।

इन्द्र॑म् । इत् । स्तो॒त॒ । वृष॑णम् । सचा॑ । सु॒ते । मुहुः॑ । उ॒क्था । च॒ । शं॒स॒त॒ ॥१

मा । चित् । अन्यत् । वि । शंसत । सखायः । मा । रिषण्यत ।

इन्द्रम् । इत् । स्तोत । वृषणम् । सचा । सुते । मुहुः । उक्था । च । शंसत ॥१

हे “सखायः समानख्यानाः स्तोतारः इन्द्रस्तोत्रात् “अन्यत् स्तोत्रं “मा “चित् "वि “शंसत मैवोच्चारयत । “मा “रिषण्यत मा हिंसितारो भवत । अन्यदीयस्तोत्रोच्चारणेन वृथोपक्षीणा मा भवत । "सुते अभिषुते सोमे “वृषणं कामानां वर्षितारम् “इन्द्रमित् इन्द्रमेव हे प्रस्तोत्रादयः “सचा सह संघीभूय “स्तोत स्तुत । हे प्रशास्त्रादयः “उक्था “च उक्थानि शस्त्राणि चेन्द्रविषयाणि यूयं “मुहुः पुनःपुनः “शंसत ॥


अ॒व॒क्र॒क्षिणं॑ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह॑म् ।

वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन॑म् ॥२

अ॒व॒ऽक्र॒क्षिण॑म् । वृ॒ष॒भम् । य॒था॒ । अ॒जुर॑म् । गाम् । न । च॒र्ष॒णि॒ऽसह॑म् ।

वि॒ऽद्वेष॑णम् । स॒म्ऽवन॑ना । उ॒भ॒य॒म्ऽक॒रम् । मंहि॑ष्ठम् । उ॒भ॒या॒विन॑म् ॥२

अवऽक्रक्षिणम् । वृषभम् । यथा । अजुरम् । गाम् । न । चर्षणिऽसहम् ।

विऽद्वेषणम् । सम्ऽवनना । उभयम्ऽकरम् । मंहिष्ठम् । उभयाविनम् ॥२

“वृषभं “यथा वृषभमिव “अवक्रक्षिणम् अवकर्षणशीलं शत्रूणां हिंसितारम् “अजुरं जरारहितमहिंसितं वा “गां “न गामिव वृषमिव “चर्षणीसहं चर्षणीनां मनुष्याणां शत्रुभूतानामभिभवितारं “विद्वेषणं विद्वेष्टारं शत्रूणां “संवनना संवननं सम्यक्संभजनीयं स्तोतृभिः “उभयंकरं निग्रहानुग्रहयोरुभयोः कर्तारं “मंहिष्ठं दातृतमम् “उभयाविनं दिव्यपार्थिवलक्षणेनोभयविधधनेनोपेतम् । यद्वा । स्थावरजङ्गमरूपेण द्विप्रकारेण रक्षितव्येनोपेतम् । अथवोभयविधैः स्तोतृभिर्यष्टृभिश्चोपेतम् । एवंविधमिन्द्रमित् स्तोतेत्यन्वयः ॥


चातुर्विंशिकेऽहनि माध्यंदिनसवने ‘ यच्चिद्धि त्वा ' इति प्रशास्तुर्वैकल्पिकोऽनुरूपः प्रगाथः । सूत्रं तूदाहृतम् ।।

यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑ ।

अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥३

यत् । चि॒त् । हि । त्वा॒ । जनाः॑ । इ॒मे । नाना॑ । हव॑न्ते । ऊ॒तये॑ ।

अ॒स्माक॑म् । ब्रह्म॑ । इ॒दम् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । अहा॑ । विश्वा॑ । च॒ । वर्ध॑नम् ॥३

यत् । चित् । हि । त्वा । जनाः । इमे । नाना । हवन्ते । ऊतये ।

अस्माकम् । ब्रह्म । इदम् । इन्द्र । भूतु । ते । अहा । विश्वा । च । वर्धनम् ॥३

“इमे दृश्यमानाः सर्वे “जनाः हे इन्द्र त्वाम् “ऊतये रक्षणाय तर्पणाय वा “नाना पृथक्पृथक् “यच्चित् यद्यपि “हवन्ते स्तुवन्ति । “हि इति पूरणः । तथापि “अस्माकम् “इदं “ब्रह्म स्तोत्रमेव हे “इन्द्र “ते तव “वर्धनं वर्धकं “भूतु भवतु । न केवलमिदानीमेव अपि तु “विश्वा “अहा सर्वाण्यहानि सर्वेष्वहःसु “च इदमेव स्तोत्रं त्वां वर्धयत्वित्यर्थः ॥


वि त॑र्तूर्यन्ते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना॑नाम् ।

उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥४

वि । त॒र्तू॒र्य॒न्ते॒ । म॒घ॒ऽव॒न् । वि॒पः॒ऽचितः॑ । अ॒र्यः । विपः॑ । जना॑नाम् ।

उप॑ । क्र॒म॒स्व॒ । पु॒रु॒ऽरूप॑म् । आ । भ॒र॒ । वाज॑म् । नेदि॑ष्ठम् । ऊ॒तये॑ ॥४

वि । तर्तूर्यन्ते । मघऽवन् । विपःऽचितः । अर्यः । विपः । जनानाम् ।

उप । क्रमस्व । पुरुऽरूपम् । आ । भर । वाजम् । नेदिष्ठम् । ऊतये ॥४

हे “मघवन् धनवन्निन्द्र “विपश्चितः विद्वांसस्त्वदीयाः स्तोतारः “अर्यः अभिगन्तारः “जनानां शत्रूणां “विपः वेपयितारः सन्तः “वि “तर्तूर्यन्ते भृशमापदो वितरन्ति अतिक्रामन्ति । तादृशस्त्वम् “उप “क्रमस्व उपगच्छास्मान् । “पुरुरूपं बहुरूपम् नेदिष्ठम् अन्तिकतमं “वाजम् अन्नम् “ऊतये तर्पणाय “आ “भर अस्मभ्यम् ॥


म॒हे च॒न त्वाम॑द्रिव॒ः परा॑ शु॒ल्काय॑ देयाम् ।

न स॒हस्रा॑य॒ नायुता॑य वज्रिवो॒ न श॒ताय॑ शतामघ ॥५

म॒हे । च॒न । त्वाम् । अ॒द्रि॒ऽवः॒ । परा॑ । शु॒ल्काय॑ । दे॒या॒म् ।

न । स॒हस्रा॑य । न । अ॒युता॑य । व॒ज्रि॒ऽवः॒ । न । श॒ताय॑ । श॒त॒ऽम॒घ॒ ॥५

महे । चन । त्वाम् । अद्रिऽवः । परा । शुल्काय । देयाम् ।

न । सहस्राय । न । अयुताय । वज्रिऽवः । न । शताय । शतऽमघ ॥५

हे “अद्रिवः वज्रवन्निन्द्र “त्वाम् । “चन इति निपातद्वयसमुदायो विभज्य योजनीयः । “महे च महतेऽपि “शुल्काय मूल्याय न “परा “देयां न विक्रीणानि । हे “वज्रिवः वज्रहस्तेन्द्र “सहस्राय सहस्रसंख्याय च धनाय “न परा देयाम् । “अयुताय दशसहस्राय च शुल्काय “न परा देयाम् । हे “शतामघ बहुधनेन्द्र “शताय । बहुनामैतत् । अपरिमिताय च धनाय “न परा देयां न विक्रीणानि । उक्तसंख्याद्धनादपि त्वं मम प्रियतमोऽसीत्यर्थः ॥ ॥ १० ॥


वस्याँ॑ इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु॑ञ्जतः ।

मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ॥६

वस्या॑न् । इ॒न्द्र॒ । अ॒सि॒ । मे॒ । पि॒तुः । उ॒त । भ्रातुः॑ । अभु॑ञ्जतः ।

मा॒ता । च॒ । मे॒ । छ॒द॒य॒थः॒ । स॒मा । व॒सो॒ इति॑ । व॒सु॒ऽत्व॒नाय॑ । राध॑से ॥६

वस्यान् । इन्द्र । असि । मे । पितुः । उत । भ्रातुः । अभुञ्जतः ।

माता । च । मे । छदयथः । समा । वसो इति । वसुऽत्वनाय । राधसे ॥६

हे “इन्द्र त्वं “मे मदीयात् “पितुः जनकादपि “वस्यान् वसीयान् वसुमत्तरः “असि । "उत अपि च “अभुञ्जतः अपालयतो मम “भ्रातुः अपि वसीयस्त्वमधिकोऽसि । हे “वसो वासकेन्द्र “मे मदीया “माता “च त्वं च “समा समौ समानौ सन्तौ । “पुमान् स्त्रिया' (पा. सू. १. २. ६७ ) इति पुंसः शेषः। “छदयथः । अर्चतिकर्मायम्। मां पूजितं कुरुथः । किमर्थम् । “वसुत्वनाय व्यापनाय "राधसे धनाय च । उभयोर्लाभायेत्यर्थः ॥


क्वे॑यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मन॑ः ।

अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा॑य॒त्रा अ॑गासिषुः ॥७

क्व॑ । इ॒य॒थ॒ । क्व॑ । इत् । अ॒सि॒ । पु॒रु॒ऽत्रा । चि॒त् । हि । ते॒ । मनः॑ ।

अल॑र्षि । यु॒ध्म॒ । ख॒ज॒ऽकृ॒त् । पु॒र॒म्ऽद॒र॒ । प्र । गा॒य॒त्राः । अ॒गा॒सि॒षुः॒ ॥७

क्व । इयथ । क्व । इत् । असि । पुरुऽत्रा । चित् । हि । ते । मनः ।

अलर्षि । युध्म । खजऽकृत् । पुरम्ऽदर । प्र । गायत्राः । अगासिषुः ॥७

हे इन्द्र “क्व कुत्र देशे "इयथ गतवानसि पुरा । "क्वेत् कुत्र च “असि भवसि । इदानीं वर्तसे । “पुरुत्रा “चिद्धि बहुषु हि यजमानेषु “ते त्वदीयं “मनः संचरति । हे “युध्म युद्धकुशल “खजकृत् युद्धस्य कर्तर्हे “पुरंदर आसुरीणां पुरां दारयितर्हे इन्द्र “अलर्षि आगच्छ । “गायत्राः गानकुशला अस्मदीयाः स्तोतारः “प्र “अगासिषुः प्रगायन्ति स्तुवन्ति । ‘ अलर्षि' इत्येतत् दाधर्त्यादौ (पा. सू. ७. ४. ६५) इयर्तेर्निपात्यते ॥


प्रास्मै॑ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः ।

याभि॑ः का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुर॑ः ॥८

प्र । अ॒स्मै॒ । गा॒य॒त्रम् । अ॒र्च॒त॒ । व॒वातुः॑ । यः । पु॒र॒म्ऽद॒रः ।

याभिः॑ । का॒ण्वस्य॑ । उप॑ । ब॒र्हिः । आ॒ऽसद॑म् । यास॑त् । व॒ज्री । भि॒नत् । पुरः॑ ॥८

प्र । अस्मै । गायत्रम् । अर्चत । ववातुः । यः । पुरम्ऽदरः ।

याभिः । काण्वस्य । उप । बर्हिः । आऽसदम् । यासत् । वज्री । भिनत् । पुरः ॥८

“अस्मै इन्द्राय “गायत्रं गातव्यं साम गायत्रसंज्ञं वा “प्र “अर्चत प्रगायत । “पुरंदरः पुरां दारयिता "यः इन्द्रः “वावातुः वननीयः संभजनीयः । यद्वा वावातुः संभक्तुः स्तोतुः य इन्द्रः पुरंदरः शत्रुपुराणां दारयिता। “याभिः ऋग्भिः “काण्वस्य कण्वपुत्रस्य मेधातिथेर्मेध्यातिथेश्च “बर्हिः यज्ञम् “उप “आसदम् उपासत्तुमुपगन्तुं “यासत् गच्छेत् "वज्री वज्रयुक्तः सन् । याभिश्च ऋग्भिः स्तूयमानः सन् “पुरः शात्रवीः “भिनत् भिन्द्यात् । तास्वृक्षु गायत्रं साम गायतेत्यर्थः ॥


ये ते॒ सन्ति॑ दश॒ग्विन॑ः श॒तिनो॒ ये स॑ह॒स्रिण॑ः ।

अश्वा॑सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि॑र्न॒स्तूय॒मा ग॑हि ॥९

ये । ते॒ । सन्ति॑ । द॒श॒ऽग्विनः॑ । श॒तिनः॑ । ये । स॒ह॒स्रिणः॑ ।

अश्वा॑सः । ये । ते॒ । वृष॑णः । र॒घु॒ऽद्रुवः॑ । तेभिः॑ । नः॒ । तूय॑म् । आ । ग॒हि॒ ॥९

ये । ते । सन्ति । दशऽग्विनः । शतिनः । ये । सहस्रिणः ।

अश्वासः । ये । ते । वृषणः । रघुऽद्रुवः । तेभिः । नः । तूयम् । आ । गहि ॥९

हे इन्द्र "दशग्विनः दशयोजनगामिनः “ये अश्वाः "ते तव “सन्ति विद्यन्ते । “ये चान्ये “शतिनः शतसंख्याकाः “सहस्रिणः सहस्रसंख्याकाः सन्ति । “ये “ते त्वदीयाः “अश्वासः अश्वाः “वृषणः सेचनसमर्था युवानः “रघुद्रुवः शीघ्रगामिनश्च । “तेभिः तैः सर्वैरश्वैः “नः अस्मान् "तूयं क्षिप्रम् “आ “गहि आगच्छ ॥


आ त्व१॒॑द्य स॑ब॒र्दुघां॑ हु॒वे गा॑य॒त्रवे॑पसम् ।

इन्द्रं॑ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा॑रामरं॒कृत॑म् ॥१०

आ । तु । अ॒द्य । स॒बः॒ऽदुघा॑म् । हु॒वे । गा॒य॒त्रऽवे॑पसम् ।

इन्द्र॑म् । धे॒नुम् । सु॒ऽदुघा॑म् । अन्या॑म् । इष॑म् । उ॒रुऽधा॑राम् । अ॒र॒म्ऽकृत॑म् ॥१०

आ । तु । अद्य । सबःऽदुघाम् । हुवे । गायत्रऽवेपसम् ।

इन्द्रम् । धेनुम् । सुऽदुघाम् । अन्याम् । इषम् । उरुऽधाराम् । अरम्ऽकृतम् ॥१०

अनयेन्द्रं धेनुरूपेण वृष्टिरूपेण च निरूपयन् स्तौति । “अद्य इदानीं “धेनुं धेनुरूपम् “इन्द्रं “तु क्षिप्रम् “आ “हुवे आह्वये। कीदृशीं धेनुम् । "सबर्दुघां पयसो दोग्ध्रीं “गायत्रवेपसं प्रशस्यवेगां “सुदुघां सुखेन दोग्धुं शक्याम् । “अन्याम् उक्तविलक्षणाम् “उरुधारां बहूदकधाराम् “इषम् एषणीयां वृष्टिम् । एतद्रूपेण वर्तमानम् "अरंकृतम् अलंकर्तारं पर्याप्तकारिणं वेन्द्रं चाह्वये ॥ ॥ ११ ॥


यत्तु॒दत्सूर॒ एत॑शं व॒ङ्कू वात॑स्य प॒र्णिना॑ ।

वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तु॒ः त्सर॑द्गन्ध॒र्वमस्तृ॑तम् ॥११

यत् । तु॒दत् । सूरः॑ । एत॑शम् । व॒ङ्कू इति॑ । वात॑स्य । प॒र्णिना॑ ।

वह॑त् । कुत्स॑म् । आ॒र्जु॒ने॒यम् । श॒तऽक्र॑तुः । त्सर॑त् । ग॒न्ध॒र्वम् । अस्तृ॑तम् ॥११

यत् । तुदत् । सूरः । एतशम् । वङ्कू इति । वातस्य । पर्णिना ।

वहत् । कुत्सम् । आर्जुनेयम् । शतऽक्रतुः । त्सरत् । गन्धर्वम् । अस्तृतम् ॥११

“सूरः सूर्यः “एतशम् एतत्संज्ञं राजर्षिं “यत् यदा “तुदत् अव्यथयत् तदानीमेतशं रक्षितुं “वङ्कू वक्रगामिनौ “वातस्य वायोः सदृशौ “पर्णिना पर्णिनौ पतनवन्तावीदृशावश्वौ “शतक्रतुः बहुविधकर्मेन्द्रः "आर्जुनेयम् अर्जुन्याः पुत्रं “कुत्सम् ऋषिं “वहत् अवहत् अनयत् । कुत्सेन सार्धं समानं रथमारुह्यैतशरक्षणायागच्छदित्यर्थः। तथा च निगमान्तरं- प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः' (ऋ. सं. १. ६१. १५) इति । “गन्धर्वं गवां रश्मीनां धर्तारं सूर्यम् “अस्तृतं केनाप्यहिंसितं “त्सरत् अत्सरत् । छद्मगत्यागच्छत् । सूर्येण योद्धं गतवानित्यर्थः ॥


य ऋ॒ते चि॑दभि॒श्रिष॑ः पु॒रा ज॒त्रुभ्य॑ आ॒तृद॑ः ।

संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुन॑ः ॥१२

यः । ऋ॒ते । चि॒त् । अ॒भि॒ऽश्रिषः॑ । पु॒रा । ज॒त्रुऽभ्यः॑ । आ॒ऽतृदः॑ ।

सम्ऽधा॑ता । स॒म्ऽधिम् । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । इष्क॑र्ता । विऽह्रु॑तम् । पुन॒रिति॑ ॥१२

यः । ऋते । चित् । अभिऽश्रिषः । पुरा । जत्रुऽभ्यः । आऽतृदः ।

सम्ऽधाता । सम्ऽधिम् । मघऽवा । पुरुऽवसुः । इष्कर्ता । विऽह्रुतम् । पुनरिति ॥१२

"यः इन्द्रः “अभिश्रिषः अभिश्लिषोऽभिश्लेषणात् संधानद्रव्यात् "ऋते “चित् विनापि “जत्रुभ्यः ग्रीवाभ्यः सकाशात् "आतृदः आतर्दनात् आ रुधिरनिःस्रवणात् "पुरा पूर्वमेव “संधिं संधातव्यं तं “संधाता संयोजयिता भवति “मघवा धनवान् “पुरूवसुः बहुधनः स इन्द्रः “विह्रुतं विच्छिन्नं तं “पुनः “इष्कर्ता संस्कर्ता भवति ।।


मा भू॑म॒ निष्ट्या॑ इ॒वेन्द्र॒ त्वदर॑णा इव ।

वना॑नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा॑सो अमन्महि ॥१३

मा । भू॒म॒ । निष्ट्याः॑ऽइव । इन्द्र॑ । त्वत् । अर॑णाःऽइव ।

वना॑नि । न । प्र॒ऽज॒हि॒तानि॑ । अ॒द्रि॒ऽवः॒ । दु॒रोषा॑सः । अ॒म॒न्म॒हि॒ ॥१३

मा । भूम । निष्ट्याःऽइव । इन्द्र । त्वत् । अरणाःऽइव ।

वनानि । न । प्रऽजहितानि । अद्रिऽवः । दुरोषासः । अमन्महि ॥१३

हे "इन्द्र “त्वत् त्वत्तः त्वत्प्रसादात् "निष्ट्याइव। नीचैर्भूता हीना निष्ट्याः । त इव वयं “मा “भूम । तथा “अरणाइव अरमणा दुःखिन इव वयं मा भूम । अपि च "प्रजहितानि प्रक्षीणानि शाखादिभिर्वियुक्तानि “वनानि “न वृक्षजातानीव वयं पुत्रादिभिर्वियुक्ता मा भूम । हे "अद्रिवः वज़वन्निन्द्र “दुरोषासः ओषितुमन्यैर्दग्धुमशक्या दुर्येषु गृहेषु निवसन्तो वा वयम् "अमन्महि त्वां स्तुमः॥


अम॑न्म॒हीद॑ना॒शवो॑ऽनु॒ग्रास॑श्च वृत्रहन् ।

स॒कृत्सु ते॑ मह॒ता शू॑र॒ राध॑सा॒ अनु॒ स्तोमं॑ मुदीमहि ॥१४

अम॑न्महि । इत् । अ॒ना॒शवः॑ । अ॒नु॒ग्रासः॑ । च॒ । वृ॒त्र॒ऽह॒न् ।

स॒कृत् । सु । ते॒ । म॒ह॒ता । शू॒र॒ । राध॑सा । अनु॑ । स्तोम॑म् । मु॒दी॒म॒हि॒ ॥१४

अमन्महि । इत् । अनाशवः । अनुग्रासः । च । वृत्रऽहन् ।

सकृत् । सु । ते । महता । शूर । राधसा । अनु । स्तोमम् । मुदीमहि ॥१४

हे “वृत्रहन् वृत्रस्यासुरस्य हन्तरिन्द्र “अनाशवः अशीघ्रा अत्वरमाणाः “अनुग्रासः अनुग्रा अनुद्गूर्णाः “च सन्तो वयं भक्तिश्रद्धापुरःसरं शनैस्त्वाम् "अमन्महीत् स्तुम एव । हे “शूर वीर्यवन्निन्द्र “ते त्वदर्थं “सकृत् एकवारमपि “महता प्रभूतेन “राधसा धनेन हविर्लक्षणेन सह “सु शोभनं “स्तोमं स्तोत्रम् “अनु “मुदीमहि अनुमोदेमहि । अनुब्रवामेत्यर्थः ॥


यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः ।

ति॒रः प॒वित्रं॑ ससृ॒वांस॑ आ॒शवो॒ मन्द॑न्तु तुग्र्या॒वृध॑ः ॥१५

यदि॑ । स्तोम॑म् । मम॑ । श्रव॑त् । अ॒स्माक॑म् । इन्द्र॑म् । इन्द॑वः ।

ति॒रः । प॒वित्र॑म् । स॒सृ॒ऽवांसः॑ । आ॒शवः॑ । मन्द॑न्तु । तु॒ग्र्य॒ऽवृधः॑ ॥१५

यदि । स्तोमम् । मम । श्रवत् । अस्माकम् । इन्द्रम् । इन्दवः ।

तिरः । पवित्रम् । ससृऽवांसः । आशवः । मन्दन्तु । तुग्र्यऽवृधः ॥१५

अयमिन्द्रः “मम मदीयं स्तोत्रं “यदि “श्रवत् शृणुयात् तदानीं तम् “इन्द्रम् “अस्माकम् अस्मदीयाः “इन्दवः सोमाः "मदन्तु मादयन्तु हर्षयन्तु । कीदृशाः सोमाः। “तिरः तिर्यगवस्थितं “पवित्रं पवनसाधनं दशापवित्रं “ससृवांसः प्राप्तवन्तः । दशापवित्रेण पूता इत्यर्थः । “आशवः शीघ्रं मदजनकाः "तुग्र्यावृधः तुग्र्याभिर्वसतीवर्येकधनाख्याभिरद्भिर्वर्धमानाः ॥ ॥ १२ ॥


आ त्व१॒॑द्य स॒धस्तु॑तिं वा॒वातु॒ः सख्यु॒रा ग॑हि ।

उप॑स्तुतिर्म॒घोनां॒ प्र त्वा॑व॒त्वधा॑ ते वश्मि सुष्टु॒तिम् ॥१६

आ । तु । अ॒द्य । स॒धऽस्तु॑तिम् । व॒वातुः॑ । सख्युः॑ । आ । ग॒हि॒ ।

उप॑ऽस्तुतिः । म॒घोना॑म् । प्र । त्वा॒ । अ॒व॒तु॒ । अध॑ । ते॒ । व॒श्मि॒ । सु॒ऽस्तु॒तिम् ॥१६

आ । तु । अद्य । सधऽस्तुतिम् । ववातुः । सख्युः । आ । गहि ।

उपऽस्तुतिः । मघोनाम् । प्र । त्वा । अवतु । अध । ते । वश्मि । सुऽस्तुतिम् ॥१६

हे इन्द्र “वावातुः संभक्तुस्त्वां सेवमानस्य “सख्युः स्तोतुः “सधस्तुतिम् अन्यैर्ऋत्विग्भिः सह क्रियमाणां स्तुतिम् “अद्य इदानीं “तु क्षिप्रम् “आ “गहि आगच्छ । “मघोनां हविष्मतामन्येषामपि यजमानानाम् “उपस्तुतिः स्तोत्रं “त्वा त्वां “प्र “अवतु प्रगच्छतु प्रतर्पयतु वा। “अध अधुना “सुष्टुतिं त्वद्विषयां शोभनां स्तुतिमहमपि “वश्मि कामये ।।


सोता॒ हि सोम॒मद्रि॑भि॒रेमे॑नम॒प्सु धा॑वत ।

ग॒व्या वस्त्रे॑व वा॒सय॑न्त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा॑भ्यः ॥१७

सोत॑ । हि । सोम॑म् । अद्रि॑ऽभिः । आ । ई॒म् । ए॒न॒म् । अ॒प्ऽसु । धा॒व॒त॒ ।

ग॒व्या । वस्त्रा॑ऽइव । वा॒सय॑न्तः । इत् । नरः॑ । निः । धु॒क्ष॒न् । व॒क्षणा॑भ्यः ॥१७

सोत । हि । सोमम् । अद्रिऽभिः । आ । ईम् । एनम् । अप्ऽसु । धावत ।

गव्या । वस्त्राऽइव । वासयन्तः । इत् । नरः । निः । धुक्षन् । वक्षणाभ्यः ॥१७

हे अध्वर्यवः “अद्रिभिः ग्रावभिः “सोमं “सोत । हिरवधारणे । अभिषुणुतैव। “एनम् इमम् “अप्सु वसतीवरीषु “आ “धावत । अस्य सोमस्य धवनं कुरुत । अदाभ्यग्रहे हिमादासुत इत्यादिभिर्मन्त्रैर्वसतीवरीष्वाधवनं सोमस्य क्रियते । तत् कुरुतेत्यर्थः । “गव्या गवि भवानि “वस्त्रेव वस्त्राण्याच्छादकानि चर्माणीव मेघान “वासयन्त “इत् आच्छादयन्त एव “नरः नेतार इन्द्रस्यानुचरा मरुतः “वक्षणाभ्यः नदीभ्यो नदीनामर्थाय “निर्धुक्षन् उदकानि निर्दुहन्ति क्षारयन्ति । यत एवमतः कारणादिन्द्रयागाय सोममद्रिभिरभिषुणुतैव । मोदासिषतेत्यर्थः ॥


अध॒ ज्मो अध॑ वा दि॒वो बृ॑ह॒तो रो॑च॒नादधि॑ ।

अ॒या व॑र्धस्व त॒न्वा॑ गि॒रा ममा जा॒ता सु॑क्रतो पृण ॥१८

अध॑ । ज्मः । अध॑ । वा॒ । दि॒वः । बृ॒ह॒तः । रो॒च॒नात् । अधि॑ ।

अ॒या । व॒र्ध॒स्व॒ । त॒न्वा॑ । गि॒रा । मम॑ । आ । जा॒ता । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । पृ॒ण॒ ॥१८

अध । ज्मः । अध । वा । दिवः । बृहतः । रोचनात् । अधि ।

अया । वर्धस्व । तन्वा । गिरा । मम । आ । जाता । सुक्रतो इति सुऽक्रतो । पृण ॥१८

हे इन्द्र “अध अधुना “ज्मः । जमन्ति गच्छन्त्यस्यामिति ज्मा पृथिवी । तस्याः सकाशात् “अध “वा अपि वा “दिवः अन्तरिक्षात् "बृहतः महतः “रोचनात् नक्षत्रैर्दीप्यमानात् स्वर्गाद्वा आगत्य । अधिः पञ्चम्यर्थानुवादी । “अया अनया “तन्वा ततया विस्तृतया “मम मदीयया “गिरा स्तुत्या “वर्धस्व वृद्धो भव । हे “सुक्रतो शोभनकर्मवन्निन्द्र "जाता जातानस्मदीयान् जनान् “आ “पृण अभिलषितैः फलैरापूरय ॥


इन्द्रा॑य॒ सु म॒दिन्त॑मं॒ सोमं॑ सोता॒ वरे॑ण्यम् ।

श॒क्र ए॑णं पीपय॒द्विश्व॑या धि॒या हि॑न्वा॒नं न वा॑ज॒युम् ॥१९

इन्द्रा॑य । सु । म॒दिन्ऽत॑मम् । सोम॑म् । सो॒त॒ । वरे॑ण्यम् ।

श॒क्रः । ए॒न॒म् । पी॒प॒य॒त् । विश्व॑या । धि॒या । हि॒न्वा॒नम् । न । वा॒ज॒ऽयुम् ॥१९

इन्द्राय । सु । मदिन्ऽतमम् । सोमम् । सोत । वरेण्यम् ।

शक्रः । एनम् । पीपयत् । विश्वया । धिया । हिन्वानम् । न । वाजऽयुम् ॥१९

हे अध्वर्यवः “इन्द्राय इन्द्रार्थं “मदिन्तमं मादयितृतमं “वरेण्यं वरणीयं संभजनीयं “सोमं “सु “सोत अभिषुणुत । कुत इत्यत आह । “शक्रः इन्द्रः “विश्वथा “धिया सर्वया क्रिययाग्निष्टोमादिलक्षणया “हिन्वानं प्रीणयन्तं “वाजयुम् अन्नमात्मन इच्छन्तम् “एनं यजमानम् । “न इति संप्रत्यर्थीथः । संप्रति “पीपयत् वर्धयति । अतः कारणात्तस्मा इन्द्राय सोमं सुनुतेत्यर्थः ॥


मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच॑न्न॒हं गि॒रा ।

भूर्णिं॑ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा॑नं॒ न या॑चिषत् ॥२०

मा । त्वा॒ । सोम॑स्य । गल्द॑या । सदा॑ । याच॑न् । अ॒हम् । गि॒रा ।

भूर्णि॑म् । मृ॒गम् । न । सव॑नेषु । चु॒क्रु॒ध॒म् । कः । ईशा॑नम् । न । या॒चि॒ष॒त् ॥२०

मा । त्वा । सोमस्य । गल्दया । सदा । याचन् । अहम् । गिरा ।

भूर्णिम् । मृगम् । न । सवनेषु । चुक्रुधम् । कः । ईशानम् । न । याचिषत् ॥२०

हे इन्द्र त्वां “सवनेषु यज्ञेषु “सोमस्य “गल्दया गालनेनास्रावणेन “गिरा स्तुत्या च युक्तः “अहं “सदा सर्वदा “याचन् याचमानः सन् “मा “चुक्रुधं मा क्रोधयानि । बहुशो याच्यमाने त्वयि क्रोधो जायते तं सोमस्य गालनेन स्तुत्या चापनयामीत्यर्थः । कीदृशं त्वाम् । “भूर्णिं भर्तारं “मृगं “न सिंहमिव भीमम् । स्वामिन इन्द्रस्य याचने लौकिकन्यायं दर्शयति । लोके “कः वा पुरुषः “ईशानम् ईश्वरं स्वामिनं “न “याचिषत् न याचेत । सर्व एव हि याचते । अतोऽहमपि त्वां स्वामिनं याच इति भावः ॥ ॥ १३ ॥


मदे॑नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा ।

विश्वे॑षां तरु॒तारं॑ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा॑ति नः ॥२१

मदे॑न । इ॒षि॒तम् । मद॑म् । उ॒ग्रम् । उ॒ग्रेण॑ । शव॑सा ।

विश्वे॑षाम् । त॒रु॒तार॑म् । म॒द॒ऽच्युत॑म् । मदे॑ । हि । स्म॒ । ददा॑ति । नः॒ ॥२१

मदेन । इषितम् । मदम् । उग्रम् । उग्रेण । शवसा ।

विश्वेषाम् । तरुतारम् । मदऽच्युतम् । मदे । हि । स्म । ददाति । नः ॥२१

“मदेन मादयित्रा स्तोत्रा “इषितं प्रेषितं “मदं मदकरं सोमम् “उग्रम् उद्गूर्णं रसम् “उग्रेण उद्गूर्णेनाधिकेन “शवसा बलेन युक्त इन्द्रः पिबत्विति शेषः । पीत्वा च "विश्वेषां सर्वेषां शत्रूणां “तरुतारं तरीतारं जेतारं “मदच्युतं मदस्य शत्रूणां गर्वस्य च्यावयितारं पुत्रं “मदे सोमपानेन जनिते हर्षे सति “नः अस्मभ्यं “ददाति “हि “ष्म ददाति खलु । अतः सोमं पिबत्वित्यर्थः ॥


शेवा॑रे॒ वार्या॑ पु॒रु दे॒वो मर्ता॑य दा॒शुषे॑ ।

स सु॑न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू॑र्तो अरिष्टु॒तः ॥२२

शेवा॑रे । वार्या॑ । पु॒रु । दे॒वः । मर्ता॑य । दा॒शुषे॑ ।

सः । सु॒न्व॒ते । च॒ । स्तु॒व॒ते । च॒ । रा॒स॒ते॒ । वि॒श्वऽगू॑र्तः । अ॒रि॒ऽस्तु॒तः ॥२२

शेवारे । वार्या । पुरु । देवः । मर्ताय । दाशुषे ।

सः । सुन्वते । च । स्तुवते । च । रासते । विश्वऽगूर्तः । अरिऽस्तुतः ॥२२

“शेवारे । शेवं सुखम् । तस्य गमके यज्ञे “दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय “पुरु पुरूणि बहूनि वार्याणि वरणीयानि धनानि “देवः दानादिगुणयुक्त इन्द्रः “रासते ददाति । “सः एव “सुन्वते “च सोमाभिषवं कुर्वते च “स्तुवते “च स्तोत्रं कुर्वते च धनानि रासते । कीदृशः सः । “विश्वगूर्तः विश्वेषु सर्वेषु कार्येषुद्यतः स्वतः प्रवृत्तः “अरिष्टुतः अरिभिः प्रेरयितृभिः प्रशस्तः ॥


एन्द्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा ।

सरो॒ न प्रा॑स्यु॒दरं॒ सपी॑तिभि॒रा सोमे॑भिरु॒रु स्फि॒रम् ॥२३

आ । इ॒न्द्र॒ । या॒हि॒ । मत्स्व॑ । चि॒त्रेण॑ । दे॒व॒ । राध॑सा ।

सरः॑ । न । प्रा॒सि॒ । उ॒दर॑म् । सपी॑तिऽभिः । आ । सोमे॑भिः । उ॒रु । स्फि॒रम् ॥२३

आ । इन्द्र । याहि । मत्स्व । चित्रेण । देव । राधसा ।

सरः । न । प्रासि । उदरम् । सपीतिऽभिः । आ । सोमेभिः । उरु । स्फिरम् ॥२३

हे "इन्द्र “आ “याहि आगच्छ । हे “देव द्योतमान “चित्रेण दर्शनीयेन "राधसा धनेन सोमलक्षणेन “मत्स्व माद्य । “सपीतिभिः मरुद्भिः सह पीयमानैः “सोमेभिः सोमैः "उरु विस्तीर्णं “स्फिरं वृद्धम् “उदरम् आत्मीयं जठरं "सरो “न सर इव “आ “प्रासि आपूरय । ‘प्रा पूरणे' । आदादिकः ॥


चातुर्विंशिकेऽहनि माध्यंदिने ब्रह्मशस्त्रे ‘ आ त्वा' इति वैकल्पिकः स्तोत्रियस्तृचः । सूत्र्यते हि-'आ त्वा सहस्रमा शतं मम त्वा सूर उदित इति ब्राह्मणाच्छंसिनः' (आश्व. श्रौ. ७.४) इति ॥

आ त्वा॑ स॒हस्र॒मा श॒तं यु॒क्ता रथे॑ हिर॒ण्यये॑ ।

ब्र॒ह्म॒युजो॒ हर॑य इन्द्र के॒शिनो॒ वह॑न्तु॒ सोम॑पीतये ॥२४

आ । त्वा॒ । स॒हस्र॑म् । आ । श॒तम् । यु॒क्ताः । रथे॑ । हि॒र॒ण्यये॑ ।

ब्र॒ह्म॒ऽयुजः॑ । हर॑यः । इ॒न्द्र॒ । के॒शिनः॑ । वह॑न्तु । सोम॑ऽपीतये ॥२४

आ । त्वा । सहस्रम् । आ । शतम् । युक्ताः । रथे । हिरण्यये ।

ब्रह्मऽयुजः । हरयः । इन्द्र । केशिनः । वहन्तु । सोमऽपीतये ॥२४

हे “इन्द्र “त्वा त्वां “सहस्रं सहस्रसंख्याकाः “हरयः त्वदीया अश्वाः “आ “वहन्तु आनयन्त्वस्मद्यज्ञम् । तथा “शतं शतसंख्याकाश्च भवदीया अश्वास्त्वाम् “आ वहन्तु । यद्यपि द्वावेवास्य हरी तथापि तद्विभूतयोऽन्येऽपि बहवोऽश्वाः सन्ति । ननु युगपदनेकैरश्वैः कथं यातुं शक्यत इति अत आह “युक्ताः इति । “हिरण्यये हिरण्मये स्वर्णविकारे । हिरण्यशब्दाद्विकारार्थे विहितस्य मयटः ‘ऋत्व्यवास्त्व इत्यादौ मलोपो निपात्यते । तादृशे “रथे "युक्ताः संबद्धाः । बहूनामश्वानां शीघ्रगमनाय रथे नियुक्तत्वाद्युगपदेव सर्वैरश्वैर्गन्तुं शक्यत इति भावः । कीदृशा हरयः । “ब्रह्मयुजः ब्रह्मणा परिवृढेनेन्द्रेण युक्ताः । यद्वा ब्रह्मणास्मदीयेन स्तोत्रेणास्माभिर्दत्तेन हविषा वा युक्ताः । “केशिनः । केशाः केसराः । तैर्युक्ताः । किमर्थमिन्द्रस्य वहनं तत्राह । “सोमपीतये सोमस्य पानाय । यथास्मदीयं सोमं पिबेत् अत आवहन्त्वित्यर्थः ॥


आ त्वा॒ रथे॑ हिर॒ण्यये॒ हरी॑ म॒यूर॑शेप्या ।

शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒ अन्ध॑सो वि॒वक्ष॑णस्य पी॒तये॑ ॥२५

आ । त्वा॒ । रथे॑ । हि॒र॒ण्यये॑ । हरी॒ इति॑ । म॒यूर॑ऽशेप्या ।

शि॒ति॒ऽपृ॒ष्ठा । व॒ह॒ता॒म् । मध्वः॑ । अन्ध॑सः । वि॒वक्ष॑णस्य । पी॒तये॑ ॥२५

आ । त्वा । रथे । हिरण्यये । हरी इति । मयूरऽशेप्या ।

शितिऽपृष्ठा । वहताम् । मध्वः । अन्धसः । विवक्षणस्य । पीतये ॥२५

पूर्वं हर्योर्विभूतिरूपा अश्वा इन्द्रमावहन्त्विति प्रार्थितम् । अधुना तावेवेन्द्रमावहतामिति प्रार्थ्यते। “हिरण्यये हिरण्मये “रथे युक्तौ “मयूरशेप्या मयूरशेपौ मयूरवर्णशेपो ययोस्तौ। ‘सुपां सुलुक्' इति विभक्तेर्ड्यादेशः । “शितिपृष्ठा श्वेतपृष्ठौ एवंभूतावश्वौ” हे इन्द्र त्वाम् “आ “वहताम् । किमर्थम् । “मध्वः मधुररसस्य “विवक्षणस्य वक्तुमिष्टस्य स्तुत्यस्य यद्वा वोढव्यस्य प्राप्तव्यस्य “अन्धसः अन्नस्य सोमरूपस्य “पीतये पानार्थम् ॥ ॥ १४ ॥


पिबा॒ त्व१॒॑स्य गि॑र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व ।

परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑सु॒तिश्चारु॒र्मदा॑य पत्यते ॥२६

पिब॑ । तु । अ॒स्य । गि॒र्व॒णः॒ । सु॒तस्य॑ । पू॒र्व॒पाःऽइ॑व ।

परि॑ऽकृतस्य । र॒सिनः॑ । इ॒यम् । आ॒ऽसु॒तिः । चारुः॑ । मदा॑य । प॒त्य॒ते॒ ॥२६

पिब । तु । अस्य । गिर्वणः । सुतस्य । पूर्वपाःऽइव ।

परिऽकृतस्य । रसिनः । इयम् । आऽसुतिः । चारुः । मदाय । पत्यते ॥२६

हे “गिर्वणः गीर्भिवननीय स्तुतिभिः संभजनीयेन्द्र “सुतस्य अभिषुतस्य “अस्य सोमस्य । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी ॥ इममभिषुतं सोमं “तु क्षिप्रं “पिब । तत्र दृष्टान्तः । “पूर्वपाइव । पूर्वः सर्वेभ्यो देवेभ्यः प्रथमभावी सन् पिबतीति पूर्वपा वायुः । स इवैन्द्रवायवे मुख्ये ग्रहे सर्वेभ्यो देवेभ्यः पूर्वं पिबेत्यर्थः। कीदृशस्य सोमस्य । “परिष्कृतस्य अभिषवादिभिः संस्कृतस्य ॥ ‘ संपर्युपेभ्यः' (पा. सू. ६. १. १३७ ) इति करोतेर्भूषणे सुट् ।' परिनिविभ्यः' (पा. सू. ८. ३. ७० ) इति सुटः षत्वम् ॥ “रसिनः रसवतः । अपि च “इयमासुतिः अयमासवो मदकरः “चारुः शोभनः सोमरसः "मदाय हर्षाय हर्षजननाय “पत्यते संपद्यते । पत्लृ गतौ ' । यद्वा । पत्यतिरैश्वर्यकर्मा । मदाय मदस्य पत्यते ईष्टे । मदोत्पादने शक्त इत्यर्थः ॥


य एको॒ अस्ति॑ दं॒सना॑ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः ।

गम॒त्स शि॒प्री न स यो॑ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ॥२७

यः । एकः॑ । अस्ति॑ । दं॒सना॑ । म॒हाम् । उ॒ग्रः । अ॒भि । व्र॒तैः ।

गम॑त् । सः । शि॒प्री । न । सः । यो॒ष॒त् । आ । ग॒म॒त् । हव॑म् । न । परि॑ । व॒र्ज॒ति॒ ॥२७

यः । एकः । अस्ति । दंसना । महाम् । उग्रः । अभि । व्रतैः ।

गमत् । सः । शिप्री । न । सः । योषत् । आ । गमत् । हवम् । न । परि । वर्जति ॥२७

"यः इन्द्रः “एकः केवलोऽसहाय एव “व्रतैः आत्मीयैः कर्मभिः “अभि “अस्ति शत्रुनभिभवति । यश्च “दंसना कर्मणा “महान् अधिकः अत एव “उग्रः उद्गूर्णबलः शिप्री। शिप्रं शिरस्त्राणम् । प्रशंसायामिनिः । शोभनशिरस्त्राणः । यद्वा । शिप्रे हनू नासिके वा । तद्वान् । “सः इन्द्रः “गमत् गच्छतु प्राप्नोतु सर्वदा । “सः तादृशः “न "योषत् न पृथग्भवतु । न वियुक्तो भवतु ॥ गमेर्यौतेश्च लेट्यागमः । इतश्च लोपः' इतीकारलोपः। गमेः ' बहुलं छन्दसि ' इति शपो लुक् । यौतेः ‘सिब्बहुलम्' इति सिप् । “हवम् अस्मदीयं स्तोत्रं च “आ “गमत् अभिगच्छतु प्राप्नोतु । “न “परि “वर्जति न परिवर्जयतु न परित्यजतु । सर्वदास्मानस्मदीयं स्तोत्रं चेन्द्रः प्राप्नोत्विति यावत् ॥


त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् ।

त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदि॑न्द्र॒ हव्यो॒ भुव॑ः ॥२८

त्वम् । पुर॑म् । च॒रि॒ष्ण्व॑म् । व॒धैः । शुष्ण॑स्य । सम् । पि॒ण॒क् ।

त्वम् । भाः । अनु॑ । च॒रः॒ । अध॑ । द्वि॒ता । यत् । इ॒न्द्र॒ । हव्यः॑ । भुवः॑ ॥२८

त्वम् । पुरम् । चरिष्ण्वम् । वधैः । शुष्णस्य । सम् । पिणक् ।

त्वम् । भाः । अनु । चरः । अध । द्विता । यत् । इन्द्र । हव्यः । भुवः ॥२८

हे इन्द्र “त्वं “शुष्णस्य शोषकस्यासुरस्य “चरिष्ण्वं चरणशीलम् ॥ ‘वा छन्दसि' इत्यभिपूर्वत्वस्य विकल्पितत्वाद्यणादेशः ॥ “पुरं निवासस्थानं “वधैः वज्रादिभिरायुधैः “सं “पिणक् समचूर्णयः । अभाङ्क्षीरित्यर्थः । पिनष्टेर्लङि मध्यमैकवचने रूपमेतत् । “अध अपि च “भाः भासमानः “त्वम् “अनु “चरः तं शुष्णं हन्तुमन्वगच्छः । यद्वा । ....शुष्णस्य पुरभेदनानन्तरं भा दीप्तीस्त्वमनु चरः अन्वगच्छः । प्राप्तवानित्यर्थः । हे “इन्द्र त्वं “यत् यदा “द्विता द्विधा द्विविधैः स्तोतृभिर्यष्टृभिश्च “हव्यः ह्वातव्यः “भुवः भवेः । तदानीं त्वं शुष्णस्य पुरं सं पिणगित्यन्वयः । भवतेर्लेटि सिप्यडागमः । छान्दसः शपो लुक् । ‘भूसुवोस्तिङि' इति गुणप्रतिषेधादुवङ् ॥


चातुर्विशिकेऽहनि माध्यंदिनसवने ब्रह्मशस्त्रे ‘ मम त्वा' इति वैकल्पिकोऽनुरूपस्तृचः । सूत्रं तु पूर्वमुदाहृतम् ॥

मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः ।

मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा॑सो अवृत्सत ॥२९

मम॑ । त्वा॒ । सूरे॑ । उत्ऽइ॑ते । मम॑ । म॒ध्यन्दि॑ने । दि॒वः ।

मम॑ । प्र॒ऽपि॒त्वे । अ॒पि॒ऽश॒र्व॒रे । व॒सो॒ इति॑ । आ । स्तोमा॑सः । अ॒वृ॒त्स॒त॒ ॥२९

मम । त्वा । सूरे । उत्ऽइते । मम । मध्यन्दिने । दिवः ।

मम । प्रऽपित्वे । अपिऽशर्वरे । वसो इति । आ । स्तोमासः । अवृत्सत ॥२९

“सूरे सूर्ये "उदिते उदयं प्राप्ते पूर्वाह्णसमये “मम “स्तोमासः स्तोत्राणि हे “वसो वासकेन्द्र त्वाम् “आ “अवृत्सत आवर्तयन्तु । अस्मदभिमुखं गमयन्तु । तथा “दिवः दिवसस्य “मध्यंदिने मध्याह्नेऽपि मदीयाः स्तोमास्त्वामावर्तयन्तु। तथा “प्रपित्वे प्राप्ते दिवसस्यावसाने सायाह्नेऽपि मदीयाः स्तोमास्त्वामावर्तयन्तु । “अपिशर्वरे । शर्वरीं रात्रिमपिगतः कालः अपिशर्वरः । शार्वरे कालेऽपि मदीयाः स्तोमास्त्वामावर्तयन्तु ॥


स्तु॒हि स्तु॒हीदे॒ते घा॑ ते॒ मंहि॑ष्ठासो म॒घोना॑म् ।

नि॒न्दि॒ताश्व॑ः प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ॥३०

स्तु॒हि । स्तु॒हि । इत् । ए॒ते । घ॒ । ते॒ । मंहि॑ष्ठासः । म॒घोना॑म् ।

नि॒न्दि॒तऽअ॑श्वः । प्र॒ऽप॒थी । प॒र॒म॒ऽज्याः । म॒घस्य॑ । मे॒ध्य॒ऽअ॒ति॒थे॒ ॥३०

स्तुहि । स्तुहि । इत् । एते । घ । ते । मंहिष्ठासः । मघोनाम् ।

निन्दितऽअश्वः । प्रऽपथी । परमऽज्याः । मघस्य । मेध्यऽअतिथे ॥३०

आसङ्गो राजर्षिर्मेध्यातिथये बहु धनं दत्त्वा तमृषिं दत्तदानस्य स्वस्य स्तुतौ प्रेरयति । हे “मेध्यातिथे यज्ञार्हातिथ एतत्संज्ञर्षे "स्तुहि "स्तुहीत् । पुनःपुनरस्मान् प्रशंसैव। मोदास्व औदासीन्यं मा कार्षीः । “एते “घ एते खलु वयं “मघोनां धनवतां मध्ये “ते तुभ्यं “मघस्य धनस्य “मंहिष्ठासः दातृतमाः । अतोऽस्मान् स्तुहीत्यर्थः । कासौ स्तुतिस्तामाह। “निन्दिताश्वः । यस्य वीर्येण परेषामश्वा निन्दिताः कुत्सिता भवन्ति तादृशः । “प्रपथी । प्रकृष्टः पन्थाः प्रपथः । तद्वान् । सन्मार्गवर्तीत्यर्थः । “परमज्याः उत्कृष्टज्यः । अनेन धनुरादिकं लक्ष्यते । उत्कृष्टायुध इत्यर्थः । यद्वा । परमानुत्कृष्टाञ्छत्रून् जिनाति हिनस्तीति परमज्याः । ज्या वयोहानौ' । अस्मात् ‘आतो मनिन्' इति विच् । एवंभूतोऽहमासङ्ग इति स्तुहीत्यर्थः ॥ ॥ १५ ॥


आ यदश्वा॒न्वन॑न्वतः श्र॒द्धया॒हं रथे॑ रु॒हम् ।

उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्व॑ः प॒शुः ॥३१

आ । यत् । अश्वा॑न् । वन॑न्ऽवतः । श्र॒द्धया॑ । अ॒हम् । रथे॑ । रु॒हम् ।

उ॒त । वा॒मस्य॑ । वसु॑नः । चि॒के॒त॒ति॒ । यः । अस्ति॑ । याद्वः॑ । प॒शुः ॥३१

आ । यत् । अश्वान् । वनन्ऽवतः । श्रद्धया । अहम् । रथे । रुहम् ।

उत । वामस्य । वसुनः । चिकेतति । यः । अस्ति । याद्वः । पशुः ॥३१

“वनन्वतः वननवतः संभक्तवतः “अश्वान् तुरगान् "अहं प्रायोगिः “श्रद्धया आदरातिशयेन युक्तः सन् “यत् यदा हे मेध्यातिथे त्वदीये “रथे “आ “रुहं आरोहयम्। रुहेरन्तर्भावितण्यर्थाल्लुङि ‘ कृमृदृरुहिभ्यः' इति च्लेरङादेशः । तदानीं मामेवं स्तुहि । “उत अपि च । प्रकृतस्तुत्यपेक्ष एव समुच्चयः । “वामस्य वननीयस्य “वसुनः धनस्य । पूर्ववत् कर्मणि षष्ठी । ईदृशं धनं “चिकेतति । एष आसङ्गो दातुं जानाति । "याद्वः यदुवंशोद्भवः। यद्वा । यदवो मनुष्याः। तेषु प्रसिद्धः। “पशुः । लुप्तमत्वर्थमेतत् । पशुमान् । यद्वा । पशुः पश्यतेः । सूक्ष्मस्य द्रष्टा । “यः आसङ्गः “अस्ति विद्यते एष चिकेततीत्यन्वयः ॥


य ऋ॒ज्रा मह्यं॑ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया॑ ।

ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः ॥३२

यः । ऋ॒ज्रा । मह्य॑म् । म॒म॒हे । स॒ह । त्व॒चा । हि॒र॒ण्यया॑ ।

ए॒षः । विश्वा॑नि । अ॒भि । अ॒स्तु॒ । सौभ॑गा । आ॒स॒ङ्गस्य॑ । स्व॒नत्ऽर॑थः ॥३२

यः । ऋज्रा । मह्यम् । ममहे । सह । त्वचा । हिरण्यया ।

एषः । विश्वानि । अभि । अस्तु । सौभगा । आसङ्गस्य । स्वनत्ऽरथः ॥३२

एवमेवं मां स्तुहीत्यासङ्गो मेध्यातिथिं ब्रूते । “यः आसङ्गस्यात्मा “ऋज्रा गमनशीलानि धनानि “हिरण्यया हिरण्मय्या “त्वचा चर्मणास्तरणेन “सह सहितानि “मह्यं मेध्यातिथये “ममहे ददौ । मंहतिर्दानकर्मा । “एषः आसङ्गस्यात्मा “स्वनद्रथः शब्दायमानरथः सन् “विश्वानि व्याप्तानि सौभगानि धनानि शत्रूणां स्वभूतानि “अभ्यस्तु अभिभवतु ॥


अध॒ प्लायो॑गि॒रति॑ दासद॒न्याना॑स॒ङ्गो अ॑ग्ने द॒शभि॑ः स॒हस्रै॑ः ।

अधो॒क्षणो॒ दश॒ मह्यं॒ रुश॑न्तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ॥३३

अध॑ । प्लायो॑गिः । अति॑ । दा॒स॒त् । अ॒न्यान् । आ॒ऽस॒ङ्गः । अ॒ग्ने॒ । द॒शऽभिः॑ । स॒हस्रैः॑ ।

अध॑ । उ॒क्षणः॑ । दश॑ । मह्य॑म् । रुश॑न्तः । न॒ळाःऽइ॑व । सर॑सः । निः । अ॒ति॒ष्ठ॒न् ॥३३

अध । प्लायोगिः । अति । दासत् । अन्यान् । आऽसङ्गः । अग्ने । दशऽभिः । सहस्रैः ।

अध । उक्षणः । दश । मह्यम् । रुशन्तः । नळाःऽइव । सरसः । निः । अतिष्ठन् ॥३३

“अध अपि च "प्लायोगिः प्रयोगनाम्नः पुत्रः “आसङ्गः नाम राजा “दशभिः दशगुणितैः “सहस्रैः सहस्रसंख्याकैर्गवादिभिः “अन्यान् दातॄन् “अति “दासत् अतिक्रम्य ददाति । “अध अनन्तरम् “उक्षणः सेचनसमर्थाः “मह्यम् आसङ्गेन दत्ताः “रुशन्तः दीप्यमानाः “दश दशगुणितसहस्रसंख्याकास्ते गवादयः “नळाइव । नळास्तटाकोद्भवास्तृणविशेषाः । ते यथा “सरसः तटाकात् संघशो निर्गच्छन्ति तथैव मह्यं दत्ता गवादयोऽस्मादासङ्गात् "निरतिष्ठन् निर्गत्यावास्थिषत । एवमेवंप्रकारेण मां स्तुहीति मेध्यातिथिं प्रत्युक्तत्वादेतासां चतसृणामृचां प्रायोगिरासङ्ग ऋषिः स एव देवतेत्येतदुपपन्नं भवति ॥


अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः ।

शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥३४

अनु॑ । अ॒स्य॒ । स्थू॒रम् । द॒दृ॒शे॒ । पु॒रस्ता॑त् । अ॒न॒स्थः । ऊ॒रुः । अ॒व॒ऽरम्ब॑माणः ।

शश्व॑ती । नारी॑ । अ॒भि॒ऽचक्ष्य॑ । आ॒ह॒ । सुऽभ॑द्रम् । अ॒र्य॒ । भोज॑नम् । बि॒भ॒र्षि॒ ॥३४

अनु । अस्य । स्थूरम् । ददृशे । पुरस्तात् । अनस्थः । ऊरुः । अवऽरम्बमाणः ।

शश्वती । नारी । अभिऽचक्ष्य । आह । सुऽभद्रम् । अर्य । भोजनम् । बिभर्षि ॥३४

अयमासङ्गो राजा कदाचिद्देवशापेन नपुंसको बभूव । तस्य पत्नी शश्वती भर्तुर्नपुंसकत्वेन खिन्ना सती महत्तपस्तेपे । तेन च तपसा स च पुंस्त्वं प्राप । प्राप्तपुंव्यञ्जनं ते रात्रावुपलभ्य प्रीता शश्वत्व मया तमस्तौत् । “अस्य आसङ्गस्य “पुरस्तात् पूर्वभागे गुह्यदेशे “स्थूरं स्थूलं वृद्धं सत् पुंव्यञ्जनम् “अनु “ददृशे अनुदृश्यते । “अनस्थः अस्थिरहितः स चावयवः “ऊरुः उरुर्विस्तीर्णः “अवरम्बमाणः अतिदीर्घत्वेनावाङ्मुखं लम्बमानः । यद्वा । ऊरुः । सुपां सुलुक्' इति द्विवचनस्य सुः । ऊरू प्रत्यवलंबमानो भवति । “शश्वती नामाङ्गिरसः सुता “नारी तस्यासङ्गस्य भार्या “अभिचक्ष्य एवंभूतमवयवं निशि दृष्ट्वा हे “अर्य स्वामिन् भर्तः “सुभद्रम् अतिशयेन कल्याणं “भोजनं भोगसाधनं “बिभर्षि धारयसीति “आह ब्रूते ॥ ॥ १६ ॥



मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१&oldid=189898" इत्यस्माद् पुनः प्राप्तिः